१६८

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणः स्वयम् ।
अक्षराख्यं पार्षदं स्वं सस्मार तूर्णमेव ह ॥१ ॥ आगतश्चाक्षरस्तत्र कुङ्कुमवापिकास्थले ।
नत्वा तस्था हरिस्तस्मै ददावाज्ञां शुभश्रुतिम् ॥२ ॥ केतुमाले महान् यज्ञो भविष्यतीति पत्रिकाम् ।
कुङ्कुमाढ्यां सर्वसृष्टाशमन्त्रणार्थमर्थदाम् ॥३ ॥ शीघ्रं दिव्यैः पार्षदैस्त्वं सम्प्रेषय च मा चिरम् ।
इत्युक्त्वा भगवान् तस्मै ददौ तां पत्रिकां यथा ॥४ ॥ अनादिश्रीकृष्णनारायणो विजयतेतमाम् ।
केतुमाले साप्रपौठानिष्ठापरासमागमे ॥५ ॥ श्रावणे शुक्लपञ्चम्यां सर्वेष्टिं वैष्णवं मखम् ।
करिष्यति त्रिलोकस्थैस्तत्रागन्तव्यमादरात् ॥६ ॥ गृह्णीमश्चातिथिलाभं मखलाभं विदन्तु च ।
एकादश्यां पूर्णहवो भविष्यति सुखोत्सवैः ॥७ ॥ अवतारा ईश्वराश्च पितरः ऋषिदेवताः ।
मानवाः काश्यपाः सर्वे पातालादिनिवासिनः ॥८ ॥ स्थावरा जङ्गमाश्चापि समायान्तु मखे सुखाः ।
लोमशश्च यवक्रीतः कपिलश्च बृहस्पतिः ॥९ ॥ सनत्कुमारो भगवान् उरलकेतुभूपतिः ।
ईशानश्च वयमेते निवेदयाम आदरात् ॥2.168.१ ०॥ जीवलोके ईशलोके ब्रह्मलोके वसन्ति ये ।
आगन्तव्यं समस्तैस्तैर्नारायणोऽपि वच्म्यहम् ॥११ ॥ अनादिश्रीकृष्णनारायणस्त्रिवारकं दले ।
प्रतिज्ञाय पुनर्वच्मि सर्वे चायान्तु वै मखे ॥१२॥ कुङ्कुमवापिकाक्षेत्रात् तृतीयायामहं मखे ।
गमिष्यामि भवद्भिश्चोपस्थातव्यं तदा मखे ॥१३ ॥ पार्षदाः सर्वधामस्थाः पार्षदान्यश्च शक्तयः ।
समायान्तु महीमानसेवार्थं पूर्वके दिने ॥१४॥ इत्येवं पत्रिकाः कोटिरूपिणीः समप्रैषयत् ।
सर्वलोकेषु भगवान् कृष्णनारायणः स्वयम् ॥१५॥ चिदाकाशेन च भूताकाशेन मायया तथा ।
महाकालेन धर्मेण द्वारा वै सर्वसृष्टिषु ॥१६॥ सृष्ट्यादौ राधिके सर्वतत्त्वानां लोकलोकिनाम् ।
आसीत् कुटुम्बवद् योगः संसर्गो मेलनं गतिः ॥१७॥ तत्र नैवास्ति चाश्चर्यं यत्रैते द्वाररूपिणः ।
अहं गोलोकगश्चापि त्वया साकं तदाऽगमम् ॥१८॥ सर्वे नारायणास्तत्राऽगच्छन् विलोक्य पत्रिकाः ।
सर्वसृष्टिजनास्तत्र चाययुः स्नेहसम्भृताः ॥१९॥ वार्धयस्तु जनानां वै विमानानां तदाम्बरे ।
प्रदृश्यन्ते सर्वदिक्षु त्वायान्तो मखभूमिकाम् ॥2.168.२० ॥ कोट्यर्बुदाब्जपद्मानि त्वाययुः प्रतिदिक्स्तरात् ।
यावन्तो मुक्तकोट्यश्च तावन्तः पार्षदादयः ॥२१॥ तावत्यः शक्तयश्चापि मुक्तान्यः सिद्धयस्तथा ।
तावन्तश्चेश्वराः सर्वे स्वस्वशक्त्यादिशोभिताः ॥२२॥ तावन्तश्च महेशाद्यास्तावन्तश्चाण्डवासिनः ।
सुराऽसुराश्चिदचिदो द्रव्यगुणक्रियादिकाः ॥२३॥ वेदा विद्याश्च तीर्थानि तत्त्वानि धर्मविस्तराः ।
तावन्त एव खनिजाः सर्वस्वर्गनिवासिजः ॥२४॥ विवरस्थाश्च मिश्रस्था व्यतिरिक्तास्तथाऽन्विताः ।
परब्रह्ममयाः सर्वे त्रिगुणास्तत्र चाययुः ॥२५॥ सर्वसृष्टिनिवासानां दर्शनं दुर्लभं तु यत् ।
मखेऽत्र सुलभं तद्वै नारायणकृपावशात् ॥२६॥ किं वक्तव्यं तदा राधेऽन्यथाकर्ता हरिस्तदा ।
कर्ताऽकर्ताऽपि सिद्धः स नान्यशक्तिस्तु तादृशी ॥२७॥ चुम्ब्यन्ते सर्वसामग्र्यो यादृशं चुम्बकं भवेत् ।
चुम्बकोऽत्र परब्रह्म सर्वाऽऽकृष्टिः कथं न वै ॥२८॥ वर्णयितुं न शक्नोमि यथाऽऽकृष्टाः प्रजा मखे ।
अतः पूर्वं मयाऽऽकृष्टा न दृष्टा वै मखान्तरे ॥२९॥ उत्सवात्ते समायान्ति कीर्तनैर्वाद्यनर्तनैः ।
वदन्तश्च परब्रह्माऽऽमन्त्रयत्येव नोऽप्यहो ॥2.168.३ ० ॥ एवं वै गम्यमानेषु सर्वेषु च समन्ततः ।
अनादिश्रीकृष्णनारायणः प्रस्थानमाचरत् ॥३ १॥ ऋषिभिर्मुनिभिः साकं क्षेत्रपालादिभिस्तथा ।
तीर्थैः सौराष्ट्रदेशीयैः प्रजाजनैः कुटुम्बिभिः ॥३२॥ ब्रह्मप्रियाभिः सर्वाभिः कोट्यर्बुदाब्जसङ्ख्यकैः ।
भक्तैस्तथा कुटुम्बेन सहाऽऽरोहद् विमानकम् ॥३३ ॥ विमानेषु सहस्रेषु तथाऽन्या भक्तकोटयः ।
आरोहन् व्योममार्गेण जयनादान् प्रचक्रिरे ॥३४॥ साधवश्च तथा सिद्धाः सत्योऽन्वीयुस्तदा हरिम् ।
आकाशं व्यनदत् सर्वं विमानवाद्यगर्जनैः ॥३५॥ अग्रे वेदा मूर्तिमन्तः प्रयान्ति मन्त्रिघोषिणः ।
वेत्रधर्यः शारदाद्या गायन्ति गुणकीर्तनम् ॥३६॥ देववाद्यविमानानि कवयो यान्ति वै ततः ।
निशानध्वजडङ्काद्यास्ततो यान्ति जयध्वनाः ॥३७॥ ततो मुक्तास्ततः पत्न्यो ब्रह्मप्रिया असङ्ख्यकाः ।
ततो विमानं कृष्णस्य ततश्च रक्षिणो जनाः ॥३८॥ पार्षदाश्च ततः सर्वे प्रजास्ततः सुराष्ट्रजाः ।
क्षेत्रपालाः सर्वपश्चाः समायान्ति मखे तदा ॥३९॥ हिमालयः स्वयं यद्वद् गगने किं प्रगच्छति ।
स्वर्गं वा स्वयमागत्य क्षित्युत्तरे प्रगच्छति ॥2.168.४० ॥ सागरा रत्नशोभाढ्या यान्ति वा नाकमेव किम् ।
इत्येवं दर्शनं व्योम्नि कृष्णनारायणस्य वै ॥४१ ॥ प्रस्थानसार्थयानस्याऽभवत्तदा विलक्षणम् ।
तृतीयाया दिने मध्याह्नोत्तरं भगवान् स्वयम् ॥४२॥ घटिकासु दशस्वेव व्यतीतासु मखाम्बरम् ।
प्राप तदा जयध्वानाऽन्तरीक्षे खे स्थलेऽभवन् ॥४३॥ अर्बुदाऽर्बुदकोट्यश्च दर्शकानां विनिर्ययुः ।
आकाशं तेजसा व्याप्तं विलक्षणेन चाऽभवत् ॥४४॥ सूर्यवह्नयादयो यत्र विलीना नैव गोचराः ।
लोकानां दर्शनयोग्यान्यासन् नैत्राणि वै तदा ॥४५॥ अनादिश्रीकृष्णनारायणस्य कृपयैव ह ।
श्रीहरेस्तेजसा सर्वे तेजोमयं ह्यभूत्तदा ॥४६॥ अपि कृष्णाः शिलाः सर्वा भासन्ते मणयो यथा ।
अपि कृष्णं भूतलं तु चन्द्रोज्ज्वलमभूत्तदा ॥४७॥ अपि रोमाणि केशाश्च स्वर्णवर्णास्तदाभवन् ।
अपि काका भ्रमराश्च हंसा इव च कोकिलाः ॥४८॥ अपि नीलं तदा व्योमाऽभवच्चान्द्रं तलं यथा ।
अप्यान्तराणि लोकानामभवन् ब्रह्मभानि तु ॥४९॥ भौतिकं तु तदा दिव्यं यावत्त्वक्षरवद्ध्यभूत् ।
स्वर्गभूव्योमतत्त्वानां भेदोऽपि विलयं गतः ॥2.168.५० ॥ सप्तरूपाणि सर्वाणि श्वेतवर्णानि चाऽभवन् ।
मायायास्तामसो रक्तो भावोऽपि सत्त्वतां ययौ ॥५१॥ अपि सर्वाश्च सामग्र्यो ब्रह्ममय्यस्तदाऽभवन् ।
ब्रह्मभवनतुल्याश्च तदा ग्रामा गृहाणि च ॥५२॥ सर्वं ब्रह्ममयं चाभूद् बालकृष्णस्य तेजसा ।
दिव्योपहारपूजाद्यैः प्रजा नृपा महर्षयः ॥५३ ॥ राधिके स्वागतार्थं चोपतस्थिरे समुत्सुकाः ।
जयनादान् प्रकुर्वन्तश्चित्रयन्तः प्रतिकृतीः ॥५४॥ साञ्जलयः सार्हणाश्च सभावाः स्नेहिलाननाः ।
प्रफुल्लनेत्रपद्माश्च प्रेमभराऽऽन्तरास्तथा ॥५५॥ नार्यः कुक्षौ धृतबाला नराश्च्युतशिरोधृताः ।
ऊर्ध्वलग्नवृत्तयश्चोत्तानाननास्तदाऽभवन् ॥५६॥ अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।
तिरोभावयदुग्रं तत्तेजोऽम्बरादवातरन् ॥५७॥ सर्वदृश्योऽभवच्चापि स्थूलदृश्योऽभवत् प्रभुः ।
अम्बरात् सुरमुक्तानां पुष्पवृष्टिस्तदाऽभवत् ॥५८॥ चन्दनानां शुभा वृष्टिश्चाऽक्षतानां तथाऽभवत् ।
स्वर्णरूप्यकहीराणां वृष्टिस्तदाऽम्बरादभूत् ॥५९॥ क्लृप्तगोपुरसोपानैः शनैः कृष्णो ह्यवातरत् ।
चतुर्दन्तार्जुनहस्तियाने कृष्णं न्यषादयत् ॥2.168.६ ०॥ नृपाः सर्वे स्वर्णरत्नहारान् गुच्छान् समार्पयन् ।
नेमुश्च दण्डवत् देव्यो राज्ञ्यः कन्या व्यवर्धयन् ॥६१ ॥ भगवन्तं त्वक्षताद्यैश्चाङ्कुरैश्चन्दनैः सुमैः ।
नेत्रपुटाख्यकमलैर्दुःखहाञ्जलिभिर्मुहुः ॥६२॥ शाटीप्रान्तैस्तथा चोपस्थानैः स्वस्तिकहस्तकैः ।
हृदयैः प्रेमभावैश्च नमनैस्तमवर्धयन् ॥६३॥ जयशब्दैश्च लाजाभिः कुसुमैस्तीर्थवारिभिः । [
अवर्धयन् हरिं बालकृष्णं नारायणं प्रजाः ॥६४॥ व्यजनैश्चामरैश्छत्रैः सुगन्धिशीतलैर्जलैः ।
गन्धसारान्वितैः कृष्णं श्रेष्ठिनो सुखयन् मुदा॥६५॥ नारिकेलैः शर्कराभिः कुङ्कुमाबीरलालकैः ।
माङ्गलिकफलाद्यैश्च बालकृष्णं व्यवर्धयन् ॥६६॥ स्वर्णरथे शतचक्रे दिव्यसिंहासने प्रभुः ।
राजमानश्च गृह्णाति जनार्पितोपदास्तदा ॥६७॥ कांश्चिद् दृष्ट्या नेत्रकोणैः स्मितैर्हस्तैश्च केन च ।
भावैस्तु विविधैः कृष्णो मानयामास वै प्रजाः ॥६८॥ सर्वेभ्यो हासवदनैर्बहुरूपैस्तदा हरिः ।
समन्ततो ददौ नैजं दर्शनं कृपया चिरम् ॥६९॥ यथा चाग्रे तथा पश्चे यथा पार्श्वे तथोर्ध्वके ।
तथैव सर्वनेत्रेषु हृदयेष्वप्यदृश्यत ॥2.168.७०॥ केभ्यश्चिद्धारपुष्पाणि ददात्येव प्रसादतः ।
केभ्यश्चिद्धीरकान् मौक्तिकादीन् रत्नानि गुच्छकान् ॥७१ ॥ ददात्येव महाराजः प्रासादिकान् परेश्वरः ।
फलानि ताम्बूलकानि पूग्यादीनि ददाति च ॥७२॥ नारिकेलानि वस्त्राणि पूजायामागतानि च ।
स्वागतार्थोपदात्मानि प्रासादीनि ददाति वै ॥७३ ॥ शतक्रोशेषु सर्वत्र दत्वा स्वदर्शनं हरिः ।
गजयानेन वै रात्रौ निवासालयमाययौ ॥७४॥ जलपानादिकं चक्रुः सर्वे सार्थाश्च भोजनम् ।
दत्तालयेषु योग्येषु विशश्रमुश्च वै ततः ॥७५॥ सकुटुम्बो हरिश्चापि ब्रह्मप्रियासमन्वितः ।
षड्युक्चत्वारिंशदूर्ध्वं शतयुक् बुभुजे स्वयम् ॥७६ ॥ पपौ शान्तिं जगामाऽथ निद्रां योगमयीमपि ।
आप्रातश्चापि जग्राह दासदासीप्रसेवितः ॥७७॥ रात्रौ स्थले स्थले तत्र बभूवुः कीर्तनानि तु ।
कथाः प्राग्वृत्तमिश्राश्च सम्प्रचक्रुर्महर्षयः ॥७८॥ चारणा वंशविस्तारान् इतिवृत्तजुषस्तदा ।
इतिहासान् जगदुश्च समाजे भूभृतां तदा ॥७९ ॥ साधवो ज्ञानवार्ताश्च चक्रुर्मोक्षविधिप्रदाः ।
नार्यो गायन्ति रागाद्यैर्गीतिकाः कृष्णमानसाः ॥2.168.८० ॥ कन्यका रासमाबध्य भ्रमन्ति वर्तुलानि च ।
गायन्ति तालिकाध्वानैर्नुपूरघुर्घुरीगतैः ॥८ १॥ नर्तक्यो नर्तनं रङ्गे कुर्वन्ति धनिसङ्कुले ।
वाद्यका वाद्यकुशला वादयन्ति रमन्ति च ॥८२॥ नटा नाट्यं प्रकुर्वन्ति दर्शयन्ति च पाटवम् ।
कवयो रचनाव्याप्ता दृश्यन्ते शंसिनस्तदा ॥८३॥ मल्लाः कुर्वन्ति युद्धानि लोकरञ्जनकानि च ।
प्रदर्शनानि दृश्यन्ते सृष्टिसृष्ट्यन्तराणि च ॥८४॥ इन्द्रजालानि लोक्यन्ते रचितानि सुवेदिभिः ।
हास्यशालासु हास्यानि नर्माणि च भवन्त्यपि ॥८५॥ प्रकाश्यन्ते वह्निचूर्णैर्विद्युदग्निसुशिल्पिभिः ।
वह्नावाकाररूपाणि चाम्बरे गर्जनानि च ॥८६॥ खेलनानि वह्नियोगैः क्षिप्यन्ते त्वम्बरेऽपि च ।
भवन्ति गर्जना व्योम्नि प्रस्फोटद्रव्यचित्रता ॥८७॥ बहुरूपधराश्चाद्दि रूप्यन्ते कौशलैर्निजैः ।
भण्डका वेषकाश्चापि रञ्जयन्ति प्रजास्तदा ॥८८॥ वृषभाणां महिषाणां राण्डियानां प्रगर्विणाम् ।
करिणां भल्लुकानां वानराणां योधनानि च ॥८९॥ रात्रावुत्सवरूपेणाऽभवँस्तदा तु राधिके ।
द्वन्द्ववाद्यान्यवाद्यन्त तूपशब्दाः पुनः पुनः ॥2.168.९०॥ अजायन्त मुरादीनां विपञ्चीनां स्वरास्तदा ।
अप्सरसां कन्यकानां गीतयः सर्वतोऽभवन् ॥९१॥ वैदिका ध्वनयस्तत्राऽऽर्षाणामप्यभवन् क्षितौ ।
नपुंसकानां नर्माणि पुत्तलीखेलनानि च ॥९२॥ गारुडीनां च विद्यानां प्रयोगाश्च तदाऽभवन् ।
कल्पजालस्य रचना विविधाश्च क्वचित्स्थले ॥९३॥ रासे कृष्णकृता लीला गोपीजनविभूषिताः ।
कुत्रचिच्चाऽभवँस्तत्र भक्तिभेदैर्मनोगमाः ॥९४॥ रामादित्यनरादित्यलीलाश्चापि क्वचित्स्थले ।
बालकृष्णचमत्काराः क्वचित्कुर्वन्ति तद्विदः ॥९५ ॥ एवं रात्रौ तदा राधे! जनानां भूमिवासिनाम् ।
तथान्येषां यथेष्टान्यासन्नानन्दोत्सवानि वै ॥९६॥ श्रीमद्गोपालकृष्णस्य तथा श्रीकम्भराश्रियः ।
यशोगानानि योषित्सु सर्वस्थले तदाऽभवन् ॥९७॥ कुङ्कुमवापिकाक्षेत्रं सुराष्टं चाजनाभिगम् ।
तदा गीतिषु सर्वासां धन्यवादेन शस्यते ॥९८॥ गाङ्गेयास्तु तदा बाला बालिका भूभृतस्तथा ।
ऋषयो ब्रह्मभक्ताश्च प्रशस्यन्ते च गीतिषु ॥९९॥ द्विनदीसङ्गमश्चापि तीर्थं सुदर्शनं तथा ।
यज्ञतीर्थं शतक्रोशं शस्यन्ते राधिकेऽभितः ॥2.168.१० ०॥ एवं तृतीयरात्रिः सा व्यतीयाय सुखोच्छ्रया ।
प्रातर्जातं चतुर्थ्यास्तु कृष्णो निद्रां जहाति च ॥१० १॥ मङ्गलानि च तुर्याणि ह्यवाद्यन्त समन्ततः ।
अगायन्त यशोवार्ताः सूतमागधबन्दयः ॥१ ०२॥ राधिके श्रीहरिर्निद्रां तत्याज मङ्गलश्रवाः ।
उन्निद्रं सर्वतः क्षेत्रं चाभूत् क्रोशशतान्तरम् ॥१ ०३॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने यज्ञमङ्गलपत्रिकाप्रकाशनं सर्वसृष्टिवासिनामागमनं श्रीहरेः सकुटुम्बसौराष्ट्रीयप्रजासहितस्य विमानैर्यज्ञभूमिगमनं स्वागतं भ्रमणं विश्रान्तिर्मनोरञ्जनादीनि चेतिनिरूपणनामाऽष्टषष्ट्यधिकशततमोऽध्यायः ॥१६८ ॥