१६४

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं हरेस्ततः ।
बकस्रावाख्यनगरे व्याघ्रारण्याभिसंस्थिते ॥१ ॥ बहुवृक्षसमाकीर्णे यतिसाधुनिवासिते ।
चातुर्वर्ण्यजनव्याप्ते वृकशावीनदीतटे ॥२ ॥ नीलकर्णाख्यचात्वालो वसति स्म कुटुम्बयुक्।
ज्येष्ठेऽरण्ये चातिवृष्ट्या नदीपूरे तु पत्तनम् ॥३ ॥ मग्नं समन्ततो जातं मानवाः पशवस्तथा ।
मृताश्चान्नानि नष्टानि भक्ष्यं क्वापि न लभ्यते ॥४ ॥ सप्ताहवृष्ट्या भूभागः समुद्र इव दृश्यते ।
मार्गा रुद्धा गमनस्य ग्रामान्तरं न गम्यते ॥५ ॥ चात्वालः सकुटुम्बोऽसौ द्रुशाखास्ववलम्बते ।
बद्ध्वा काष्ठानि वल्ल्या च शाखादोलासु जीवति ॥६ ॥ कुटुम्बं चापि शाखासु प्रेङ्खासु चाभिजीवति ।
क्षुधितं तदभूच्चापि मृतिनैकट्यमास च ॥७ ॥ वृकायनो महर्षिश्च समाधिस्थितिमास्थितः ।
उह्यमानश्च कल्लोलैरायाद् वृक्षस्य सन्निधौ ॥८ ॥ चात्वालेन तदा दीर्घरज्ज्वा चावृत्य शाखया ।
निरुद्धस्तत्र वृक्षाधो वृक्षस्तम्बनिरोधितः ॥९ ॥ चात्वालेन शनैर्वृक्षादवतीर्य वृकायनः ।
जटया सङ्गृहीतश्च शाखायामधिरोपितः ॥2.164.१० ॥ अतिदुर्बलदेहोऽयं समाधौ मग्न एव तु ।
विवेद नैव वृष्ट्यादि वहनं द्रुमरोधनम् ॥११ ॥ चात्वालेन मुहुः स्पृष्टः कम्पितो मस्तके च सः ।
बहुध्वानैर्बोधितश्च जाग्रतिं चाप वै ऋषिः ॥१२॥ तदा स ज्ञातवान् सर्वं चातिवृष्टिमयं जलम् ।
शीघ्रं स भजनं चक्रे कृष्णनारायण प्रभो ॥१३ ॥ अनादिश्रीकृष्णनारायण श्रीकृष्णवल्लभ ।
गोपालनन्दन लक्ष्मीपते श्रीकम्भरात्मज ॥१४॥ कुङ्कुमवापिकाक्षेत्रकृतप्राकट्य केशव ।
ब्रह्मप्रियापते रमामाणिकीपद्मजापते ॥१५॥ सतां पते बिभो धामाक्षराधिप परेश्वर ।
रक्ष रक्ष जनान् कृष्ण चातिवृष्ट्याऽतिदुःखितान् ॥१६॥ ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
इत्येवं भजनं चक्रे प्रार्थनां च वृकायनः ॥१७॥ तावत्तस्यातिभावेन बालकृष्णः परः प्रभुः ।
श्वेतगजसमारूढो व्योममार्गेण चाययौ ॥१८॥ शङ्खचक्रगदापद्मकरः मुकुटमस्तकः ।
वैजयन्तीकण्ठकश्च सुदर्शनाङ्गुलीयकः ॥१९॥ मन्दहासाननः प्रेमवर्षामुञ्चत्सुनेत्रकः ।
भोज्यसम्भृतपेटायुक् और्णवस्त्रादिमञ्जुषः ॥2.164.२०॥ छत्रचामरसंशोभत्पार्षदद्वयसेवितः ।
आकाशमार्गतः कृष्णः समागत्य द्रुमान्तरे ॥२ १॥ शाखायां च स्वयं बालो निषद्य पेटिकाद्वयात् ।
भक्ष्यं प्रदत्तवान् तस्मै वृकायनाय तत्क्षणम् ॥२२॥ नीलकर्णकुटुम्बाय नीलकर्णाय वै ददौ ।
भक्ष्यं पूर्णं च वस्त्राणि ददौ श्रीभगवान् स्वयम् ॥२३॥ नीलकर्णो हरिं दृष्ट्वा तत्कुटुम्बं निराश्रयम् ।
दृष्ट्वा नारायणं साक्षात् साधुयोगेन वै तदा ॥२४॥ बभूव कृतकृत्यो वै बुभुजे च प्रसादजम् ।
अन्नं दधार वस्त्राणि शैत्यं दूरं गतं तदा ॥२५॥ प्रणनाम मुहुः कृष्णं बालकृष्णं परेश्वरम् ।
वृकायनो महर्षिश्च स्तोत्रं चकार वै हरेः ॥२६॥ पूजनं प्रचकाराऽसौ शालवृक्षदलैस्तदा ।
वृष्टिजलैर्मनोभावैः पुपूज परमेश्वरम् ॥२७॥ येन रक्षा कृताऽऽरम्भे ब्रह्मणः परमेष्ठिनः ।
तेन त्वयाऽत्र मे रक्षा कृता तुभ्यं नमोनमः ॥२८॥ येन रक्षा कृता पूर्वं सत्यव्रतस्य सागरे ।
तेन त्वयात्र मे रक्षा कृता तुभ्यं नमोनमः ॥२९॥ येनाऽब्धिमन्थने रक्षा बहूनां वै कृता पुरा ।
येन देवा रक्षिताश्च दैत्यास्तु विनिपातिताः ॥2.164.३०॥ येन दुग्धा मेदिनी च रक्षिताः प्राणिनः पुरा ।
येन सागरतलगा रक्षिता वै क्षितिः पुरा ॥३ १ ॥ येनाऽङ्गुष्ठजलेनैतद् ब्रह्माण्डं पावनं कृतम् ।
तेन त्वयाऽत्र मे रक्षा विहिता ते नमोऽस्तु च ॥३२॥ येन ध्रुवश्च प्रह्लादो रक्षितौ बालकौ पुरा ।
येन साणासुरश्चात्र घातितः परमात्मना ॥३३॥ तलाजा रक्षिता येन मोक्षिता शरणागता ।
दैत्यो दमनको येन मोक्षितः परमात्मना ॥३४॥ कङ्कताला मोक्षिताश्च नारका मोक्षितास्तथा ।
सालमालो नाशितश्च येन तेनाऽवितोऽस्मि च ॥३५॥ बालाः प्रभोक्षिता येन राज्यमाता प्रमोक्षिता ।
वल्लीदीनो नाशितश्च वराटको विनाशितः ॥३६॥ वनस्पत्यादयो येन रक्षोभावाद् विमोचिताः ।
देवायनसमुद्धारश्चाण्डालयोनितः कृतः ॥३७॥ कन्थाधरः कृतो येन चिरञ्जीवोऽपि वै ततः ।
रणङ्गमेन पुत्रेण तारितो येन शार्ङ्गिणा ॥३८॥ माँजाम्म्बिका रक्षिता च म्लेच्छा विनाशितास्तथा ।
रक्तबीजो नाशितश्च येन तेनाऽवितोऽस्म्यहम् ॥३९॥ जलमग्नो नृपतिश्च रक्षितो ह्युदयाभिधः ।
वसुमेधो रक्षितश्च जले येन नमोऽस्तु ते ॥2.164.४०॥ ज्यामघस्तारितो येन चौरेभ्यः सुधनोऽवितः ।
त्र्यष्टकारुर्मोक्षितश्च येन तुभ्यं नमोऽस्तु मे ॥४१ ॥ हिरण्यकेशशिष्याश्च सजीवा येन वै कृताः ।
वृहद्वर्चास्तारितश्च बलेश्वरोऽपि मोक्षितः ॥४२॥ जयध्वजो मोक्षितश्च येन तुभ्यं नमोऽस्तु मे ।
ऐलविला तारिता चाऽधर्मजीवो विनाशितः ॥४३॥ महामारी नाशिता च मृता येन तु जीविताः ।
उष्णालयप्रजा वारिमृता येन प्रजीविताः ॥४४॥ चक्रवाक्यै जलं येन गिरिशृङ्गे समर्पितम् ।
मार्जारीबालका येन वह्निभ्राष्ट्र्यां प्ररक्षिताः ॥४५॥ किम्पुरुषप्रदेशाश्च प्राग्ज्योतिर्भूप्रदेशकाः ।
यज्ञाद्यैः पाविता येन तस्मै तुभ्यं नमोनमः ॥४६॥ समीरणोऽवितो येन पवमानोऽपि रक्षितः ।
सन्तारणोऽवितो येन तस्मै तुभ्यं नमोनमः ॥४७॥ देवायतनको येन रक्षितः परमात्मना ।
प्रेतोद्धारः कृतो येन राशियानेषु शार्ङ्गिणा ॥४८॥ शूरजारो मोक्षितश्च पिशाच्यो मोक्षितास्तथा ।
धनमेदो मोक्षितश्च येन तुभ्यं नमोनमः ॥४९॥ वोढुर्विज्ञानवान् येन कृतो गा रक्षितास्तथा ।
बालकृष्णाय ते लक्षवारं मेऽस्तु नमोनमः ॥2.164.५०॥ मम योगेन भगवन् चात्वालोऽयं समुद्धृतः ।
तस्मै दयालुदेवाय कोटिवारं नमोनमः ॥५ १ ॥ निवारयाऽतिवृष्टिं च मेघान् प्रवारय प्रभो ।
समावेशय पूराऽपो रक्ष मग्नान् हि देहिनः ॥५२॥ इत्युक्त्वा सर्जपत्राणि न्यक्षिपन्मस्तके हरेः ।
हरिं शङ्खं तदा दध्मौ मेघाः शीघ्रं तु घोषतः ॥५३॥ व्यदीर्यन्त जलानां च वर्षणं विलयं गतम् ।
जलानि जलपूराश्च व्यलीयन्त निनादतः ॥५४॥ प्राणिनः सुखिनो जाता वृकायनप्रसङ्गतः ।
वृकायनो महर्षिश्च ययौ कृतस्मरं गिरिम् ॥५५॥ बालकृष्णस्तिरोभूय ययावश्वसरोवरम् ।
नीलकर्णः सचात्वालस्तद्दिनात्परमेश्वरम् ॥५६॥ आराधयामास कृष्णनारायणं च तं हरिम् ।
तस्यैव भजनं चक्रे प्रत्यक्षस्य हरेः सदा ॥५७॥ वृक्षवासी फलाहारी मालाजापी विरागवान् ।
ज्ञानी श्रीबालकृष्णे स्वहृदयापीं सुभक्तिमान् ॥५८॥ भजते स्म हरिं नित्यं करतालादिभिर्गृणन् ।
बालकृष्णहरेकृष्णनारायणाऽव मां विभो ॥५९॥ बालकृष्ण हरेकृष्ण जयकृष्ण हरेहरे ।
हरेकृष्ण हरेकृष्णवल्लभ श्रीहरे जय ॥2.164.६०॥ एवं स भजनं चक्रे सह पल्या सुतादिभिः ।
यथालब्धान्नसन्तोषी स्वल्पवस्त्रादितृप्तिमान् ॥६१ ॥ भजते श्रीभगवन्तं काम्भरेयं महाप्रभुम् ।
स्वज्ञातीनां तु भक्तानां मण्डलं कृतवान् हि सः ॥६२॥ नित्यं रात्रौ मिलित्वैव मण्डलस्था भजन्ति च ।
कीर्तयन्ति हरिकृष्णं स्तुवन्ति प्रणमन्ति च ॥६३॥ पूजयन्ति तुलस्याद्यैर्भोजयन्ति फलादिकम् ।
आरार्त्रिकं च कुर्वन्ति प्रसादं भक्षयन्ति च ॥६४॥ ततो यान्ति गृहं नैजं स्वपन्ति हरिमानसाः ।
उत्थाय च हरिं ध्यात्वा ततो व्यापारयन्ति च ॥६५॥ एवं वै वर्तमानास्ते चात्वाला भक्तिवेदिनः ।
निर्णयं त्वेकदा चक्रुर्यात्रार्थं कुङ्कुमस्थलीम् ॥६६॥ लोमशस्याश्रमं द्रष्टुं बालकृष्णं विलोकितुम् ।
अश्वपट्टसरो द्रष्टुं कर्तुं तीर्थानि तत्र च ॥६७॥ पाथेयानि गृहीत्वा ते सकुटुम्बाः शताऽधिकाः ।
मानवा वै नरा नार्यो बालवृद्धान्विता ययुः ॥६८॥ मार्गे गायन्ति वाद्याढ्यां गीतिं नारायणस्य ते ।
शनैः शनैः समायान्ति कुङ्कुमवापिकां ततः ॥६९॥ केचिन्नमन्ति वृक्षाँश्च केचिद्धूलीं वहन्ति च ।
केचिन्नारायणं स्मृत्वा विलुठन्ति भुवस्तले ॥2.164.७०॥ केचिच्चापि प्रकुर्वन्ति साष्टाङ्गं दण्डवत् तदा ।
अन्ये नृत्यन्ति भावेन वाद्यमण्डलिकायुताः ॥७१॥ परे गायन्ति च गुणान् हरेः कृष्णस्य भावुकाः ।
अपरे प्रतिगायन्ति गुणान् पुनश्च तानपि ॥७२॥ स्मृत्वा श्रीबालकृष्णं ते पिबन्त्यदन्ति वै पथि ।
सतां सेवां प्रकुर्वन्ति मार्गे प्रगच्छतां तदा ॥७३ ॥ एवं सर्वे समायाता भक्ताः श्रीकृष्णमानसाः ।
लोमशस्याश्रमं वाद्यकीर्तनगर्जनादिभिः ॥७४॥ तान् द्रष्टुमृषयः सर्वे तथा ब्रह्मप्रियादयः ।
ययुर्बहिर्मार्गतीरे तदा भक्ता विलोक्य तान् ॥७५॥ चक्रुश्च दण्डवत् सर्वे रजो न्यधुश्च मस्तके ।
ऋषीणां च प्रियाणां च प्रक्षाल्य चरणान् जलैः ॥७६॥ पपुः प्रसादसलिलं न्यधुर्देहे च मस्तके ।
लोमशं वीक्ष्य विधितः पूजयित्वा हरिप्रियाः ॥७७॥ प्रज्वाल्य निजपापानि गृहीत्वा लोमशान्मनुम् ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥७८॥ जपन्तस्तौलसीर्माला दधाना निजवक्षसि ।
रटन्तो बालकृष्णं च परब्रह्म सनातनम् ॥७९॥ सहस्रकलशं दिव्यं दृष्ट्वा च हरिमन्दिरम् ।
नेमुस्तत्कलशान् दिव्यान् ध्वजं चाम्रोपरिस्थितम् ॥2.164.८० ॥ अश्वपट्टसरस्तीरे ययुः स्नातुं द्रुतं पुरा ।
स्नात्वा पीत्वा तीर्थजलं विश्रम्य चाम्रद्रुतले ॥८ १ ॥ अनादिश्रीकृष्णनारायणस्य दर्शनाय तु ।
ययुस्ते सोपदाः सर्वे प्रदिव्यमन्दिरान्तरम् ॥८२ ॥ भगवान् श्रीहरिः शीघ्रं निजशिष्यं सुयोगिनम् ।
स्वयम्प्रकाशं चाहूय ददौ स्वचरणामृतम् ॥८३ ॥ तेभ्यो ददौ च ते सर्वे पीतवन्तः क्षणात्ततः ।
प्रसादं प्रददौ कृष्णो भुक्तवन्तश्च ते ततः ॥८४॥ दृष्टिमात्रेण हरिणा वीक्षिताः सर्व एव ते ।
तावद्दिव्यस्वरूपास्ते भूतदेहविवर्जिताः ॥८५ ॥ सूर्यदेहसमा जाता देवा वै दिव्यविग्रहाः ।
कुण्ठभावविहीनाश्च व्योममार्गाभिगामिनः ॥८६ ॥ भित्त्यावरणहीनाश्च निरावरणदृष्टयः ।
दिव्यज्ञानभृताः सर्वे श्वेतवर्णाः सुमूर्तयः ॥८७॥ रूपानुरूपावयवा यथा मुक्ता इहाऽऽगताः ।
अक्षरब्रह्मलोकस्य वैकुण्ठस्याऽथवाऽऽगताः ॥८८॥ यद्वा गोलोकधाम्नश्च श्वेतधाम्नश्च वाऽऽगताः ।
तादृशाः श्वेतवर्णाश्च चन्द्रबिम्बाभकान्तयः ॥८९ ॥ हरेः प्रसादमापन्ना दिव्यतां भक्तितो ययुः ।
चाट्वालत्वं विलीनं च जडता विगता तथा ॥2.164.९० ॥ अपावित्र्यं विनष्टं च मानुषत्वं लयं गतम् ।
देवत्वं च समुद्भूतं शास्त्रज्ञत्वं समर्जितम् ॥९१ ॥ दिव्यदृष्टिजुषो जाता नीलकर्णादयोऽखिलाः ।
अथ श्रीबालकृष्णं ते पुपूजुः परमादरात् ॥९२॥ तावत्तत्र विमानं वै दिव्यं व्योम्नः समागतम् ।
मुक्त्यर्थं हरिभक्तानां तदा ते चक्रुरर्थनाम् ॥९३ ॥ तवाऽऽज्ञां च वहामोऽत्र सैव मुक्तिर्हि वो मता ।
नेष्यतेऽत्र विमानं वा नेष्यते पारलौकिकम् ॥९४॥ रक्षाऽत्रैव महाराज कुर्मो दास्यं तवाऽत्र ह ।
इत्येवं याचमानेभ्यो हरिश्चाज्ञां ददौ तदा ॥९५॥ यूयं भक्ता दिव्ययाने स्थित्वा यान्तूत्तरां दिशम् ।
केतुमालं महादेशं माल्यवतस्तु पश्चिमम् ॥९६॥ माल्योऽयमुरलाख्योऽस्ति केतुमालस्य पूर्वगः ।
तद्देशेषु प्रजाभ्यो मे मन्त्रदानं ददत्वपि ॥९७॥ इत्युक्ताः श्रीहरिं नत्वा विमानं चाऽध्यरोहयन् ।
तावत् कृष्णेन तु स्मृतो वृकायनर्षिसत्तमः ॥९८॥ व्योममार्गेण चायातस्तस्मै श्रीहरिरेव सः ।
आज्ञां ददौ केतुमालं गन्तुं भक्तिप्रवृत्तये ॥९९॥ सोऽपि विमानमारुह्य शताधिकैर्महर्षिभिः ।
श्रावणे देवरूपैश्च सह जगाम चाम्बरे ॥2.164.१० ०॥ केतुमालं प्रति शीघ्रं विमानं प्रैरयद्धि सः ।
कच्छं सिन्धुमिन्दुकुशं कश्यपाब्धिं विलोक्य तत् ॥१०१ ॥ कुकेशासनमुल्लङ्घ्य केतुमालं ययौ द्रुतम् ।
यत्र शैत्येन शुभ्राङ्गाः प्रजा वसन्ति कश्यपाः ॥१० २॥ काश्यप्यः सर्वजनता धर्मकर्मसु वै समाः ।
नीपरायाः सरितश्च तीरे विमानकं निजम् ॥१ ०३॥ नीलकर्णो भक्तराजो वृकायनाज्ञया तदा ।
क्षणं विश्रान्तिमाप्तुं वै चाम्बरादवतारयत् ॥१ ०४॥ राधिके नीलकर्णाद्याश्चाश्वपट्टसरोवरे ।
यत्र स्नाताश्च तत् तीर्थं नीलकर्णाभिधं ह्यभूत् ॥१ ०५॥ दिव्यतापादकं तद्धि स्नानमात्रेण देहिनाम् ।
पठनाच्छ्रवणाच्चापि दिव्यता लभ्यते जनैः ॥१०६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नीलकर्णचाट्वालकुटुम्बस्याऽतिवृष्टौ वृकायनर्षिद्वारा भगवता कृतं रक्षणं, कुङ्कुमवापीमागत्य नीलकर्णस्य
शतपरिजनस्य दिव्यता, केतुमालखण्डं प्रति तस्य भगवता कृतं प्रेषणं चेत्यादिनिरूपणनामा चतुष्षष्ट्यधिकशततमोऽध्यायः ॥१६४ ॥