१६३

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं हरेः शुभम् ।
अनादिश्रीकृष्णनारायणस्य प्रवदामि ते ॥१ ॥ कुङ्कुमवापिकाक्षेत्रे पावने काम्यके पुरे ।
कर्षुको भगवद्भक्तो द्युविश्रामाऽभिधोऽभवत् ॥२ ॥ धर्मं कर्म न जानाति नैव जानाति पूजनम् ।
नैव जानाति शास्त्रोक्तं विधानं दैवकर्म च ॥३ ॥ गवां संरक्षणं चैव गोवृषाणां प्रपालनम् ।
जानात्येव परं कर्म कृषिं जानाति चोत्तमाम् ॥४ ॥ स्नानं गोपादरजसा सन्ध्या गोकवलार्पणम् ।
गायत्री गोनामजपः पूजनं गोप्ररक्षणम् ॥५ ॥ वैश्वदेवो निजभुक्तिः स्वाध्यायः कृषिरेव तु ।
होमो रोटकनिर्माणं तर्पणं सस्यपोषणम् ॥६ ॥ एवं तस्य कर्मकाण्डः कृषिकार्ये प्रवर्तते ।
नान्यत् किञ्चित् स जानाति तथापि शुद्धमानसः ॥७ ॥ न चौर्यं नाऽनृतवृत्तिर्न द्रोहो जन्तुहिंसनम् ।
न प्रतारणकार्यं च विद्यतेऽस्य हृदि क्वचित् ॥८ ॥ अकल्मषो वृद्धसेवी गोसेवापुण्यभाग् व्रती ।
क्षेत्रे वाट्यां समागच्छेदतिथिश्चेत् स पूज्यते ॥९ ॥ दीयतेऽतिथये चेक्षुदण्डः शाकदलादिकम् ।
फलं मूलं दलं कन्दः वासोऽपि पूलकगृहे ॥2.163.१ ०॥ साधुर्वा भगवद्भक्तः कश्चिदायात्तु वाटिकाम् ।
सस्त्रीपुत्रः सेवते तं पादसंवाहनादिभिः ॥११ ॥ रात्रौ क्षेत्रे द्रुमाऽधो भूतले वह्निखले शुभे ।
वह्निं प्रज्वाल्य विश्रान्तिं तत्प्रकाशे प्रविन्दति ॥१२॥ मानस्यै तु प्रतिमायै समर्पयति भोजनम् ।
जलं फलं मूलकन्दं कणान् दलादिकं च यत् ॥१ ३॥ रात्रौ नारायणं देवं स्मृत्वा निद्रां प्रगच्छति ।
प्रातरुत्थाय शारीरं कृत्वा शुद्धिमयं ततः ॥१४॥ गृहीत्वा भोजनं क्षेत्रे कृषिकार्ये प्रवर्तते ।
एवं वै वर्तमानस्य निष्पापस्य गृहे क्वचित्॥१५॥ अश्वपट्टसरस्तीर्थं कर्तुं वै भक्तमण्डलम् ।
समायातं निशारम्भे ज्ञात्वाऽऽश्रयपदं तु तम् ॥१६॥ सोऽप्याश्रयं ददौ काण्डशालायां भावभक्तिमान् ।
भक्तेभ्यः स ददौ वारि दुग्धं च रोटकादिकम् ॥१७॥ तार्णासनानि प्रददौ विश्रान्तिं चापुरेव ते ।
निशायां भजनं चक्रुः कीर्तनं चक्रुरुत्सुकाः ॥१८॥ कीर्तनेऽनादिकृष्णश्रीपतिनारायणो हरिः ।
कीर्तितः कम्भरापुत्रः प्रभुर्गोपालनन्दनः ॥१९॥ स्वरूपाऽद्वैतरूपः स योऽक्षरे धाम्नि वै परे ।
वर्तते दिव्यरूपः श्रीपतिः श्रीकृष्णवल्लभः ॥2.163.२०॥ सर्वावतारधर्ता च सर्वान्तर्यामी माधवः ।
जडचेतनजातात्मा बालकृष्णः पुमुत्तमः ॥२१ ॥ ईश्वराणामीश्वरो यो देवानामपि दैवतम् ।
प्राणिनां प्राणरूपो यो बालकृष्णः स एव सः ॥२२॥ इन्द्रियाणां तु यश्चेन्द्रो वस्तूनां वास्तवं बलम् ।
कर्मणां फलदो यश्च बालकृष्णः स एव सः ॥२३॥ विप्राणां पावनो धर्मः क्षत्रियाणामधृष्यता ।
वैश्यानां सस्यसम्पत्तिर्बालकृष्णः स एव सः ॥२४॥ वृक्षाणां रससम्पत्तिर्वल्लीनां फलपुष्पिता ।
दासानां सेविकावृत्तिर्बालकृष्णः स एव सः ॥२५॥ वर्णिनां ब्रह्मचर्यं यद् गृहस्थानां सपुत्रता ।
यतीनां च सतां ब्रह्म बालकृष्णः स एव सः ॥२६॥ राज्ञां नीतिः प्रजानां च दास्यं परोपकारिता ।
अनुग्रहश्च देवानां वालकृष्णः स एव सः ॥२७॥ ग्रहनक्षत्रताराणां वह्नेश्च विद्युतामपि ।
मणीनां चक्षुषा तेजो बालकृष्ण स एव सः ॥२८॥ या तृप्तिर्देहिनां भोज्ये भोग्ये तृप्तिश्च या मता ।
या शान्तिः प्राप्यलाभेऽस्ति बालकृष्णः स एव सः ॥२९॥ विश्वासे फलवत्ता या दाने श्रद्धा च या मता ।
कथायां चान्तरो बोधो बालकृष्णः स एव सः ॥2.163.३ ०॥ यज्ञे यद्धवनं प्रोक्तं विप्रेषु सत्त्वभावना ।
यजमाने ददद्वृत्तिर्बालकृष्णः स एव सः ॥३ १॥ गर्भतन्तुर्यस्य हस्ते दौर्हृदत्वं च यत्कृतम् ।
नालपुष्टेर्विधाता च बालकृष्णः स एव सः ॥३२॥ चिदाकाशाजडाकाशं कृतवान् यो निरञ्जनः ।
रचयामास चाण्डानि बालकृष्णः स एव सः ॥३३॥ कुलालान् ब्रह्मसञ्ज्ञाँश्च कर्षुकान् विष्णुसञ्ज्ञितान् ।
लुनकान् रुद्रकाँश्चक्रे बालकृष्णः स एव यः ॥३४॥ दुग्धयन्त्रात्मकपशून् रसयन्त्रात्मपादपान् ।
ज्ञानयन्त्रनराँश्चक्रे बालकृष्णः स एव यः ॥३५॥ आर्तवं च जगच्चक्रं चालयन्नियमेन यः ।
विश्वकर्मत्वमापन्नो बालकृष्णः स एव सः ॥३६॥ एकस्माद् भूस्तरात् खाद्यं भक्षयित्वाऽपि पादपाः ।
बीजभेदाद् भिन्नभावाः बालकृष्णः स बीजकः ॥३७॥ भोज्यं चैकविधं न्यस्तं जठरे भिन्नरूपि यत् ।
भिन्नगुणं येन देहे बालकृष्णः स जाठरः ॥३८॥ अदृश्याद् दृश्यभावास्तु सजातीयात् सजातिकाः ।
भवन्त्येव यदावेशाद् बालकृष्णः स एव सः ॥३९॥ मन्त्राधीनास्तथा देवा वागधीनाऽर्थशेमुषी ।
आत्माधीनं जडं येन बालकृष्णः स एव सः ॥2.163.४० ॥ इष्टाधीनश्चेच्छुकश्च कर्माधीनं तथा जगत् ।
यदधीना परामुक्तिर्बालकृष्णः स एव सः ॥४१॥ अतिथीन् सेवते यश्च तस्मै सेवाफलप्रदः ।
बीजवच्छतधा दाता बालकृष्णः स एव सः ॥४२॥ सर्वसौख्यप्रदाता यः सर्वरक्षाकरश्च यः ।
सर्वमानसपूरश्च बालकृष्णः स एव सः ॥४३॥ रात्रिर्विश्रान्तिदा येन दिनं प्रवृत्तिदं कृतम् ।
निद्रा श्रमहरा क्लृप्ता बालकृष्णः स एव सः ॥४४॥ साधुरूपं धृतं येन वैराजं च तथा धृतम् ।
परमाणुः कृतो येन बालकृष्णः स एव सः ॥४५॥ मार्दवं दिव्यवस्त्रादौ काठिन्यं चोपलादिषु ।
देहे द्वयं कृतं येन बालकृष्णः स एव सः ॥४६॥ महाकालः कृतो येन महामाया यमाश्रिता ।
पुरुषो योजितो येन बालकृष्णः स एव सः ॥४७॥ प्रलयश्च कृतो येन सर्गो येन कृतो मुहुः ।
निर्लेपस्तत्र यश्चास्ते बालकृष्णः स एव सः ॥४८॥ कामं क्रोधं महालोभं मोहं मद्ं च मत्सरम् ।
आकुर्वन्नपि चाऽसक्तो बालकृष्णः स एव सः ॥४९॥ सदृशेष्वपि बीजेषु विभिन्नशक्तिधायकः ।
भिन्नपाकप्रदाता यो बालकृष्णः स एव सः ॥2.163.५० ॥ कृष्णो नारायणो विष्णुर्वासुदेवोऽक्षराधिपः ।
अन्तरात्मेश्वरो यश्च बालकृष्णः स एव सः ॥५१॥ भगवान् परमात्मा च हरिः श्रीपुरुषोत्तमः ।
राधालक्ष्मीपतिर्यश्च बालकृष्णः स एव सः ॥५२॥ कुङ्कुमवापिकाक्षेत्रे सहस्रकलशालये ।
ब्रह्मप्रियाऽसङ्ख्यसेव्यो बालकृष्णः स एव सः ॥५३॥ भजनीयः पूजनीयश्चिन्तनीयश्च यो हृदि ।
सेवया प्रापणीयश्च बालकृष्णः स एव सः ॥५४॥ एवं वै कीर्तनं चक्रुः सर्वे भक्ता निशोत्सवे ।
द्युविश्रामः कर्षुकश्च श्रुत्वाऽऽनन्दं ललाभ ह ॥५५॥ जिज्ञासां कृतवान् मन्त्रग्रहणेऽतिथिमण्डलात् ।
अतिथिस्तत्र विप्रश्च षड्गुणाख्य उवाच तम् ॥५६॥ गृहाण मन्त्रं देवस्य कृष्णनारायणस्य मत् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥५७॥ इतिमन्त्रं ददौ तस्मै कर्षुकाय तु षड्गुणः ।
सुकण्ठीं तौलसीं चापि ददौ नाम नरायणम् ॥५८॥ मालिकां प्रददौ तस्मै जपार्थं प्रतिमां तथा ।
ददौ दर्शनकार्यार्थं कृष्णनारायणस्य च ॥५९॥ मालायां जपनार्थं च कृष्णनारायणेति च ।
ददौ नाम तदा सर्वे प्रातस्तस्मात्प्रतस्थिरे ॥2.163.६०॥ आययुः कुङ्कुमवापीक्षेत्रं श्रीलोमशाश्रमम् ।
अश्वपट्टसरश्चापि सहस्रघटमन्दिरम् ॥६१॥ उद्यानं सर्वतीर्थानि व्यधुस्ततो नरायणम् ।
बालकृष्णं ययुः सर्वे राजमानं गृहान्तरे ॥६२॥ सम्पूज्य विधिवत्तीर्थं कृत्वा देशं निजं ययुः ।
द्युविश्रामः कृषीवलः सकुटुम्बो मुदान्वितः ॥६३॥ विचार्य तीर्थयात्रार्थं निर्ययौ काम्यकात्पुरात् ।
गोभिर्गोवृषभैः साकं चाश्वपट्टसरोवरम् ॥६४॥ आययौ श्रीकृष्णनारायणं गृणन् समुत्सुकः ।
चारयन् वै वने गाश्च वृषभान् सायमाप तत् ॥६५॥ सरस्तीरे पूर्वदक्षे विश्रान्तिं निशि चाकरोत् ।
पाययित्वा जलं गाश्च वृषभान् पादपाश्रये ॥६६ ॥ व्यसर्जयन्निषेदुस्ते पशवः सुखतोऽन्तिके ।
रात्रौ निद्रावशं याताः पशवो मानवाश्च ते ॥६७॥ परिश्रमं चाध्वजं ते व्यपानुदन् सुनिद्रया ।
अविशङ्कास्तीर्थभूमौ स्वपन्ति सरसस्तटे ॥६८॥ अर्धरात्रौ व्यतीतायां शान्ते मानवसञ्चरे ।
ग्रामशब्दे प्रशान्ते च निद्राप्तपशुपक्षिषु ॥६९ ॥ सिंहानां मण्डलं चायात् सप्तानां व्याघ्रजङ्गलात् ।
अकस्माद् गोवृषान् तद्वै जग्राहाऽतिभयङ्करम् ॥2.163.७०॥ गावश्च वृषभाश्चाप्याक्रोशाँश्चक्रुः प्ररम्भणान् ।
आक्रन्दनानि विश्रुत्य जना बुबुधिरे द्रुतम् ॥७ १ ॥ भगवन्तं सस्मरुश्च रक्षार्थं परमेश्वरम् ।
भक्तोऽनादिकृष्णनारायणं सस्मार वै हृदा ॥७२॥ आयाहि भगवन् कृष्णनारायण परात्पर ।
सर्वजीवाऽधिवास त्वं रक्ष त्राहि च पाहि च ॥७३॥ गोधनं मे दुर्बलस्य बलं कृषीवलस्य यत् ।
सिंहैर्विनाश्यते चेत्ते दासो दुःखी भविष्यति ॥७४॥ शीघ्रं कुरु महाराज यावन्नैवाभिधर्षितम् ।
धर्षणे नैव जीवेयुर्गावो वा वृषभास्तव ॥७५॥ त्वच्छरणेऽर्पिताश्चेमे पशवो मे न सन्ति वै ।
त्वमेव रक्ष भगवन् दुग्धं पिब यथोचितम् ॥७६॥ गा दास्ये ते महाराज शीघ्रं पाहि च रक्षय ।
इत्युच्चार्य महाकाष्ठं वह्निदग्धं सवह्निकम् ॥७७॥ समुत्तोल्य स्थितो भक्तः सिंहानां सन्निधौ हठात् ।
सिंहास्तु गर्जनाश्चक्रुर्मुहुर्नादैर्भयङ्करैः ॥७८॥ सरःक्षेत्रं समस्तं तन्नादितं गर्जनामयम् ।
त्रेसुश्च देहिनः सर्वे विनिद्रा गर्जनादिभिः ॥७९॥ विदुद्रुवुरितस्ततो बहिरन्तो भयार्दिताः ।
साग्निकं तन्महाकाष्ठं दृष्ट्वा सिंहा भयान्विताः ॥2.163.८० ॥ नोपाजग्मुः सन्निधौ वै किन्तु गावो भयान्विताः ।
सरःसेतुं परित्यज्य दुद्रुवुर्दूरमेव यत्॥८ १ ॥ तत्पृष्ठे दुद्रुवुः सिंहा दध्रुर्दूरं गताश्च ताः ।
रुरोद भक्तवर्यश्च पशवो ज्ञानवर्जिताः ॥८२॥ सिंहवज्रपराभूताः किं करोम्यत्र सोऽरुदत् ।
भक्तरक्षाकरस्तावद् बालकृष्णः कृपानिधिः ॥८३ ॥ गोपालबालको देवश्चक्रधार्यभवत् क्षणात्॥ हर्षनादं नदन् कृष्णो मुमोच चक्रमुल्बणम् ॥८४॥ वेगाद्गतं भ्रमच्चक्रं जघानसिंहमण्डलम् ।
यत्र यत्र पशूनां तु नखस्पर्शोऽभवत्तदा ॥८५॥ विदारणं त्वचां चाऽभूत् सिंहकृतं च भञ्जनम् ।
तत्र तत्र पशुदेहे पस्पर्श स्वकरेण सः ॥८६ ॥ दयालुर्भगवान् शीघ्रं रुजं न्यवारयत् क्षणात् ।
सन्धानं च त्वचां स्पर्शमात्रेण पूर्ववद्धरिः ॥८७॥ प्रचकार यथा स्पर्शो नखानां नैव विद्यते ।
नवा रक्तस्य संस्रावस्तत्र तत्राऽभवद्ध्यपि ॥८८॥ श्रीहरेः करसंस्पर्शाद् रक्तस्रावोऽपि नाऽभवत् ।
यथा देवशरीरं वै नीरुजं तादृशानि वै ॥८९॥ गवां च वृषभाणां च शरीराणि कृतानि वै ।
गोधनं रक्षितं चैवं ततो वंशीं व्यनादयत् ॥2.163.९०॥ भक्तस्य सन्निधौ गत्वा भक्तं च समभावयत् ।
गोधनं सहसा श्रुत्वा वंशीं बालहरेस्तदा ॥९ १ ॥ तूर्णं चायात् सरस्तीरे द्युविश्रामस्य सन्निधौ ।
भगवान् चक्रधार्येव निषसादाऽसनेऽर्पिते ॥९२॥ गोवृषाश्च समागत्य लिलिहुर्हरिपत्कजम् ।
दुग्धधाराः प्रमुञ्चन्त्यो गावश्चक्रुर्हि रम्भणम् ॥९३ ॥ भक्तो दुग्धानि तत्कालं दोहयित्वा हरिं प्रभुम् ।
पाययामास रुचिरं मिष्टं श्रेष्ठं पयो मुहुः ॥९४॥ प्रशंसन् भगवान् दुग्धं पपौ भक्तसमर्पितम् ।
शङ्खचक्रगदापद्मधरं हस्तचतुष्टयम् ॥९५॥ दर्शयामास रूपं स्वं हर्यवताररूपिणम् ।
सिंहेभ्यश्च ददौ मुक्तिं वैकुण्ठं प्राहिणोद्धि तान् ॥९६॥ द्युविश्रामं च तत्पत्नीं पुत्रान् पुत्रीः कुटुम्बकम् ।
दिव्यं रूपं दर्शयित्वा हरिस्तूर्णं तिरोऽभवत् ॥९७॥ फाल्गुने कृष्णपक्षस्यैकादश्यां रात्रिमध्यके ।
सिंहेभ्यस्तु गवां रक्षां चकार बालकृष्णकः ॥९८॥ द्वादश्यां च ददौ भक्तो दानानि विविधान्यपि ।
पूजयामास भावैश्च श्रीपतिं पुरुषोत्तमम् ॥९९॥ द्युविश्रामो ददौ बालकृष्णाय गोधनं तदा ।
हरिः प्रत्यर्पयामास भक्तोऽपि मुमुदे ह्यति ॥2.163.१० ०॥ हर्याज्ञया च गाः प्राप्य ययौ स्वं काम्यकं पुरम् ।
तत्तीर्थं हरितीर्थाख्यं गोतीर्थं ख्यातमप्यभूत् ॥१०१ ॥ एवं तत्र कृषीवलैः कारितं हरिमन्दिरम् ।
हरिं च स्थापयामासुश्चतुर्भुजं परेश्वरम् ॥१ ०२॥ बालकृष्णं च गास्तत्र स्थापयामासुरुत्सुकाः ।
श्रवणात्पठनाच्चास्य भुक्तिर्मुक्तिस्तथा भवेत् ॥१ ०३॥ गोदानं तत्र दातव्यं कोणेऽग्नावाश्वसारसे ।
अनादिश्रीकृष्णनारायणः प्रसन्नतां व्रजेत् ॥१ ०४॥ राधिके यमदूतेभ्यो रक्षां कुर्याद्धि तीर्थिनः ।
गोदातुर्वृषदातुश्च बालकृष्णो दयानिधिः ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने द्युविश्रामाख्यकृषिकारस्य सिंहप्रधर्षितगोधनस्याऽवनं हरिरूपेण भगवता कृतं हरितीर्थं गोतीर्थं चेतिनिरूपणनामा
त्रिषष्ट्यधिकशततमोऽध्यायः ॥१६३ ॥