१६२

श्रीकृष्ण उवाच-
माघपूर्णान्तिथौ राधे चमत्कारोऽपरोऽभवत् ।
कथयामि समासेन शृणु तं ज्ञानदायकम् ॥१ ॥ पाञ्चाले पश्चिमे देशे विष्टिजातिसमग्रणीः ।
आसीद्भक्तः शतोढुश्च नाम्ना परमवैष्णवः ॥२ ॥ दासवर्गोऽस्य वशगः शिबिकावाहकोऽभवत् ।
राज्ञां च श्रेष्ठिनां यानवाहकत्वं चरन्ति ते ॥३ ॥ विष्टयो दूरदेशं च यात्रालुभिः सहैव तु ।
गच्छन्ति विष्टिकर्माणः सोमक्षेत्रं तथाऽपरम् ॥४ ॥ गोपक्षेत्रं चमत्कारपुरं सिद्धपुरं तथा ।
माथुरं क्षेत्रमेवापि क्षेत्रं च पुष्पकरं तथा ॥५ ॥ वाराणसीं नर्मदां च गोदावरीं च गोमतीम् ।
स्वर्णरेखां तथा चाश्वपट्टतीर्थं प्रयान्ति च ॥६ ॥ एकदा स शतोढुश्च कथां शुश्राव वैष्णवीम् ।
संहितां पुत्रहीनस्य गतिर्नास्तीति सर्वथा ॥७ ॥ अपुत्रस्य शतोढोश्च हृदये सा कथा स्थिता ।
पुत्रार्थं प्रैरयत् सोऽपि मौनमादाय नित्यशः ॥८ ॥ मालां जप्त्वा नदीतीरे शमीस्थां भुवनेश्वरीम् ।
पुपूजाऽऽराधयामास रात्रौ रात्रौ तदैकलः ॥९ ॥ स्वग्रामनिकटे नित्यं शमीवृक्षतले स्थितः ।
धूपं दीपं शमीपत्रं नैवेद्यं चणकादिकम् ॥2.162.१ ०॥ समर्प्यैवं बलिं मालावृत्तिं करोति वै शतम् ।
भुवनेशि भुवनेशि भुवनेशीति सञ्जपन् ॥१ १॥ अन्ते देहि च पुत्रं मे प्रार्थ्य गृहं प्रयाति सः ।
एवं वै वर्षपर्यन्तं प्रचकार तपः शुभम् ॥१ २॥ वर्षायां शिशिरे तापे शैत्याधिक्येऽपि सर्वथा ।
व्रतभङ्गं न चाऽवाप श्रद्धया तीव्रया तथा ॥१३ ॥ तितिक्षया गुणेनापि व्रतं पूर्णं चकार सः ।
वर्षान्ते भुवनेशी सा नवरात्रान्तिमे दिने ॥१४॥ साक्षाद्बभूव भक्तस्य प्रसन्नाऽस्मीत्युवाच तम् ।
भक्तोऽपि वीक्ष्य तेजोऽन्तमूर्तिं दिव्यां सुरूपिणीम् ॥१५ ॥ त्र्यक्षां शूलधरां श्वेतां प्रसन्नवदनां सतीम् ।
सिंहस्थां वरदानार्थं कृतोर्ध्वहस्तकां शुभाम् ॥१६ ॥ प्रणनाम जयशब्दं जगाद च ननर्त च ।
मातर्मनोरथश्चाद्य फलितो मे सुपुष्पितः ॥१७॥ या साक्षाज्जगतां धात्री मम दृष्टिमुपागता ।
स्वल्पेनैव हि तपसा फलं लब्धं मया बहु ॥१८॥ किं करोमि च पूजादि चात्मनाऽर्पितवाहनम् ।
पादयोस्ते पतितोऽस्मि मानसं निहितं त्वयि ॥१९ ॥ यासां प्रजानां जननी रक्षयित्री च पोषिका ।
वर्तते सर्वथा तासां दुःखं सर्वं विनश्यति ॥2.162.२०॥ मम दुःखं गतं सर्वं विष्टिजातीयकस्य वै ।
इत्युक्त्वा प्रददौ श्रेष्ठं बलिं पूजां तथोपदाः ॥२ १ ॥ प्रसन्ना भुवनेशी सा जगाद प्रणतं जनम् ।
वरं वृणु द्रुतं भक्त किं ते मनसि वर्तते ॥२२॥ शीघ्रं ददामि वरदा नाऽदेयं विद्यते तव ।
इत्युक्तः सः शतोढुश्च देवीप्रभावधर्षितः ॥२३ ॥ मौनं धृत्वा कराभ्यां च चेष्टया बालकं शुभम् ।
वव्रे कुक्षौ करौ कृत्वा मौनिचिह्नेन पुत्रकम् ॥२४॥ देवी तथाऽस्त्विति प्राह मूकः पुत्रो भविष्यति ।
इत्युक्त्वा तु तिरोभावं प्राप्ता शतोढुरित्यपि ॥२५॥ शमीं प्रणम्य देवीं च कृत्वा प्रदक्षिणं मुहुः ।
क्षमां प्रार्थ्याऽन्तिमां पूजां कृत्वा गृहं ययौ ततः ॥२६॥ पत्न्यै प्राह कथां सर्वां मूकपुत्राभिदायिनीम् ।
सापि श्रुत्वा पुत्रमोदं मूकाऽमोदं जगाम ह ॥२७॥ अथ वर्षान्तरे जातो बालो देवीप्रतापतः ।
ववृधे चन्द्रसदृशो मूको वाणीविवर्जितः ॥२८॥ संस्कृतो बहुधा चेष्टाविज्ञानैः प्रतिबोधितः ।
जनयामास हर्षं स पित्रोर्वंशसुतन्तुकः ॥२९॥ वाणीशून्यत्वमेवात्र शोकस्थलं हि वर्तते ।
पिता विष्टिस्वरूपेणैकदा श्रेष्ठिप्रवाहणः ॥2.162.३ ०॥ अश्वपट्टसरस्तीर्थयात्रार्थं गतवाँस्तदा ।
कथां शुश्राव च रात्रौ लोमशस्याश्रमे शुभाम् ॥३ १॥ लक्ष्मीनारायणसंहितायाः सर्वार्थसाधिकाम् ।
चक्षुर्ददाति देवेशश्चान्धाय सुप्रसादितः ॥३२॥ कर्णौ ददाति भगवान् बधिराय प्रराधितः ।
पङ्गुं पादौ समर्प्यैव दधाति सुखिनं हरिः ॥३३॥ वृक्णं करौ प्रदायैव करोति सुखिनं श्रितम् ।
कुष्ठिनं कुष्ठरहितं करोत्येव जनार्दनः ॥३४॥ दरिद्रं सम्पदा युक्तं करोत्येव श्रियाः पतिः ।
सर्वकामान् हरिः सोऽयं स्वामिकृष्णनरायणः ॥३५॥ पूरयत्येव भक्तस्य गोपालकम्भरासुतः ।
तीर्थे वासः सदा कृत्वा यश्चैनं पूजयेद्धरिम् ॥३६ ॥ तस्य सर्वं भवेत् सिद्धं प्रयत्नो निष्फलो नहि ।
इत्येवं स शतोढुश्च श्रुत्वा कथां सरस्तटे ॥३७॥ सुष्वाप च तदा रात्रौ निद्रायां बालकृष्णकः ।
भगवान् दिव्यरूपः स शतोढोः सन्निधौ तदा ॥३८॥ आगत्याह च ते भक्त चिन्ता दूरे भविष्यति ।
वोढुर्नाम्ना तव पुत्रश्चात्रागत्य च तप्स्यति ॥३९॥ तस्य वाणी स्वयं चात्र साङ्कुरा सम्भविष्यति ।
याहि गृहं ततः पुत्रं नीत्वा चाश्वसरोवरम् ॥2.162.४०॥ समायाहि ततस्तेऽत्र मानसं फलवद् यतः ।
इत्युक्त्वा भगवान् कृष्णनारायणस्तिरोऽभवत् ॥४१॥ प्रबुद्धश्च शतोढुस्तन्महाश्चर्यं ह्यचिन्तयत् ।
सत्यं क्षेत्रफलं जातं तीर्थागमनमात्रतः ॥४२॥ यथा दृष्टं मया स्वप्ने तथा करोमि वै शुभम् ।
इत्येवं च विनिर्णीय कृत्वा तीर्थं तु सार्थकैः ॥४३ ॥ श्रेष्ठिनः शिबिकास्थाँश्च प्रापय्य तद्गृहाणि च ।
गृहं गत्वा निजां भार्यां प्राह सर्वं यथायथम् ॥४४॥ पुत्रस्य शारदासिद्ध्यै चाश्वपट्टसरोवरे ।
वासो योग्यो मतो मे श्रीकृष्णनारायणाग्रहात् ॥४५॥ इत्युक्त्वा सम्मतिं प्राप्य पत्न्याः पुत्रं निनाय सः ।
शतोढुश्च सह पत्न्या त्वश्वपट्टसरोवरम् ॥४६॥ वोढुस्तत्र महामूको जन्ममूको निशामुखे ।
सुप्तः स्वप्नं ददर्शाऽथ तपसा वाक्प्रकाशताम् ॥४७॥ चेष्टया पितरौ प्रातर्विज्ञाय स्वाप्नवैभवम् ।
वोढुः स्वयं चकारैव तपस्तापसिनः क्रमात् ॥४८॥ प्रथमं स ययौ तत्र लोमशस्य महाश्रमम् ।
मन्त्रं जग्राह विधिना पञ्चगव्यस्य चादनम् ॥४९॥ चकार देहशुद्धिं च दधार तौलसीं स्रजम् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥2.162.५० ॥ सम्प्राप्तं तं मनुं शश्वज्जपन् श्रीकृष्णवल्लभम् ।
द्रष्टुं देवालयं गत्वा नत्वा श्रीपुरुषोत्तमम् ॥५१ ॥ पीत्वा पादोदकं तस्य सरस्तटमुपाययौ ।
प्रणम्य चरणौ पित्रोश्चामलकीद्रुमाश्रये ॥५२॥ भूतले स निषद्यैव कुशासने तु मालया ।
जपं कुर्वन् हरिं ध्यायन् श्रीमत्कृष्णनरायणम् ॥५३॥ वृत्तीः सर्वाश्चान्तरे च कृत्वा तपसि संस्थितः ।
वागर्थं स तपस्तेपे चाश्वपट्टसरस्तटे ॥५४॥ मूर्तिं विधाय वै स्वल्पां बालकृष्णस्य सैकतीम् ।
सर्वोपचारकैस्तस्याः पूजां चक्रे त्रिकालिकीम् ॥५५॥ मालाजपं चकारापि वाणीं देहीति मानसम् ।
तुलसीवनतो नित्य समाहृत्य दलायुतम् ॥५६॥ अर्पयति स्म नित्यं वै बालकृष्णाय पूजने ।
स्वयं तुलसीपत्राणि भुङ्क्ते मासं निनाय सः ॥५७॥ मासे द्वितीयके वन्यफलाहारो बभूव सः ।
तृतीये मासि भाजानां पत्रादः स बभूव च ॥५८॥ चतुर्थे कन्दमूलानामाहारेण स वर्तते ।
पञ्चमे जलमात्रेण षष्ठे वायुप्रजीवनः ॥५९॥ सप्तमे फेनपश्चापि बभूव जलशायनः ।
जले कृत्वा विचारं स नश्यामि वा वदामि वा ॥2.162.६०॥ अर्पयामि हरयेऽत्र चात्मानं मोक्षणाय तु ।
इत्येवं स विनिर्धार्य जलवासोऽभवत्ततः ॥६१॥ नामरटणमात्रं वै जानात्येव न चेतरत् ।
मानसं रटणं सर्वं प्राणान्तं च तपः परम् ॥६२॥ विदित्वा बालकृष्णोऽयं तुतोष बालकाय सः ।
वोढुश्चाऽयं शारदार्थं तपस्तपति दारुणम् ॥६३ ॥ मदर्थं त्यक्तसर्वस्वो मरणाय कृतादरः ।
तोषणीयो मया भक्तो वाणीदानेन वै भुवि ॥६४॥ शरणागतरक्षोऽहं भक्तत्राता भवामि च ।
कृपया साध्य एवाऽहं कृपया तोषयामि तम् ॥६५॥ इति विचार्य भगवान् भक्तानुग्रहसम्भृतः ।
अनादिश्रीकृष्णनारायणः कपिलरूपधृक् ॥६६॥ साधुवेषः पिङ्गजटः स्कन्धे धृतोपवीतकः ।
करे कमण्डलुं बिभ्रन् कुक्षौ चाधारपावटीम् ॥६७॥ मृगचर्म दधन् मालां स्फाटिकीं जोलिकां दधन् ।
युवा तेजःप्रवाहैश्च संशोभद्विग्रहः शुभः ॥६८॥ भस्मच्छन्नशरीरश्च कौपीनाम्बरभूषितः ।
सुरूपः शान्तमूर्तिश्च हृदये स्वर्णरेखकः ॥६९॥ मत्स्यशूलधनुःस्वस्तिध्वजचिह्नितहस्तकः ।
वामसक्थ्नि शुभ्रलक्ष्मीचन्द्रचिह्नविराजितः ॥2.162.७०॥ साधुवेषोऽपि भगवान् दिव्यसिद्धिविराजितः ।
अकस्माद् व्योममार्गेण तेजोमण्डलमध्यतः ॥७१॥ अवाततार सलिले भक्ताग्रे सुस्थिरोऽभवत् ।
अनाधारो जलाधारो भगवान् वोढुमेव तम् ॥७२॥ दक्षहस्तेन चोन्नीत्वा सरस्तटे निधाय च ।
नेत्रे प्रमृज्य चोद्धाट्य दर्शनं प्रददौ निजम् ॥७३॥ प्राह कस्माज्जले त्वं वै वर्तसेऽत्र किमिच्छसि ।
वद दास्ये समग्रं ते तपसाऽस्मि प्रतोषितः ॥७४॥ अनन्यस्य भवाम्येव चात्मसमर्पकोऽप्यहम् ।
अनन्यो मे भवाञ्जातस्तवाऽनन्यो भवाम्यहम् ॥७५॥ वद शीघ्रं वरं याचस्वात्र ददामि चेप्सितम् ।
इत्युक्त्वा विररामाऽसौ भगवान् करुणानिधिः ॥७६ ॥ वोढुः स्वास्थ्यं समापन्नो भानयुक् श्रीहरिं तदा ।
साधुवेषं वरदं च रम्यरूपं विलोक्य वै ॥७७॥ अतिहर्षातिमग्नश्चोत्थाय पपात पादयोः ।
हरेश्चरणतलयोश्चावलेहं चकार सः ॥७८॥ हृदये भगवत्पादौ न्यधात् क्षणं सुखं ययौ ।
मस्तके करकमले न्यधात् चकार दण्डवत् ॥७९॥ नेत्राश्रूणि मुमोचापि स्नेहोद्भरातिविह्वलः ।
रोमाञ्चतां तदा प्राप्तोऽचेष्टयत् परमेश्वरम् ॥2.162.८०॥ मानसेनैव भावेन जिह्वां प्रदर्श्य चेष्टया ।
नास्ति वाणी कृपासिन्धो वाणीं देहि कृपां कुरु ॥८ १ ॥ इति सर्वं चेष्टयैव ज्ञापयामास माधवम् ।
पिङ्गलं कपिलं कृष्णं दर्शयामास जिह्विकाम् ॥८२॥ भगवानपि दीनस्योद्धारकर्ता करेण ताम् ।
प्रहसन् दर्शितां जिह्वां पस्पर्शाऽङ्गुलिभिर्मुदा ॥८३ ॥ समाकृष्य मनाक् तत्र कमण्डलोर्जलं ददौ ।
श्वेतवर्णं सर्वविद्याश्रितं लीनं च तत्र तत् ॥८४॥ बभूव यत्र सलिले साक्षात् सरस्वती ह्यभूत् ।
ब्रह्मज्ञानं ह्यभूद्यत्र साङ्ख्यविज्ञानमित्यपि ॥८५॥ वेदानां सर्वविज्ञानं तत्त्वदृष्टिरभूत्तथा ।
एवं जलमिषेणैव तत्त्वप्रदर्शितां ददौ ॥८६॥ तावद्वाणी देववाणी गीर्वाणवाक् सुसंस्कृता ।
प्रादुरभूत् तदा वोढुजिह्वायां कृपया हरेः ॥८७॥ स्तुतिं चकार विविधां वोढुर्वेदमयीं हरेः ।
*बृहद्ब्रह्मण्ययनवान् दिव्यविप्रासनश्च यः ॥८८॥

  • ईशनीभिर्जुष्टपदः श्रीशोऽवत्वखिलास्पदः ।
    प्राविर्भावांऽशदिव्यात्माऽसङ्ख्यधर्माभिरर्चितः ॥८९॥ ईशकोटिरथो जुष्टो भगी मे भरणं कुरु ।
    वेदहृद् वाङ्प्रविस्तारः शारदाधिपतिः पुमान् ॥2.162.९०॥ सरस्वतीपतिः पाताऽरणं मे कुरु पिङ्गलः ।
    इन्द्रेन्द्रोऽगोचरो वाचां देहभेदात्मदर्शकः ॥९१॥ प्राकृतांऽशपृथग्रूपः कपिलो मां सदाऽवतु ।
    यः क्रतुर्जातवेदाश्च सिद्धर्षिब्रह्मपादपः ॥९२॥ सतीर्थ्यश्चात्मनां स्तम्बः साम्बः कृष्णः प्ररक्षतु ।
    पृथुभूतानि सूक्ष्माणि रश्मयश्च प्रवाहणम् ॥९३॥ स्फुर्तयश्चापूरकाणि यच्छ्रयाणि स माऽवतु ।
    यज्जीवं चाङ्कुरात् सर्वं यदात्मकं विशिष्यते ॥९४॥ यत्प्रत्नं सक्रियं चैतज्जायते बुध्नकं पुनः ।
    तस्मै देवाय दिव्याय विधेम हविषा हृदा ॥९५॥ राधयेयं च तं कृष्णनारायणं तु कम्भृतम् ।
    काम्भरेयं कापिलाख्यं गुरुं शमस्तु तत्पदे ॥९६॥ इति स्तुत्वा राधिके स पपात कृष्णपादयोः ।
    कपिलाख्यहरिस्तत्र शीघ्रमन्तरधीयत ॥९७॥ वोढुर्विज्ञानमापन्नो दिव्यर्षिश्चाभवत्ततः ।
    साङ्ख्ययोगादितत्त्वानां व्याख्याता पण्डितः शुभिः ॥९८॥ अनादिश्रीकृष्णनारायणं कपिलरूपिणम् ।
    यत्र तीर्थे ददर्शाऽसौ कपिलं तीर्थमेव तत् ॥९९॥ अश्वपट्टसरस्येव जातं विद्याप्रदं शुभम् ।
    तत्र वोढुर्ददौ लोकेभ्यो विज्ञानं तु तात्त्विकम् ॥2.162.१० ०॥ वोढ्वाश्रमे हरेर्मूर्ति कापिलीं सुन्दराङ्गिनीम् ।
    सरस्तीरे प्रतिष्ठाप्य वोढुः पुपूज नित्यशः ॥१० १॥ मन्दिरं रमणीयं वै कापिलेयं ततोऽभवत् ।
    माघपूर्णादिने वोढुर्ज्ञानं वाणीं च दर्शनम् ॥१ ०२॥ अवाप श्रीहरेस्तत्र चिरं वासं चकार सः ।
    ततो मोक्षं गतो वोढुः राधिके युगपर्यये ॥१ ०३॥ तत्र स्नात्वा कथां श्रुत्वा ब्रह्मज्ञानमवाप्नुयात् ।
    ऐहिकीं तु परां सिद्धिं चाप्नुयान्नहि संशयः ॥१ ०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शिबिकावाहशतोढुतपस्यया लब्धस्य मूकपुत्रस्य वोढोश्चाश्वपट्टसरसि तपसा कपिलरूपेण श्रीहरेर्दर्शनं साङ्ख्यज्ञानवाणीसिद्धिप्राप्तिश्चेतिनिरूपणनामा द्वाषष्ट्यधिकशततमोऽध्यायः ॥१६२ ॥