१५७

श्रीकृष्ण उवाच-
शृणु राधे तथा न्यासान् यानाह भगवान् स्वयम् ।
देवायताय मूर्तौ वै प्रवदामि क्रिया अपि ॥१ ॥ चैत्राय च नमो मूर्ध्नि वैशाखाय मुखे तथा ।
हृदि ज्येष्ठायाऽऽषाढाश्रावणाभ्यां स्तनयोर्नमः ॥२ ॥ भाद्रपदाय उदरे कट्यामाश्विनकाय च ।
ऊर्वोः कार्तिकमार्गाभ्यां पौषमाघाय जङ्घयोः ॥३ ॥ फल्गुनाय पादयोश्च वत्सरेभ्यो दक्षोर्ध्वके ।
संवत्परीडावत्सरेभ्यो नमश्चतुर्षु बाहुषु ॥४ ॥ सन्धिषु पर्वतेभ्यश्च लिङ्गे ऋतुभ्य इत्यपि ।
अस्थिषु चाहोरात्रेभ्यः क्षणादिभ्यश्च रोमसु ॥५ ॥ मुखे कृताय त्रेतायै हृदि नितम्बयोस्तु च ।
द्वापराय कलये पादयोर्बाह्वोर्मनुभ्य उ ॥६ ॥ पराय च परार्धाय जङ्घयोश्च नमो नमः ।
महाकल्पाय देहे चाऽयनाभ्यां पादयोर्नमः ॥७ ॥ विषुवतेऽङ्गुलीष्वेव कालायैव नमो नमः ।
मुखे विप्राय बाह्वोः क्षत्रायोर्वोर्वैश्यकाय च ॥८ ॥ शूद्राय पादयोः सङ्कराय पादाग्रयोर्नमः ।
सन्धिषु लोमजेभ्यश्च गोभ्यो नमो मुखे तथा ॥९ ॥ अजाविकाभ्यो हस्तयोश्च सर्वत्र पशुभ्यो नमः ।
नमः केशेषु मेघेभ्योऽभ्रेभ्यो नमोऽस्य रोमसु ॥2.157.१० ॥ नमो नदीभ्यो गात्रेषु नमोऽब्धिभ्यश्च कुक्षिके ।
ऋग्वेदाय नमो मूर्ध्नि यजुषे दक्षिणे भुजे ॥११ ॥ वामभुजे तु सामायोपनिषद्भ्यो नमो हृदि ।
आख्यानेभ्यो जङ्घयोश्च नाभावथर्वणे नमः ॥१२॥ पादयोः कल्पसूत्रेभ्यो वक्त्रे व्याकृतये नमः ।
ऊहेभ्यः कण्ठदेशे च निरुक्ताय नमो हृदि ॥१३ ॥ नेत्रयोश्छन्दसे ज्योतिषे भौतिकाय कर्णयोः ।
आयुर्वेदाय च दक्षे भुजे वामे धनुर्विदे ॥१४॥ योगाय हृदि नीत्यै पादयोस्तन्त्राय चौष्ठयोः ।
दिवे मूर्ध्नि नमः सूर्यचन्द्राभ्यां नेत्रयोर्नमः ॥१५॥ अनिलाय नमो घ्राणे व्योम्ने नाभ्यां नमो नमः ।
समुद्रेभ्यो नमो वस्तौ पृथ्प्यै नमश्च पादयो ॥१६ ॥ हिरण्मयाय शिरसि कृष्णाय केशमण्डले ।
भाले रुद्राय भ्रूकुटौ यमाय च नमो नमः ॥१७॥ अश्विभ्यां कर्णयोर्वैश्वानरस्य च नमो मुखे ।
मरुद्भ्यश्च नमो घ्राणे वसुभ्यः कण्ठके नमः ॥१८॥ रुद्रेभ्यश्च नमो दन्ते सरस्वत्यै च वाङमये ।
इन्द्राय तु भुजे दक्षे वामे तु वलये नमः ॥१९॥ प्रह्लादाय दक्षस्तने वामे तु विश्वकर्मणे ।
नारदाय दक्षकुक्षौ वामेऽनन्तादिकाय च ॥2.157.२० ॥ वरुणाय करयोश्च मित्राय पादयोर्नमः ।
ऊरुमध्ये तु विश्वेभ्यः पितृभ्यो जानुमध्यके ॥२१ ॥ यज्ञेभ्यो जङ्घयोश्चापि राक्षसेभ्यस्तु गुल्फयोः ।
पिशाचेभ्यो दक्षपादेऽसुरेभ्यो वामपादके ॥२२॥ विद्याध्रेभ्यः पादयोश्च ग्रहेभ्यः पत्तले तथा ।
गुह्यकेभ्यो गुदे पूतनादिभ्यश्च नखेषु च ॥२३ ॥ गन्धर्वेभ्यश्चौष्ठयोश्च स्कन्दाय कटिपार्श्वके ।
गणेशं कटिपार्श्वे च मत्स्याय मस्तके नमः ॥२४॥ कूर्माय पादयोर्नृसिंहाय नमो ललाटके ।
वाराहाय जङ्घयोश्च वामनाय मुखे नमः ॥२५॥ पर्शुरामाय तु हृदि नमो रामाय बाहुषु ।
नाभ्यां कृष्णाय बुद्धाय बुद्धौ जान्वोश्च कल्किने ॥२६ ॥ केशवाय च शिरसि नारायणाय वै मुखे ।
ग्रीवायां माधवायाऽपि बाह्वोर्गोविन्दकाय च ॥२७॥ विष्णवे हृद्ये मधुसूदनाय तु पृष्ठके ।
त्रिविक्रमाय च कट्यां वामनायोदरे नमः ॥२८॥ जङ्घयोः श्रीधरहृषीकेशाभ्यां तु नमो नमः ।
गुल्फयोः पद्मनाभाय दामोदराय पादयोः ॥२९ ॥ मूर्ध्नि नमोऽश्वमेधाय नरमेधाय भालके ।
राजसूयाय च मुखे गोमेधाय तु कण्ठके ॥2.157.३ ० ॥ नमो हृदि द्वादशायाऽधीनेभ्यो नाभिमण्डले ।
सर्वजिते दक्षकट्यां वामायां सर्वमेधिने ॥३ १ ॥ लिङ्गे नमोऽग्निष्टोमायाऽतिरात्राय तु गोलयोः ।
आप्तोर्यामाय चोर्वोश्च जान्वोः षोडशिने नमः ॥३२ ॥ उतथ्याय दक्षजङ्घायां वामायां नमोऽपि तु ।
वाजपेयायात्यग्निष्टोमाय बाहौ तु दक्षिणे ॥३३ ॥ चातुर्मास्याय च वामे सौत्रामणये हस्तयोः ।
पश्विष्टीभ्योऽङ्गुलीष्वेव दर्शपौर्णाय नेत्रयोः ॥३४॥ सर्वेष्टिभ्यो रोमकूपे वषट् स्वाहाय च स्तने ।
पादाङ्गुलीषु च पञ्चमहायज्ञेभ्य एव च ॥३५ ॥ आहवनीयाय मुखे हृदि दक्षिणवह्नये ।
गार्हपत्याय च नाभौ वेद्यै तदुत्तरे नमः ॥३ ६ ॥ प्रवर्ग्याय भूषणेषु सवनेभ्यश्च पादयोः ।
एधेभ्यो बाहुषु दर्भेभ्यः केशेषु नमो हरेः ॥३७॥ मूर्ध्नि धर्माय च हृदि ज्ञानाय च नमो नमः ।
वैराग्याय च गुह्ये वै ऐश्वर्याय तु पादयोः ॥३८ ॥ खङ्गाय नमः शिरसि शार्ङ्गाय मस्तके नमः ।
दक्षभुजे मूशलाय वामभुजे हलाय च ॥३९ ॥ नाभ्यां च जठरे पृष्ठे चक्राय च नमो नमः ।
शङ्खाय लिङ्गे वृषणे गदायै जानुजङ्घयोः ॥2.157.४० ॥ पादगुल्फयोः पद्माय लक्ष्म्यै नमो ललाटके ।
नमो मुखे सरस्वत्यै रत्यै गुह्ये नमो नमः ॥४१ ॥ प्रीत्यै कण्ठे नमः कीर्त्यै दिक्षु शान्त्यै नमो हृदि ।
तुष्ट्यै नमश्च जठरे पुष्ट्यै सर्वत्र वै नमः ॥४२॥ दक्षवामस्तनयोः श्रीवत्साय च नमो नमः ।
कौस्तुभायोरसि वनमालायै कण्ठके नमः ॥४३ ॥ ओं पादयोर्नं तु जान्वोमों गुह्ये भं नाभिके ।
गं हृदि वं कण्ठके तें मुखे वा नेत्रयोर्नमः ॥४४॥ सुं भाले दें मस्तके वां दक्षपार्श्वे यमुत्तरे ।
अं रन्ध्रे नां शिखायां दिं भाले श्रीं भृमध्यके ॥४५ ॥ कं मुखे ष्णं कण्ठमध्ये नां बाह्वोः रां हृदन्तरे ।
यं स्तने णां जठरे च यं नाभौ जघने तु पम् ॥४६ ॥ तं गुह्ये यें वृषणे नं सक्थ्नोर्मं जानुकद्वये ।
विसर्गः पादयोश्चेति नमः श्रीहरये मुहुः ॥४७॥ श्रीं हृदि राधिकां वामे लक्ष्मीं बाहौ तु वामके ।
रमां दक्षे ब्रह्मविद्यां बाहौ हृदि तु माणिकीम् ॥४८॥ पराविद्यादिका मूर्तौ कृष्णान्ता नौमि वै हरेः ।
सन्तोषायैः कम्भरायै नमो हरेस्तु नेत्रयोः ॥४९ ॥ इति कृत्वा सर्वन्यासान् जीवन्यासं ततश्चरेत् ।
मूर्तौ तेजो भावयित्वा बुद्धीन्द्रियमनांसि च ॥2.157.५ ० ॥ प्राणाहङ्कारतन्मात्राः संयुज्य तनुभावनाम् ।
पुम्भावं तत्र वै कृत्वा भावयित्वा तु साक्षिणम् ॥५ १ ॥ न्यसेत् तत्त्वत्रयं वा च पञ्चतत्त्वानि सन्यसेत् ।
आत्मतत्त्वाय देवाय ब्रह्मणे पादयोर्नमः ॥५ २॥ विद्यातत्त्वाय देवाय विष्णवे हृदये नमः ।
शिवतत्त्वाय देवाय शिवाय मस्तके नमः ॥५ ३ ॥ ब्रह्मतत्त्वाय शिरसि मायातत्त्वाय कण्ठके ।
ईशतत्त्वाय हृदये जीवतत्त्वाय पादयोः ॥५ ४॥ अन्तर्यामिप्रतत्त्वाय नमः सर्वशरीरके ।
तत्पादाङ्गुष्ठयोः सङ्गुल्फयोर्वि जङ्घयोस्तथा ॥५ ५ ॥ तुं जान्वोर्वं तथोर्वोः रें गुदें णिं वृषणे तथा।
यं कट्यां भं नाभिकायां गं जठरे स्तने च देम्॥५६॥ वं हदि स्यं कण्ठके च धीं वक्त्रे तालुके च मम् ।
हिं नासायां चक्षुषोधिं यों भ्र्वां ललाटके तु योम् ॥५७॥ पूर्वे नः षं दक्षिणे च पश्चे चों उत्तरे तु दम् ।
यां मूर्ध्नि त् च सर्वत्र तत्सवितुर्हृदि हरेः ॥५८॥ वरेण्यं मस्तके भर्गो देवस्य धीमहि कचे ।
धियो यो नः नेत्रयोश्च प्रचोदयात् तदस्रके ॥५९॥ ओं नां पादाङ्गुष्ठयोश्च रां गुल्फयोर्यं जङ्घयोः ।
णां जान्वोर्यं तथोर्वो र्विं गुदे वृषणे घ्मकम् ॥2.157.६० ॥ हें कट्यां वां नाभिकायां सुं जठरे स्तने च देम् ।
वां हृदि यं कण्ठके च धीं वक्त्रे तालुके च मम् ॥६ १ ॥ हिं नासायां चक्षुषोस्तत् नो भ्र्वां विं तु ललाटके ।
ष्णुं रन्ध्रे प्रं शिखायां चों मानसे दं शरीरके ॥६ २॥ यां चात्मनि त् सर्वमूर्तौ चिन्तयामि हरेरिह ।
नारायणाय हृदये विद्महे मस्तके तथा ॥६३ ॥ वासुदेवाय कवचे धीमहीति च नेत्रयोः ।
तन्नो विष्णुश्चान्तरे न प्रचोदयात तदस्त्रके ॥६४॥ अग्निमीले पादयोश्च इषे त्वो गुल्कयोर्नमः ।
शन्नो देवीति जान्वोः सुपर्णोसीत्यूरुद्वये च ॥६५॥ स्वस्ति न इति जठरे दीर्घायु त्वेति वै हृदि ।
श्रीश्च ते इति कण्ठे च त्रातारमिति वक्त्रके ॥६६॥ त्र्यम्बकमिति स्तनयोर्नेत्रयोश्च नमो नमः ।
मूर्धानमिति वै मूर्ध्नि नारायणाय ते नमः ॥६७॥ ओं केशवाय नमो मूर्ध्नि मुखे नारायणाय नम् ।
ग्रीवायां मों माधवाय भं गोविन्दाय कण्ठके ॥६८॥ पृष्ठे गं विष्णवे वं कुक्षौ मधुसूदनाय च ।
तें कट्यां त्रिविक्रमाय जङ्घयोर्वामनाय वाम् ॥६९॥ सुं गुह्ये श्रीधरायेति दें गुल्फे हृषीकेशिने ।
वां पादे पद्मनाभाय दक्षे दामोदराय यम् ॥2.157.७०॥ हुं हृदयाय नमो हृदि विष्णवे मस्तके नमः ।
शिखायां ब्रह्मणे चापि ध्रुवाय कवचे नमः ॥७ १ ॥ चक्रिणे नेत्रयोर्नमोऽस्त्राय फट् चक्रिणे नमः ।
सहस्रशीर्षपादयोः पूरुष एव जङ्घयोः ॥७२॥ एतावानिति जान्वोश्च ऊर्वोस्त्रपादूर्ध्वकम् ।
तस्मादिराट् च वृषणे तस्माद् यज्ञाद् कटिस्थले ॥७३ ॥ तस्माद्यज्ञात् सर्वनाभ्यां तस्मादश्वा हृदिस्थले ।
तं यज्ञं च स्तनयोश्च बाह्वोर्यत्पुरुषं तथा ॥७४॥ ब्राह्मणोऽस्येति च मुखे चन्द्रमा इति चक्षुषोः ।
नाभ्या आसीत्कर्णयोश्च भ्रुवोर्यत्पुरुषेति च ॥७५॥ सप्तास्येतिभालके च यज्ञेनेति च मस्तके ।
अद्भ्यश्च हदये वेदाहमित्येतच्च मस्तके ॥७६॥ प्रजापतिः शिखायां च योदेवकवचे तथा ।
ऋचं ब्राह्मं नेत्रयोश्च श्रीश्चास्त्रं न्यासमाचरेत् ॥७७॥ निद्रामावाहयेच्चापि मोहिन्यागच्छ तिष्ठ च ।
भोगिशय्याप्रसुप्तस्य नारायणस्य शासने ॥७८॥ त्वं प्रतिष्ठाऽसि वै देवि गृहाण पूजनं बलिम् ।
एहि सावित्रिकामूर्ते चक्षुर्भ्यो स्थानगोचरे ॥७९ ॥ विश नासापुटे देवि कण्ठे चोत्कण्ठिता विश ।
इदमर्घ्यं मया दत्तं पूजेयं प्रतिगृह्यताम् ॥2.157.८ ०॥ एवं निद्राकलशे च निद्रां प्रपूज्य वै ततः ।
बलिं दत्त्वा लोकपालादिभ्यः शय्यां प्रपूजयेत् ॥८ १ ॥ सर्वतोभद्रके विष्णुं द्वादशारे सुचक्रके ।
पद्मेऽष्टदलके कृष्णं मूलमन्त्रेण वेशयेत् ॥८२॥ कर्णिकायां हृदयं प्रपूजयेच्च ह्रदे नमः ।
पूर्वपत्रे शिरः पूजयेच्च वै विष्णवे नमः ॥८३ ॥ दक्षपत्रे शिखां पूजयेच्च वै ब्रह्मणे नमः ।
पश्चिमं कवचं पूजयेच्च ध्रुवाय वै नमः ॥८५८॥ उत्तरेऽस्त्रम्फटपूजयेच्च वै चक्रिणे नमः ।
आग्नेये शम्भवे नमो गायत्रीं पूजयेत्तथा ॥८५॥ विजयामितिसावित्रीमीशानदलकेऽर्चयेत् ।
ज्योतिरूपाय च नमो नैर्ऋते वै नमो नमः ॥८६॥ चक्रिरूपाय च नमः पिङ्गलास्त्रं तु वायुके ।
इति गर्भावरणं च कृत्वाऽरासु पुराक्रमात् ॥८७॥ केशवं नारायणं माधवं गोविन्दमित्यपि ।
विष्णुं च मधुसूदनं त्रिविक्रमं वामनं तथा ॥८८॥ श्रीधरं च हृषीकेशं पद्मनाभं दमोदरम् ।
पूजयेद् द्वादशमूर्तीर्द्वितीयावरणं हि तत् ॥८ ९॥ पूर्वतश्च पुनः खङ्गं चक्रं सुशङ्खकम् ।
पद्मं हलं शार्ङ्गमग्निमूर्त्यधिपतिकं तथा ॥2.157.९० ॥ यजमानमूर्त्यधिपतिकं चोग्रं तथाऽर्ककम् ।
तृतीयावरणं सम्पूजयेत् तदधिपाँस्ततः ॥९१ ॥ पृथ्व्यै तदधिपतये वासुदेवाय वै नमः ।
दक्षे जलाय पतये सङ्कर्षणाय वै नमः ॥९२ ॥ पश्चेऽग्नयेऽधिपतये प्रद्युम्नाय नमो नमः ।
उत्तरे वायवे चानिरुद्धाय वै नमो नमः ॥९३ ॥ स्वमूर्तये नमो नारायणाय च नमो नमः ।
इन्द्रादिकान् पूजयित्वा वस्त्रैर्देवमाच्छादयेत् ॥९४॥ स्तुत्वा पुष्पाञ्जलिं दत्वाऽवकीर्य मण्डपादिकान ।
पुष्पाद्यैर्मण्डले स्वस्ति लिखित्वा देवतात्रयम् ॥९५॥ लोकपालान् वसून् रुद्रानादित्यान् विश्वदेवताः ।
साध्यान् मरुद्गणान् गन्धर्वाप्सरस इत्यमून्॥९६॥ पितृगणान् सुतीर्थानि स्कन्ददुर्गादिकाँस्तथा ।
क्षेत्रपालान् पार्षदांश्च नमः कृत्वा प्रपूजयेत् ॥९७॥ आचार्यः कुण्डमागत्य पलाशोदुम्बरोद्भवाः ।
अश्वत्थाऽपामार्गजाश्च समिधोऽष्टशतानि वै ॥९८॥ त्रिसहस्राणि वा षट्सहस्राण्यष्टसहस्रकम् ।
द्वादशाऽपि सहस्राणि रक्षेत् कुण्डसमीपतः ॥९९॥ शान्तिकपौष्टिकैर्मन्त्रैर्जुहुयाच्च यथांशकम् ।
ओं शन्नो वातः पवतां शं नस्तपतु सूर्यः ॥2.157.१० ०॥ शन्नः कनिष्क्रदद्देवः पर्जन्यो ह्यभिवर्षतु ।
शन्नो देविरभिष्टय आपो भवन्तु पीतये ॥१ ० १॥ ओं पुष्टिनरण्वान् क्षितिर्न पृथिवी गिरिर्न भुज्मः क्षोदो न शम्भुः ।
अथोना मज्जन् सर्गः प्रणक्तः सिन्धुर्न तक्षोदः कदम्बरातो ।
जयस्फानो अमीवहा वसुवित पुष्टिवर्धनः ॥१०२॥ अथ पूर्वकुण्डकेऽग्निमीलेहि जुहुयात् तिलैः ।
यवैश्चाष्टोत्तरशतं पलाशसमिधाऽथवा ॥१०३॥ इषे त्वेति मनुना च जुहुयाद् दक्षकुण्डके ।
ओमग्नेति जुहुयाच्च पश्चिमे कुण्डके तथा ॥१ ०४॥ शन्नो देवीत्युत्तरे कुण्डके च जुहुयात्तथा ।
वौषटिति च मनुना जुहुयादग्निदिग्भवे ॥१०५॥ गायत्र्या च जुहुयाच्च नैर्ऋते कुण्डके तथा ।
जातवेदसवायव्ये नमो ब्रह्मेतीशानके ॥१ ०६॥ मूर्धानं दिवमन्त्रेण पूर्णाहुतिं ततः परम् ।
जुहुयुश्चाहुतिपाता शान्तिघटे मतास्तदा ॥१ ०७॥ एवं राधे हरिः प्राह देवायतनकाय यत् ।
मया तेऽभिहितं सर्व विधानं फलदं श्रवात् ॥१०८॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मूर्तौ मासर्तु युग वर्ण वेद वसु दिक्पाल लोकपाल क्षेत्रपाल भगवदवतार यज्ञाग्नि हेति भूषण प्रियातत्त्व मूलमन्त्र गायत्रीद्वयार्पणमन्त्र पुरुषसूक्तन्यास पूजाबलिप्रदान हवनादि-
निरूपणनामा सप्तपञ्चाशदधिकशततमोऽथ्यायः ॥१५७ ॥