१५४

श्रीकृष्ण उवाच-
ततश्च श्रीहरिः प्राह देवायतनकाय यम् ।
ब्रह्मप्रियादिहोमं च राधे तं ते वदाम्यपि ॥१ ॥ अनादिश्रीकृष्णनारायणस्य ब्राह्मरूपिणीः ।
ब्रह्मप्रियश्चत्वारिंशत् शतं चावाह्य पूजयेत्॥२ ॥ स्वर्णसिहासनं ध्यात्वा विशालं ताः समाह्वयेत् ।
तण्डुलेष्वथ वा पूगीफलेषु चार्चयेद् द्रवैः ॥३ ॥ ओं श्रीश्च ते लक्ष्मीश्च पत्न्यावहोरात्रे पार्श्वे-
नक्षत्राणि रूपमश्विनौ व्यातन्न् इष्णं ।
निषाणमुम्मईषाण सर्वलोकम्मइषाणः ॥४ ॥ प्रथमं षण्महाब्राह्मीप्रियाश्चावाहयेन्मखी ।
ओं श्रीराधिकायै स्वाहा इदं राधिकायै नमम ॥५ ॥ आह्वयामि स्थापयामि पूजयामि नमामि ताम् ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥६ ॥ ताम्बूलकं तथा नीराजनं समर्पयामि च ।
ओं श्रीलक्ष्म्यै तथा स्वाहा इदं लक्ष्म्यै नमम ओम् ॥७ ॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥८ ॥ ताम्बूलकं तथा नीराजनं समर्पयामि च ।
ओं श्रीमाणिक्यायै स्वाहेदं माणिक्यायै नमम ॥९ ॥ ओं श्रीब्रह्मविद्यायै स्वाहा इदं ब्रह्मविद्यायै नमम ।
ओ श्रीरमायै च स्वाहा इदं रमायै च नमम ॥2.154.१ ०॥ ओं श्रियै च तथा स्वाहा इदं श्रियै च वै नमम ।
आह्वयामि स्थापयामि पूजयामि नमामि च ॥१ १॥ धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ।
ताम्बूलकं तथा नीराजनं समर्पयामि च ॥१२॥ परविद्यां चाह्वयामि पूजयामि नमामि च ।
धूपं दीपं सुनैवेद्यं समर्पयामि ओं नमम ॥१ ३॥ ब्रह्मप्रियास्तथा गीता उपनिषद इत्यपि ।
जयन्तीश्चैकादशीश्चाऽऽराधनां चाह्वयामि च ॥१४॥ महालक्ष्मीं तथा भक्तिं राधां रमां पतिव्रताम् ।
गङ्गां च रोहिणीं कामदुघां च पृथिवीं तथा ॥१५॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥१६॥ ताम्बूलकं तथा नीराजनं समर्पयामि च ।
सञ्ज्ञा विभूतिं दुःखहालक्ष्मीं च कमलां तथा ॥१७॥ सिद्धिं मोहिनीमुर्वशीं मुक्तां बुद्धिं च पार्वतीम् ।
दीक्षां लीलां विरजां च वृन्दां नारायणीं तथा ॥१८॥ सरस्वतीं स्वर्णरेखां सितां च देविकां तथा ।
विभावरीं च तुलसीं मूर्तिं जयां च गोमतीम् ॥१९॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥2.154.२०॥ ताम्बूलकं तथा नीराजनं समर्पयामि च ।
प्रेमसखीं रुक्मिणीं गोदावरीं मञ्जुलां तथा ॥२ १॥ हंसां सुगुणां ललितां धात्रीं रम्भां कुमुद्वतीम् ।
चम्पां च शीतलां स्वर्णगौरीं नन्दां दयां कलाम् ॥२२॥ दुर्गां च नन्दिनीं साध्यां विजयां वञ्जुलीं तथा ।
धन्या दोलां च सावित्रीं पुण्यां च कोकिलां मनुम् ॥२३ ॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं च नैवेद्यं चन्दनादि जलं तथा ॥२४॥ ताम्बूलकं तथा नीराजनं समर्पयामि च ।
चित्रलेखां पूर्णिमां शारदां मां मञ्जरीं तथा ॥२५॥ देविकां प्रेयसीं श्रेयसीं विकुण्ठां तथाऽरुणाम् ।
ज्योष्ट्रीं शबरीं पम्पां च गालवीं सुदुघां तथा ॥२६॥ याज्ञसेनीं वसुमतीं पद्मावतीं च भार्गवीम् ।
पद्मिनीं श्रीमतीं जरत्कार्वीं लीलावतीं तथा ॥२७॥ कलावतीं च कदलीं रेवां कान्तिमतीं तथा ।
कालिन्दीं वर्धिनीं पुण्यनैधेयिकां सुमित्रिकाम् ॥२८॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं च जलं तथा ॥२९॥ ताम्बूलकं तथा नीराजनं समर्पयामि च ।
बन्दुलां च सुशीलां च मानसां माधवीं तथा ॥2.154.३ ०॥ शर्मवतीं दीर्घिकां कर्णोत्पलामक्षमालिकाम् ।
उदुम्बरीं बदरीं कुब्जिकां हैमीमृतम्भराम् ॥३१ ॥ मङ्गलां चाऽमृतां महावेदीं कृष्णां हरिप्रियाः ।
आह्वयामि स्थापयामि पूजयामि नमामि च ॥३२॥ धूपं दीपं चन्दनादि नैवेद्यं च जलं तथा ।
ताम्बूलकं तथा नीराजनं समर्पयामि च ॥३३॥ सन्तोषां कम्भरालक्ष्मीमाह्वयामि नमामि च ।
स्थापयामि पूजयामि धूपदीपजलादिभिः ॥३४॥ नैवेद्यं चन्दनं ताम्बूलकं समर्पयामि च ।
ओं राधाषट्काय च स्वाहेदं राधाषट्काय नमम ॥३५॥ पायसं पोलिका मिष्टान्नादि सद्व्यञ्जनानि च ।
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥३६॥ ओं पराविद्यादिकानां चत्वारिंशद्युजे शताय च ।
स्वाहा इदं पराविद्यादिभ्य ओं ताभ्यो नमम ॥३७॥ पायसं पोलिका मिष्टान्नादि सद्व्यञ्जनानि च ।
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥३८॥ ओं सन्तोषायैः कम्भरालक्ष्म्यै स्वाहा ताभ्यां नमम ।
पायसं पोलिका मिष्टान्नानि सद्व्यञ्जनानि च ॥३ ९॥ भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ।
इति ब्राह्मीः पूजयित्वा ह्यवतारान् प्रपूजयेत् ॥2.154.४०॥ मत्स्यं कूर्मं च वाराहं कपिलं च हरिं तथा ।
वासुदेवं पृथुं दत्तात्रेयं हंसं नृसिंहकम् ॥४१ ॥ ऋषभं वामनं पर्शुरामं यज्ञं कुमारकान् ।
रामं हयग्रीवदेवं नारदं राजराजकम् ॥४२॥ व्यासं कृष्णं च गोपालं बुद्धं कलिकं च मोहिनीम् ।
धन्वन्तरिं बालकृष्णं नारायणं नरं तथा ॥४३ ॥ सहस्रहस्तं व्यूहं च स्थापयेत् स्वर्णमूर्तिषु ।
तन्दुलेषु पूगिकासु मणिष्वपि निधापयेत् ॥४४॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
धूपं दीपं चन्दनादि नैवेद्यं जलमित्यपि ॥४५॥ ताम्बूलकं नीराजनं समर्पयामि ओं नमः ।
ओं मत्स्यादिभ्यश्च स्वाहा इदं मत्स्यादिभ्यो नमम ॥४६॥ पायसं पोलिका मिष्टान्नानि सद्व्यञ्जनानि च ।
भक्ष्यभोज्यानि लेह्यानि चोश्यानि चार्पयामि च ॥४७॥ सशक्तिकाः सायुधाश्च सभूषाश्च ससेवकाः ।
प्रगृह्णन्त्वष्ट्युक्छतं भोज्यानां तु मखेऽर्पितम् ॥४८॥ ओं यज्ञेन यज्ञमयजन्त देवास्तानि
धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमानः सचन्त
यत्र पूर्वे साध्याः सन्ति देवाः ॥४९॥ इत्येवं त्ववताराणां होममष्टोत्तरं शतम् ।
यद्वा प्रत्येकमेवाऽपि कुर्यान्मखी यथाबलम् ॥2.154.५०॥ अथ सिंहासने स्वर्णे सगुणं तु चतुष्टयम् ।
वासुदेवं चानिरुद्धं प्रद्युम्नं च सङ्कर्षणम् ॥५१ ॥ आह्वयामि स्थापयामि पूजयामि नमामि च ।
अष्टोत्तरशतद्रव्यैरर्चयामि सशक्तिकम् ॥५२॥ वासुदेवादिभ्यः स्वाहा इद्ं चतुष्ट्याय नमम ।
पायसं पोलिकाः शाकान्यपि रसाँश्च मिष्टकान् ॥५३॥ अथ सिंहासने स्वर्णे निर्गुणं तु चतुष्टयम् ।
अनादिश्रीकृष्णनारायणं कृष्णनरायणम् ॥५४॥ लक्ष्मीनारायणं नरनारायणं समाह्वयेत् ।
आह्वयामि स्थापयामि पूजयामि नमामि च ॥५५॥ अष्टोत्तरशतद्रव्यैरर्चयामि सशक्तिकम् ।
अनादिश्रीकृष्णनारायणादिभ्यश्च वै स्वाहा ॥५६॥ इदं तेभ्यश्च नमम नीराजयामि वै नमः ।
पायसं पोलिकाः शाकान्यपि रसांश्च मिष्टकान् ॥५७॥ इति सम्पूज्य परमेश्वरान् हवनमाचरेत् ।
तत्तन्नाम्नाऽष्टाहुतीश्चार्पयेत्पायसाज्यकैः ॥५८॥ विष्णोर्मासूरमयश्चरुः क्षीरमयश्चरुः शुभः ।
इदं विष्णुरिति गृणान् द्वादशाऽक्षरविद्यया ॥५९॥ ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
षोडशाक्षरमनुना सहस्रं साष्टकं शतम् ॥2.154.६०॥ चरुं जुहुयात् ओं नमो भगवते वासुदेवाय स्वाहा ।
समिद्भिश्चाज्ययवतिलैः फलैर्जुहुयात्तथा ॥६ १ ॥ ओं इदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे स्वाहा इदं तु विष्णवे ॥६२॥ अनेन चापि सहस्रं साष्टकं शतमर्पयेत् ।
ओमग्नये स्विष्टकृते स्वाहेदमग्नये नमम ॥६ ३ ॥ तत ओं भूः स्वाहेदमग्नये नमम शं मखे कुरु ।
ओं भुवः स्वाहेदं वायवे नमम शं मखे कुरु ॥६४॥ ओं स्वः स्वाहेदं सूर्याय नमम शं मखे कुरु ।
इतिव्याहृतिहोमं च कृत्वा तु मण्डपस्थितान् ॥६५ ॥ सम्पूज्य च बलिं दद्यात् सर्वदेवेभ्य एव च ।
ततश्च बहिरागत्य लोकपालेभ्य आर्पयेत् ॥६६ ॥ पूर्वे इन्द्र समागच्छ रक्षाऽध्वरं नमोऽस्तु ते ।
दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ॥६७॥ इन्द्रस्याऽनुचराः सर्वे भक्षयन्तु बलिं सुखाः ।
आग्नेय्यामग्ने आगच्छ रक्षाऽध्वरं नमोऽस्तु ते ॥६८॥ दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ।
अग्नेश्चानुसराः सर्वे भक्षयन्तु बलिं सुखाः ॥६९॥ दक्षिणे यम आगच्छ नैर्ऋत्यामेहि नैर्ऋते ।
पश्चिमे वरुणाऽऽगच्छ वायव्यामेहि वायुराट् ॥2.154.७०॥ उत्तरस्यां कुबेरैहि ऐशान्यामेहि ईश्वर ।
दिशं रक्ष बलिं भक्ष यजमानोदयं कुरु ॥७१॥ तत्तदनुचराः सर्वे भक्षयन्तु बलिं सुखाः ।
ईपूमध्ये एहि ब्रह्मन् निपमध्ये ह्यनन्तराट् ॥७२॥ दिशं च रक्षतं बलिं भक्षतं सानुसेवकौ ।
कुरुतं यजमानस्याऽभ्युदयं च मखोदयम् ॥७३॥ अथ क्षेत्रपाल बलिं गृह्ण रक्ष मखं सदा ।
सानुचरो यजमानोदयं कुरु सुखं कुरु ॥७४॥ दधिमाषादिकं भक्षेत्युक्त्वा तु तण्डुलान् क्षिपेत् ।
अथ चतुष्पथे भूता बलिं गृह्णन्तु शूर्पगम् ॥७५॥ पिष्टं माषान्नदध्योदनहरिद्रादिकज्जलम् ।
सिन्दूरकं गन्धरक्तपुष्पादि चत्वरे मखी ॥७६ ॥ गन्धपुष्पार्चितं शूर्पं स्थापयेद्वै गृणन् मनून् ।
बलिं गृह्णन्तु ते देवा आदित्या वसवस्तथा ॥७७॥ मरुतश्चाश्विनौ रुद्राः सुपर्णाः पन्नगा ग्रहाः ।
जृम्भकाः सिद्धगन्धर्वा माला विद्याधरा नगाः ॥७८॥ असुरा यातुधानाश्च पिशाचा डाकिनीगणाः ।
शक्तयो यक्षवेताला ये च विघ्नविनायकाः ॥७९॥ भूताः प्रेताश्च कूष्माण्डाः शाकिन्यो मातरस्तथा ।
तृप्ता भवन्तु बलिना यज्ञप्रसादरूपिणा ॥2.154.८०॥ मा विघ्नं यजमानस्य रोगं दुःखमनिष्टकम् ।
कुर्वन्तु तत्कुटुम्बस्य मा सन्तु परिपन्थिनः ॥८१॥ सर्वे भवन्तु तृप्ताश्च रक्षां कुर्वन्तु मेऽध्वरे ।
देवताभ्यश्च पितृभ्यो भूतेभ्यः सहजन्तुभिः ॥८२॥ एतत्स्थानाधिवासिभ्यः प्रयच्छामि बलिं नमम ।
त्रैलोक्ये यानि भूतानि स्थावराणि चराणि च ॥८३ ॥ देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
किम्पुरुषाः किन्नराश्च साध्या सन्तश्च साध्विकाः ॥८४॥ ऋषयो मुनयो गावो देवमातर इत्यपि ।
काश्यप्यस्तस्य वंशीया राजसास्तामसाः सिताः ॥८५॥ एते ममाऽध्वरे रक्षां कुर्वन्तु देहधारिणः ।
मूर्ताऽमूर्तस्वरूपाश्च यमा याम्याश्चरन्तु शम् ॥८६॥ एतेभ्यश्चापि सर्वेभ्यः स्वाहा बलिं च ओं नमम।
कृत्वाऽथाचमनं शुद्धिं यायान्मण्डपसन्निधौ ॥८७॥ विश्रम्य यूपकार्यं च तत आचार्य आचरेत् ।
इति राधे प्रभूक्तं ते मयोक्तं ब्राह्मकर्म तत् ॥८८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने राधिकादिषट्कपराविद्याचत्वारिंशद्धिकशतसन्तुष्टाकम्भराद्वयपरमेशावतारविष्णुलोकपालभूतादिपूजाबलिसमर्पणादिनामा चतुष्पञ्चाशदधिकशततमोऽध्यायः ॥१५४ ॥