श्रीकृष्ण उवाच-
शृणु त्वं राधिके चैवं नान्दीश्राद्धोत्तरं तु यत् ।
भक्ताय भगवानाहाऽऽचार्यादिवरणं यथा ॥१ ॥
ओमेतस्यां प्रतिष्ठायां कर्तव्यायां तु कर्मसु ।
आचार्यत्वेन विप्रं त्वा वृणे गन्धाऽक्षतादिभिः ॥२ ॥
पुष्पताम्बूलमुद्राभिर्वासोभिश्चास्मि ओं वृतः ।
तं प्रपूज्य ततो ब्रह्मवरणं संविधापयेत् ॥३ ॥
ओमेतस्यां प्रतिष्ठायां कर्तव्यायां तु कर्मसु ।
कृताऽकृतेक्षात्मसु ब्रह्मस्थाने त्वामहमावृणे ॥४ ॥
गन्धपुष्पाक्षतताम्बूलकमुद्राऽम्बरादिभिः ।
ब्रह्मत्वेन वृतोऽस्मीति ब्रह्माऽस्मि वै क्रतौ तव ॥५ ॥
तं प्रपूज्य ऋत्विजोऽष्टौ चतुरो वृणुयाच्च वा ।
अस्य देवस्य च प्रतिष्ठायां वेदविदोऽत्र च ॥६ ॥
अमुकान् वो वृणे ऋत्विक्त्वेन गन्धादिभिस्त्विह ।
ओं वृत्ताः स्म इति तान् सम्पूज्य गन्धाक्षतादिभिः ॥७ ॥
अष्टौ वा चतुरो द्वारपालान् संवृणुयान्मखी ।
एकैकवेदिनौ द्वौ द्वौ जापकौ वृणुयान्मखी ॥८ ॥
भवन्ति ऋत्विजश्चैवं पञ्चविशन्तिसङ्ख्यकाः ।
यद्वाऽशक्तौ वृणुयाद्वै तथा होत्रष्टकं पुनः ॥९ ॥
जापकान् चतुरो द्वारपालचतुष्टयं गुरुम् ।
एवं वै ऋत्विजः सप्तदशाप्यपि भवन्ति हि ॥2.146.१ ०॥
यद्वा होतॄँश्च चतुरो जापकाँश्चतुरस्तथा ।
चतुरो द्वारपालाँश्च गुरुं चेति त्रयोदश ॥११ ॥
यद्वाऽऽचार्यं तथा ब्रह्माणमेव वृणुयान्मखी ।
द्वाभ्यां सर्वं यज्ञकर्म निवर्तते न संशयः ॥१२॥
राजा तु शतसाहस्रान् वृणुयाच्च यथाबलम् ।
ततोऽर्चयेच्च विधिना गुर्वादीन् वरणक्रमात् ॥१३॥
मधुपर्केणाऽर्चयेद्वै मिष्टेन पायसादिना ।
भघुपर्को बहुविधो मिष्टाम्ब्लपायसादिजः ॥१४॥
अथ विप्रान् प्रार्थयेच्च मखी प्राञ्जलिरुत्थितः ।
ब्राह्मणाः सन्तु मे शान्ताः सर्वपापनिवारकाः ॥१५॥
दानयज्ञजपहोमैर्याजकास्तृप्तिदायकाः ।
पितॄणां च सुराणां च वेदमूर्तय एव ते ॥१६॥
रक्षन्तु जापका मां च ऋद्धिं वृद्धिं ददत्वपि ।
यागनिष्पत्तये विप्रा वृताः कुर्वन्तु शान्तिकम् ॥१७॥
पौष्टिकं च प्रकुर्वन्तु नियमे संस्थिताः द्विजाः ।
एवं विप्रान् सुसम्प्रार्थ्याऽऽचार्यं सम्प्रार्थयेन्मखी ॥१८॥
मन्त्रमूर्तिर्भवानास्ते कुरु धर्मोन्नतिं मम ।
त्वत्प्रसादेन यज्ञोऽयं निर्विघ्नो वै समाप्यताम् ॥१९॥
एवं सम्प्रार्थ्य च ततः ससुत्थाय मखी स्वयम् ।
गृहीत्वा योग्यसम्भारान् कृत्वाऽग्रतः सुवासिनीः ॥2.146.२०॥
विप्रांस्तथाऽग्रतः कृत्वा तूर्यघोषे प्रवर्तिते ।
पूर्णकुम्भसमायुक्तो यजमानो हि मण्डपम् ॥२ १ ॥
कृत्वा प्रदक्षिणं प्राप्य पश्चिमद्वारमेव तु ।
पाणिभ्यां चार्घपात्रं वै समादाय स्थितो भवेत् ॥२२॥
सार्घो द्वारे पृथिवीं च ध्यात्वा कूर्मोपरिस्थिताम् ।
शुक्लां पद्मशङ्खचक्रशूलयुक्तचतुर्भुजाम् ॥२३॥
सवत्सां गोरूपधरां चागच्छ वसुधे त्विह ।
गृहाण फलपुष्पाणि पूजां गृहाण मत्कृताम् ॥२४॥
यज्ञार्थं भगवत्पत्नीं त्वां वृणोमीह वैष्णवीम् ।
सौभाग्यं देहि पुत्राँश्च धनंरूपं प्रदेहि च ॥२५॥
गृहाणार्घ्यं च मे देवि सुसौभाग्यं प्रयच्छ मे ।
इत्यष्टाङ्गं महार्घ्यं च दत्वा नत्वा ततो मखी ॥२६॥
पश्चिमद्वारमार्गेण प्रविशेद् यजमानकः ।
होमद्रव्यप्रवेशस्तु पूर्वद्वारेण वै मतः ॥२७॥
दानद्रव्यप्रवेशस्तु दक्षद्वारेण वै मतः ।
दानार्थान् दक्षिणार्थांश्च प्रतिष्ठार्थान् सुपावनान् ॥२८॥
सम्भारानुत्तरद्वारेणैव प्रवेशयेन्मखी ।
आचार्यस्तु ततो वामे हस्ते वै गौरसर्षपान् ॥२९॥
लाजायुक्तान् गृहीत्वा च कुर्याद्वै दिक्प्ररक्षणम् ।
ओं रक्षोहणं वलगं चोत्किरामि समन्ततः ॥2.146.३ ०॥
अनिष्टानुत्खन सर्वान् वलग त्वां किरामि च ।
रक्षोहणो वलगाः प्रोक्षयामि वैष्णवान् बलान् ॥३ १ ॥
तृणाम्युपदधाम्यत्रोपर्यूहामि समन्ततः ।
रक्षोभागो निरस्तोऽस्ति रक्षोबाधो न वै भवेत् ॥३२॥
रक्षोहा विश्वचर्षणिरभियोनिमयोहते ।
द्रोणेसधः स्थलं पुष्टं समासदत् विनिर्भयम् ॥३३॥
भूमिभूता विघ्नरूपा असर्पन्त्वितः स्थलात् ।
अपक्रमन्तु भूतानि पिशाचाः सर्वतो दिशः ॥३४॥
यज्ञकर्मविरोध्यत्र भूतं स्थितं स्थलेऽत्र वै ।
स्थानं विहाय चान्यत्र प्रयान्त्वस्तु च शान्तिदम् ॥३५॥
प्रेताद्याश्चापगच्छन्तु स्वीकरोमि भुवं त्विमाम् ।
करोमि शान्तिकं चात्र किरामीशानतः क्रमात् ॥३६॥
आयान्त्वत्र सुरा यातुधानाद्या अपयान्तु च ।
देवयजनं क्षेत्रं त्वं रक्ष विष्णोऽन्तरे स्थित ॥३७॥
इति रक्षां विधायैव पञ्चगव्येन सत्कुशैः ।
प्रोक्षयेन्मण्डपभूमिं यज्ञसम्भारकांस्तथा ॥३८॥
हिरण्यवर्णाः शुचयः पाविका लोकपाविकाः ।
अग्निं या दधिरे गर्भे ता आपः पावयन्तु नः ॥३९॥
वारुण्यो मधुस्राविण्यः शंस्य अपो भवन्ति याः ।
यत्स्पृष्टं भक्ष्यमेव स्याद् देवानां ताः पुनन्तु नः ॥2.146.४० ॥
अन्तरीक्षे पृथिव्यां च शुक्रं यदुद्भवं रसम् ।
पुष्टिदं सर्वदेवानां ता आपो नः पुनन्त्विह ॥४१ ॥
शिवेन चक्षुषा पश्यतापो मां स्पृशताऽपि च ।
शिवया तनुवा मां च बलतेजोन्वितं तथा ॥४२॥
पुनातु यज्ञसम्भारान् पवमानो जलान्वितः ।
पुनन्तु मनवो देवाः पुनन्तु विश्वआयवः ॥४३॥
अग्ने सलिल शक्त्या ते इदं ब्रह्म पुनीमहे ।
वैश्चानरो रश्मिभिर्मां वातः प्राणेन वर्चसा ॥४४॥
द्यावापृथिवी पयसा सविता किरणैरिहा ।
पुनन्तु मां च सम्भारानिदं ब्रह्म पुनीमहे ॥४५॥
पावमान्या पवित्रं यत् तदश्नन्त्येव देवताः ।
पावमान्या तु सम्भाराः सम्मताः सद्रसैः सदा ॥४६॥
तस्मै रसवती दुहे सर्वमश्नन्ति देवताः ।
ऋषिभिः सम्भृतरसं क्षीरं सर्पिर्मधूत्तमम् ॥४७॥
ब्राह्मणेष्वमृतं हितं निहितं तच्च वस्तुषु ।
पवमान्या पवित्रेण देवाश्चाश्नन्ति भावतः ॥४८॥
इन्द्रः सोमो वरुणश्च यमो राजा पूनन्त्विदम् ।
ब्रह्मजातं वस्तुजातं पूतं ब्रह्म पुनीमहे ॥४९॥
इत्येवं चाभिषिच्यैव आपोहिष्ठामयो भुवः ।
ता न ऊर्जे दधातन महेरणाय चक्षसे ॥2.146.५०॥
यो वः श्रेष्ठतमो मिष्टो रसस्तद्भाजनं वयम् ।
आपस्तद्भाजनं सर्वम् आपो जनयथा रसम् ॥५१॥
इत्येवं सर्वसम्भारान् प्रोक्ष्य कृताञ्जलिर्मखी ।
तिष्ठेद् विप्रो वदेत् स्वस्तिमश्विनौ कुरुतं तव ॥५२॥
अदितिस्ते स्वस्तिमेव पूषा स्वस्तिं दधातु ते ।
द्यौः क्षितिस्ते स्वस्तिमेव चिनुतः स्वस्तिमर्यमा ॥५३ ॥
वायुः स्वस्तिं गुरुः स्वस्तिं वह्निः स्वस्तिं करोतु ते ।
देव्यः स्वस्तिं तथा देवाः स्वस्तिं कुर्वन्तु ते सदा ॥५४॥
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ॥५५॥