१४२

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! चान्यसुरमूर्तीर्वदामि ते ।
अनादिश्रीकृष्णनारायणो यदाह भक्तकम् ॥१ ॥ अङ्गप्रत्यङ्गभग्नां तु मूर्तिं विसर्जयेज्जले ।
नखाऽऽभरणमालाऽस्त्रभग्नां तां न विसर्जयेत् ॥२ ॥ ऋग्वेदादिचतुर्भेदात् सत्ययुगादिभेदतः ।
ब्राह्मादिवर्णभेदाच्च चतुर्मुखो हि विश्वसृट् ॥३ ॥ दक्षिणार्धः करादूर्ध्वं जपमालां तथा स्रुचम् ।
ग्रन्थं कमण्डलुं धत्ते सश्मश्रुः कमलासनः ॥४ ॥ अक्षसूत्रं पुस्तकं च धत्ते पद्मकमण्डलू ।
चतुर्वक्त्रा हि सावित्री श्रोत्रियाऽऽनन्दकारिणी ॥५ ॥ ऋग्वेदः श्वेतवर्णश्च द्विभुजो रासभाननः ।
अक्षमालाम्बुपात्रं च बिभ्रन् स्वाध्ययने रतः ॥६ ॥ अजाऽऽस्यः पीतवर्णश्च यजुर्वेदोऽक्षसूत्रवान् ।
वामे चाङ्कुशपाणिस्तु भूतिदो मङ्गलावहः ॥७ ॥ नीलोत्पलदलाभासः सामवेदो हयाननः ।
अक्षमालाधरः सव्ये वामे कम्बुधरः स वै ॥८ ॥ अथर्वणाभिधो वेदो धवलो मर्कटाननः ।
अक्षसूत्रं च खष्ट्वाङ्गं बिभ्रन् वै विजयप्रदः ॥९ ॥ विश्वकर्मा चतुर्बाहुरक्षमालां च सूत्रकम् ।
गजं कमण्डलुं धत्ते त्रिनेत्रो हंसवाहनः ॥2.142.१० ॥ सुदर्शनकरा सव्ये पद्महस्ता तु वामतः ।
एतद् विष्णुनामकस्य रूपं सूर्यस्य कीर्तितम् ॥१ १॥ सर्वलक्षणसंयुक्तं सर्वाभरणभूषितम् ।
द्विभुजं चैकवस्त्रं च श्वेतपङ्कजधृक्करम् ॥१२॥ वर्तुलं तेजसां बिम्बं मध्यस्थं रक्तवाससम् ।
सप्ताननहयैर्युक्तं रथेऽरुणेन संयुतम् ॥१३ ॥ विष्णुर्गणेशः सूर्यश्च शक्तिः रुद्रश्च देवताः ।
पञ्चायतनरूपाश्च बोध्याः सर्वत्र शोभनाः ॥१४॥ नवांशा तत्र कर्तव्या मूर्तिर्नारायणस्य वै ।
शङ्खपद्मगदाचक्रधारिणी मुकुटान्विता ॥१५॥ हरिर्धारयते कम्बुं चक्रं पद्मं गदां तथा ।
कृष्णो धत्ते पाञ्चजन्यं गदां पद्मं सुदर्शनम् ॥१६॥ गरुडो हरितो रूपे कौशिकाकारनासिकः ।
चतुर्भुजो वृत्तनेत्रमुखः पक्षद्वयाऽन्वितः ॥१७॥ गृध्रोरुजानुचरणः स्वर्णवर्णः कलायुतः ।
छत्रं कुम्भं धारयेश्चांऽजलिं कुर्वन् नमोयुतः ॥१८॥ वामाग्रे कुञ्चितः पश्चादन्यपादस्तु जानुना ।
पृथिवीं संश्रितः पत्रो गरुडासनसंस्थितः ॥१९॥ उमामहेश्वरो दक्षे करे त्रिशूलकं तथा ।
मातुलिङ्गं समाधत्ते आलिङ्गितं तु वामके ॥2.142.२० ॥ अङ्के स्वे पार्वतीं देवीं समासीनां शुभाननाम् ।
नागेन्द्रोऽन्यकरे स्कन्धे उमाहस्तोऽतिशोभनः ॥२१ ॥ करान्ये दर्पणं चापि वृषभोऽधःस्थितस्तथा ।
कुमारेण गणेशेन भृङ्गीरटादिभिर्युतः ॥२२॥ उमां च द्विभुजां कुर्याल्लक्ष्मीं नारायणाश्रिताम् ।
हरिः शस्त्रैः स्वकीयैश्च गरुडोपरि संस्थितः ॥२३॥ दक्षिणः कण्ठलग्नः स्याद् वामहस्तः सरोजधृक् ।
हरेर्वामकरो लक्ष्म्याः कुक्षिभागे स्थितः शुभः ॥२४॥ वरं त्रिशूलरेखे च पानपात्रं सुबिभ्रती ।
मयूरं च हस्तिं च महालक्ष्मीः प्रकीर्तिता ॥२५॥ अष्टपत्राम्बुजस्योर्ध्वे लक्ष्मीः सिंहासनस्थिता ।
विनायकवदासीना भूषिताऽऽभरणैः शुभैः ॥२६॥ ऊर्ध्वहस्तौ प्रकर्तव्यौ देव्याः पङ्कजधारिणौ ।
वामेऽमृतघटं धत्ते दक्षिणे मातुलिङ्गकम् ॥२७॥ एकवक्त्रा चतुर्हस्ता मुकुटेन विराजिता ।
प्रभामण्डलसंयुक्ता कुण्डलान्वितशेखरा ॥२८॥ अक्षाऽब्जवीणाग्रन्थाढ्या महाविद्या प्रकीर्तिता ।
वराक्षाऽब्जग्रन्थयुक्ता सरस्वतीशुभावहा ॥२९॥ भित्तिसंलग्नबिम्बश्च पुरुषः सर्वथाऽशुभः ।
न कदापि ध्वजादण्डः स्थाप्यो वै गृहमन्दिरे ॥2.142.३ ०॥ रवावुत्तरगे श्रेष्ठं देवानां स्थापनादिकम् ।
अभिषेकः प्रतिष्ठा च प्रवेशः पूजनादिकम् ॥३ १ ॥ प्रासादाऽग्रे तथैशाने चोत्तरे मण्डपोगजैः ।
त्रिपञ्चसप्तनवैकादशभिश्चान्तरालके ॥३ २॥ पृथ्वीं पूर्वं शोधयित्वा दाहखातजलार्पणैः ।
पुण्याहं वाचयित्वा च पूजयित्वा च कूर्मकम् ॥३३॥ शेषनागं क्षितिं चापि पूजयित्वा ततः परम् ।
शुद्धपूर्वां दिशं मण्डपार्थं प्रसाधयेद् यथा ॥३४॥ सूत्रेण वर्तुलं कृत्वा मध्ये शङ्कुं प्ररोपयेत् ।
उदयाऽस्तसमयस्य रेखाभ्यां साधयेद् दिशम् ॥३५॥ अष्टदशद्वादशषोडशाऽष्टादशहस्तकः ।
षोडशादिस्तम्भयुक्तो विंशतिहस्तकोऽपि वा ॥३६॥ वितस्त्युच्छ्रायतलवान् गजोच्छ्रायतलोऽपि वा ।
द्वितीये मण्डपे कार्ये चाद्यमण्डपमानतः ॥३७॥ तावद्धस्तप्रमाणं च त्यक्त्वा कार्योऽन्यमण्डपः ।
मण्डपे नवभागे च मध्यभागा तु वेदिका ॥३८॥ मण्डपस्य तृतीयांशा वेदिका मध्यगा मता ।
अष्टाङ्गुलाधिकद्विहस्तप्रमाणमितानि वै ॥३९॥ चतुर्द्वाराणि रम्याणि तोरणाद्यैर्द्युमन्ति च ।
कर्तव्यान्यथ च ध्वजान् कथयामि निबोध मे ॥2.142.४०॥ अष्टध्वजा रोपणीयाः पूर्वादिक्रमतो यथा ।
द्विद्वगजायताः पञ्चपञ्चगजप्रलम्बनाः ॥४१ ॥ पूर्वे पीतो हस्तिचित्र इन्द्रध्वजः स उच्यते ।
अग्नौ रक्तश्चोरणाऽऽस्यचित्रवानग्निदैवतः ॥४२॥ दक्षे कृष्णो महिषाढ्यो यमध्वज सः उच्यते ।
नैर्ऋत्ये नीलवर्णश्च सचित्रो राक्षसो ध्वजः ॥४३॥ पश्चिमे श्वेतवर्णश्च मकरास्यश्च वारुणः ।
वायौ हरितो मृगवान् वायुध्वजः स उच्यते ॥४४॥ उत्तरे श्वेतवर्णश्च हस्तिचिह्नः कुबेरकः ।
ईशाने श्वेतवर्णश्च वृषचित्रयुतो ध्वजः ॥४५॥ दशहस्तदीर्घवंशशीर्षे धृत्वाऽर्पयेद्धि तान् ।
वंशा भूमौ रोपणीया दार्ढ्यस्य हेतवे खलु ॥४६॥ मण्डपस्य मध्यभागे सप्तहस्तसुदीर्घकः ।
त्रिहस्तायत एवापि किङ्किणीजालकान्तकः ॥४७॥ मिश्ररङ्गश्चामराढ्यः प्रदातव्यः शुभो मतः ।
दशहस्तवंशशीर्षे सुदृढः शोभनो भवेत् ॥४८॥ सप्तसप्तहस्तदीर्घा एकैकहस्तकाऽऽयता ।
त्रिकोणाकृतिका तत्तदायुधाढ्या च वंशगा ॥४९॥ वज्रशक्तिदण्डखङ्गपाशाङ्कुशगदास्तथा ।
त्रिशूलं चेति क्रमशो बोध्यान्यायुधकानि च ॥2.142.५०॥ पूर्वोक्तरङ्गयुक्ताश्च पताकास्तु समन्ततः ।
पताका नवमी श्वेता मध्ये चेशानपूर्वयोः ॥५१॥ पुष्पाद्यैः पूजयित्वा तां रोपयेद् दण्डशीर्षसु ।
अपि कुण्डविधिं वच्मि मण्डपान्तरभूमिषु ॥५२॥ दशहस्तेभ्य आरभ्य षोडशगजसम्मिते ।
वेदीं मण्डपमध्ये च कुण्डं कुण्डाँस्तथा शुभान् ॥५३॥ पञ्चाऽष्टौ नव वा कुर्यात् पूर्वादिक्रमशः खलु ।
पूर्वे चतुष्कोणकं च योन्याकारं तथाग्निके ॥५४॥ अर्धचन्द्रं दक्षिणे तु नैर्ऋत्ये तु त्रिकोणकम् ।
पश्चिमे वर्तुलं कुर्याद् वायौ षट्कोणमेव च ॥५५॥ उत्तरेऽष्टदलपद्माभमष्टास्रकमीशिनि ।
वृत्तो वा चतुरस्रो वा पूर्वेशानसुमध्यके ॥५६॥ आचार्य कुण्डनामाऽसौ सदिक्पालादिकुण्डवान् ।
यद्वा कुर्यात् पञ्चकुण्डीः पूर्वे सा चतुरस्तिका ॥५७॥ अर्धचन्द्रसमा दक्षे वृत्ता तु पश्चिमे च सा ।
उत्तरे पद्मरूपा च ईशाने वर्तुलाऽथवा ॥५८॥ चतुरस्रा च कर्तव्या रूपान्तरप्रभेदतः ।
एक एव यदीष्टः सः चतुरस्रो मतो हिः सः ॥५९॥ पश्चिमे चोत्तरे वा चैशाने वा कार्य एव सः ।
सपादगजदूरे वै वेद्याः सर्वे च कुण्डकाः ॥2.142.६ ०॥ यद्वा वेदीचतुर्भागाऽन्तरालाऽन्ते मता हि ते ।
चतुरस्रो ब्रह्मणानां क्षत्रियाणां तु वर्तुलः ॥६ १॥ अर्धचन्द्रः स वैश्यानां शूद्राणां स त्रिकोणकः ।
यद्वा चतुष्कोण एव सर्वेषां वर्तुलोऽथवा ॥६ २॥ नारीणां योनिकुण्डो वै सम्मतः सर्वथा शुभः ।
मेखलायोनियुक्तश्च हस्तमात्रो हि कुण्डकः ॥६३॥ होमायुतं हस्तमात्रे लक्षार्धं तु द्विहस्तके ।
लक्षहोमं त्रिहस्ते च दशलक्षं चतुष्किके ॥६४॥ त्रिंशल्लक्षं पञ्चहस्ते कोट्यर्धं तु षडस्रके ।
सप्तकेऽशीतिलक्षं च कोटिहोमं गजाष्टके ॥६५॥ पञ्चाशद्धवने कुर्यादेकविंशतिकाङ्गुलम् ।
शतहोमे सार्धद्वाविंशतिकाङ्गुलकं तथा ॥६६॥ सहस्तहवनार्थं तु हस्तैकमानवान्मतः ।
होमाऽयुताय द्विगजो लक्षे चतुर्गजात्मकः ॥६७॥ षड्हस्तो दशलक्षार्थं कोटिहोमार्थमेव तु ।
अष्टहस्तो दशहस्तोऽथवा षोडशहस्तकः ॥६८॥ सूक्ष्मं हविस्तिलघृतं मध्यं द्राक्षायवादिकम् ।
स्थूलं बिल्वं नारिकेलं समिधादि प्रकीर्तितम् ॥६९॥ यादृशं तु भवेद् द्रव्यं तथा कुण्डोऽप्यपेक्षितः ।
यद्वा कुण्डं प्रतिलक्षं गजमानं विवर्धयेत् ॥2.142.७०॥ दशलक्षप्रपर्यन्तं दशहस्तं विधापयेत् ।
यद्वा सप्तगजः पञ्चाशल्लक्षहवनार्थकः ॥७१ ॥ दशलक्षहवनाय पञ्चहस्तमितोऽपि वा ।
विंशतिलक्षहोमार्थं षङ्गजः कुण्डको मतः ॥७२॥ लक्षार्धहवनार्थं त्रिहस्तकः कुण्ड इत्यपि ।
कुण्डस्य गाधता क्षेत्रसमा समेखला मता ॥७३॥ विनापि मेखलां समा गाधताऽपि प्रकीर्तिता ।
चतुर्विंशत्यंशके द्वादशांशः कुण्डकण्ठकः ॥७४॥ एका द्वे तिस्र एता वा द्वे तिस्रः पञ्च मेखला ।
क्षेत्रभागाष्टके पञ्चभागां गाधां खनेत् ततः ॥७५॥ त्रिभागे मेखलाश्चोर्ध्वे तिस्रः कार्या विधानतः ।
ऊर्ध्वा चतुरङ्गुला च मध्या त्र्यङ्गुलका मता ॥७६ ॥ निम्ना भागद्वयाढ्या च मेखला शुभदा मता ।
चतुरस्रं गजमात्रं चतुरङ्गुलकोच्छ्रयम् ॥७७॥ एकाङ्गुलोच्छ्रयं वापि स्थण्डिलं होमवेदिका ।
विशालायां वेदिकायाम् एकद्वित्रगजायतम् ॥७८॥ सर्वतोभद्रकं नाम मण्डलं कार्यमेव च ।
अष्टौ द्वात्रिंशदेवाऽपि चतुष्षष्टिश्च वा द्विजाः ॥७९॥ ऋत्विजो वैदिकाश्चाभिमन्त्रणीयाः क्रियाविदः ।
मण्डपस्य त्रिभागेन चोत्तरे स्नानमण्डपः ॥2.142.८०॥ तत्र वै स्थण्डिले शैले वालुके छाययान्विते ।
प्रतिमाः स्नपयितव्याः पञ्चगव्यैः कषायकैः ॥८ १ ॥ स्नापयेच्छतकलशवारिभिर्वल्कलान्विताः ।
वेदमन्त्रैश्च वादित्रैर्गीतिमङ्गलकीर्तनैः ॥८२॥ वेदीपार्श्वे मण्डपाधो वस्त्रेणाच्छादयेत् सुरान् ।
तुलामारोपयेद् वेद्यामुत्तरादौ च तां न्यसेत् ॥८३ ॥ कलशं तु शिरोदेशे पादस्थाने कमण्डलुम् ।
व्यजनं पृष्ठदेशे च दर्पणं वामभागके ॥८४॥ वज्रवैदूर्यमुक्ताश्च त्विन्द्रनीलं सुनीलकम् ।
पुष्परागं च गोमेदं प्रवालं पूर्वदिक्क्रमैः ॥८५॥ सुवर्णं रजतं ताम्रं कांस्यं रीतिं च सीसकम् ।
वङ्गं लोहं च पूर्वादौ क्रमाद् धातूनिहाऽर्पयेत् ॥८६॥ वज्रं वह्निशिखां सहदेवीं तुलसीपत्रकम् ।
इन्द्रवारुणिकां शङ्खावलीमुद्यावलीं तथा ॥८७॥ त्वरितां पूर्वक्रमतश्चौषधीः स्थापयेत्तथा ।
यवं व्रीहिं च कङ्गूं च जवरीं च तिलानि च ॥८८ ॥ अक्षकान् मुद्गकान् गोधूमकान् पूर्वादितः क्रमात् ।
महोत्सवं नृत्यगीतनैवेद्यारार्त्रिकादिभिः ॥८९॥ अङ्गन्यासादिभिश्चापि प्रतिष्ठाविधिमाचरेत् ।
देवार्पितं वस्त्रभूषादिकं ददेत्तु शिल्पिने ॥2.142.९०॥ यज्ञार्पितं समग्रं तु दद्यादाचार्यरूपिणे ।
प्रासादे देवतान्यासान् प्रत्येकाङ्गेषु कारयेत् ॥९१ ॥ वाराहं खरशिलायां नागं तु वारिमार्गगे ।
कुम्भीषु जलदेवं च पुष्पकण्ठेऽसुराँस्तथा ॥९२॥ जाड्यकुम्भे नन्दिनीं च विष्णुं कर्णिकयोस्तथा ।
गजपीठे गणेशं च ह्यश्वपीठे तथाऽश्विनौ ॥९३॥ नरपीठे नगाँश्चैव क्षुरके मेदिनीं तथा ।
सन्ध्यात्रयं भद्रकुम्भे कलशे पार्वतीं तथा ॥९४॥ कपोताल्यां च गन्धर्वान् मञ्चिकायां सरस्वतीम् ।
जङ्घायां तु दिशाम्पालान् उद्गमे चेन्द्रदेवताम् ॥९५॥ सावित्रीं तु भरण्यां च शिरावट्यां तु देविकाः ।
विद्याधरीं पुष्पकण्ठे सुराँश्चायन्तरालके ॥९६।.।
पर्जन्यं कूटच्छाद्ये च शाखयोः सूर्यचन्द्रकौ ।
उत्तरङ्गे त्रिदेवाँश्चोदुम्बरे यक्षकं तथा ॥९७॥ शङ्खावटेऽश्विनीपुत्रो कोल्यां शेषं क्ष्मां पट्टके ।
स्तम्भे पर्वतदेवाँश्च घूम्मटे व्योमदेवताः ॥९८॥ मध्ये मुख्यं च देवं च परनाले तु जाह्नवीम् ।
शिखरस्योरुशृङ्गेषु ब्रह्मविष्णुहरेश्वरान् ॥९९॥ इन्द्रं चेति पञ्चदेवान् प्रासादे त्रीन् सुरेश्वरान् ।
शिखरे चैश्वरं देवं कलशे त्विन्द्रमेव च ॥2.142.१०० ॥ ग्रीवायाममरं चामलसारे तु निशाचरम् ।
पद्मपत्रे तु पद्माक्षं कलशो तु सदाशिवम् ॥१० १॥ छाद्यवामेवऽघोरदेवं दक्षे तत्पुरुषं तथा ।
भैरवं स्थापयेच्चापि प्रासादे पञ्चभागके ॥१०२॥ देवं प्रतिष्ठितं पूर्वं ब्रह्मकन्या विलोकयेत् ।
ततोऽन्ये दर्शनं कुर्युः साधुसाध्व्यो विरागिणः ॥१०३ ॥ ततो वै गृहधर्माणस्तेन देवप्रतोषणम् ।
प्रार्थयेद् यजमानस्तु पुण्यं वै सूत्रधारतः ॥१ ०४॥ सूत्रधारो वदेच्छ्रेष्ठिन्नक्षयं भवतात्तव ।
सूत्रधाराय शिल्पिभ्यौ दद्यात् पूजोपदादिकम् ॥१ ०५॥ महोत्सवं भोजनाद्यैः कुर्यात् कथादिभिस्तथा ।
इत्येवं राधिके कर्म ते मयोक्तं हरेर्मतम् ॥१०६ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे ब्रह्मवेददेवदेवीप्रभृतिमूर्तिमानोपमण्डप कुण्डसङ्क्षिप्तप्रतिष्ठादिप्रदर्शननामा द्वाचत्वारिंशदधिकशत-
तमोऽध्यायः ॥१४२ ॥