१४१

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! कृष्णनारायणो यथाऽऽह च ।
भक्तं देवायतनकं ते वदामि यथायथम् ॥१ ॥ एकाऽधिकसहस्राण्डो द्वासप्ततितलान्वितः ।
ज्येष्ठमेर्वाख्य एवाऽसौ मतः सर्वोत्तमोत्तमः ॥२ ॥ चतुरस्रीकृते क्षेत्रे द्वासप्ततिविभाजिते ।
सार्धचतुर्भागभित्तिः सार्धतर्याभ्रमन्तिका ॥३ ॥ अथ क्षेत्रं चतुरस्रं दशधा भाजयेत्ततः ।
भागैका भ्रमणी कार्या भित्तिर्भागैकसम्मता ॥४ ॥ कोणो भागद्वयात्मा सार्धैकं प्रतिरथं तथा ।
भद्रं भागत्रयं चैतत् सर्वदिक्षु समानकम् ॥५ ॥ अथ क्षेत्रं चतुरस्रं त्वष्टधा भाजयेत्पुनः ।
द्विभागस्तत्र कोणश्च भद्रं भागद्वयात्मकम् ॥६ ॥ एवं त्रिधा भवन्त्येव मेरुप्रासादका भुवि ।
द्वासप्ततितलभागाः कणादिभद्रकान्तकाः ॥७ ॥ बोध्यास्तत्र षड्द्वयं षड्द्वयं षड्द्वयम् षड्द्व्यम् ।
आकर्णभद्रमावृत्य चाङ्गभागादियोजना ॥८ ॥ भागाष्टकं च भद्रार्धं निर्गमे भागषट्ककम् ।
भद्रोपरि गवाक्षाश्च तवङ्गरथिकास्तथा ॥९ ॥ तथा पञ्चोरुशृङ्गाणि रोपणीयानि सर्वथा ।
कोणे तु सर्वतोभद्रो नन्दीशः पृथिवीजयः ॥2.141.१० ॥ क्रमेणोपर्युपर्येव संस्थाप्यास्ते दृढात्मकाः ।
नवाण्डो भद्रको नन्दीशश्चैकविंशत्यण्डकः ॥११ ॥ नवचत्वारिंशदण्डः पृथिवीजय आदृतः ।
कर्णसमभागपढरे केशरीभद्रकस्तथा ॥१२॥ नन्दीशालः प्रदातव्यास्तत्र पञ्चाण्डकेशरी ।
नन्दीशालः सप्तदशाण्डको भद्रो नवाण्डकः ॥१३॥ भद्रस्य वामदक्षस्थनन्दिकानामुपर्यथ ।
केशरी केशरी श्रीवत्सः श्रीवत्साण्डकास्तथा ॥१४॥ देयास्तत्रैकाण्डकस्तु श्रीवत्सोऽन्ये तु पूर्ववत्॥ कोणस्य वामदक्षस्थनन्दिकानामुपर्यथ ॥१५ ॥ केशरी केशरी श्रीवत्सश्रीवत्साण्डकास्तथा ।
नन्दिकास्तत्र षड्बोध्याः स्वल्पा महत्य एव वा ॥१६ ॥ प्रतिकर्णवामदक्षस्थनन्दिकोपरि ध्रुवः ।
केशरी एव दातव्यो नाऽन्यथा तु कदाचन ॥१७॥ भद्रे तु नासिकां कृत्वा तत्र श्रीवत्सकाऽण्डकः ।
कर्णे च प्रतिकर्णे च भद्रस्य वामदक्षिणे ॥१८॥ चतुःष्वेवं प्रदेयानि प्रत्यङ्गान्यष्टसङ्ख्यया ।
एवं चतुर्षु दिक्षु द्वात्रिंशत्प्रत्यङ्गकानि वै ॥१९॥ द्वासप्ततिपदसौधे चतुष्पञ्चाशदंशकैः ।
शिखरस्य नमणस्य रेखाः कार्यास्ततः परम् ॥2.141.२० ॥ एवं भवति चैकाढ्यसहस्राण्डसमन्वितः ।
ज्येष्ठमेरुसमाख्यो वै परब्रह्मनिवासवान् ॥२१ ॥ मध्यमेरुं कथयामि क्षेत्रं तु चतुरस्रकम् ।
चतुष्षष्टिविभागं च गर्भादिकोणकावधिम् ॥२२॥ सप्तद्वयत्रिचतुष्षटच्तुष्षड्भिर्विभाजयेत् ।
त्रिभागो भद्रनिस्तारो भद्रोऽयं भागसप्तकः ॥२३॥ प्रथमा नन्दिका भागद्वया भागत्रयाऽपरा ।
प्रतिकर्णचतुर्भागः षड्भागः प्रातिराथकः ॥२४॥ प्रतिकर्णश्चतुर्भागः कोणः षडभागजस्तथा ।
एवं कार्यं चतुर्दिक्षु षड्भागा भ्रमणी मता ॥२५॥ षट्षड्भागा भित्तिकाश्च रेखा विंशतिभागिका ।
केशरी सर्वतोभद्रो नन्दनो नन्दशालिकः ॥२६॥ स्थाप्याः क्रमेण कोणेषु त्रयोदशाण्डनन्दनः ।
श्रीवत्सौ द्वौ केशरी स्युः प्रतिकर्णे स्थिताः क्रमात् ॥२७॥ श्रीवत्सः केशरी चैव सर्वतोभद्रकस्तथा ।
पढरोपरि दातव्यः प्रासादत्रयभूषणाः ॥२८॥ श्रीवत्सः केशरी चैव नन्दिकायां नियोजयेत् ।
द्वितीया नन्दिका कार्या श्रीवत्सद्वयशोभिता ॥२९॥ पढरे प्रतिरथके कर्णे च नन्दिके तथा ।
तदर्धे वामदक्षे तु देयं प्रत्यङ्गमेव च ॥2.141.३०॥ अण्डकाः पूर्ववद् बोध्याः शृङ्गमानं च पूर्ववत् ।
पञ्चाधिकपञ्चशताण्डकोऽयं मेरुमध्यमः ॥३ १ ॥ मुनिविद्याधरसिंहगजघण्टककूटकैः ।
वरालिकासंवरणैर्युक्तः शिवाधिवासनः ॥३२॥ चतुष्षष्टितलः पञ्चाधिकपञ्चशताण्डकः ।
मध्यमेरुः कीर्तितोऽथ कनिष्ठं प्रवदामि च ॥३३॥ चतुरस्रीकृते क्षेत्रे पञ्चपञ्चाशदंशके ।
षट्त्रित्रिषट्त्रिषड्भिश्च कर्तव्या योजना क्रमात् ॥३४॥ भद्रमारभ्य कर्णान्ता भद्रार्धं चांशषट्ककम् ।
भागद्वयं निर्गमे च त्रिभाणा नन्दिका तथा ॥३५॥ द्वितीयापि त्रिभागा च पढरो भागषट्कवान् ।
तृतीया नन्दिका भागत्रयाढ्या कोणकास्तु षट् ॥३६॥ निर्गमे समभावास्ते ततः कार्यांऽगयोजना ।
भित्तिः सार्धचतुरंशा भ्रमण्यपि तथाऽऽयता ॥३७॥ नमणस्य तु रेखाश्च मध्यमेराविव ध्रुवाः ।
प्रतिरथे च कोणे च शृङ्गाणि त्रीणि त्रीणि च ॥३८॥ केशरीसञ्ज्ञकान्येव देयान्युपरितस्ततः ।
नन्दिकायां प्रतिकर्णे श्रीवत्साश्च त्रयस्त्रयः ॥३९॥ भद्रे तु नासिकां कृत्वा द्वौ प्रकार्यौ श्रीवत्सकौ ।
चत्वारि चोरुशृङ्गाणि प्रत्यङ्गं वामदक्षके ॥2.141.४० ॥ त्रिनवत्याढ्यद्विशताण्डको मेरुः कनिष्ठकः ।
गणविद्याध्रादिशोभो देवानां प्रिय एव च ॥४१ ॥ अथ मन्दिरनामापि मेरुमन्दिरमुच्यते ।
चतुरस्त्रीकृते क्षेत्रेह्यष्टात्रिंशद्विभाजिते ॥४२॥ चतुर्भागं भवेद् भद्रं द्विभागश्चास्य निर्गमः ।
नन्दिका चैकभागा च द्वितीया द्वयंशिका तथा ॥४३॥ पञ्चभागः पढरश्च तथा भागद्वयाऽपरा ।
नन्दिका चाऽथ कोणस्तु पञ्चभागात्मकस्तथा ॥४४॥ समदलाः सर्व एते भित्तिः सार्धत्रया मता ।
भ्रमण्यपि सार्धत्रया चतुर्दिक्षु समा मता ॥४५॥ मध्यप्रासादकतलं मतं द्वादशभागकम् ।
चतुर्दिक्ष्वेव कर्तव्यं कोणे केशरिणस्त्रयः ॥४६ ॥ एकं श्रीवत्सकं चापि ततोऽथ पढरोपरि ।
श्रीवत्साश्च त्रयश्चैकं तिलकं कार्यमेव च ॥४७॥ सर्वनन्दिकोर्ध्वके च श्रीवत्सानां तथाऽण्डकाः ।
त्रयस्त्रयः करणीयाश्चतुःशृङ्गाणि भद्रके ॥४८॥ प्रत्यङ्गानि दक्षिणे वामके चापि यथायथम् ।
रेखोर्ध्वे द्वादशभागेष्वपि रूपाणि सन्न्यसेत् ॥४९॥ अष्टात्रिंशत्तलभागस्तथा च तिलकाष्टकः ।
एवं पञ्चाशीत्यधिकाऽण्डको मेरुरयं मतः ॥2.141.५०॥ अष्टात्रिंशत्तलभागाश्चतुष्षष्टितिलानि च ।
नवचत्वारिंशदधिकं शतं चाण्डमण्डलम् ॥५१ ॥ लक्ष्मीकोटरसञ्ज्ञोऽयं प्रासादो मेरुरुच्यते ।
चतुर्विंशतितिलकः षट्त्रिंशत्तलभागवान् ॥५२॥ नवविंशत्येकशताण्डकः कैलासमेरुकः ।
द्वासप्ततितिलकाढ्यश्चाष्टादशतलांशवान् ॥५३॥ एकषट्यधिकशताण्डः स पञ्चाननाभिधः ।
चतुर्विंशतितिलकः सप्तसप्ततिकाण्डवान् ॥५४॥ षडेविंशत्तलभागः स विमानमेरुरुच्यते ।
चतुष्षष्ट्याधिकशततिलकश्च तले तु यः ॥५५॥ षट्त्रिंशद्भागवान् नवाधिकद्विशतकाण्डकः ।
गन्धमादननामाऽसौ मेरुः प्रासादको मतः ॥५६॥ षड्विंशतितलभागा विंशतिस्तिलकानि च ।
पञ्चविंशत्यधिकैकशताण्डो मुक्तकोणकः ॥५७॥ षट्त्रिंशश्च शतं चापि तिलकानि तथा तले ।
द्वात्रिंशद्भागका यस्य तथा शतं च पञ्च च ॥५८॥ चत्वारिंशच्चाण्डकानि गिरिप्रासादकाऽभिधः ।
चतुरशीतितिलकश्चाष्टादशतलांशवान् ॥५९॥ एकविंशत्यण्डकश्च तिलकाभिधमेरुकः ।
द्वानवतितिलकश्च नवाधिकशताण्डकः ॥2.141.६ ०॥ चतुस्त्रिंशत्तलभागश्चन्द्रशेखरमेरुकः ।
षट्पञ्चाशत्तिलकश्चैवत्रिसप्ततिकाण्डकः ॥६ १ ॥ अष्टाविंशतितलभाङ्मन्दिरतिलकाभिधः ।
त्रयस्त्रिंशदण्डकश्च षोडशतिलकान्वितः ॥६२॥ द्वादशतलभागश्च सौभाग्यमेरुरेव सः ।
अण्डानि च नवाधिकचत्त्वारिंशत्तु यत्र वै ॥६३॥ तिलकानि चाष्टयुक्तचत्वारिंशत्तु यत्र च ।
द्वाविंशतितलभागाः सुन्दरो मेरुरेव सः ॥६४॥ विंशतिस्तलभागाश्च षट्त्रिंशत्तिलकानि च ।
अण्डानि नवचत्वारिंशद्युक्तशतमेव तु ॥६५॥ श्रीतिलकाऽभिधानोऽसौ प्रासादः सम्मतः शुभः ।
सप्तपञ्चाशदाढ्यैकशताण्डकस्तु यो भवेत् ॥६६॥ चत्वारिंशत्तिलकश्चाष्टाविंशतिसत्तलः ।
विशालाख्यः स वै बोध्यः प्रासादः शुभदो मतः ॥६७॥ एकाण्डश्च चतुश्चत्वारिंशत्तिलकवाँस्तथा ।
द्वादशतलभागश्च पर्वतकूटको हि सः ॥६८॥ चत्वारिंशत्तिलकश्च सप्तपञ्चाशदण्डकः ।
द्वाविंशतितलभाक् स नन्दिवर्धन उच्यते ॥६ ९ ॥ इत्येवं कथिताः सर्वे प्रासादाश्च ममाऽऽलयाः ।
प्रतिमाश्चाथ वक्ष्यामि यथा यथा तु मे मता ॥2.141.७०॥ निबिडा निर्वणा मृद्वी सुगन्धा मधुरा शिला ।
कान्तियुक्ता दर्शनीया प्रतिमार्था शिला भवेत् ॥७१ ॥ निर्मलं हेमकांस्यादि चिह्नं लोहमयं च यत् ।
तथा विचित्रविकृतिः प्रतिमायां भयावहम् ॥७२॥ भृङ्गकपोतकुमुदमाषमुद्गसितोपमा ।
पाण्डुरा घृतपद्माभा सर्वार्चासु शिला शुभा ॥७३॥ द्वादशाङ्गुलतो न्यूना पूज्या मूर्तिर्गृहे मता ।
द्वादशाङ्गुलतो नवगजान्ताऽर्च्या सुरालये ॥७४॥ दशगजोर्ध्वा प्रतिमा पूज्या प्रासादकं विना ।
चतुष्क्यामेव सा पञ्चचत्वारिंशद्गजान्तिका ॥७५॥ अष्टलौहमयी शैली रत्नजा श्रेष्ठदारुजा ।
प्रवालादिमयी चापि प्रतिमा शुभदायिनी ॥७६ ॥ शतवत्सरपूर्वा या दैविपुरुषवेशिता ।
खण्डिता स्फुटिताऽप्यर्च्या तदन्या दोषदायिनी ॥७७॥ तीर्थभूमिष्वरण्ये च देवताः खण्डिता अपि ।
पूजनीया हि फलदा नान्यत्र तु कदाचन ॥७८॥ रात्नी च धातवी लेपलिप्ता च दुर्घटा तु या ।
पुनः संस्कारयोग्या सा पूजनीया ततो भवेत् ॥७९॥ काष्ठपाषाणजा भग्ना संस्कारार्हा न सा मता ।
नाधिकाङ्गा न हीनाङ्गा कर्तव्या सा कदाचन ॥2.141.८०॥ काष्ठलेपाश्मदन्तोत्था वित्राऽऽयसादिजापि च ।
मानाधिका देवपरिवारा गृहे न पूज्यते ॥८ १ ॥ गर्जनां रोदनं हास्यमुन्मीलननिमीलने ।
क्रूरतां यत्र कुर्वन्ति देवास्तत्र महद्भयम् ॥८२॥ पृथ्व्यां शिला तु या सुप्ता निखन्यते बहिस्तदा ।
दक्षिणं पश्चिमं पार्श्वं स्मृत्वा शिरो विधापयेत् ॥८३ ॥ एकभागं ग्राहमुखं पक्षी द्विभागवाँस्तथा ।
त्रिभागाः कुञ्जराद्याश्च चतुर्भागाश्च किन्नराः ॥८४॥ वृषाः सुराः पञ्चभागाः कर्तव्याः शिल्पिना शुभाः ।
गणेशो वामनः क्रोडश्चैते षडंशका मताः ॥८५॥ सप्तभागास्तु कर्तव्या वृषभक्रोडमानवाः ।
अष्टांशा पार्वती शक्तिस्तथाऽन्या देविका अपि ॥८६॥ नवांऽशाऽन्यसुराः शिवसङ्कर्षणा दशांशकाः ।
चण्डीभूतहनुमान् कार्तिकाश्चैकादशांशकाः ॥८७॥ वैतालो द्वादशांशश्च त्रयोदशांशराक्षसाः ।
दैत्याश्चतुर्दशांशाश्च पञ्चदशांशको भृगुः ॥८८॥ क्रूरा देवा देविकाद्याः षोडशांशा मताः सदा ।
गणेशो मूषकारूढो धत्ते दन्तपरश्वधौ ॥८९ ॥ पङ्कजं मोदकं चापि हस्त्यास्यः सर्पभूषणः ।
मुखं भागद्वयं तस्य भागद्वयं तथोदरम् ॥2.141.९० ॥ चतुरङ्गुलं जघनम् आजान्वङ्गुलसप्तकम् ।
जानू त्र्यङ्गुलमेवाऽपि जङ्घा सप्ताङ्गुला तथा ॥९१ ॥ पादस्त्र्यङ्गुल एवापि मानं षड्भागमूर्तिकम् ।
सप्तभागे प्रमाणं तु कथयामि निबोध मे ॥९२ ॥ केशान्तास्तु त्रयो भागा मुखमेकांशकं तथा ।
त्र्यङ्गुलः कण्ठ एवापि पक्षः सार्धदशाङ्गुलः ॥९३ ॥ नवाङ्गुलोदरं प्रोक्तं सार्धं सप्ताङ्गुलं तु वै ।
नाभिलिङ्गान्तरालं च सक्थ्यष्टादशकाङ्गुलम् ॥९४॥ जानुस्त्र्यङ्गुलकश्चापि जङ्घाऽष्टादशकाङ्गुला ।
पादस्त्र्यङ्गुलको बोध्यः सप्तवितस्तिकायकः ॥९५॥ अष्टताले मुखं तालं केशान्तं त्र्यङ्गुलं तथा ।
ग्रीवा च त्र्यङ्गुला बोध्या हृदयं च नवाङ्गुलम् ॥९६ ॥ द्वादशाङ्गुलमानाभिम् आमेढं च नवाङ्गुलम् ।
एकविंशत्यङ्गुलोरुर्जानुस्त्र्यङ्गुलको मतः ॥९७॥ एकविंशत्यङ्गुला जङ्घा पादस्त्र्यङ्गुलस्तथा ।
एषा चाष्टवितस्त्याढ्या मूर्तिः प्रोक्ता सुशिल्पके ॥९८॥ नवतालं तथा वच्मि केशान्तं त्र्यङ्गुलं तथा ।
द्वादशाङ्गुलकं बोध्यं मुखं कण्ठोंऽगुलत्रयः ॥९९ ॥ दशाङ्गुलं च हृदयं नाभिर्द्वादशकांऽगुला ।
चतुरङ्गुलमुदरं गुह्यं चाष्टाङ्गुलान्तरम् ॥2.141.१०० ॥ सक्थि चतुर्विंशतिकाङ्गुलं जानुश्चतुर्मितः ।
चतुर्विंशत्यङ्गुला च जङ्घा पादश्चतुर्मितः ॥१०१ ॥ विस्तारे स्तनगर्भे तु द्वादशाङ्गुलमीरितम् ।
स्तनात् कुक्षिश्चतुरङ्गुलायता शोभना तथा ॥१०२॥ कुक्षिबाह्वोरवकाशश्चैकाङ्गुलो मतः शुभः ।
हस्तः सप्ताङ्गुलः पुष्टः स्कन्धात् कफोणिकां प्रति ॥१०३ ॥ शोडशाङ्गुलदैर्घ्यं च ततः प्रकोष्ठकं दश ।
प्रकोष्ठायतता त्र्यङ्गुलाऽथ हस्ततलं तु वै ॥१ ०४॥ द्वादशाङ्गुललम्बं च पञ्चागुलं तथाऽऽयतम् ।
मध्यं चतुर्दशाङ्गुलायतं कटिस्तु वै तथा ॥१०५ ॥ चतुर्विंशत्यङ्गुला च सक्थिमूलं दशैककम् ।
जङ्घाप्रकोष्ठश्चतुरङ्गुलायतस्तथा पुनः ॥१ ०६॥ चतुर्दशाङ्गुलपादायततांऽगुलिकान्तिका ।
बाहुतःस्तनभागश्च चतुरङ्गुलोर्ध्वगः ॥१ ०७॥ कुक्षेः स्कन्धोपरिभागश्चाष्टाङ्गुलो मतस्तथा ।
कण्ठोऽष्टांशः पादः षष्ठांशायतश्चेति मानता ॥१ ०८॥ इत्येवं राधिके मानं बहुधाऽपि भवत्यपि ।
युगानुरूपमेवाऽपि यथाह देवतं हरिः ॥१ ०९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रतिष्ठोत्सवे उत्तममध्यमकनिष्ठमेरुमन्दिराणां गणेशादिमूर्तीनां च मानानुमापादिनिरूपणनामैक-
चत्वारिंशदधिकशततमोऽध्यायः ॥१४१ ॥