१३८

श्रीकृष्ण उवाच-
शृणु त्वं राधिके ऽनादिश्रीहरिः पुरुषोत्तमः ।
देवायतनकं भक्तं ततो यदाह वच्मि ते ॥१ ॥ प्रासादस्य प्रमाणेन कर्तव्यो मण्डपः शुभः ।
प्रासादमूलकर्णाप्तसूत्रेण कोलिकी यथा ॥२ ॥ चतुष्की मण्डपश्चाऽपि कर्तव्याः शिखरं तथा ।
गूढो वाऽनावृत्तश्चैकद्वारो वाऽथ त्रिद्वारकः ॥३ ॥ प्रासादाग्रे सुकर्तव्यो मण्डपो देवतागृहे ।
मण्डपस्योत्तरे दक्षे पूर्वे रूपचतुष्किकाः ॥४ ॥ नृत्यमण्डपः कर्तव्यः कर्तव्यश्च बलाणकाः ।
सार्धैकायतभागो वै प्रासादाच्छोभनो मतः ॥५ ॥ चतुष्किकायुतः कार्यो द्विगुणः सुमहानिति ।
मण्डपोपरि घूम्मटश्चायतदीर्घप्रमाणवान् ॥६ ॥ उच्छ्रायाढ्यश्चार्धगोलाकारः कर्तव्य एव तु ।
अष्टांशो मण्डपः श्रेष्ठो भित्तिभिश्चापि वर्तितः ॥७ ॥ सोपानतोरणाढ्यश्च मकरास्यजलस्रवाः ।
गवाक्षा जालकयुक्ता यद्वा निर्जालका मताः ॥८ ॥ मूलप्रासादके जङ्घामेखलापीठकादयः ।
यथा स्युर्वै तथा कार्या मण्डपे चैकसूत्रगाः ॥९ ॥ दलेनार्धेन पादेन दलानां निर्गमा मताः ।
मण्डपं नवभागं च कृत्वा भागचतुष्टयम् ॥2.138.१ ०॥ मध्यशालात्मकं ग्राह्यं पदं कर्तव्यमेव च ।
रङ्गभूमिर्विचित्रा च सशोभा वै पदात्मिका ॥११ ॥ चतुष्षष्टिस्तम्भयुक्तो मण्डपो मे प्रियः सदा ।
एकविंशतिसोपानाः कर्तव्या मण्डपाग्रतः ॥१२॥ हस्त्यश्वगारुडरूपैः शोभाढ्या मणिभिस्तथा ।
पार्श्वे चतुष्किकाः कार्याः शोभना योग्यविस्तराः ॥१३ ॥ नव चतुष्किकाः कार्याः शोभना अपि सर्वतः ।
बहुवितानशोभाढ्याश्चित्रशोभान्विताः शुभाः ॥१४॥ आक्षरब्रह्मनामा वै मण्डपो मम सुप्रियः ।
युग्मस्तम्भः प्रकर्तव्यो न त्वेकीसङ्ख्यया क्वचित् ॥१५॥ कादम्बः कमलाकारः सूर्यमुखाकृतोऽपि च ।
चान्द्रो वा मण्डपो बोध्यश्चेन्द्रधनुःसमोऽपि च ॥१६॥ जगतीमण्डपौ भद्रमानेन निर्गमे मतौ ।
प्रतोल्या जगती चापि भद्रवन्निर्गमे मता ॥१७॥ अग्रे कार्याः प्रतिहारा मुख्यमूर्तेस्तु पार्श्वयोः ।
नरपीठस्य चोर्ध्वात्तु यावद्भरणीमस्तकम् ॥१८॥ पदानि दशसार्धानि कर्तव्यानि ततः परम् ।
एकभागं राजसेनं द्विभागा वेदिका मता ॥१ ९॥ अर्धभागाऽऽसन्नपटः स्तम्भो भागचतुष्टयः ।
अर्धभागं भरणं च चरुस्त्वेकांशकस्तथा ॥2.138.२०॥ सार्धैकभागः पाटश्च छाद्यकं तु ततः परम् ।
कम्मानिकास्तथा कार्यास्तोरणादिसुरूपिकाः ॥२ १ ॥ रङ्गमण्डपपूर्वे च कार्या नृत्यस्य मण्डपाः ।
कथाया मण्डपाः कार्या होमस्य मण्डपास्तथा ॥२२॥ उद्यापनस्य च कार्या मण्डपा रासमण्डपाः ।
वास्तुवेधो न वै कार्यः स्तम्भवेधोऽपि नैव च ॥२३॥ स्तम्भस्थौल्यं दशांशाद्वै चतुर्दशांऽशकाऽवधिम् ।
प्रासादस्थौल्यसापेक्षं पाषाणदृढतानुगम् ॥२४॥ प्रासादे त्वेकहस्ते तु स्तम्भः स्याच्चतुरङ्गुलः ।
द्विहस्ते चाङ्गुलाः सप्त त्रिहस्ते नव चाङ्गुलाः ॥२५॥ ततो द्वादशहस्ते च प्रतिहस्तं द्वयाऽङ्गुलौ ।
सपादाऽङ्गुलवृद्धिश्च यावत्षोडशहस्तके ॥२६॥ अङ्गुलिकाभिवृद्धिश्च चत्वारिंशत्करावधिम् ।
पञ्चाशत्करपर्यन्तं पादोनाङ्गुलिकाऽधिका ॥२७॥ स्वस्तिका मस्तके भद्रयुताऽष्टास्राश्च स्तम्भकाः ।
मूर्तिपत्रसुवल्ल्याढ्या भद्रयुक्कम्भिकास्तथा ॥२८॥ भरणे वल्लिकायुक्ताश्चरवः किन्नरान्विताः ।
मम वै मन्दिरं सप्तशिखरं कार्यमुत्तमम् ॥२९॥ तदग्रे कोलिका बोध्या तदग्रे गूढमण्डपः ।
ततो नृत्यमण्डपश्च ततः सभाख्यमण्डपः ॥2.138.३ ०॥ ततो वै रूपचोकी च ततः सोपानकानि च ।
षट्पञ्चाशद्दक्षभारो षट्पञ्चाशच्च वामके ॥३ १॥ मन्दिराणि च कार्याणि पत्नीनां मम सर्वतः ।
मध्यमन्दिरके चाऽहं पार्श्वेषु षट् प्रपत्निकाः ॥३२॥ मण्डपेषु घूम्मटेषु भूमिकाः सप्त सप्त च ।
रासतोरणवेद्यादियुताः कार्याः सुशोभनाः ॥३३॥ पश्चिमे रथशाला च दक्षिणे मठशालिकाः ।
उत्तरे सूदशाला च पूर्वे चायुधशालिका ॥३४॥ वायौ कोष्ठागारकं चाग्निकोणे तु महानसः ।
ईशाने पुष्पशाला च नैर्ऋत्ये पात्रशालिका ॥३५॥ पश्चिमे जलशाला च ह्युपरि वाचनालयः ।
कर्तव्या अपि सापेक्षा आलया मन्दिराऽभितः ॥३६॥ द्वारोच्छ्रायस्य त्रिभागे भागद्वयं तु जालकम् ।
गवाक्षाश्च तथा कार्या ह्रस्वा वा समस्तकाः ॥३७॥ मण्डपोपरि चाष्टास्रं तदूर्ध्वे षोडशास्रकम् ।
तदूर्ध्वे घूम्मटो गोलश्चायताऽऽर्धोर्ध्वमानतः ॥३८॥ उच्छ्रये षष्ठिभागान् वै कृत्वा तत्रादिमेषु वै ।
कर्णदर्दरिकाः सप्तभागे समोच्छ्रनिर्गमाः ॥३९॥ चतुर्भागे रूपकण्ठो द्व्यंशे निर्गमवान्मतः ।
विद्याध्राः षोडश कार्याश्चतुर्विंशतिहस्तिनः ॥2.138.४०॥ विद्याधरपृथुत्वेन सप्तांशे निर्गमो मतः ।
तदूर्ध्वे चित्ररूपाश्च नर्तिका रासनर्तनाः ॥४१ ॥ आद्यास्ते सार्धषड्भागा द्वितीयाः षड्विभागिकाः ।
पञ्चभागास्ततः कोलाः सार्धचतुर्गवालकम् ॥४२॥ मध्यगोलवितानं तु कथाचमत्कृतिप्रभैः ।
सङ्गीतगीतनृत्यादिपुत्तलैरेव शोभितम् ॥४३ ॥ जीवलोकेश्वरलोकब्रह्मलोकादिचित्रकैः ।
शोभिता रत्नगर्भाश्च सूर्यवर्णा वितानकाः ॥४४॥ साभरणं प्रकर्तव्यं प्रथमं भागषट्कके ।
द्वितीयाद्यानि तान्येव चतुर्भागविवृद्धितः ॥४५॥ कर्तव्यानि पञ्चविंशतिसाभरणानि क्रमात् ।
प्रथमे पञ्चघण्टाश्च कर्तव्यास्त्वतिशोभनाः ॥४६ ॥ द्वितीयादौ चतुर्वृद्ध्या कारणीयास्तदुत्तरे ।
वामे दक्षे तु भद्रार्धे रक्षार्धे नवघण्टकम् ॥४७॥ रथिकाऽऽयतताऽर्धे च भागे तु रथिकोपरि ।
घण्टाः कूटाः प्रकर्तव्यास्ततो वै कलशो भवेत् ॥४८॥ प्रथमा घण्टिका कार्या पञ्चकलशशोभना ।
एवं त्वेकीसङ्ख्ययाऽपि चाग्रे कार्याः सुघण्टिकाः ॥४९॥ एकद्वित्रिचतुःपञ्चषट्कसप्तपदान्तरे ।
प्रासाददेवतायाश्च वाहनस्य चतुष्किका ॥2.138.५०॥ कर्तव्या वाहनस्थानरूपा सुशोभना शुभा ।
देवमूर्तेर्नवभागा आपादशिखमेव तु ॥५ १ ॥ कर्तव्याः पञ्चषट्सप्तभागान्तो वाहनोच्छ्रयः ।
यद्वा वाहननेत्रे च गुह्यनाभिस्तनोच्छ्रये ॥५२॥ समरेखे भवेतां च तथोच्छ्रयं तु वाहनम् ।
यद्वा पादकटिजानुसमरेखं तु वाहनम् ॥५३ ॥ शिवलिङ्गस्य वाहस्तु जलाधारीसमुच्छ्रयः ।
सूर्यवाहः स्कन्धरेखासमौ देवस्य वै मतः ॥५४॥ मुख्यप्रासादपरितः प्रासादा गर्भसङ्ख्यया ।
गर्भं धृत्वा ततः कार्या नाभिवेधं न कारयेत् ॥५५॥ ब्रह्मविष्णुशिवसौधः पूर्वपश्चिमकाऽऽननः ।
नगराभिमुखा देवाः शुभाः क्षेमकराः सदा ॥५६॥ पराङ्मुखाः पुरं घ्नन्ति सर्वास्यास्त्रिसुराः शुभाः ।
गणेशो भैरवश्चण्डी नकुलीशो नवग्रहाः ॥५७॥ मातरश्च कुबेरश्च दक्षिणाभिमुखाः शुभाः ।
नैर्ऋत्यदक्षिणमुखो हनुमान् नान्यदेवता ॥५८॥ प्रासादगर्भतृतीयभागेन प्रतिमोत्तमा ।
दशभागेन हीना या मध्यमा सा प्रकीर्तिता ॥५९॥ पञ्चभागेन हीना या कनिष्ठा स्वस्तिकासना ।
द्वारोच्छ्रायनवभागे भागोर्ध्वैक विहाय च ॥2.138.६०॥ शिष्टाष्टभागके चतुर्भागोच्छ्राया शुभा मता ।
चतुर्भागावषं तु सिंहासनं मतं तथा ॥६ १ ॥ यद्वा द्वारोच्छ्रयस्यैव द्वात्रिंशद्भागकेषु तु ।
ऊर्ध्वं चतुष्टयं त्यक्त्वाऽष्टाविंशतिप्रभागके ॥६२॥ सिंहासनं च प्रतिमा चतुर्दशे चतुर्दशे ।
सिंहासनं त्रयोदशे मूर्तिः पञ्चदशे स्मृता ॥६३ ॥ सिंहासनं पञ्चदशे मूर्तिस्त्रयोदशे स्मृता ।
सिंहासनं द्वादशे चेत् प्रतिमा षोडशांऽशके ॥६४॥ प्रासादे एकहस्ते तु मूर्तिरेकादशाङ्गुला ।
दशाङ्गुला वर्धनीय यावद्धस्तचतुष्टयम् ॥६५॥ द्व्यङ्गुला वर्धनीया च यावद्वै दशहस्तकम् ।
अर्धाङ्गुलं वर्धनीया पञ्चाशदङ्गुलावधिम् ॥६६॥ मध्या दशांशहीना स्यात् कनिष्ठा तद्दशांशहा ।
सुप्ता मूर्तिर्गर्भगेहे सप्तभागेषु पञ्चगा ॥६७॥ द्वौ भागौ वर्जनीयौ च शयनस्था सुखप्रदा ।
प्रासादगर्भखण्डौ द्वौ द्वारखण्डं विहाय च ॥६८ ॥ शेषखण्डे पच्चभागाः कर्तव्या आसनार्धकाः ।
भित्तिलग्ने प्रथमे तु भागे यक्षादिकासनम् ॥६९॥ द्वितीये तु विभागे स्युः सर्वदेवासनानि वै ।
तृतीये तु विभागे वै ब्रह्मविष्णुहरासनम् ॥2.138.७०॥ पञ्चमांशे यवमात्रमीशान्यां तु शिवासनम् ।
प्रासादानां तु सर्वेषां विभागो गर्भतो मतः ॥७ १ ॥ गर्भस्य मध्यभागाद्धि क्रमाद् देवासनानि वै ।
चतुरस्राण्यायतान्यायतवृत्तानि वै तथा ॥७२॥ यथायोग्यानि कुर्याच्च वृत्तान्यष्टास्रकाण्यपि ।
भित्तिगानि मण्डलानि त्वष्टाविंशतिरेव वा ॥७३ ॥ मध्ये शिवो द्वितीये तु मण्डले विश्वसृड् भवेत् ।
नकुलीशस्तृतीये सावित्री चतुर्थके मता ॥७४॥ रुद्रमूर्तिः पञ्चमे च षष्ठे स्वामी तु कार्तिकः ।
ब्रह्मा तु सप्तमे वासुदेवोऽष्टमे तु मण्डले ॥७५॥ जनार्दनस्तु नवमे दशमे विश्वदेवताः ।
अग्निरेकादशे चापि द्वादशे भास्करस्तथा ॥७६ ॥ दुर्गा त्रयोदशे चतुर्दशे विघ्नेश आदृतः ।
नवग्रहाः पञ्चदशे षोडशे मातृदेवताः ॥७७॥ सप्तदशे गणाश्चापि भैरवोऽष्टादशे मतः ।
क्षेत्रपाला नवदशे यक्षराजस्तु विंशके ॥७८॥ हनुमानेकविंशे च भगो द्वाविंशके तथा।
त्रयोविंशेऽपरदेवाश्चतुर्विंशे तु दैत्यकः ॥७९॥ पञ्चविंशे राक्षसश्च षड्विंशे तु पिशाचकः ।
सप्तविंशे भूतवर्गोऽष्टाविंशे रिक्तमेव च ॥2.138.८० ॥ तत्तत्पत्नीभृत्यदासीकुटुम्बभक्तसेविताः ।
यथायोग्यं स्थापनीया देवा स्वस्वालये सदा ॥८ १ ॥ गजासनं च वा सिंहासनं हंसासनं तथा ।
विमानं मुक्तधार्यं वा सछत्रं चोत्तमोत्तमाम् ॥८२॥ शैवलिङ्गं यादृशं तु तादृशं योनिकासनम् ।
योनिस्त्वष्टादशभागा कर्तव्योच्छ्रयमानतः ॥८३ ॥ कणः स्यात् सार्धभागेन पट्टिका चार्धभागिका ।
द्वितीया पट्टिका तुल्या स्कन्धस्त्रिभागकः स्मृतः ॥८४॥ अर्धभागा पट्टिकान्या चान्तरपत्रं तु सार्धके ।
अर्धभागा पट्टिकान्या द्विभागः कर्णकस्तथा ॥८५॥ अर्धभागा पट्टिकान्या सार्धभागं तु पत्रकम् ।
अर्धभागा पट्टिकान्या त्रिभागः स्कन्ध एव च ॥८६॥ पट्टिकाद्वयमेवापि त्वर्धद्वयप्रभागके ।
सार्धभागः कर्णकश्च ततो लिङ्गस्य दर्शनम् ॥८७॥ यद्द्रव्यं तु भवेल्लिङ्गं तद्द्रव्या योनिका मता ।
चतुरस्रा वर्तुला समेखला बहुकोणिका ॥८८॥ लिङ्गस्थौल्यं मापनीयं सूत्रेण परिधिर्हि सः ।
सूत्रायतायतं कार्यं पीठं वै विस्तृतं तु तत् ॥८९॥ सूत्रं भागत्रयं कार्यं द्विभागे योनिका मता ।
भागैके शिवलिङ्गं चोच्छ्रये बोध्यं सदा बुधैः ॥2.138.९० ॥ लिङ्गात् प्रणालं सूत्रेण प्रमीतं निर्गमे मतम् ।
सूत्रदीर्घं द्वयमेव योनिलिङ्गं तु नाधिकम् ॥९१ ॥ अपूर्णअपूर्णशिरसोर्ध्वाद्वै लिङ्गप्रवेश इष्यते ।
कोष्ठलाद्वा प्रपूर्णाद्वै लिङ्गप्रवेश ऊर्ध्वतः ॥९२॥ प्रणालं चोत्तरे वामे गुप्तं चण्डमुखे पतेत् ।
बहुदेवेषु प्रणालं जगत्यां वै चतुर्दिशि ॥९३॥ षड्भागा द्वारशाखायाः कार्या वै पञ्चमे शुभे ।
लक्ष्मीनारायणादीनां दृष्टिः कार्या शुभा सदा ॥९४॥ तृतीयांशे शिवमूर्तेः श्रीशेषशायिनोऽपि च ।
अष्टभागां द्वारशाखां विभज्यैकं तथाऽष्टकैः ॥९५॥ चतुःषष्टिर्भवत्येवं भागानां तत्र सर्वथा ।
एकीभागे देवदृष्टिर्न तु युग्मे विनिर्णयः ॥९६॥ एकी द्वात्रिंशदंशेषु देवदृष्टिर्विधीयते ।
युग्मांशा देवदृष्ट्यर्थं निषिद्धा एव हानिदाः ॥९७॥ दृष्टिदोषविपाकेन स्थाननाशो धनक्षयः ।
दृष्टिदोषहतं यद्यन्न पुनश्च प्ररोहति ॥९८॥ ऊर्ध्वदृष्ट्या द्रव्यनाशो भोगहानिरधःस्थया ।
समदृष्टिः सुखदाऽस्ति सर्वकाले यथायथम् ॥९९॥ चतुःषष्टिप्रभागेषु प्रथमे त्वादितत्त्वकम् ।
सृष्टिस्तृतीये तत्त्वं च पञ्चमेष्टिस्तु सप्तमे ॥2.138.१० ०॥ आयुस्तु नवमे चैकादशे लक्षं मतं तथा ।
विज्ञं त्रयोदशे पञ्चदशे प्राज्ञं मतं तथा ॥१०१ ॥ शान्तितत्त्वं सप्तदशेऽव्यक्तं नवदशे तथा ।
व्यक्ताऽव्यक्तं त्वेकविंशे त्रयोविंशे तु व्यक्तकम् ॥१ ०२॥ पञ्चविंशे शेषनागः सप्तविंशे शयी हरिः ।
नवविंशे तु गरुडस्त्वेकत्रिंशे तु मातरः ॥१ ०३॥ त्रयस्त्रिंशे कुबेरश्च पञ्चत्रिंशे वराहकः ।
सप्तत्रिंशे ह्युमारुद्रौ नवत्रिंशे तु बुद्धकः ॥१ ०४॥ एकचत्वारिंशकेऽजस्त्रिचत्वारिंशके ततः ।
दुर्वासा नारदोऽगस्त्यस्त्रयस्तेऽन्ये महर्षयः ॥१ ०५॥ पञ्चचत्वारिंशके श्रीलक्ष्मीनारायणादयः ।
सप्तचत्वारिंशके च धाता ततोऽथ देवता ॥१०६ ॥ नवचत्वारिंशके च शारदा च गणेशकः ।
एकपञ्चाशदङ्के च ब्रह्मा पद्मासने स्थितः ॥१ ०७॥ त्रिपञ्चाशत्तमे सिद्धिर्हरसिद्धिस्तथाऽपराः ।
पञ्चपञ्चाशत्तमेऽजो विष्णुः सूर्यो विरागिणः ॥१ ०८॥ सप्तपञ्चाशत्तमे तु शुक्राचार्यः परे यथा ।
नवपञ्चाशत्तमे चण्डिका चान्याश्च देविकाः ॥१ ०९॥ एकषष्टितमे देवा भैरवाद्याः प्रकीर्तिताः ।
त्रिषष्ट्यां वेतालकाद्यास्तत्परं शून्यमेव तु ॥2.138.११ ०॥ अर्चायाः पादयोः कट्यां वा दृष्टिर्वाहनस्य तु ।
एवं स्थानप्रतिष्ठानात् पुरुषार्थचतुष्टयम् ॥१११ ॥ वैपरीत्ये विपरीतं फलं वै राधिके! भवेत् ।
क्षयकृत् श्रीहरिं प्राह देवायतनकं मुनिम् ॥११ २॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपेमण्डपघूम्मटसिंहासनतद्देवादितत्तदंशप्रमापणादिनिरूपणनामाऽष्टत्रिंशदधिकशततमोऽध्यायः ॥१३८ ॥