१३७

श्रीकृष्ण उवाच-
ततो नारायणः प्राह देवायतनकं मुनिम् ।
शृणु त्वं राधिके! मण्डोवरादिकं यथायथम् ॥१ ॥ प्रासादस्य कर्णरेखोपरि मण्डोवरः स्मृतः ।
मण्डोवर उदयिनी उभिणीति समार्थकाः ॥२ ॥ हस्तादिपञ्चहस्तस्य प्रासादस्योदयः खलु ।
प्रासादाऽऽयतता साम्या कर्तव्या शुभदा हि सा ॥३ ॥ दशहस्तप्रपर्यन्तं चतुर्दशांऽगुलोच्छ्रयः ।
प्रतिहस्तं प्रकर्तव्यस्ततस्त्रिंशद्गजावधिम् ॥४ ॥ द्वादशाङ्गुलको मण्डोवरः कार्यस्ततः परम् ।
पञ्चाशद्गजपर्यन्तं नवाङ्गुलोभिणीं मता ॥५ ॥ मण्डोवरस्य भागास्तु कर्तव्याः शिल्पिना यथा ।
चतुश्चत्वारिंशदधिकशतं मण्डवारकः ॥६ ॥ पीठस्य मस्तकाच्छज्जामस्तकान्तं च ते मताः ।
खुरकः पञ्चभागेषु विंशतिः कुम्भकस्तथा ॥७ ॥ अष्टभागेषु कलशोऽन्तरालं सार्धकद्वयम्।
कपोतिकाऽष्टभागेषु मञ्चिका नवभागिका ॥८ ॥ पञ्चत्रिंशद्भागजङ्घा पञ्चदशसु तूद्गमः ।
अष्टभागा च भरणी शिरावट्टी दशांशिका ॥९ ॥ कपोतालिश्चाष्टभागा सार्धद्वयाऽन्तरालकम् ।
छाद्यं त्रयोदशभागं दशभागश्च निर्गमः ॥2.137.१० ॥ खुरकः पञ्चभागोर्ध्वो द्विभागस्तस्य निर्गमः ।
भागार्धं चान्तरपत्रं कर्णकस्तु द्विभागकः ॥११ ॥ वापीस्कन्धः सार्धभागो भागैकः कणकोत्तमः ।
कणकाग्रं पट्टिकाभ्यां शोभनीयं सुदर्शनम् ॥१ २॥ पट्टिके निर्गमे भागैके च बोध्ये नचाऽधिके ।
कणको निर्गमे सपादैकभागो भवेदिति ॥१३ ॥ कुम्भकस्य महापङ्क्तावपस्कन्धस्य निर्गमः ।
कर्णकावधि कर्तव्यस्त्वथ वै कुम्भकं शृणु ॥१४॥ विंशतिभागकोत्सेधः कुम्भकस्तत्र खण्डशः ।
भागार्धः स्कन्धपट्टो वै चिप्पिका त्वेकभागतः ॥१५॥ स्कन्धपट्टः सुललितो वर्तुलश्चित्रपल्लवः ।
कर्तव्यः शोभनो यत्र दृश्यं वै सुन्दरं भवेत् ॥१६॥ चिप्पिकां कमलैः पत्रैः शोभनीयां विधापयेत् ।
प्राच्यमध्यावसानेषु कुम्भे ब्रह्मा हरिर्हरः ॥१७॥ प्रतिमाः रूपतः स्थाप्या दर्शनार्हाः सहेतयः ।
त्रिसन्ध्याभद्रशोभां च चित्राणि विविधानि च ॥१८॥ स्कन्धपट्टे प्रकुर्याद्वै यथादृश्यं मनोहरम् ।
नासिकाः कर्णनाम्न्यस्तु प्रतिरथिकाया दले ॥१ ९॥ कोणेष्वेव मध्यगर्भे कार्याः सप्रतिमाः शुभाः ।
स्तम्भिकासु प्रकर्तव्यं तोरणं पद्मपत्रवत् ॥2.137.२०॥ तथा कमलदण्डाद्यैः शोभितं सुस्वरूपवत् ।
विचित्राकाररूपोऽयं कुम्भकः श्रेष्ठको मतः ॥२ १ ॥ कुम्भोर्ध्वे कलशः कार्यश्चाष्टभागः सुशोभनः ।
षड्भागो मध्यभागोऽस्य कर्तव्यो वै सुशोभितः ॥२२॥ वृत्तरूपः प्रकर्तव्यस्तस्योर्ध्वे चिप्पिका शुभा ।
एकभागे प्रकर्तव्या पट्टबन्धऽपि शोभनः ॥२३ ॥ रत्नयुक्तः प्रकर्तव्यस्तथा सार्धद्वयांऽशके ।
अन्तरालं प्रकर्तव्यं दिव्यपुष्पादिशोभितम् ॥२४॥ अथाऽष्टभागिका कार्या कपोताली शुभावहा ।
भागार्धा स्कन्धपट्टी च स्कन्धः सपादकद्वयः ॥२५ ॥ मुखपट्टी पादभागे द्विभागे कर्णपट्टिका ।
स्कन्धस्यनिर्गमः सार्धभागद्वयात्मकः शुभः ॥२६ ॥ भागार्धः स्कन्धपट्टश्च कर्तव्यो गलतायुतः ।
मुखपट्टी च कर्तव्या तदधोऽग्रे गगारकाः ॥२७॥ सन्मुखौ चतुरङ्गुलाः सदृशाः शोभना मताः ।
ऊर्ध्वस्कन्धस्तु कर्तव्यो दलगर्भनिकासवान् ॥२८॥ कपोताल्यङ्गगर्भोर्ध्वे कर्तव्या तु ठगारिका ।
कपोताल्युपरि कार्या मञ्चिका नवभागिका ॥२९॥ सपादभागं चान्तरपत्रकं च ततः परम् ।
कामरूपं च पादोनं पट्टिका पादभागिका ॥2.137.३ ०॥ स्कन्धो द्विभागः पादे च मुखपट्टी ततः परम् ।
सपादाः कर्णकस्तद्वत् स्कन्धोऽपि च सपादकः ॥३ १ ॥ सपादान्तरपत्री च सार्धभागः कणस्तथा ।
निर्वाणट्टिका पादे कर्तव्या शोभना शुभा ॥३२॥ कपोताल्याः सूत्रदारै कर्तव्याश्च गगारकाः ।
जङ्घास्तम्भा निर्गमाढ्यास्तदधोवृत्तलुम्बिकाः ॥३३ ॥ तदूर्ध्वे जङ्घिकाः कार्याः पञ्चत्रिंशत्सुभागगाः ।
गोलस्तम्भीयुता नासाफलनासहिताः शुभाः ॥३४॥ सर्वासु मूलनासासु कार्याः स्तम्भीचतुष्किकाः ।
गजैः सिंहैर्गरुडैश्च मकरैर्हेसकैर्युताः ॥३५६॥ कर्णेषु त्वष्टदिक्पालाः पूर्वाक्रमात् प्रदक्षिणे ।
नृत्यन् रुद्रः पश्चभागेऽन्धकहन्ता स दक्षिणे ॥३६ ॥ चण्डनाशकरी दंष्ट्रानना देवी तथोत्तरे ।
प्रतिरथे सूत्रदेवास्तथा दिशाधिपा अपि ॥३७॥ मुनीन्द्रा वारिमार्गेषु कर्तव्यास्तपसि स्थिताः ।
गवाक्षकाश्च भद्रेषु कर्तव्या निर्गमान्विताः ॥३८॥ पञ्चारभणकैः स्तम्भैश्छाद्यैश्च तिलकैर्युताः ।
ब्रह्मविष्णुमहादेवैः सुशोभिताः सुदर्शनाः ॥३९॥ गवाक्षस्तम्भिकोर्ध्वेऽर्धगोलतोरणशोभिताः ।
जङ्घासु दम्पती वापि पत्रयूथानि वा तथा ॥2.137.४०॥ मञ्जर्यो वा तथा पर्य्यः कर्तव्याः शोभना यथा ।
भरणी चाष्टभागोच्छ्राऽधश्छन्दो गोलरूपवान् ॥४१ ॥ निर्गमा ग्रासपट्टी च भरणिस्कन्धिकावटी ।
वर्तुला सा न कर्तव्या निर्गमे समसद्दला॥४२॥ पादोनं कामरूपं च पादा स्यात् स्कन्धपट्टिका ।
चिप्पिका चार्धभागा च सपादं कणकं तथा ॥४३॥ पट्टिका चान्तरालं च पादं पादं स्मृतं सदा ।
द्विभागः स्कन्ध आकार्यो भागार्धं कर्णकोत्पलम् ॥४४॥ पट्टिका चान्तरालं च पादं पादं तथा मतम् ।
भागार्धश्च तथा स्कन्धो बर्त्नं पादोनभागकम् ॥४५॥ अन्तःपत्रं चार्धभागं कर्तव्यं कामनाप्रदम् ।
नासोपाङ्गेषु सर्वेषु कर्तव्याः पल्लवाः शुभाः ॥४६॥ अशोकपल्लवाश्चापि सर्वकामप्रदा हि ते ।
कणकेषु स्कन्धबन्धास्तमालपत्ररूपिणः ॥४७॥ कर्तव्याश्च भरण्यूर्ध्वे गोलभागे प्रलीनिनः ।
शिरावट्टिर्दशभागे कर्तव्या चोच्छ्रया शुभा ॥४८॥ तत्र त्रिभागे कर्तव्या भारपुत्तलिकाः शुभाः ।
पादोनस्तु भवेत् स्कन्धः पादोनः कर्णकस्तथा ॥४९॥ अन्तरा चार्धभागं तदन्तरे पट्टकस्तथा ।
वृत्ता शिरावटी पञ्चभागे कार्या सतन्त्रका ॥2.137.५०॥ मौक्तिकाऽलङ्कृतियुक्ता कर्तव्या हीरकान्विता ।
तदूर्ध्वे च कपोताली पादभागसुकल्पिता ॥५ १ ॥ सार्धद्विभागकं चान्तरालं कर्तव्यमेव तु ।
छाद्यं त्रयोदशभागे कर्तव्यं तत्र वै यथा ॥५२॥ अर्धभागा स्कन्धपट्टी त्रिभागः स्कन्ध एव च ।
अर्धभागा मुखपट्टी चतुर्भागः छजोदयः ॥५३॥ एकभागा दण्डिका चान्तरालं चतुरंशकम् ।
सपादभागः कणको द्विभागः स्कन्ध इत्यपि ॥५४॥ पादभागा स्कन्धपट्टी सर्वकामप्रपूरिका ।
कपोताल्पाश्छाद्यनिर्गमस्तु दशांशको मतः ॥५५॥ चतुर्भागो ह्यधः स्कन्धः सार्धैको मणिबन्धकः ।
अग्रेचिप्पी त्वर्धभागा सर्वकामप्रदा भवेत्॥५६ ॥ कामरूपं त्वेकभागं पादैकास्कन्धपट्टिका ।
चिप्पिका चापि भागार्धा पादैका मुखपट्टिका ॥५७॥ द्विभागः कणकश्चापि भागार्धो दण्डकस्तथा ।
मणिबन्धस्य वै स्थाने त्रिभागे सारिलम्बनम् ॥५८॥ निकारो दशभागश्च प्रवेशस्तु षडंशकः ।
वारिमार्ग३तु षड्भागः प्रवेशोऽपि षडंशकः ॥५९॥ भागस्य षोडशोंऽशस्तु पाणितारायतात्मकः ।
एवं स्थिते दृढः स्याद्वै प्रासादो दीर्घजीवनः ॥2.137.६ ०॥ कुम्भादयः स्थराः सर्वे निर्गमे समसूत्रिणः ।
पीठस्य निर्गमो बाह्ये तथैवाच्छादकस्य च ॥६१॥ कुम्भस्तरप्रमाणं च प्रासादाऽऽयतता तथा ।
बोद्धव्या मूलनासाभिर्यथायोग्या तु शिल्पिना ॥६२॥ त्रिपञ्चसप्तनवक उपाङ्गफालनोद्गमः ।
बहिरेव हि बोद्धव्यः शिल्पिना चारुकर्मणा ॥६३॥ कर्णं प्रतिरथं चैव कर्णिका चैव नन्दिका ।
उपरथं च भद्रं च सुभद्रं चेति निर्गमे ॥६४॥ यथा बहिर्मूलसीम्नो भवेत्तथा भवेदिति ।
सप्तनासाः प्रकर्तव्या भद्रार्धे वै षडंशके ॥६५॥ प्रथमा त्वष्टभागैश्च द्वितीयैका दशांशिका ।
तृतीयाऽप्यष्टभागा च प्रान्ते सार्धचतुष्टया ॥६६ ॥ भद्रार्धं स्याद्धि षड्भागं पूर्णं तु द्वादशांशकम् ।
वास्तुक्षेत्रं चाष्टकोणं कर्तव्यं देवतालये ॥६७॥ दृष्टिकानां स्तरे भित्तिः पादस्थूला मता सदा ।
पाषाणभित्तिका बोध्या षडंशाऽवधिकेति च ॥६८॥ काष्ठप्रासादभित्तिश्च सप्तमांऽशात्मिका मता ।
स्वर्णरूप्यादिभित्तिश्च माणिक्याद्या दशांशिका ॥६९॥ भ्रमणी चापि कर्तव्या प्रासादस्य दशांशतः ।
भ्रमणीमध्यकोणाद्या नेयाश्चोपरि तत्क्रमात् ॥2.137.७० ॥ पञ्चाशद्गजसौधे च भद्रवद् भ्रमणोर्ध्वना ।
मण्डपोऽपि भ्रमयुक्तः कर्तव्यः स्तम्भसन्धृतः ॥७१ ॥ दीपालयं प्रकर्तव्यं प्रासादे दक्षिणेंऽशके ।
प्रासादव्यासभागार्धा कर्तव्या कोलिका तथा ॥७२॥ तदूर्ध्वं शुकनासश्च कर्तव्यो वै सुशोभनः ।
द्वारं पूर्वे पश्चिमे चोत्तरे कार्यं न दक्षिणे ॥७३ ॥ गजप्रासादके द्वारं षोडशाङ्गुलमुच्छ्रितम् ।
चतुर्गजप्रपर्यन्तं प्रतिहस्तं तु षोडशम् ॥७४॥ अङ्गुलानां वर्धनीयं त्र्यङ्गुलं चाष्टहस्तके ।
पञ्चाशद्गजपर्यन्ते द्व्यङ्गुलं प्रतिहस्तकम् ॥७५॥ दैर्घ्याऽर्धेन पृथुत्वं च द्वारस्य शोभनं सदा ।
ऊर्ध्वतायाः षोडशांऽशोऽधिकोऽर्धे निहितो यदि ॥७६ ॥ श्रेष्ठं द्वारं भवेत् तद्धि सर्वसम्पत्सुखप्रदम् ।
विमानपुष्पजातीनां प्रासादे नागरं शुभम् ॥७७॥ नवशाखं प्रकर्तव्यं द्वारं वै वैष्णवं हि तत् ।
ध्वजायस्तु प्रदातव्यो द्वारं प्रासादसूत्रतः ॥७८॥ तलच्छन्दानुसारेण द्वारशाखा विभाजयेत् ।
नवाङ्गे नवशाखा वै कर्तव्यास्त्र्यंशके शुभाः ॥७९॥ आयदोषविशुद्ध्यर्थं ह्रस्ववृद्ध्यावपि मते ।
मध्यपेटे द्वारपालाः कर्तव्याः सुमनोहराः ॥2.137.८०॥ पार्श्वशाखास्वपि सूक्ष्मा वल्लयः शोभिता मताः ।
शाखोच्छ्रयचतुर्थांऽशे द्वारपालौ मतौ शुभौ ॥८१ ॥ वामे च यमुना दक्षे गङ्गा तथैव चोभये ।
गान्धर्व्यश्चाथ गन्धर्वाः कर्तव्या वाद्यसंयुताः ॥८२॥ गजाश्च गरुडाश्चापि हंसा अश्वाश्च पार्षदाः ।
देवा वा यत्र योग्याः स्युः कर्तव्या नवशाखके ॥८३॥ शाखायास्तत्र कर्तव्या भागा एकादशाऽऽयताः ।
रूपस्तम्भौ च द्वौ कार्यौ द्विभागौ कोणिकायुतौ ॥८४॥ पादोनद्वयभागेन निर्गमस्तत्र शोभनः ।
प्रथमा पत्रशाखा च गन्धर्वा च द्वितीयका ॥८५॥ रूपस्तम्भा तृतीया च खल्वशाखा चतुर्थिका ।
गन्धर्वा पञ्चमी चापि रूपस्तम्भश्च षष्ठकः ॥८६ ॥ सप्तमी रूपशाखा च खल्वशाखा तथाऽष्टमौ ।
नवमी सिंहशाखा च यथेष्टशोभनाऽथवा ॥८७॥ शाखापेटकविस्तारः प्रवेशायतपञ्चमः ।
स्थाप्यदेवस्य मूर्तिश्चोत्तरङ्गे शाखिदेवयुक् ॥८८॥ यद्वा गणेशको देवो देवाः सपरिवारकाः ।
देव्यो ब्रह्मप्रियाश्चापि कर्तव्या उत्तरङ्गके ॥८९॥ मूलकर्णस्य सूत्रेण कुम्भेनोदुम्बरं समम् ।
कर्तव्यं पञ्चरत्नानि निहितव्यान्यधस्स्तरे ॥2.137.९०॥ द्वाराऽऽयत्यतृतीयांऽशे मध्ये मन्दारिको मतः ।
अर्धचन्द्रसमाकारो मृणालपत्रसंयुतः ॥९१ ॥ मृणालाऽधो जाड्यकुम्भः कणाली कणपीठकः ।
मृणालस्य द्वयपार्श्वे कोणिका ग्रासयोर्मुखे ॥९२॥ उदुम्बरस्य पार्श्वे च शाखारूपतिलानि च ।
उदुम्बरोच्छ्रयः कार्यः कुम्भात् पादोनकः शुभः ॥९३॥ खुरकेण समो बोध्योऽर्धचन्द्रस्योच्छ्रयः सदा ।
यथा द्वाराऽऽयतलम्बो निर्गमे तु तदर्धकः ॥९४॥ भागद्वयाऽर्धचन्द्रे चाऽर्धार्धभागे गगारकौ ।
पार्श्वद्वये प्रकर्तव्यौ शोभनौ च सुरूपिणौ ॥९५॥ चन्द्रगगारयोर्मध्ये शङ्खः चम्पकवल्लियुक् ।
चन्द्रेऽपि कमलं कार्यं .शोभितं स्मृद्धिदं हि तत् ॥९६॥ इत्येवं राधिके! सर्वमान्तरागं तवोदितम् ।
देवायतनकं प्राह यच्छ्रीकृष्णनरायणः ॥९७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपे मण्डोवरकुम्भीछज्जुनासामण्डपद्वारोदुम्बरादिनिरूपणनामा सप्तत्रिंशदधिकशततमोऽध्यायः ॥१३७ ॥