१३४

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणः प्रभुः ।
त्रयोदश्यां प्रगे स्नात्वा समाजुहाव भूभृतम् ॥१ ॥ कालिमेशं महाराजं स तु राजा द्रुतं ययौ ।
हरिं नत्वा सुपूज्यैव निषसाद पुरो हरेः ॥२ ॥ भगवानाह सर्वेभ्यो भोजनान्तेऽद्य दक्षिणाम् ।
विदायाख्यां देहि राजन्नुत्सवस्य विसर्जने ॥३ ॥ इत्युक्तः स महाराजो रन्धयामास सत्वरम् ।
भोजनानि विविधान्याहारयामास सद्धनम् ॥४ ॥ हीरामाणिक्यरत्नानि स्वर्णरूप्यकमुद्रिकाः ।
भूषालङ्कारवस्त्राणि गा विमानानि वाहनम् ॥५ ॥ मध्याह्ने श्रीहरिं सर्वमहीमानेभ्य इत्यपि ।
दक्षिणा दापयामास भोजयामास तान् मुदा ॥६ ॥ भोजिता मुक्तमुक्तान्यो ब्रह्माक्षरविभूतयः ।
शक्तयः पार्षदा दासा दास्यो भृत्याश्च भूभृता ॥७ ॥ सेवकाश्चावताराश्चाऽवतारिण्यः सुभोजिताः ।
राधालक्ष्म्यादयः सर्वा वासुदेवादयस्तथा ॥८ ॥ भूमविष्णुमहाविष्णुवैराजशम्भुतद्गणाः ।
मायास्तत्पुरुषाश्चापि धामानि तन्निवासिनः ॥९ ॥ वैराजाः सत्यलोकीयाः ऋषयो मुनयस्तथा ।
सिद्धाश्च साधवश्चापि पितरः सुरदेवताः ॥2.134.१ ०॥ दिक्पाला लोकपालाश्च मेरुपर्वतवासिनः ।
भुवर्लोकस्थिताश्चापि मरुतो विश्वदेवताः ॥११ ॥ वसवश्चारणाः साध्या निधयो मानवा गणाः ।
गणेशा गणिकाश्चापि भूताः प्रेताश्च मातरः ॥१ २॥ दैत्यदानवरक्षांसि ह्यसुरा भक्तसृष्टयः ।
सूर्या रुद्रा ग्रहास्तारा नक्षत्राणि च काश्यपाः ॥१ ३॥ वृक्षा वल्ल्यस्तृणस्तम्बा वंशाः कन्दाः फलद्रुमाः ।
नदा नद्यः समुद्राश्च सरांसि निर्झरादयः ॥१४॥ वापीकूपतटाकानि खाताऽखातानि चाब्धयः ।
तीर्थानि पर्वताश्चापि वनान्युपवनानि च ॥१५॥ कीटाः पतङ्गाश्च सरीसृपाः पातालवासिनः ।
अन्येऽपि देशदेशीयास्तत्त्वान्यपि जडानि च ॥१६॥ यज्ञाश्च वह्नयश्चापि पात्राणि हव्यसद्द्रवाः ।
सर्वे मूर्ता हरेर्योगात् पूजिता भूभृता तदा ॥१७॥ तथा सर्वैः राजभिश्च पूजिता भोजितास्तथा ।
तोषिता दक्षिणाभिश्च क्षत्यादौ प्रक्षमापिताः ॥१८॥ दासवर्गाः कर्मचारा येऽभवन् यज्ञकर्मसु ।
भाट्टाश्च बन्दिनः सूता भाटाश्चारणगुह्यकाः ॥१९॥ गान्धर्वा नर्तका नाट्यकला नटाश्च गायकाः ।
नर्तक्यो गायिकाश्चापि देव्योऽप्सरोगणादयः ॥2.134.२०॥ पादसंवाहकाश्चापि भृत्याः सेवाकरास्तथा ।
सेवकाः क्षालकाश्चापि मार्जका हारका अपि ॥११ ॥ क्वणका मालिनश्चापि त्वष्टारस्तन्तुवायकाः ।
रजका राजकाश्चापि शिल्पिनः सुकलाविदः ॥२२॥ एवमन्ये दीपहारा वेत्रहारादयस्तथा ।
जयकारा वाहरक्षाः सौधोद्यानादिरक्षिणः ॥२३॥ गोपाला गृहपालाश्च वनारण्यप्रपालकाः ।
यानवाहनपालाश्च कोटिशोऽपि च मानवाः ॥२४॥ वारप्रियास्तथा वारा नपुंसकानि भण्डकाः ।
बहुरूपा रङ्गगामा हासकाः कथकास्तथा ॥२५॥ सभ्याः सभाकलाज्ञाश्च शृङ्गारहावभाविनः ।
प्रदर्शनकराश्चापि वह्निस्फोटकरास्तथा ॥२६॥ विद्युद्विज्ञा यन्त्रवाहा जलवाहादयस्तथा ।
दृश्यशिल्पास्तथा चान्ये ये के कर्मचरादयः ॥२७॥ नरा नार्यश्च सर्वे ते सर्वा राजभिरर्चिताः ।
तोषिता दक्षिणाभिश्च पारितोषिकवस्तुभिः ॥२८॥ वस्त्राम्बरधनाद्यैश्चालङ्कारोपकरादिभिः ।
द्रव्यैः सुवर्णकूप्यैश्च रत्नहारादिभिस्तथा ॥२९॥ भोजितास्तोषिताश्चाति प्रसादिताः पुनः पुनः ।
भिक्षुका दीनवर्गाश्चाऽनाथा दारिद्र्ययोगिनः ॥2.134.३ ०॥ नरा नार्यः सतीसाध्व्यः साधवो रागवर्जिताः ।
अनिकेतास्तापसाश्चातिथयो वनवासिनः ॥३ १ ॥ बहुजातीयजीवाश्च जातिस्मरा वियोनिजाः ।
एवमन्येऽप्यलसाश्च राजसास्तामसा अपि ॥३ २॥ सर्वे सन्तोषिताः सर्वप्रदानैरच्युताज्ञया ।
राजभिः सर्वदानैस्ते तोषितास्तत्र चोत्सवे ॥३३ ॥ अथ राधे! हरेः पूजां चक्रुस्तेऽप्यपराह्णके ।
विदायं चार्थयामासुर्हरिर्विदायकं ददौ ॥३४॥ नीराजयित्वा श्रीपतिं बालकृष्णं पुमुत्तमम् ।
कृतकृत्यान् मन्यमानाः प्राप्याऽऽज्ञां पारमेश्वरीम् ॥३५॥ प्रार्थयते क्षमां सेवाक्षतौ राज्ञे प्रदाय च ।
आशीर्वादान् विमानैः स्वैर्यानैः रथैश्च वाहनैः ॥३६॥ यथैश्वर्यं यथास्मृद्धिं यथागति ययुर्गृहान् ।
स्वस्वलोकान् क्षितेर्भागेर्वायुमार्गैर्विमानकैः ॥३७॥ गरुडैश्च गजैरश्वैर्हंसैः सिंहादिभिस्तथा ।
अनलैः किरणैश्चापि सङ्कल्पैः सिद्धिभिस्तथा ॥३८॥ समाधिना ययुश्चाप्यैश्वर्यकैः रूपलक्षकैः ।
अदृश्यभावनाभिश्च लीनैश्वर्यादिभिस्तथा ॥३९॥ सृज्यैश्वर्यैस्तथा चात्मतत्त्वभावैर्ययुर्गृहम् ।
एवं तत्र त्रयोदश्यां महीमानाः समस्ततः ॥2.134.४०॥ ययुर्लोकान्निजान्देशान् सौराष्ट्रमण्डलं विना ।
कोट्यर्बुदब्रह्मप्रियाकन्यकासहितो हरिः ॥४१ ॥ लोमशादिमुनिभिश्च तथाऽश्वपट्टतीर्थकैः ।
क्षेत्रपैरवताराद्यैः पितृभ्यां सहितस्तथा ॥४२॥ भक्तैर्दासैः कुटुम्बेन वैष्णवैः ऋषिभिः सह ।
साध्वीभिः साधुभिः साकं सर्वकन्याभिरित्यपि ॥४३॥ अक्षरक्षेत्रवासाभिः प्रजाभिः सात्त्वतैः सह ।
देवायनादिभिः साकं श्रीहरिः पूर्णिमावधिम् ॥४४॥ कालिमेशनृपसौधे समुवास कृपाकरः ।
कालिमेशकुटुम्बस्य श्रेयसे तोषणाय च ॥४५॥ सर्वराजकुटुम्बानि न्यूषुश्चाऽऽपूर्णिमावधिम् ।
अहं कृष्णस्तथा नारायणस्तस्येच्छया प्रभोः ॥४६॥ त्वया लक्ष्म्या युतौ चावां न्यूषिम पूर्णिमावधिम् ।
एवं वै राधिके कृत्वा प्राघूर्णिकविदायकम् ॥४७॥ रात्रौ विश्रान्तिमापन्नः साक्षाच्छ्रीपुरुषोत्तमः ।
चतुर्दश्यां प्रगे स्नात्वा समाहूय नृपान् हरिः ॥४८॥ उपादिदेश हार्दं स्वं सभ्येभ्यो नृपसंसदि ।
शृण्वन्तु वैष्णवाः सर्वे राजानस्तत्कुटुम्बिनः ॥४९॥ राजा धर्माश्रयश्चास्ति राजन्यहं वसामि च ।
दिक्पालानां शक्तयश्च निहिता वै नृपे मया ॥2.134.५०॥ राजाधीनप्रजाः सर्वाः पालयन्ति वृषान् शुभान् ।
अचौर्यम चाऽप्यहिंसां च ब्रह्मचर्यं नयं तथा ॥५ १ ॥ सत्यं प्रपालनं चापि मातापितृप्रसेवनम् ।
पत्यधीना तथा पत्नी पत्न्यधीनः पतिस्तथा ॥५२॥ स्वाम्यधीनास्तथा भृत्या भृत्याधीनश्च रक्षकः ।
राजभीत्या यथाचारे वर्तन्ते दण्डभीतितः ॥५३ ॥ तस्माद् राजा मम रूपो मम शासनवर्तनः ।
राज्ञा वै पाल्यते धर्मस्तथाऽर्थोऽपि प्रपाल्यते ॥५४॥ राजा प्रजानामर्थैश्च करोति क्रतुमुत्सवम् ।
अन्नसत्राणि देवानां मन्दिराण्यर्थराशिभिः ॥५५॥ भक्तिं करोति राजा च कारयत्यपि राष्ट्रके ।
तारयति प्रजाश्चापि यस्तु भागवतो भवेत् ॥५६॥ तस्माद् भवद्भिः क्षितिपैः पृथ्व्यां दूतैस्तु सर्वतः ।
कारणीया हरेर्भक्तेर्घोषणा पटहैरपि ॥५७॥ प्रजा भवन्तु च हरेर्भक्तिमत्यः सुदीक्षिताः ।
वैष्णव्यः सर्वथा कृष्णनारायणसमाश्रिताः ॥५८॥ यज्ञोपवीतं गृह्णन्तु वैष्णवं पावनं शुभम् ।
दीक्षां मन्त्रं हरेर्नाम गृह्णन्त्वपि प्रमोक्षदम् ॥५९॥ व्रतं कुर्वन्तु च हरेर्जन्माष्टम्यां शुभोर्जके ।
कृष्णे दलेऽतिभावेन चैकादश्या व्रतं तथा ॥2.134.६ ०॥ अत्र यज्ञदिनानां च कुर्वन्तु तीर्थयात्रिकाम् ।
नामसङ्कीर्तनं चापि प्रकुर्वन्तु दिवानिशम् ॥६ १ ॥ उत्सवान् विविधाँश्चपि वैष्णवैर्मिलितैः सह ।
कारयन्तु प्रजाश्चापि कथापारायणादिकम् ॥६२॥ चातुर्मास्ये प्रपूजादि कुर्वन्तु श्रीहरेस्तथा ।
इत्येवं घोषणां राज्ये कारयन्तु निजे निजे ॥६ ३ ॥ इत्यादिष्टास्तु राजानः पञ्चमुख्यास्तथाऽपरे ।
शिबिदेवनृपश्चापि थर्कूटस्थनृपस्तथा ॥६४॥ वीरजारमहाराजः शक्त्यक्षिनृपतिस्तथा ।
कालिमाशनृपश्चापि तथाऽन्ये खण्डभूभृतः ॥६५॥ आशां शिरसि चाधाय नेमुः श्रीपुरुषोत्तमम् ।
करिष्यामस्तथेत्युक्त्वोद्धोषणां दूतसत्तमैः ॥६६॥ कारयामासुरत्यर्थं स्वस्वराज्ये समन्ततः ।
भोजयामास च सर्वान् श्रीहरिर्निजमन्दिरे ॥६७॥ कालिमाशनृपोक्त्या वै प्रासादिकं तु नैकधा ।
सायं विमानमारुह्य लालायनमुनेर्गृहम् ॥६८॥ ययौ श्रीभगवान् पूर्वसमुद्रे द्वीपसंस्थितम् ।
प्रासादिकं च तत् कृत्वा त्वाययौ व्योममार्गतः ॥६९॥ कालिमाशनृपसौधं विश्रान्तिं प्राप वै निशि ।
लालायनमृषिं साधुं सच्चिदानन्दसञ्ज्ञितम् ॥2.134.७०॥ दीक्षितं श्रीहरिस्त्वाह व्रज त्वं चोत्तरान् कुरून् ।
तव द्वीपात्पूर्वदेशान् केनाटद्वीपसंयुतान् ॥७१ ॥ अमरीणां प्रदेशाँश्च मम भक्तिं प्रकारय ।
इत्यादतो यतिः सोऽपि ययौ केनाटकान् कुरून् ॥७२॥ व्योममार्गेण योगेन बहुशक्तिसमन्वितः ।
अथ रात्रौ हरिः प्राप विश्रान्तिं च ततः पुनः ॥७३॥ पूर्णायां प्रातरुत्थाय स्नात्वा ध्यानपरोऽभवत् ।
तावत् तत्राऽभवद् राधे महाश्चर्यं हरेः पुरः ॥७४॥ विमानं त्वक्षराद्धाम्नो मुक्तयुक्तं समुज्ज्वलम् ।
आयातं द्राक् स्थिरं तस्थौ श्रीहरेः सन्निधौ ततः ॥७५॥ पार्षदास्तद्विमानाच्चाऽवतीर्य पुरुषोत्तमम् ।
राधिके! पूजयामासुः प्राहुर्भक्तिपरायणाः ॥७६॥ शूरजारस्य मुक्त्यर्थं तथा तस्य तु योषितः ।
देववरूथिनीनाम्न्या मोक्षार्थं भवदाज्ञया ॥७७॥ यथा प्रतिश्रुतं तद्वत् स्मृत्वा समागता वयम् ।
आज्ञापय यथा कृष्ण तथा स्मः सेवने रताः ॥७८॥ श्रीहरिं श्रावयामास तत्सर्वं भूभृते तदा ।
सम्प्रयुज्याऽऽशिषो राज्ञे कालिमेशाय शक्तये ॥७९॥ वीरजारेण सहितः शूरजारादिसंयुतः ।
श्रीहरिवीरजारस्य राज्यं चोबीनदीतटे ॥2.134.८०॥ आययौ सुविमानेन निजमण्डलसेवितः ।
शूरजारं तथा देववरूथिनीं तदा हरिः ॥८ १ ॥ प्रापयन्मोक्षकं दिव्यं त्वक्षरं धाम शाश्वतम् ।
अथ श्रीभगवाँस्तूर्ण बालकृष्णसरोवरम् ॥८२॥ आययौ तद्विमानेन शिबिराजालये पुनः ।
थर्कूटस्थो हरेराज्ञां प्राप्य राज्यं निजं ययौ ॥८३॥ अथाश्चर्यमभूत्तत्र कन्याः षोडश चाययुः ।
दिव्यरूपधराः सर्वास्त्रिशूलिन्यस्त्रिनेत्रिकाः ॥८४॥ तथा कुमाराश्चत्वारस्तेऽपि त्रिशूलनेत्रिकाः ।
दिव्या योगकलायुक्ता महैश्वर्यादिशालिनः ॥८५॥ अथाऽन्ये पुरुषा दिव्याः श्वेतास्त्रिशूलनेत्रकाः ।
चत्वारश्चञ्चला दीर्घाः स्थूलास्तत्र समाययुः ॥८६॥ पञ्चाऽपरे च पुरुषाः कृष्णवर्णास्त्रिशूलिनः ।
त्रिनेत्रा दिव्यरूपाश्च दीर्घाः कृशाः समाययुः ॥८७॥ एकः कश्चिद् दुर्बलश्च निःशस्त्रोऽपि समाययौ ।
रूक्षवर्णोऽपि सुखवान् निश्चिन्तश्चञ्चलोऽपि सन् ॥८८॥ एवमेते समागत्य त्रिंशत्ते हरिसन्निधौ ।
निपेतुर्दण्डवत् कृष्णपादयोर्भक्तिसंयुताः ॥८९॥ धन्या वयं वयं धन्या उद्धृताः परमात्मना ।
इत्युक्त्वा बहुरत्नाद्यैः पुपूजुः परमेश्वरम् ॥2.134.९० ॥ आरार्त्रिकादिकं चक्रुः सत्कृताः शिबिना तु ते ।
निषेदुश्चाथ सम्पृष्टाः के यूयं देवरूपिणः ॥९ १ ॥ जगदुस्ते वयं रुद्रसृष्टाः पुरा तदात्मजाः ।
रुद्रसृष्टेर्विनाशेऽत्र प्रच्छन्ना वासकारिणः ॥९२॥ सदा वर्तामहे त्वद्य पाविताः परमात्मना ।
देहि मन्त्रान् वैष्णवाँश्च कुरु श्रीपरमेश्वर ॥९३॥ इत्येवं त्वर्थितः कृष्णनारायणो ददौ मनून् ।
तत्र याः कन्यकास्त्वासन् रोद्र्यः पुत्र्यस्तु ता यथा ॥९४॥ उरुला बालिका इरात्रिशा ओबी च मानिशी ।
बीना त्रिबला त्रासा च तुङ्गासिका अनावरा ॥९५॥ आलनौका उष्ट्रीयास्का याना अनादिरा तथा ।
अनांशुका कालिमा च वैष्णव्यस्तास्तदाऽभवन् ॥९६॥ कुमाराश्चापि चत्वारो नाम्ना तान् शृणु राधिके! ।
बालकृशो द्विकलश्च अल्पमात्रो युरालकः ॥९७॥ तेऽपि मन्त्राँस्तदा प्राप्य वैष्णवाश्चाऽभवन् शुभाः ।
अन्ये दीर्घाश्च पुरुषा नाम्ना तान् शृणु राधिके ॥९८॥ अक्षोढा कारकश्चापि कश्यपायो द्विरिङ्गकः ।
तेऽपि मन्त्रान् जगृहुश्च वैष्णवाश्चाऽभवँस्तदा ॥९९॥ अन्ये च पञ्च पुरुषा नाम्ना तान् शृणु राधिके! ।
ऊरुलश्च समानश्च स्तेनावासः प्रभालुनः ॥2.134.१० ०॥ आपतायी त ऐवापि जगृहुर्वैष्णवान् मनून् ।
वैष्णवाश्चाऽभवँश्चाऽथ यश्चैको दुर्बलो जनः ॥१०१ ॥ नाम्ना शिवरणश्चाऽयं जग्राह च मनूँस्तदा ।
वैष्णवाः समजायन्त सर्वे श्रीहरिसेवकाः ॥१ ०२॥ आज्ञां गृहीत्वा कन्यास्ता नदीरूपा ययुः स्थलम् ।
चत्वारस्तु कुमारा वै सरोरूपा ययुश्च ते ॥१ ०३॥ चत्वारश्चापि पुरुषाश्चाब्धिरूपा ययुश्च ते ।
पञ्चापि पुरुषाश्चैते शैलरूपा ययुश्च ते ॥१ ०४॥ एको रूक्षो दुर्बलश्च रणरूपो ययौ ततः ।
तीर्थरूपा न्यवसँश्च तारका देहिनां सदा ॥१ ०५॥ शिबिदेवकुटुम्बं तद् दृष्ट्वाऽऽश्चर्यपरं ह्यभूत्॥ पठनाच्छ्रवणाच्चास्य तत्तत्तीर्थफलं भवेत् ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीसंहितायां द्वितीये त्रेतासन्ताने सर्वेषां महीमानानां विदायसत्कारः, वैष्णवीघोषणा, सच्चिदानन्दलालायनस्योत्तरकुरून् प्रति प्रेषणं,
शूरजारदम्पतीमोक्षः, त्रिंशद्रौद्रीरौद्रात्मजानां वैष्ण्वीभवनम्, तानि तीर्थानि चेत्यादिनिरूपणनामा चतुस्त्रिंशदधिकशततमोऽध्यायः ॥१३४ ॥