१३१

श्रीकृष्ण उवाच-
शृणु त्वं राधिके कृष्णनारायणो भुवःपतिम् ।
शक्त्यक्षिनामकं प्राह तृतीयायां प्रगे हितम् ॥१ ॥ यज्ञस्त्वया कृतः सम्यक् तोषिताः सर्वदेहिनः ।
तुष्टोऽहं श्रीहरिः साक्षात् तोषणीयं न शिष्यते ॥२ ॥ सन्तुष्टे श्रीहरौ कृष्णे तुष्टा भवन्ति देहिनः ।
सर्वान्तरात्मा भगवान् सन्तुष्यामि हृदि स्थितः ॥३ ॥ वद ते वाञ्च्छितं चात्र ददामि चोत्तमोत्तमम् ।
भक्त्या तेऽस्मि प्रसन्नोऽहं ददामि मनसेप्सितम् ॥४ ॥ इत्युक्तो भूपतिः प्राह सदाऽत्र मन्दिरे वस ।
कारयेऽहं सुवर्णानां मन्दिरं कानकं शुभम् ॥५ ॥ तत्र त्वं प्रतिमाप्रख्यो वस मे श्रेयसे सदा ।
हरिः प्राह तथाऽस्त्वेवं निवत्स्ये मन्दिरे तव ॥६ ॥ मूर्तिं मे रमणीयां वै तत्र स्थापय कानकीम् ।
राधालक्ष्मीरमाब्रह्मविद्याश्रीमाणिकीयुताम् ॥७ ॥ वासं कुर्वन् सदा मूर्तौ ग्रहिष्ये सेवनादिकम् ।
साक्षाद् यथा तथा तत्र तव स्नेहपरायणः ॥८ ॥ यथा वर्ते सदा हृत्सु जनानामन्तरात्मकः ।
तथा मूर्तौ चान्तरात्मा निवत्स्ये गोचरो यथा ॥९ ॥ यथाऽक्षरे महाक्षेत्रे धाम्नि चाऽक्षरसञ्ज्ञके ।
यथा कुङ्कुमवाप्यां च भविष्याम्यत्र गोचरः ॥2.131.१ ०॥ मूर्तिर्मेऽन्तर्यामिणो या सा दिव्या सेवनार्थिका ।
भक्तेच्छाधीनसामर्थ्या श्रेयसे जगतां मता ॥१ १॥ युगेऽत्र प्रथमे मूर्तिं सप्ततालसमोच्छ्रयाम् ।
यथा वै मानवा दीर्घास्तथा मे त्वं प्रकारय ॥१२॥ युगान्तरेषु कालेषु यथा ह्रासो हि देहिनाम् ।
तथा तन्मानसारेण मूर्तिर्मे तेषु सम्मता ॥१३ ॥ यथा वै पूजने याने विहारे रथवाहने ।
सुसृप्या स्यात्तथा कार्या नरमानान्न चाऽधिका ॥१४॥ नैकं मानं मनुष्याणां कालभेदेन सम्भवेत् ।
सप्तवितस्तिकायः स्वः स्वस्यैवेति विनिर्णयः ॥१५॥ यथा दीर्घो भवेद् देहस्तथा दीर्घो भवेद् भुजः ।
भुजवत्तस्य वै दीर्घा भवन्त्यङ्गुलिकास्तदा ॥१६ ॥ अङ्गुलोऽपि तथा दीर्घस्तत्तद्देहानुसारतः ।
बाल्ये बाल्याङ्गुलो ह्रस्वो यौवने यौवनादिवत् ॥१७॥ अस्म्यहं चाऽद्य ते गेहे ममाङ्गुलैः प्रमापितः ।
सार्धपञ्चषष्टिभिर्वै ऊर्ध्वमानः सुरूपवान् ॥१८॥ स्वर्णचम्पकशुक्लाभस्तथाऽऽजानुकराऽन्वितः ।
आकर्णान्ताऽऽयतनेत्रकोणवक्रभ्रुवान्वितः ॥१ ९॥ सुकुन्दकलिकातुल्यदन्तपङ्क्तिविराजितः ।
विशालभालतिलकः पुष्टिसम्भृतविग्रहः ॥2.131.२० ॥ विशालोन्नतवक्षाश्च पुष्टसक्थ्यादशोभितः ।
तथा मूर्तिर्मम राजन् कारणीया त्वया शुभा ॥२१ ॥ मम पार्श्वे तु वै दक्षे लक्ष्मीः ब्रह्मविद्या रमा ।
लक्ष्मीः षष्ट्यङ्गुला सप्तपञ्चाशत् ब्रह्मविद्यिका ॥२२॥ रमाततस्तृतीया वै चतुष्पञ्चाशदङ्गुला ।
प्रेज्ज्वलाः स्वर्णवर्णाभाः सर्वाः षोडशहायनाः ॥२३ ॥ अथ वामे मम पार्श्वे राधा माणिकी श्रीस्तथा ।
राधा षष्ट्यङ्गुला सप्तपञ्चाशन्माणिकी मता ॥२४॥ श्रीस्तृतीया सुशोभाढ्या चतुष्पञ्चाशदङ्गुला ।
ममाङ्गुलैस्ता मापनीयाः कर्तव्याश्चन्द्रशोभिताः ॥२५॥ सुरूपाः कृशकट्यश्च पूजापात्रादिहस्तकाः ।
प्रोज्ज्वलाः स्वर्णवर्णाभाः सर्वाः षोडशहायनाः ॥२६॥ सर्वसौभाग्यशोभाढ्याः सर्वाङ्गपरिपूर्णिकाः ।
पुष्टाः प्रसन्नवदना द्रवभूषाविभूषिताः ॥२७॥ चतुर्भुजोऽहं मध्ये च स्थापनीयस्त्वया हरिः ।
शङ्खचक्रगदापद्मश्रीवत्सकौस्तुभान्वितः ॥२८॥ राजचिह्नधरो रम्यो युवाऽष्टादशहायनः ।
सर्वचिह्नाङ्गसम्पूर्णः कारणीयो न चाऽन्यथा ॥२९॥ इत्येवं मां प्रतिष्ठाप्य कुरु मे मध्यमन्दिरे ।
पूजनं नित्यदा राजन्नथ दक्षे तु मन्दिरे ॥2.131.३ ०॥ बालकृष्णं घनश्यामं द्वादशवर्षशोभनम् ।
प्रतिष्ठापय मे पित्रा मात्रा च सहितं तु माम् ॥३ १ ॥ श्रीमद्गोपालकृष्णोऽयं पिता मेऽत्र विराजते ।
माता मे कम्भरालक्ष्मीर्विराजतेऽत्र लोकय ॥३२॥ तथा शिल्पकलाद्वारा मूर्तित्रयं प्रकारय ।
अथ वामे मन्दिरे मे शय्यां कारय शोभनाम् ॥३३ ॥ स्वर्णगेन्दुकशोभाढ्यां सर्वोपकरणान्विताम् ।
हस्तिगरुडौ कारय मध्यमन्दिरसन्निधौ ॥३४॥ अग्रगोलसुसौधे वै मध्ये स्थापय तौ तथा ।
चत्वरे छत्रिकामध्ये मम वै चरणौ शुभौ ॥३५॥ प्रतिष्ठापय राजेन्द्र गोपुरे मम पार्षदम् ।
देवायतनभक्तं च भक्तं रणङ्गमाभिधम् ॥३६॥ सर्वशस्त्रयुतौ तौ च प्रकारय शुभोत्तमौ ।
हेमन्तं च वसन्तं च द्वारपालौ विधापय ॥३७॥ स्वप्रकाशं द्युप्रकाशं सेवकौ च प्रकारय ।
मन्दिराग्रसुखण्डेषु विजयध्वनिकारकान् ॥३८॥ सन्तोषां भगवन्तं च शुकं च वल्लभं तथा ।
पार्श्वखण्डे समस्थापयार्घपात्रयुतान् शुभान् ॥३९॥ राशयो द्वादशैवाऽपि मन्दिरोपरि कारय ।
ऋषिमूर्तिप्रतिमास्ते तापसा वैष्णवाः शुभाः ॥2.131.४० ॥ ब्रह्मप्रियाणां मुख्यानां चत्वारिंशत्तथा शतम् ।
सर्वासां मम पत्नीनां नराणां च पृथक् पृथक् ॥४१ ॥ रासरूपेण मध्योर्ध्वे गोलसौधे प्रकारय ।
वादित्राणि समादाय मण्डलं मध्यगं कुरु ॥४२॥ शिल्पिनां विद्यया वापि चैत्राणां विद्ययाऽपि वा ।
मध्येऽहं पार्श्वतः पत्नीचतुर्विंशतिद्विशतम् ॥४३॥ एवं राजन् सदा सौम्यं प्रकारय प्रसेवनम् ।
तत्राऽहं गोचरस्तेऽत्र निवत्स्यामि न संशयः ॥४४॥ अथ राजाऽह कृष्णं तं दिव्यदर्शनकाङ्क्षया ।
दिव्यं ते दर्शनं देहि प्रासादे स्थापितस्य वै ॥४५॥ षट्पत्नीसहितं रम्यं तथा दृष्ट्वा करोमि हि ।
पितृमूर्तींस्तथा रासं दृष्ट्वा शय्यां करोम्यपि ॥४६॥ इत्युक्तो भगवान् कृष्णनारायणो हि राधिके ।
द्रागेव दर्शयामास प्रतिमा मन्दिराणि च ॥४७॥ अनेककोटिसूर्याभस्तेजो व्याप्तसुमूर्तिकः ।
भगवान् षोडशवर्षपत्नीभिः सहितः शुभः ॥४८॥ दर्शयित्वा स्वरूपाणि दिव्यधामगतानि वै ।
राजानं तोषयामास कुटुम्बं नृपतेस्तथा ॥४९॥ नृपकन्याः षष्टिसङ्ख्यास्तथा शतकुमारकाः ।
राज्ञी च मुमुहुर्दृष्ट्वा प्रत्यक्षं पुरुषोत्तमम् ॥2.131.५०॥ राजा विज्ञाय कन्यानां मानसानि हरौ तदा ।
आकृष्टानि पतिप्राप्त्यै राज्ञी विज्ञाय तत्तथा ॥५ १ ॥ ददौ श्रीहरये कन्याः षष्टिरेव कुमारिकाः ।
ताः सर्वाः कृतकृत्या वै जाताः प्राप्य हरिं पतिम् ॥५२॥ जामातारं हरिं प्राप्य राजा राज्ञी मुदं गतौ ।
मेनाते कृतकृत्यौ च विशेषेण तदा पुनः ॥५३ ॥ पूजनं श्रीहरेश्चक्रुः कन्यकाः प्रेमविह्वलाः ।
वरमाला हरेः कण्ठे त्वर्पयामासुरुत्सुकाः ॥५४॥ भोजनाद्यैर्हरिं तत्र सेवयामासुरादरात् ।
राजाऽपि यौतकं दिव्यं ददावतर्कितं बहु ॥५५॥ दिव्यरत्नादिहारोश्च कोट्यर्बुदादिसङ्ख्यकान् ।
दिव्यदासीर्ददौ चापि षष्टिसङ्ख्यास्तथोत्तमाः ॥५६॥ चतुर्दन्ता गजाः श्वेता राज्ञा समर्पितास्तदा ।
विमानं बहुवेगं च दिव्यं सहस्रमानवैः ॥५७॥ अधिष्ठेयं ददौ दाने कन्याविहारहेतवे ।
श्रीहरिश्चैवमासाद्य दानं सुखं न्युवास ह ॥५८॥ चतुर्थीं तत्र कृत्वैव सायं प्राह नराधिपम् ।
सायं पञ्चमयज्ञार्थं गन्तव्यं कालिमाक्षितौ ॥५९॥ आगच्छ सकुटुम्बस्त्वं यज्ञे साकं मया नृप ।
इत्युक्तो भूपतिः सज्जो बभूव मेयभृत्यकः ॥2.131.६ ०॥ जलपानं हरिश्चक्रे तावत्तत्र समाययौ ।
पिशाच्येका शतभृत्यासहिता दुर्दशां गता ॥६ १ ॥ रुरोद बहुधा तत्र सन्निधौ श्रीहरेस्तदा ।
भगवान् श्रीहरिः प्राह का त्वं कस्माच्च रोदिषि ॥६२॥ किं ते दुःखं च काः सख्यो वद सौख्यं करोमि ते ।
तदा सा लज्जया युक्ता नोवाचापि तु किञ्चन ॥६३ ॥ तावत्तत्र समायातः शक्त्यक्षिः पुरतो हरेः ।
तं दृष्ट्वा पुनरेवैषा रुरोदाक्रन्दनं मुहुः ॥६४॥ राजा दृष्ट्वा च पप्रच्छ का त्वं कथं नु रोदिषि ।
सा तदा पूर्वजन्मीयं रूपं क्षणं दधार ह ॥६५॥ राज्ञो या भगिनी ज्येष्ठा कन्यका युवती मृता ।
वासनाविषदोषेण पिशाचीत्वमुपागता ॥६६॥ समुवाच नृपं चाऽहं विना यज्ञोपवीतकम् ।
विवाहमन्तरा रुग्णा मृता यौवनदर्शिनी ॥६७॥ वासनायुक्तहृदया पुरुषं प्रति तृष्णया ।
प्रेतभावं गता शीघ्रं त्वरण्येऽत्र वसामि हि ॥६८॥ अन्याश्च कन्यका या या वासनाहृदयान्विताः ।
प्राप्नुवन्ति तु मरणं ता इमाः सन्ति योषितः ॥६९॥ पिशाचिन्यो हि मे सख्यः पिशाचपत्निकाः किल ।
पिशाचाः पतयोऽस्माकं भुक्त्वा यज्ञप्रसादकम् ॥2.131.७०॥ धूतपापा गताः मुक्तिं स्वर्गं वा तत्परं पदम् ।
वयं प्रसादहीनाश्च गृहे एव स्थिता यतः ॥७ १ ॥ पिशाचानां निरोधेन यज्ञे नाऽत्र समागताः ।
न प्राप्तं दर्शनं चापि क्रतोः प्रासादिकं ह्यपि ॥७२॥ पिशाचीत्वं तदस्माकं न नष्टं चेदृशे मखे ।
पिशाचास्ते गता मुक्तिं शिष्यामहेऽशुभाऽबलाः ॥७३॥ अबलानां वलं नास्ति विना त्रातारमच्युतम् ।
अपत्यपतिशून्याश्च जातास्ततोऽत्र चागताः ॥७४॥ मोक्षेच्छया हरेकृष्ण राजन् भ्रातः शुभं कुरु ।
साऽहं ते भगिनी चेमाः प्रजाकन्या मृतास्तु याः ॥७५॥ ता वयं देवदेवस्य मोक्षार्थं शरणागताः ।
कुर्वस्माकं महामोक्षं यथा दुःखं भवेन्न वै ॥७६॥ राजा प्राह पिशाचिन्यश्चेमा वै केन कर्मणा ।
सम्भूता वद मे चात्र स्वसस्तेऽस्तु शुभं ततः ॥७७॥ स्वसा प्राह च राजानं शृणु पिशाचिकोद्भवम् ।
या कन्या निर्दया चास्ते पितृगृहेऽतिक्रोधिनी ॥७८॥ कलहस्याऽतिकर्त्री च मृता स्यात् सा पिशाचिनी ।
अवमन्य स्वजननीं स्वतन्त्रा शीलनाशिनी ॥७९॥ पापकर्मनिमग्ना च मृता स्यात् सा पिशाचिनी ।
प्रवृत्ता गुप्तपापेषु पुण्यधर्मविवर्जिता ॥2.131.८०॥ मातुः सेवापरा नास्ति नास्ति गृहस्य शोधिनी ।
कृष्णभक्तिपरा या न सा मृता स्यात् पिशाचिनी ॥८१ ॥ यथा चोद्वेजिता माता भगिनी भ्रातृभामिनी ।
कलङ्किनं कुटुम्बं च सा मृता स्यात् पिशाचिनी ॥८२॥ स्नानपूजाविहीना च राजस्वल्यान्विता तथा ।
अशुद्धा पशुगम्या च मृता स्यात् सा पिशाचिनी ॥८३ ॥ आत्मघातकरी या च या च कुटुम्बघातिनी ।
पित्रादिघातिनी या च सा मृता स्यात् पिशाचिनी ॥८४॥ अर्भकान् या क्रोधवशा ताडयत्येव वै मुहुः ।
गृहे चौर्यकरी कन्या मृता स्यात् सा पिशाचिनी ॥८५॥ जन्तूनां मारयित्री या केशेषु चाम्बरेषु च ।
जानत्यपि च चुल्ल्यां या मृता सा स्यात् पिशाचिनी ॥८६॥ मूषकाणां विडालानां घातिनी प्राणिनां तु वा ।
गोवत्सानां घातयित्री मृता सा स्यात् पिशाचिनी ॥८७॥ महिषीबालकेभ्यो या दुग्धं पाययतीव न ।
तन्मातुश्चापि तक्रं वा मृता सा स्यात् पिशाचिनी ॥८८॥ पक्षिणां च पशूनां च हिंसिका जीवघातिनी ।
स्वैरिणी पुंश्चली या च कामिनी गणिका तथा ॥८९॥ मद्यमांसादना गर्भहन्त्री स्याद्वै पिशाचिनी ।
जले मृता तथा वह्नौ क्षुत्पिपासान्विता यदि ॥2.131.९० ॥ पृथ्व्यां मग्ना विवरादौ मृता सा स्यात् पिशाचिनी ।
असंस्कृता मृता या स्यादक्षता वा क्षताऽपि वा ॥९ १ ॥ भक्तिहीना रागयुक्ता मृता सा स्यात् पिशाचिनी ।
इत्येवं दोषयुक्ता वै इमा जाताः पिशाचिकाः ॥९२ ॥ उद्धारं कुरु राजेन्द्र हरेः प्रसाददानतः ।
यज्ञस्त्वया कृतश्चात्र कन्यादानं कृतं तथा ॥९३ ॥ तेन पुण्येन नः पापं नष्टं भागेन भौतिकम् ।
मानसं तु प्रसादेन नाशमेष्यति देहि नः ॥९४॥ ततो मुक्तिं हरिर्दद्यात् सर्वप्राणपतिः प्रभुः ।
इत्येवं राधिके! ताभिश्चार्थितो भूपतिः स्वयम् ॥९५॥ ददौ हरेः प्रसादं स जलं च पादसंस्पृशम् ।
पपुस्ता भक्षयामासुः प्रेमतस्तत्क्षणात्खलु ॥९६ ॥ दिव्यरूपास्तदा जाता यथा देव्यः सुरेशितुः ।
ताः पवित्राः कन्यकाश्च निपेतुः पादयोर्हरेः ॥९७॥ श्रीहरिश्च दयामग्नो ददौ मन्त्रान् निजाननात् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥९८॥ ‘शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ।
‘कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥९९॥ शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ।
‘ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥2.131.१ ००॥ अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ।
‘बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥१०१ ॥ पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः’ ।
श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम’ ॥१ ०२॥ इत्येतान् प्रददौ मन्त्रान् ददौ यज्ञोपवीतकम् ।
सर्वान् प्रदर्श्य पित्राहीन् कुटुम्बं च तदीयकम् ॥१०३ ॥ ताः सर्वाः श्रीहरिर्यावत् सम्प्रेषयति चाक्षरम् ।
तावत् सर्वा हरौ मुग्धा गन्तुं नैच्छँस्तदाक्षरम् ॥१ ०४॥ विहाय सुन्दरं कान्तं पतिं श्रीपुरुषोत्तमम् ।
वव्रिरे ता हरिकृष्णबालकृष्णनरायणम् ॥१ ०५॥ कन्यकाः शतसङ्ख्यास्तास्तथा च राजन्यकाः ।
मालाः करेषु सङ्गृह्य कोटिचन्द्रनिभाननाः ॥१ ०६॥ सुरूपाः सूज्ज्वलाः सर्वांस्तदा षोडशवत्सराः ।
प्रेम्णा कृष्णगले रम्ये न्यधुः पत्नीत्वकाम्यया ॥१ ०७॥ हरिणा स्वीकृताः सर्वास्तासां प्रियचिकीर्षया ।
इत्येवं राधिके ताश्च गृहीत्वा स्वविमानके ॥१ ०८॥ राजकन्या गृहीत्वा च सायं त्वम्बरवर्त्मना ।
परिहारोत्तरं शीघ्रं ययौ कालिमभूतलम् ॥१ ०९॥ अनादिश्रीकृष्णनारायणो मङ्गलसूत्रदः ।
इत्येवं राधिके! कृष्णस्वाम्यनादिपुमुत्तमः ॥2.131.११० ॥ पावयन्निजभक्तानां हृदयानि तदाम्बरात् ।
कालिमाशनृपराज्ये गत्वा ददर्श भूतलम् ॥१११ ॥ पठनाच्छ्रवणादस्य मोक्षस्य फलभाग्भवेत् ।
पाठयेच्छ्रावयेद्यं च सोऽपि मोक्षफलं लभेत् ॥११ २।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शक्त्यक्षिनृपराज्ये यज्ञोत्तरं देवर्षीणां पञ्चमयज्ञार्थं प्रेषणं, राज्ञा षष्टिकन्या हरयेऽर्पिताः, पिशाचीत्वे कारणानि, एकाधिकशतपिशाचिनीमोक्षकरणं चेत्यादिनिरूपणनामैकत्रिंशदधिकशततमोऽध्यायः ॥१३१ ॥