१२९

श्रीकृष्ण उवाच-
शृणु त्वं राधिके तत्राश्चर्यं नृपगृहेऽभवत् ।
कश्चिद् राजा व्योममार्गान्मुकुटेन विराजितः ॥१ ॥ शङ्खचक्रगदापद्मसंशोभितचतुर्भुजः ।
सुदिव्यभालतिलकश्चन्दनार्जितबिन्दुकः ॥२ ॥ वह्निशुद्धाम्बरो मालां तोलसीं स्वकरे दधन् ।
स्वर्णवर्णः प्रसन्नास्यः कट्यां कृपाणराजितः ॥३ ॥ राजवेषधरश्चान्यैर्बहुभिर्निजसदृशैः ।
छत्रचामरयुक्तश्च जयशब्दैर्विवर्धितः ॥४ ॥ बालकृष्णो जयत्वत्र तद्भक्तोऽयं जयत्वपि ।
तस्याश्रितानां चास्माकं विजयोऽद्य पदे पदे ॥५ ॥ अहो पात्रं परब्रह्म दाता वीरजरः स्वयम् ।
यत्प्रतापोत्थपुण्येन चतुर्भुजत्वमुत्तमम् ॥६ ॥ प्राप्तोऽयं नृपतिश्चात्र वयं भृत्याः समुद्धृताः ।
शुभं राजन् वीरजार! कृतवान् जीव शाश्वतः ॥७ ॥ इत्युक्त्वा नृपवेषः स प्रणनाम हरिं मुहुः ।
अन्ये प्रणेमुः सर्वे वै भृत्यास्ते च चतुर्भुजाः ॥८ ॥ श्रीहरेश्चरणौ स्पृष्ट्वा निदधुर्निजमूर्धसु ।
जलं प्रासादिकं कृत्वा पादप्रक्षालनोत्तरम् ॥९ ॥ पपुस्ते राधिके सर्वे जय कृष्णेतिकीर्तनाः ।
पुपूजुर्दिव्यहाराद्यैः श्रीस्वामिश्रीरमेश्वरम् ॥1.129.१ ०॥ तावत् तत्र स्थिता राधे वीरजारादयः खलु ।
बालकृष्णनिवासे ते कन्याद्या अपि सर्वशः ॥११ ॥ राज्ञ्यश्च राजभृत्याश्च परमानन्दसम्भृताः ।
आश्चर्यमतुलं प्राप्ता जिज्ञासां चक्रिरे तदा ॥१ २॥ कोऽयं कस्मात् समायातो राजा चापि चतुर्भुजः ।
कुर्मोऽत्र स्वागतं तस्येत्युक्त्वा सिंहासनं ददुः ॥१३ ॥ अर्घ्यं च मधुपर्कं च मिष्टान्नं मिष्टवारि च ।
ताम्बूलकं च सन्मानं चक्रिरे तु यथोचितम् ॥१४॥ जगृहुस्तेऽतिभावेन प्रसन्नाऽऽशिः परायणाः ।
श्रीहरिर्मौनभावं च विहाय कुशलादिकम् ॥१५॥ अपृच्छत्तं दिव्यभक्तं मुमोद च मुहुर्मुहुः ।
तदा राजा वीरजारः समपृच्छद्धरिं तदा ॥१६ ॥ महाभागवताश्चेमे महाराजानुगा अपि ।
कुत आयान्ति भगवन् वयं जिज्ञासवो यतः ॥१७॥ क्व राज्यं क्व च भूरेषां कथं ख्याताः किमर्थकाः ।
अस्मभ्यस्तव सेवायां रक्तेभ्यो देहि वेदनम् ॥१८॥ इत्युक्तो भगवान् कृष्णस्त्वाह तं भूभृतं तदा ।
वद राजन् स्ववृत्तान्तं जिज्ञासुभ्यो यथार्थकम् ॥१ ९॥ इत्याज्ञां तत्र सम्प्राप्य प्रसन्नः सन्नराधिपः ।
तत्सर्वेभ्योऽकथयच्च वृत्तान्तं शृणु राधिके ॥1.129.२ ०॥ अहं राजा शूरजाराभिधोऽत्राऽऽसं नराधिपः ।
वीरजारपिता चैते मन्त्रिणो मेऽभवँस्तदा ॥२ १॥ राज्यं धर्मेण कृतवान् प्रजारक्षाकरः सदा ।
प्रजानां सेवको भूत्वाऽकरवं राष्ट्रपालनम् ॥२२॥ दानपुण्येऽकरवं च स्वर्गदे सुखपूरिते ।
अनाथादीनरक्षं च सत्रेऽभोजयमन्वहम् ॥२३॥ साधूनपूजयं पितॄन् अतिथीनार्चयं सदा ।
असेवयं गवादींश्च प्रजाश्चाऽतोषयं मुहुः ॥२४॥ वृक्षानवापयं श्रेष्ठान् प्रजानानुपकारिणः ।
वर्षे वर्षे गतवत्सरस्याऽन्नं शिष्यते यदि ॥२५॥ पाकोत्तरं च तत्सर्वमर्थिभ्यश्चार्पितं मया ।
विप्राः सम्भोजिता नित्यं सत्यश्चातीव पूजिताः ॥२६॥ सकृता ग्रामदेवाद्याः सत्कृताः शरणागताः ।
आर्तानामार्त्तिनाशं चाऽकरवं वस्तुदानकैः ॥२७॥ रोगिणामोषधदानात् स्वास्थ्यं चाऽकरवं सुखम् ।
गृहदानं हस्तिदानं क्षेत्रदानादिकं तथा ॥२८॥ सर्वं चाऽकरवं चाऽरोचयं यद्यच्छुभार्थनम् ।
तेन पुण्येन राज्यं च कृत्वा निधाय पुत्रके ॥२९॥ निधनं प्राप्य राज्ञीं स्वां विहायाऽहं दिवं गतः ।
तत्र सूर्यस्य लोकेऽहं निवसामि समुज्ज्वलः ॥1.129.३ ०॥ हिरण्यदेवजातीयः सर्वसौख्यसमन्वितः ।
इमे पुण्यक्रियास्वेव भृत्या आसन्पुरा मम ॥३ १ ॥ धर्मकार्यसहायास्ते मृत्वा स्वर्गं ममाऽऽगताः ।
हिरण्यजातिजा देवा वर्तन्ते ते मया सह ॥३ २॥ तत्रापि मम राज्यं वै वर्तते बहुयोजनम् ।
इमे प्रधाना मे सन्ति मन्त्रिणस्तत्र केचन ॥३३॥ भृत्याः केचन दूताश्च सन्ति सर्वे प्रभाकरे ।
सुखिनः सुखरूपाश्च महानन्दपरिप्लुताः ॥३४॥ अस्माभिस्तत्र देवादिद्वारा यज्ञः श्रुतोऽत्र वै ।
पुत्रेण वैष्णवः श्रेष्ठो निर्वर्तितः सुरादिभिः ॥३५॥ अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमः ।
समायातोऽस्ति भगवान् लोककल्याणहेतवे ॥३६॥ तस्मै देवाधिदेवाय सर्वाऽधिपतयेऽद्य वै ।
मम पुत्रेण वै दत्ताः पूजायां शतकन्यकाः ॥३७॥ तद्दानेन कुटुम्बं मे पावनं दिव्यतां गतम् ।
वयं स्वर्गस्थिताः सर्वे कन्यादानस्य पुण्यतः ॥३८॥ विलीय द्विभुजाः सर्वे चतुर्भुजाः स्म एव तु ।
वैष्णवाः पार्षदाश्चाऽद्य सञ्जाता धामयोगिनः ॥३९॥ विष्णुतुल्यस्वरूपाश्च विष्णोर्धामगमाः शुभाः ।
सर्वैश्वर्यसमापन्नाः कोटिसूर्याधितेजसः ॥1.129.४०॥ मोक्षोस्माकं सुपुत्रेण कृतोऽस्ति कन्यकाऽर्पणात् ।
कन्यादानं शुभे पात्रे तीर्थे शतकुलाधिकम् ॥४१॥ तारयत्येव पितॄणां प्रत्यक्षं दृष्टमेव यत् ।
तस्माच्चतुर्भुजा भूत्वा कृत्वा च हरिदर्शनम् ॥४२॥ प्रयास्यामो हरेर्धाम दिव्यं त्वक्षरसञ्ज्ञकम्!
एतत्कथयितुं त्वत्राऽऽगताः सूर्यगृहा वयम् ॥४३॥ श्रीहरेर्दर्शनं कर्तुं भोक्तुं प्रसादमित्यपि ।
आज्ञां प्राप्तुं च तद्धाम याचितुं प्रसमागताः ॥४४॥ इत्युक्त्वा च विरेमुस्ते हरिः प्रासादिकं ददौ ।
कन्याद्या दिव्यरूपं तं दृष्ट्वा नैजं पितामहम् ॥४५॥ सुसंहृष्टा प्रणेमुश्च प्रसादं प्रददौ हरिः ।
बुभुजुस्ते हृष्टहृदः पपुश्च चरणामृतम् ॥४६॥ श्रीहरिर्वै ततः प्राह शूरजारादिकाँस्तदा ।
मम भक्ताः सात्त्वता वै प्रयान्ति धाम मे शुभम् ॥४७॥ मन्त्रं गृही वा योग्यास्ते गन्तुं भवन्ति तत्र वै ।
नान्यथा सम्प्रवेशोऽस्ति मम धाम्नि कथञ्चन ॥४८॥ इत्युक्ता जगृहुर्मन्त्रान् बालकृष्णाननात्तदा ।
‘ओ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥४९॥ ‘शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ।
कालमायापापकर्मशनुयाम्यकुहृद्भयात् ॥1.129.५० ॥ शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ।
‘परब्रह्माऽक्षरातीतो बालकृष्णः पतिर्मम’ ॥५१॥ ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ॥५२॥ ‘बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः’ ॥५३॥ *श्रीकृष्णवल्लभस्वामी श्रीहरिः शरणं मम’ ।

  • एतान् मन्त्रान् ददौ तेभ्यः श्रीस्वामी श्रीरमेश्वरः ॥५४॥ ततस्तेऽक्षरमुक्ताश्च गन्तुं योग्यास्ततोऽभवन् ।
    अथ राजा वीरजारस्तत्कुटुम्बं पितेति च ॥५५॥ विज्ञाय पूजनं चक्रे तस्य क्षमाम् परार्थयत् ।
    अथ राज्ञी राजमाता नाम्ना देववरूथिनी ॥५६॥ वृद्धा ज्ञात्वा पतिं मुक्तं दिव्यं यातुं तथाऽक्षरम् ।
    ववन्दे चरणौ तत्र पत्युः पतिव्रता सती ॥५७॥ मुमोचाऽश्रूणि विधवा गन्तुं सह मनोमती ।
    उवाच प्रश्रया भूत्वा किं मे पापं यदत्र च ॥५८॥ तिष्ठामि विधवा देहे नय मां सह भूपते ।
    यद्गृहे भगवान् साक्षाज्जामाता ननु वर्तते ।
    तस्य पुण्यस्य पारं न तन्माताऽहं तव प्रिया ॥५९॥ कथं वृद्धा दिव्यमुक्ता न भवामि यथा पतिः ।
    तस्माद् राजन् मदर्थं त्वं याचनां कुरु शाश्वतीम् ॥1.129.६०॥ यथा मुक्तिं सह यामि तथा त्वं कुरु सत्वरम् ।
    श्रुत्वा शूरपतिः राजा ययाचे श्रीहरिं तदा ॥६१ ॥ पतित्वा दण्डवत्तत्र राज्ञ्यर्थं मोक्षकाङ्क्षया ।
    भगवान् श्रीहरिः प्राह राजन् मनोरथस्तव ॥६२॥ तथा राज्ञ्याश्च सङ्कल्पः सिद्ध एव न संशयः ।
    मासेऽस्मिन् पौषसञ्ज्ञे वै यज्ञकार्याणि सन्ति तु ॥६३॥ तानि दृष्ट्वा ततो यायाद् राज्ञी ते धाम मेऽक्षरम् ।
    तावद्दर्शनलाभार्थं तिष्ठत्वत्र प्रिया तव ॥६४॥ पौषशुक्लस्य पूर्णायां राज्ञी धामाक्षरं मम ।
    यातु विमानमारूढा मम पार्षदसेविता ॥६५॥ भवाँश्चतुर्भुजस्त्वत्र मुखैः सह स्थिरोऽस्तु च ।
    पूर्णिमायां त्वया राज्ञीं सह नीत्वा चतुर्भुजाम् ॥६६॥ गन्तव्यं त्वक्षरं धाम मम मन्त्रैः परिप्लुताम् ।
    इत्युक्त्वा राधिके स्वामी बालकृष्णः स्वयं तदा ॥६७॥ कृपया प्रददौ राज्ञ्यै मन्त्रान् दिव्यत्वलब्धये ।
    राज्ञी भौतिकदेहाऽपि तदा दिव्या व्यजायत ॥६८॥ यथा चतुर्भुजो राजा तथा साऽपि चतुर्भुजा ।
    वैकुण्ठवासयोग्या सा यथा राजा तथाऽभवत् ॥६९॥ राधिके! मन्त्रदानेऽपि चतुर्मुजास्तु पूर्णिमाम् ।
    अवधीकृत्य लोकेऽत्र स्थास्यन्त्येव हरीच्छया ॥1.129.७०॥ पूर्णिमायां यदा ते तु गमिष्यन्त्यक्षरं पदम् ।
    तदा ते द्विकरा भूत्वाऽक्षरमुक्तसमाः शुभाः ॥७१॥ यास्यन्ति परमं धामाऽक्षरं श्रीस्वामिनः सुखात् ।
    एवं शूरं शूरदेवीं शूरृभत्यान् हरिः स्वयम् ॥७२॥ स्थातुमाज्ञाप्य यज्ञार्थं भोजयामास चामृतम् ।
    पाययामास च पादजलं पुण्यं हरिर्निजम् ॥७३॥ वासयामास च निजे प्रासादे शूरजारकम् ।
    बोधयामास विविधैर्वचनैर्मोक्षदायकैः ॥७४॥ राजन् यत्र नरो नारी तत्र संसारवासना ।
    राजन् यत्र हरिश्चाऽहं तत्राऽक्षरस्य भावना ॥७५॥ राजन् यत्र साधवो मे तत्राऽहं पुरुषोत्तमः ।
    यत्र ब्रह्मप्रिया मे च तत्राऽक्षरं पदं मम ॥७६॥ मायाऽपि दिव्यतां याति मम योगेन सर्वथा ।
    मुक्ता चाऽक्षररूपा स्यात्तदन्यस्य तु का कथा ॥७७॥ इमाः पौत्र्यश्च ते सर्वा दृश्यन्ते यद्यपि स्त्रियः ।
    भूतदेहविकारिण्यस्तथापि मम योगतः ॥७८॥ मुक्ताः सर्वा भविष्यन्ति मत्स्वरूपा विमायिकाः ।
    मां भजित्वा पुरा राजन् बह्व्यो वै दिव्यतां गताः ॥७९॥ नार्यो यथा तथा मुक्ता व्यजायन्त नरा अपि ।
    मम योगेन बहवोऽभवन्नरा नरायणाः ॥1.129.८० ॥ नारायणाश्च बहवोऽभवन्नारायणा अपि ।
    नारायणाश्च बहवोऽभवन् वै पुमुत्तमास्तथा ॥८ १॥ पुमुत्तमाश्च बहवोऽभवन् वै पुरुषोत्तमाः ।
    पुरुषोत्तमसञ्ज्ञास्ते पुरुषोत्तमशासने ॥८२॥ वर्तन्ते धाम्नि पुरुषोत्तमभक्तास्तदन्विताः ।
    पुरुषोत्तमसदृशा गुणैर्धर्मैश्च शक्तिभिः ॥८३॥ ऐश्वर्यैः रूपविभवैस्ततस्ते पुरुषोत्तमाः ।
    अहमेषां च पुरुषोत्तमानां पुरुषोत्तमः ॥८४॥ नियामको हि सर्वेषां तत् पुरुषोत्तमोत्तमः ।
    नास्ति मे सदृशः कश्चित्परस्यैव तु का कथा ॥८५॥ तादृशोऽहं तव राज्ये प्राप्तोऽस्मि ते सुतस्य वै ।
    सत्यं राज्यं मम राज्यं न पृथिव्या मृषा हि तत् ॥८६॥ सत्यानन्दो महानन्दो न मायाया मृषा हि सः ।
    सत्यं सुखं सुखं मेऽत्र न भौतिकं मृषा यतः ॥८७॥ कुटुम्बं सत्यमेवाऽहं दैहिकं न मृषा यतः ।
    कार्यं नाम्ना विकृतं च मद्योगे विकृतं न तत् ॥८८॥ मृषा नाम्ना चाऽनृतं च मद्योगे नाऽनृतं हि तत् ।
    अस्थिरं च विना मां यत् सुस्थितं मद्युतं तु तत् ॥८९॥ मद्रिक्तं परिहार्यं च मद्युक्तं ग्राह्यमेव तत् ।
    मां विना शून्यमन्यद् यत् मद्युक्तं भरपूरकम् ॥1.129.९०॥ मां विना प्रलयः सर्वो मद्युक्तः समृद्धायते ।
    मद्विना कल्मषं यच्च तन्मद्युक्तं तु मादृशम् ॥९ १॥ मद्भक्ता मादृशाः सर्वे तस्मात्ते पुरुषोत्तमाः ।
    इत्येवं मां विदित्वैव भज मां भव तादृशः ॥९२॥ इत्युक्त्वा श्रीहरिः शूरजाराय निजदर्शनम् ।
    ददौ तत्रैव पुरुषोत्तमानां पुरुषोत्तमम् ॥९३॥ दिव्यदृष्ट्या शूरजारो विलोक्य परमेश्वरम् ।
    अनन्तपरमेशाद्यैः सेवितं पुरुषोत्तमम् ॥९४॥ मुमुदे महिमानं च विवेद श्रीहरेस्तदा ।
    ततो हरिर्दिव्यभावं तिरोभाव्य मनुष्यवत् ॥९५॥ अभवत् क्षणमात्रेण प्रसन्नः प्राह वीरकम् ।
    विश्रान्तिं लभ राजेन्द्र गन्तव्यं वै प्रगे द्रुतम् ॥९६॥ एकादश्यां चतुर्थस्य यशस्याऽर्थेब्धिसङ्गमम् ।
    पौषे कृष्णे दले चैकादश्यां प्रारभ्य तं क्रतुम् ॥९७॥ पौषे शुक्ले द्वितीयायां करिष्ये पूर्णमेव च ।
    इत्युक्तो वीरजारश्च शूरजारस्तथाऽपरे ॥९८॥ विशश्रमुः सुखेनैव विशश्राम हरिस्तथा ।
    रात्रौ सुष्वाप भगवान् कन्याभिः सेवितो हरिः ॥९९॥ एकादश्यां प्रगे शीघ्रं समुत्थाय कृतार्चनः ।
    स्वस्थो भूत्वा विमानेन राजकुटुम्बसेवितः ॥1.129.१० ०॥ मातापितृयुतश्चापि प्रजाभिश्चाभिवर्धितः ।
    ययौ शक्त्यक्षिनृपतेः राज्ये यज्ञक्षितौ क्षणात् ॥१०१ ॥ आलनौकाऽब्धिसंयोगे विशालं भूतलं तदा ।
    भ्रामयित्वा विमाने चाम्बरे व्यलोकयत् मुहुः ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीरजारनृपतेः पित्रे शूरजारमहाराजाय दिव्यदेवरूपाय सकुटुम्बाय हिरण्यपुरुषात्मिकायाऽक्षरयोग्यदिव्य-
    देहाद्यर्पणादिना मुक्तिरित्यादिनिरूपणनामा नवविंशत्यधिकशततमोऽध्यायः ॥१२९ ॥