१२४

श्रीकृष्ण उवाच
इत्येवं राधिके! कृष्णो बालकृष्णो महाप्रभुः ॥ अवतीर्य विमानाच्च यज्ञमण्डपमाययौ ॥ १ ॥
विलोक्य च ततः शीघ्रं कृत्वा स्नानं तडागके ॥ यजमानः स्वयं भूत्वा पत्नीव्रतद्विजेन च ॥ २ ॥ लोमशेन तथा देवायतनेन युतः प्रभुः ॥ मातापित्रादिसहितो निषसाद शुभासने ॥३ ॥ विप्राश्च जगदुस्तावत् स्वस्तिवाचनमुत्सुकाः ॥ आचमनं ग्राहयित्वा ततो वै लोमशो मुनिः ॥४ ॥ शुद्धिमन्त्रान् समुच्चार्य पञ्चगव्यं प्रदाय च ॥ जलेन प्रोक्षणं कृत्वा गृहीत्वा सूत्रकं करे ॥ ५ ॥
बालकृष्णं प्रकोष्ठे चाऽबन्धयद् यजमानकम् ॥ तथा भूपं यजमानं गौणं सस्त्रीकमेव च ॥६ ॥ शिबिदेवाभिधानं चाऽबन्धयन् लोमशो मुनिः ।
बालकृष्णोऽपि भगवान् लोमशं यज्ञवेदिनम् ॥७ ॥ मुख्यं चाऽबन्धयत्तत्र गौणं पत्नीव्रतं तथा ॥ आचार्ययुगलं कृत्वा ततो द्वादशभूसुरान् ॥ ८ ॥
रौद्रान् रुद्रस्वरूपाँश्चाऽबन्धयद् रुद्रसन्निधौ ।
ब्रह्मणो निकटे चान्यान् दशसाहस्रसङ्ख्यकान् ॥ ९ ॥
ऋषीँश्चाऽबन्धयत् तत्र जपहोमकराँस्तथा ॥ ब्रह्मा स्वयं ब्रह्मवेद्यां स्थितः कृष्णाज्ञयाऽभवत् ॥१०॥ वेदास्तथोपवेदाश्च गातारश्चाऽभवँस्तदा ॥ उद्गातारस्तदा चासन् शाखामूर्तय इत्यपि ॥११॥
होतारश्चोपहोतारस्तदाऽऽसन् सनकादिकाः ॥ योगेश्वरास्तथा सिद्धाः कपिलाद्या नरायणाः ॥१२॥ आहर्तारस्तथा प्रतिहर्तारश्चेश्वराः शुभाः ॥ भूमादयोऽप्यभवँश्च वैराजादियुतास्तथा ॥१३॥ ऋत्विजश्चाऽभवँस्तत्र वसिष्ठाद्या महर्षयः ।
वालखिल्या अभवँश्च वेदपाठकरास्तदा ॥१४॥
व्यासाद्या वेदवेत्तारो बृहस्पत्यादयस्तथा ।
लक्ष्मीनारायणसंहितायाः प्रपाठिनोऽभवन् ॥१५॥
नारायणास्तदा सर्वे हव्यवाहा हि वह्निषु ॥ अभवन् अवताराश्च वह्न्याननास्तदा मखे ॥१६॥
वह्नयो दिव्यरूपाश्च राजन्ते तत्र संसदि ।
कल्पवल्लीयुताः कल्पद्रुमा हव्यप्रदायिनः ॥१७॥ समाहरन्ति द्रव्याणि सङ्कल्पितानि वै तदा ।
इत्येवं यज्ञसाहाय्याः क्लृप्तास्तत्र मखे ततः ॥१८॥ पृथ्व्याः सम्पूजनं चापि वाराहस्य प्रपूजनम् ।
कुण्डस्य पूजनं चापि वेदिकानां प्रपूजनम् ॥१९॥
चक्रुः श्रीलोमशाद्याश्च ततो गणेशपूजनम् ॥ प्रत्यक्षस्य गणेशस्याऽर्चनं चक्रुस्तदा द्विजाः ॥२०॥ शङ्खस्य पूजनं चापि तथा चक्रस्य पूजनम् ।
कलशस्याऽर्चनं चापि तथा लक्ष्म्याः सुपूजनम् ॥२१॥ रुद्रस्य पूजनं चापि दुर्गायाः पूजनं तथा ।
कलशस्थापनं चापि मातृकापूजनं तथा ॥२२॥ दिक्पालानां पूजनं च ग्रहाणां चार्चनं तथा ।
ईश्वराणां पूजनं च शक्तीनां पूजनं तथा ॥२३॥ पार्षदानां पूजनं च वसूनां पूजनं तथा ॥ आदित्यानां पूजनं च सुराणां पूजनं तथा ॥२४॥
लोकपालार्चनं चापि सतीनां पूजनं तथा ।
देवानां पूजनं पितृपूजनम् ऋषिपूजनम् ॥२५॥
भूतानां पूजनं चापि इष्टाऽनिष्टप्रवेदिनाम् ॥ दिशां प्रपूजनं चापि विश्वेदेवप्रपूजनम् ॥२६॥
अश्विनीसुतयोश्चापि पूजनं रक्षसां तथा ॥ क्षेत्राणां क्षेत्रपालानां पूजनं योगिनां तथा ॥२७॥
योगिनीनां पूजनं च कलानां पूजनं तथा ॥ मनूनां पूजनं चापि तत्त्वानां पूजनं तथा ॥२८॥
मरुतां पूजनं चापि तीर्थानां पूजनं तथा ॥ राजसानां तामसानां देवानां पूजनं तथा ॥२९॥
विघ्नानां विघ्नराजानां ब्राह्मीनां पूजनं तथा ।
विद्यानां ब्रह्मपत्नीनां पूजनं धामयोषिताम् ॥३०॥ मूर्तिमतां तु सर्वेषां सर्वासां तत्र पूजनम् ।
चकार श्रीकृष्णनारायणस्तेषां प्रतुष्टये ॥३१॥
ततः स्वयं हरिकृष्णस्वामी श्रीपुरुषोत्तमः ॥ बालकृष्णः परब्रह्म मुख्यदेवस्थले स्थितः ॥३२॥
तस्य पूजां महापूजां शिबिदेवश्चकार ह।
मुख्यदेवे पूजिते चाऽवाद्यन्त तूर्यकोटयः ॥३३॥ ततो वह्निं मूर्तिमन्तं प्राह नारायणः स्वयम् ।
तिष्ठ कुण्डे मम मूर्ते देवानां तृप्तये मखे ॥३४॥
इत्युक्त्वा पूजितो वह्निः प्रसन्नः कुण्डमास्थितः ।
ज्वालारूपोऽभवत्तत्र समित्सु हव्यवाहनः ॥३५॥ यज्ञपात्रादिपूजां च कृत्वा वै ऋषयस्ततः ॥ कुण्डदेवान् समिद्देवान् सम्पूज्य चान्यदेवताः ॥ ३६॥
तेभ्यो दत्वा यथापूजां होमकार्यं व्यवर्तत ।
स्वाहाद्यास्तत्र देव्यश्च सख्यो वै दिव्यविग्रहाः ॥३७॥
करे कृत्वा च हव्यानि ददुर्वह्निमुखादिषु ॥ देवता ईश्वराश्चापि मुक्ता नारायणा अपि ॥३८॥
ब्रह्मप्रियाश्च मुक्तान्य ईश्वराण्यश्च देविकाः ॥ सुराण्यश्चापि मानव्यः ऋषयः ऋषिसम्प्रियाः ॥३९॥ सात्त्विका राजसाश्चापि तामसाश्चापि वै सुराः ॥ सात्त्विक्यश्चापि राजस्यतामस्यस्तनवो हरेः ॥४०॥
प्रत्यक्षा मूर्तिमत्यस्ता भागान् जगृहुरध्वरे ।
जीवसृष्टावीशसृष्टौ ब्रह्मसृष्टौ तु ये च ये ॥४१॥
देहिनो वेदपर्णस्थास्ते सर्वे भुञ्जतेऽनले ॥ अध्वरेऽर्पितहव्यानि जायते तृप्तिमान् हरिः ॥४२॥
एवं सप्तदिनान्येवाऽभवद् यज्ञो विधानतः ॥ वैष्णवः परमो होमः सर्वतृप्तिप्रदो मखः ॥४३॥
श्रीराधिकोवाच—
यान् देवान् वै तदा स्मृत्वा यथा होमः प्रजायते ।
तत्सर्वं श्रोतुमिच्छामि तस्मिन् वै वैष्णवे मखे ॥४४॥
श्रीकृष्ण उवाच—
शृणु राधे तत्र होमो यथा वै सम्प्रजायते ।
अनादिश्रीकृष्णनारायणाय स्वामिने स्वाहा ॥४५॥ अक्षरब्रह्मणे स्वाहा स्वाहा मुक्तेभ्य इत्यपि ॥ स्वाहा ब्रह्मप्रियाभ्यश्च स्वाह मुक्ताभ्य इत्यपि ॥४६॥ स्वाहा कृष्णाय कान्ताय स्वाहा गोपीगणाय च ॥ राधायै कृष्णकान्तायै स्वाहा गोपगणाय च ॥४७॥ स्वाहा गोलोकधाम्ने च स्वाहा धेनुभ्य इत्यपि ॥ स्वाहा नारायणायेति लक्ष्म्यै स्वाहा श्रियै तथा ॥४८॥
श्रीसखीभ्यस्तथा स्वाहा स्वाहा वैकुण्ठकाय च ।
स्वाहा पार्षदवर्गाय स्वाहा दासीगणाय च ॥४९॥ वासुदेवाय वै स्वाहा स्वाहा सङ्कर्षणाय च ।
प्रद्युम्नाय तथा स्वाहा स्वाहाऽनिरुद्धसञ्ज्ञिने ॥५०॥ महाकालाय वै स्वाहा महापुरुषसञ्ज्ञिने ॥ मायायै च तथा स्वाहा स्वाहा तत्पुरुषाय च ॥५१॥ प्रधानपुरुषायेति स्वाहाऽव्याकृतधामिने ॥ अमृतवासिने स्वाहा भूम्ने स्वाहा सुबुद्धये ॥५२॥ अहङ्काराय च महाविष्णवे मनसे तथा ।
स्वाहा वैराजरूपाय विष्णवे शम्भवे तथा ॥५३॥ ब्रह्मणे च तथा स्वाहा स्वाहा सदाशिवाय च ।
ईश्वरेभ्यस्तथा स्वाहा ईश्वराणीभ्य इत्यपि ॥५४
तन्मात्राभ्यस्तथा स्वाहा स्वाहेन्द्रियेभ्य इत्यपि ।
प्राणेभ्यश्च तथा स्वाहा स्वाहा भूतेभ्य इत्यपि ॥५५॥ अष्टावरणवासिभ्यः स्वाहा ईशेश्वराय च ।
मत्स्याय कूर्मरूपाय स्वाहा वाराहरूपिणे ॥५६॥ कपिलाय च हरये स्वाहा श्रीपृथवे तथा ।
दत्तात्रेयाय हंसाय स्वाहा नृसिंहरूपिणे ॥५७॥ ऋषभाय वामनाय स्वाहा परशुधारिणे ।
यज्ञाय च कुमाराय स्वाहा रामाय धन्विने ॥५८॥ हयशीर्षाय वै स्वाहा स्वाहा नारदनामिने ।
राजराजाय वै स्वाहा स्वाहा व्यासाय कल्किने ॥५९॥ स्वाहा मोहिनिकायै च स्वाहाऽन्तर्यामिणे तथा ॥ स्वाहा सत्यनिवासिभ्यः स्वाहा श्रीपरमेष्ठिने ॥६० ॥ सरस्वत्यै च गायत्र्यै सावित्र्यै ब्रह्मयोषिते ।
असिक्न्यै च पलिक्न्यै च स्वधा वीरिणियोषिते ६१॥
सृष्ट्यै चाऽप्यथ सन्ध्यायै मोहिन्यै स्वाहिकेति च ॥ दक्षादिभ्यो वषट् चापि प्रजापतिभ्य इत्यपि ॥६२॥ मनुभ्यो वालखिल्येभ्यो वषट् ऋषिभ्य इत्यपि ॥ पितृभ्यश्च स्वधा चापि स्वाहा मेघेभ्य इत्यपि ॥६३॥ स्वाहा धर्माधर्मवंशगणाय काममूर्तये ॥ ऋतुभ्यो वत्सरादिभ्यः स्वधा युगेभ्य इत्यपि ॥६४॥ दिग्भ्यः स्वाहा गुणेभ्यश्च स्वाहा द्रव्येभ्य इत्यपि ।
कर्मभ्यश्चापि जातिभ्यः स्वाहा योगेभ्य इत्यपि ॥६५॥
इन्द्रादिभ्यो दिगीशेभ्यः स्वाहा लोकिभ्य इत्यपि ।
सत्याय तपसे स्वाहा जनाय महरेऽपि च ॥६६॥
स्वर्गाय स्वर्गवासिभ्यः स्वाहा देवेभ्य इत्यपि ।
स्वाहाऽप्सरोगणेभ्यश्च स्वाहा देवीभ्य इत्यपि ॥६७॥ सिद्धिभ्यश्च वसुभ्यश्च स्वाहा निधिभ्य इत्यपि ।
स्वाहा ग्रहेभ्यः सर्वेभ्यः सूर्येभ्यस्तिथिनामिने ॥६८॥ कलाभ्यश्च तथा स्वाहा नक्षत्रेभ्यश्च इत्यपि ।
तारकाभ्यस्तथा स्वाहा स्वाहा मरुद्भ्य इत्यपि ॥६९॥ रुद्रेभ्यो रुद्रपत्नीभ्यः स्वाहा श्रीशङ्कराय च ॥ कलाभ्यो योगिनीभ्यश्च स्वाहा खनिभ्य इत्यपि ॥७०
नरनारायणायेति स्वाहा वै शेषशायिने ॥ अवतारस्वरूपाय स्वाहा मूर्त्यात्मने तथा ॥७१॥ गङ्गाद्यायै तथा स्वाहा स्वाहा तीर्थेभ्य इत्यपि ।
कैलासगणकेशाय गणेशाय शिवाय च ॥७२॥ मात्रे योगिनिकाचक्राय च स्वाहा हनूमते ।
कार्तिकाय च हंसाय गरुडायाऽरुणाय च ॥७३॥ स्वाहाऽग्निमण्डलायेति स्वधा याम्याय चेत्यपि ।
श्रावणेभ्यः स्वधा चापि प्रेतेभ्यश्च स्वधा ह्यपि ॥७४॥ भूतप्रेतपिशाचेभ्यः कूष्माण्डेभ्यः स्वधा तथा ।
विनायकेभ्यो वेतालेभ्यश्च स्वाहा स्वधा तथा ॥७५॥
डाकिनीशाकिनीभ्यश्च स्वधा वै पितृयोषिते ।
सूतमागधबन्दीभ्यो वषट् तीर्थेभ्य इत्यपि ॥७६॥ मानवेभ्यस्तथा वषड् वृक्षद्रुभ्यो वषट् तथा ॥ वल्लीभ्यश्च वषट् तृणलताभ्यश्च वषट् तथा ॥७७॥
तिर्यग्भ्यश्च पशुभ्यश्च पक्षिभ्यश्च वषट् तथा ।
सरीसृपेभ्यः कीटेभ्यः क्षुद्रेभ्यश्च वषट् तथा ॥७८॥ गृहग्रामक्षेत्रदेवताभ्यः स्वाहा च भूमये ॥ वनारण्यनदेभ्यश्च वौषट् चाब्धिभ्य इत्यपि ॥७९॥ आश्रमेभ्यश्च वर्णेभ्यो वौषट् शैलेभ्य इत्यपि ।
स्वधा पित्रे पितामहाय प्रपितामहाय च ॥८०॥
मात्राद्यायै स्वधा चापि श्रौषट् विश्वाधिवासिने ।
गन्धर्वेभ्यः किन्नरेभ्यः श्रौषट् किम्पुरुषाय च ॥८१॥
साध्येभ्यश्चापि विश्वेभ्यः स्वाहा मरुद्भ्य इत्यपि ।
चारणेभ्यो वषट् वौषट् नारीभ्यो गणिकाभ्य आ ८२॥
साध्वीभ्यश्च तथा श्रौषट् त्यागिनीभ्यश्च सर्वथा ॥ यादोभ्यश्च वषट् नागसर्पेभ्यश्च वषट् तथा ॥८३॥ दैत्येभ्यो दानवेभ्यश्च राक्षसेभ्यो वषट् तथा ।
यक्षेभ्यश्च वषट् चापि काश्यपेभ्यो यथायथम् ॥८४॥
सर्वसृष्टिप्रदेवेभ्यः स्वाहाऽन्तर्यामिणे तथा ।
स्वाहा श्रीहरिकृष्णाय घनश्यामाय वै तथा ॥८५॥
बालकृष्णाय च स्वाहा श्रीकृष्णवल्लभाय च ॥ गोपालबालकायेति कम्भराश्रीसुताय च ॥८६॥
स्वाहा श्रीहरये श्रीमन्माणिकीपतये तथा ॥ लक्ष्मीनारायणायेति स्वाहा प्रीतिमयाय च ॥८७॥ पार्वतीपतये स्वाहा स्वाहा रासेश्वरीशिने ।
स्वाहा श्रीदुःखहालक्ष्मीस्वामिने परमात्माने ॥८८॥ स्वाहा जयाललिताधिपतये हंसयोगिने ।
अन्तर्यामिस्वरूपाय स्वाहा सर्वेश्वराय च ॥८९॥
यज्ञनारायणायेति स्वाहा श्रीवह्नये तथा ।
ओं परब्रह्मणे स्वाहा होमं भगवते ददुः ॥९०॥
सर्वे जीवास्तदा तृप्ता हव्यैः कव्यैर्मनोहरैः ।
इत्येवं हवनं कृत्वा भोजयामासुरादरात् ॥११॥ महीमानान् तथा देशनिवासान् कोटिकार्बुदान् ॥ मानवॉश्च चेतनाँश्च जडाँश्च भोज्यवस्तुभिः ॥९॥ आगता वै तत्र यज्ञे कोटिशो मानवास्तदा ॥ जगृहुश्चावशिष्टाश्च मन्त्रान् श्रीवैष्णवाँस्तथा ॥९३॥ इत्येवं नित्यमेवाऽपि जायन्ते हवनादयः ॥ वैष्णवाश्चापि जायन्ते मानवाः कोटिशोऽपि च ॥९४॥ सप्ताहेन सुसम्पाद्यो न्यवर्तत क्रतुः शुभः ।
अवभृथं ततश्चक्रुर्बालकृष्णसरोवरे ॥९५
सर्वे वै देहिनो दिव्याऽदिव्या येऽत्र समागताः ।
पावनास्ते च सञ्जाता बालकृष्णस्य योगतः ॥९६॥
दक्षिणाः प्रददौ कृष्णनारायणोऽतिभूयसीः ॥ शिबिदेवोऽपि सर्वस्वं राजा यज्ञे ददौ तदा ॥७॥ कन्यकानां शतं नैजं बालकृष्णाय वै ददौ ।
हस्त्यश्वरथसौवर्णयानविमानकानि च ॥९८॥
स्वर्णरूप्यकहीरादिगृहवाटीर्ददौ तथा ।
दासीदासाननेकाँश्च ददौ राजा क्रतौ तदा ॥९९॥
अन्नवस्त्रगवां दानं कोटिसङ्ख्यं ददौ नृपः ॥ सर्वस्वं हरये नैजं ददौ वै राधिके तदा ॥१००॥ परिहारं ततश्चक्रे रात्रौ सर्वे विशश्रमुः ॥ शिबिस्तु कारयामास मन्दिरं तत्र शोभनम् ॥१०१॥ बालकृष्णश्च षट्पत्नीसहितो यत्र राजते ॥ राधा लक्ष्मीर्माणिकी च कमला श्रीः रमा तथा ॥१०२॥
सेवयन्ति सदा कान्तं मन्दिरे व्योमगामिनि ।
पठनाच्छ्रवणाचास्य यज्ञस्य फलभाग् भवेत् ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने शिबिदेवराज्ये बालकृष्णसरोवरतटे महायज्ञे याज्ञिकव्यवस्था, यज्ञकार्यनिवृत्तिः, श्रीहरये नृपकृतशतकन्यादानं चेत्यादिनिरूपणनामा चतुर्विंशत्यधिकशततमोऽध्यायः ॥ १२४ ॥