१२०

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चाद् याम्यलोकैः प्रपूजितः ।
देवायतनभक्तस्तु पूजां प्राप्य यमार्पिताम् ॥१ ॥ विमानेन ययौ तस्मान्नैर्ऋतां दिशमेकलः ।
ददर्श नगरीं रम्यां स्वर्गतुल्यां सुवर्णजाम् ॥२ ॥ निर्ऋतानां राक्षसानां प्रासादैरभिशोभिताम् ।
लक्षयोजनविस्तीर्णप्राकारपरिवेष्टिताम् ॥३ ॥ मृषामायेन्द्रजालानां शालाभिः ऋद्धिसम्भृताम् ।
अर्बुदार्बुदपद्मानां राक्षसानां कुटुम्बकैः ॥४ ॥ निषेवितां महास्वर्गोपमां चाऽम्बरसंस्थिताम् ।
सूर्यवद् भ्राजमानां तां विलोक्य भक्तराट् तदा ॥५ ॥ दीर्घस्वरेण तालाद्यैः सहितं कीर्तनं हरेः ।
हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ॥६ ॥ बालकृष्ण हरेकृष्ण परब्रह्म रमापते ।
लक्ष्मीपते माणिकीश पारवतीप्रभापते ॥७ ॥ श्रीगोपाल सताम्पाल राधेश कम्भरात्मज ।
अक्षरेश च गोपेश मुक्तेश कुङ्कुमाधिप ॥८ ॥ कृष्णनारायण विष्णो परमेश जनार्दन ।
मुक्तिनाथ महाविष्णो श्रीपते पुरुषोत्तम ॥९ ॥ एवं नैर्ऋतपुर्यां स विचरन्नम्बरे गृणन् ।
नामानि श्रावयामास नैर्ऋतेभ्यो मनुं तथा ॥2.120.१ ०॥ नैर्ऋताश्च प्रजालोकाः श्रुत्वा श्रुत्वा शुभां गिरम् ।
निष्पापा अभवन् रक्षोगणाश्च दिव्यविग्रहाः ॥११ ॥ रक्षोभावविहीनाश्च दिव्यपार्षददेहिनः ।
सम्भूय मुक्तरूपाश्च विहाय नगरीं निजाम् ॥१ २॥ ययुर्भक्तबलेनैव कल्पलतोत्थवाहनैः ।
गजयानैर्विमानैश्च देवायनार्पितैस्तदा ॥१३॥ अक्षरं ब्रह्मलोकं ते तथा वैकुण्ठमित्यपि ।
तथा गोलोकमेवाऽन्येऽमृतं वाऽव्याकृतं परे ॥१४॥ यथेष्टं पार्षदा भूत्वा तत्तद्धामसु ते गताः ।
अनादिश्रीकृष्णनारायणनामश्रवेण ते ॥१५॥ महापुण्याब्धयो भूत्वा ययुर्वै ब्रह्म शाश्वतम् ।
अथ तस्मात्प्रदेशात् स व्योम्ना वै वारुणीं पुरीम् ॥१६॥ पश्चिमायां ययौ कुर्वन् नामसङ्कीर्तनं हरेः ।
लक्षयोजनविस्तीर्णप्राकारान्तःकृताश्रयाम् ॥१७॥ ददर्श तां भ्रमन् व्योम्ना विमानेन समन्ततः ।
श्रावयामास जनताः प्राचेतसीर्मुहुर्मुहुः ॥१८॥ ताः सर्वाश्च प्रजा दिव्या भूत्वा श्रुत्वाऽभिधां मनुम् ।
कल्पवल्लीकृतैर्यानैर्ययुस्ते धाम चैश्वरम् ॥१९॥ नरा नार्यो दिव्यदेहाः सर्वथा दिव्यरूपिणः ।
भिन्नधामानि च ययुर्देवायनसमागमात् ॥2.120.२०॥ अथ तस्मात्प्रदेशाच्च व्योम्ना वै वायवीं पुरीम् ।
ययौ देवायनो भक्तो गृणन्नाम हरेर्मुहुः ॥२१ ॥ वायूनां देवताः सर्वा मरुतां सृष्टयस्तथा ।
वायवीयशरीरास्ते श्रुत्वाऽभिधां मनुं हरेः ॥२२॥ लक्षयोजनमध्यस्थास्तदा पुरीप्रजाजनाः ।
दिव्यदेहधरा भूत्वा ययुर्धाम हरेः खलु ॥२३॥ विमानं तु भ्रमद् व्योम्ना सर्वां प्राचेतसीं पुरीम् ।
प्रजास्तत्र स्थिताः संश्रावयामास हरे हरे ॥२४॥ देवायनोऽपि ताः सम्प्रेषयामास हरेर्गृहम् ।
तथाऽन्यान्यपि धामानि कल्पवल्लीविमानकैः ॥२५॥ अथोत्तरां दिशं देवायनर्षिः प्रययौ ततः ।
कौबेरीं सुपुरीं लक्षयोजनायतदुर्गिकाम् ॥२६ ॥ ददर्शाऽम्बरमार्गेण गृणन् नाम मनुं हरेः ।
तां भ्रमन् सविमानेन तद्गतां यक्षकप्रजाम् ॥२७॥ श्रावयामास नामानि कृष्णनारायणप्रभो ।
हरेब्रह्म परब्रह्म यक्षान् मुक्तान् चकार सः ॥२८॥ क्षयं यातानि पापानि यक्षाणां पुण्यशालिनाम् ।
पुण्यान्येषां वर्धितानि नारायणश्रुतेर्बलात् ॥२९॥ दिव्यदेहास्ततो भूत्वा मुक्तदेहाः समन्ततः ।
कल्पवल्लीसमुत्पन्नविमानैरक्षराभिगैः ॥2.120.३० ॥ ययुस्ते तां पुरीं त्यक्त्वा वैकुण्ठं च गवां स्थलीम् ।
अक्षरं ब्रह्म परमं प्रापुस्ते श्रीहरेर्बलात् ॥३१ ॥ अथ देवायनो भक्तो ययौ चेशानपालिताम् ।
दिशं विलोकयामास पुरीं तत्रेशपालिताम् ॥३२॥ लक्षयोजनदुर्गान्तर्वर्तिनीं रुद्रशोभिताम् ।
शतरुद्राः कोटिरुद्राः शङ्करा ईशमूर्तयः ॥३३ ॥ ईशान्यो रुद्रपत्न्यश्च यत्राऽर्बुदाऽब्जकोटयः ।
भूताः प्रेताः पिशाचाश्च कूष्माण्डाश्च विनायकाः ॥३४॥ वेतालाश्च कुमाराश्च भैरवा गणकोटयः ।
वीराश्च भद्रदेवाश्च डाकिन्यः शाकिनीगणाः ॥३५॥ योगिन्यो योगिनश्चापि यतयश्च विरागिणः ।
वेतालन्यश्च कूष्माण्ड्यः कृत्याश्च पूतनागणाः ॥३६॥ दुर्गाश्च नन्दिनश्चापि चण्डाश्चण्ड्यः सतीगणाः ।
एते यत्राऽसङ्ख्यदासदासीगणावसन्ति हि ॥३७॥ ईशानस्य हरस्यैव दृष्टा देवायनेन हि ।
ततो विमानं व्योम्नि तद् भ्रामयामास भक्तराट् ॥३८॥ जगादोच्चैर्हरेर्नामाऽनादिकृष्णनरायण ।
कम्भरानन्दन विष्णो गोपालबाल माधव ॥३९॥ बालकृष्ण हरेकृष्ण पुरुषोत्तम केशव ।
अन्तरात्मन् प्रभाकान्त श्रीकान्त परमेश्वर ॥2.120.४० ॥ हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ।
स्वामिन्नारायण नारायणेश्वर रमेश्वर ॥४१ ॥ माणिक्येश्वर मायेश पार्वतीश्वर भूपते ।
लीलापते विभूतीश राधापते सताम्पते ॥४२॥ श्रीवल्लभ श्रीपद्मेश श्रीकृष्ण श्रीनरायण ।
श्रीराम श्रीकमलेश मङ्गलायतन प्रभो ॥४३॥ इत्येवं स गृणन् कृष्णनामानि च मनुं हरेः ।
श्रावयामास सर्वांश्च मोक्षयामास कर्मतः ॥४४॥ दिव्यदेहमयान् कृत्वा धामयोग्यान् गणान् शुभान् ।
विष्णुतुल्यान् शम्भुदासान् दासीः रमासमास्तथा ॥४२॥ प्रेषयामास वैकुण्ठं गोलोकं चाक्षरं तथा ।
अमृताख्यं दिव्यधामाऽव्याकृतं च किलासकम् ॥४६॥ साकेतं चापि ये यस्य योग्यास्ताँस्तत्र चैरयत् ।
मुक्तिं कृत्वा तु वै तेषां नामकीर्तनतो हरेः ॥४७॥ विमानैः प्रेषयित्वैव ततः पूर्वां दिशं ययौ ।
उज्ज्वलां कोटिसूर्याभां ददर्शेन्द्रपुरीं शुभाम् ॥४८॥ लक्षयोजनप्राकारवर्तिनीं स्मृद्धिसम्भृताम् ।
राजधानीं दिवो रम्यां लोकपालालयां पराम् ॥४९॥ सर्वसुवर्णप्रासादां दिक्पालाद्यधिवासिताम् ।
ग्रहनक्षत्रताराणां प्रासादैरभिशोभिताम् ॥2.120.५०॥ केतूनां सुरवर्गाणामालयैरभितः कृताम् ।
मन्दिरैः सर्वसिद्धीनां वसूनां च सुमन्दिरैः ॥५१ ॥ निधीनां मन्दिरैश्चापि सप्तर्षीणां निवासनैः ।
कृत्तिकानां महासौधैर्दिशां प्रासादकैर्युताम् ।५२॥ रुद्राणां चापि सूर्याणां कामानां चालयैर्युताम् ।
मनूनां च कलानां च तिथीनां मन्दिरैर्युताम् ॥५३॥ मरुतां वालखिल्यानां चारुणानां निवासनैः ।
देवीनामप्सरसां ब्रह्मसरसां तथालयैः ॥५४॥ तत्त्वानां सुसमुद्यानैः कल्पद्रुमैः समन्ततः ।
अमृतानां च कुल्याभिर्ब्रह्मवाट्यभिशोभिताम् ॥५५॥ सूतैर्मागधलोकैश्च बन्दीजनैः प्रसेविताम् ।
भाटचारणगन्धर्वैः किम्पुरुषैश्च किन्नरैः ॥५६॥ साध्यदेवैर्विश्वदेवैः सिद्धैश्च राजभिर्युताम् ।
सर्वश्रेष्ठां राजधानीं विलोक्य चातिसम्भृताम् ॥५७॥ विविधैर्देहिभिः रम्यां भिन्नजातीयवासिभिः ।
हर्षं प्राप्याऽतिवेगेन देवायनर्षिरुत्सुकः ॥५८॥ कीर्तयामास नामानि बालकृष्णस्य वै मनुम् ।
हरेकृष्ण हरेस्वामिन् हरेनारायण प्रभो ॥५९॥ बालकृष्ण हरेकृष्ण रामकृष्ण जनार्दन ।
श्रीगोपाल सताम्पाल कम्भरानन्दन प्रभो ॥2.120.६०॥ ब्रह्मप्रियापते राधापते रमापते विभो ।
आत्मपते प्राणपते परब्रह्म परेश्वर ॥६१ ॥ सर्वलोकपते कृष्णनारायण प्रभापते ।
माणिक्येश्वर मायेश सुरेश्वरेश्वरेश्वर ॥६२॥ श्रीभूपारवतीकान्त स्वामिन्नारायण प्रभो ।
अक्षरेश्वर मुक्तेश मोक्षप्रद महाप्रभो ॥६३॥ बालकृष्ण हरेकृष्ण लक्ष्मीकान्त दिवस्पते ।
अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम ॥६४॥ नारायणेश कृष्णेश कृष्णवल्लभसत्पते ।
विद्याव्यासाऽवतारेश नरनारायण प्रभो ॥६५॥ एवं नामानि बहुधा गृणन् ताली प्रवादयन् ।
भ्रामयन् स्वं विमानं चाभितश्चैन्द्रीं पुरीं तदा ॥६६॥ राधिके! भक्तराट् देवायतनः सात्त्वताग्रणीः ।
मोक्षयामास देवांश्च महेन्द्रपुरवासिनः ॥६७॥ दिव्यदेहान् मुक्तदेहान् धामयोग्यान् विधाय सः ।
प्रेषयामास कल्पद्रुलतोत्थैश्च विमानकैः ॥६८॥ वैकुण्ठं चामृतं चाव्याकृतं गोलोकमक्षरम् ।
परमं धाम मुक्तानां वासार्हं कार्ष्णवाल्लभम् ॥६९॥ धर्मभक्तियुतं सर्वस्वामिना परमात्मना ।
अधिष्ठितं परन्धाम परमेशनिषेवितम् ॥2.120.७०॥ देवा नैकविधा देव्यो दिव्यदेहाश्चतुर्भुजाः ।
द्विभुजाश्चाऽष्टहस्ताश्च तथा षोडशबाहवः ॥७ १ ॥ भूत्वा भूत्वा च नामानि श्रुत्वा धाम ययुर्हरेः ।
एवं स्वर्गस्थितान् कृत्वा मुक्तान् नाम्नां प्रकीर्तनैः ॥७२॥ देवायतनभक्तश्च ययावग्निपुरीं ततः ।
यत्राऽग्नयो विभिन्नाश्च वसन्ति कोट्यसङ्ख्यकाः ॥७३ ॥ गर्भाग्नयश्च पाकानामग्नयो जाठराग्नयः ।
ऊष्माग्नयस्तथा होमाग्नयः क्ष्वेडाग्नयस्तथा ॥७४॥ चिन्ताग्नयस्तथा देवाग्नयश्चिताग्नयस्तथा ।
दावाग्नयः शीतवह्निगणाश्चामाग्नयस्तथा ॥७५॥ प्रेताग्नयश्च देवानां मुखरूपाग्नयस्तथा ।
पावकः पवमानश्च पविः श्मशानजास्तथा ॥७६॥ घटाग्नयः सर्वभक्षा हव्यभक्षाग्नयस्तथा ।
वडवानलरूपाश्च तथा मेघानलादयः ॥७७॥ आर्तवा अग्नयश्चापि क्रूराः सौम्या गणास्तथा ।
खन्यग्नयश्च भूतानामग्नयो भिन्नजातयः ॥७८॥ श्वेता रक्तास्तथा कृष्णा नीला पीता हरिद्गुणाः ।
कपीशाः सप्तजिह्वाश्च बहुजिह्वाः प्रदाहकाः ॥७९॥ तान् सर्वान् वीक्ष्य भक्तेशोऽम्बरे विमानसंस्थितः ।
कीर्तयामास बहुधोच्चकैर्नामानि वै हरेः ॥2.120.८०॥ मनुं संश्रावयामास हरे कृष्ण हरे हरे ।
बालकृष्ण परब्रह्म माणिकीराधिकापते ॥८१ ॥ यज्ञनारायण कृष्णवल्लभ श्रीसतीपते ।
परमेश्वर देवेश मुक्तधामपते हरे ॥८२॥ प्रभाकान्त रमाकान्त कमलाकान्त माधव ।
श्रीभूलीलापते कृष्णनारायण सतीपते ॥८३ ॥ लक्ष्मीनाथ च दीनानां पते ब्रह्मप्रियापते ।
पार्वतीललितास्वामिन् वृन्दाविभूतिपालक ॥८४॥ सर्ववह्निपते विष्णो महाविष्णो नरायण ।
सर्वावतारहेतो श्रीपते गोपालनन्दन ॥८५॥ इत्येवं भक्तराट् देवायतनो नाम वै हरेः ।
गृणन् संश्रावयामास तालवादनकैः सह ॥८६ ॥ भ्रमित्वा परितो वह्नेः पुरीं लक्षायतां शुभाम् ।
वह्नीन् वह्निप्रजाः सर्वा दिव्या भक्तश्चकार ह ॥८७॥ द्विभुजान् सुचतुर्बाहून् बहुबाहून् परान् शुभान् ।
नामकीर्तनसामर्थ्यात् कृत्वा दत्वा मनुं हरेः ॥८८॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
‘शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा’ ॥८९ ॥ ‘कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव’ ॥2.120.९०॥ ‘ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे’ ॥९१ ॥ ‘कृष्णवल्लभभक्तोहं श्रीहरिः शरणं मम’ ।
इत्येवं तु मनून् तेभ्यो दत्वा मुक्तान् विधाप्य च ॥९२॥ वैष्णवान् धामयोग्याँश्च विमानेषु निषाद्य च ।
प्रेषयामास तान् धाम वैकुण्ठं चामृतं तथा ॥९ ३ ॥ अव्याकृतं च गोलोकं परमाऽक्षरधाम च ।
जयशब्दान् प्रकुर्वन्तो ययुस्ते धाम वै हरेः ॥९४॥ इत्येवं राधिके! भक्तो देवायतनसञ्ज्ञकः ।
श्रीहरेश्चात्मवेदी वै मोक्षकर्ताऽभवत्पुरा ॥९५ ॥ अष्टानां दिक्प्रपालानां धामभ्यस्ताः प्रजाः स हि ।
मोक्षयामास सर्वाश्च प्रेषयामास मोक्षणम् ॥९६ ॥ नामकीर्तनभक्त्यैव बलेन श्रीहरेस्तथा ।
मनून् दत्वा स सर्वेभ्यो विधाय वैष्णवान् शुभान् ॥९७॥ रिक्तान् वै तत्प्रदेशाँश्च कारयामास नामतः ।
न भूतो वा न च भावी देवायनसमो मुनिः ॥९८॥ आद्यसृष्टौ हि भक्तोऽयं सञ्जातः कृष्णविग्रहः ।
अथ तस्या दिशश्चायं भक्तो विमानमास्थितः ॥९९॥ आययौ कुङ्कुमवापीक्षेत्रे हर्षसमन्वितः ।
अनादिश्रीकृष्णनारायणं नत्वा पुरः स्थितः ॥2.120.१० ०॥ बालकृष्णः समुत्थाय तं भक्तं परिषस्वजे ।
ददौ हृदये चरणौ हस्तौ च मस्तके तथा ॥१०१ ॥ प्रसादं भोजयामास गले हारं ददौ हरिः ।
ऊर्जे धवलप्रतिपद्दिने तस्मै हरिः प्रभुः ॥१ ०२॥ ददौ पारितोषिकं च तथाऽऽवासं निजालये ।
स विश्रान्तिं ततश्चक्रे कार्तिके पूर्णिमाऽवधिम् ॥१०३ ॥ राधिके! पठनादस्या मद्भक्तस्य चमत्कृतेः ।
पाठनाच्छ्रावणाद्वापि श्रवणान्मुक्तिभाग्भवेत् ॥१ ०४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवायतनर्षेर्भक्त्या प्रसन्नो बालकृष्णस्तद्वशीभूतो जलात्तं ररक्ष, अष्टदिक्पालप्रजाभ्यः श्रीहरेर्नाम श्रावयित्वा
तद्द्वारा तासां मुक्तिं चकारेत्यादिनिरूपणनामा विंशत्यधिकशततमोऽध्यायः ॥१२० ॥