११८

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चाऽन्यं चमत्कारं हरेः शुभम् ।
भक्तरक्षाकरं श्रेष्ठं पापतापप्रणाशनम् ॥१ ॥ सौराष्ट्रे जयनगरेऽभवत् सन्तारणो द्विजः ।
वेदधर्मरतः सम्यक् पूजाविधानतत्परः ॥२ ॥ षट्कर्मनिरतः कथावाचने गुणकीर्तने ।
कथायाः श्रवणे विष्णोः स्मरणे पादसेवने ॥३ ॥ अर्चने वन्दने दास्ये सख्ये चात्मनिवेदने ।
महाभागवतश्चासीत् कृष्णपूजापरायणः ॥४ ॥ स्वयं द्विजः समुत्थाय प्रातर्नित्यं नदीतटम् ।
गत्वा स्नात्येव भद्रायां कृत्वा सन्ध्यां च वन्दनम् ॥५ ॥ जलस्य कलशं मूर्घ्नि स्वयं नीत्वैव भावतः ।
शालग्रामस्य वै पूजां स्वाऽऽहृतकुसुमादिभिः ॥६ ॥ स्वघृष्टचन्दनाद्यैश्च करोत्येव सदा द्विजः ।
पूजायां जायमानायां तस्य पत्नी पतिव्रता ॥७ ॥ तरण्याख्या तु सामग्रीर्ददात्येव हि भावतः ।
जलं पुष्पं फलं चापि वस्त्रं भूषां घृतादिकम् ॥८ ॥ पुत्री तस्य तरलिका कन्या कुमारिका सती ।
शीघ्रं पूजासमयाद्वै पूर्वमुत्थाय नित्यदा ॥९ ॥ स्नात्वा नत्वा स्वपितरौ देवं नत्वाऽतिभावतः ।
चुल्लिकां वह्नियुक्तां च विधाय त्वरिता सती ॥2.118.१० ॥ दुग्धपाकं पूरिकाश्च पक्त्वा नैवेद्यमुत्तमम् ।
समर्पयति कृष्णाय विष्णवे चातिभक्तितः ॥११ ॥ द्वितीया कन्यका नाम्ना कुमुदा सर्वदा प्रगे ।
गां निजां दोहयित्वैव क्षीरं ददाति चार्चने ॥१२॥ दुग्धसारादिकं कृत्वा नित्यं ददाति चार्चने।
पुत्रस्तस्य विनोदश्च देवपुष्पद्रुमाश्रये ॥१३ ॥ जलसेचनकार्यादि करोत्येव तु सेवनम् ।
पात्राणां मञ्जनं धूपं दीपं जलार्पणादिकम् ॥१४॥ करोति सर्वदा पार्श्वे पितुः स्थित्वा यथास्थलम् ।
द्वितीयस्तस्य पुत्रोऽपि वसन्तर्षिश्च वैष्णवः ॥१7८१॥ वायुदानं व्यजनेन करोति पूजनादिषु ।
मक्षिकाद्रावणं चापि शर्करातुलसीदलम् ॥१६॥ फलान्यपि ददात्येव यथापेक्षं च सेवनम् ।
अथ पूजोत्तरं सर्वे कुर्वन्ति स्तवनं प्रभोः ॥१७॥ प्रदक्षिणं दण्डवच्च पुष्पाञ्जलिं ददत्यपि ।
क्षमायाञ्चां प्रकुर्वन्ति ततो नृत्यन्ति वै मुदा ॥१८॥ वादयन्ति सुवाद्यानि कीर्तयन्ति प्रगीतिकाः ।
गायन्ति तालमानाद्यैर्विविधैर्नर्तनैः सदा ॥१९ ॥ एवं सम्पूजयित्वा च रमाकान्तं सदा पतिम् ।
ततः प्रसादं भक्तेभ्यः संविभज्य प्रदाय च ॥2.118.२ ०॥ गृहिणस्ते समश्नन्ति शर्करान्नजलादिकम् ।
मध्याह्ने च तथा सायं पूजयन्ति विधानतः ॥२१ ॥ जीविकार्थं तु दिवसे यतन्तेऽपेक्षितं मनाक् ।
एवं प्रयाते समये भगवान् पुरुषोत्तमः ॥२२॥ सुप्रसन्नोऽतिभक्त्यैव साक्षाद् बभूव चैकदा ।
आषाढे कृष्णपक्षे वै रात्रावेकादशीव्रते ॥२ ३ ॥ मुकुटं धारयन् रम्यं वक्रं सौवर्णमुत्तमम् ।
मयूरवर्यपिच्छाग्रं मणिरत्नादिशोभितम् ॥२४॥ कुण्डले मकराकारे दधन् रम्ये तु कर्णयोः ।
तिलकं कौङ्कुम मध्ये भाले बिभ्रत् सुचन्द्रकम् ॥२५॥ मन्दहास्याननो दिव्यस्मेराकर्षितमानसः ।
कण्ठे सुकौस्तुभहारान् तूलसीपत्रमालिकाः ॥२६॥ सौवर्णहारमालालीन् दधन् कट्यां तु मेखलाम् ।
सौवर्णीं कटके चापि भुजयोश्च प्रकोष्ठयोः ॥२७॥ शृङ्खले स्वर्णजे रम्येऽङ्गुलीयकोर्मिकाः करे ।
यष्टिं च पौरटीं मुक्तामाणिक्यहीरकान्विताम् ॥२८॥ पादुके रम्यसौवर्णजनिते धारयन् हरिः ।
पीताम्बरश्च रुचिरो व्यदृश्यत यदृच्छया ॥२९ ॥ तेजोमण्डलमध्यस्थो दासदासीगणार्चितः ।
युवा राजाधिराजश्च राधारमादिसेवितः ॥2.118.३ ०॥ ततो भक्तान् तिरोभाव्य किशोरोऽभूत् स्वयम्प्रभुः ।
बालकृष्णस्वरूपः श्रीमहाराजाधिराजकः ॥३ १॥ ‘किशोरो भगवान् कृष्णो ददौ मन्त्रं स्वयं प्रभुः।
‘ओं नमः श्रीकृष्णनारायणाय रवामिने स्वाहा’ ॥३२॥ ददौ च मस्तके हस्तं प्रभुस्तत्र तिरोऽभवत् ।
एवं ततो दिनान्नित्यं प्रारभ्योषःसमर्चने ॥३३॥ पूजायां श्रीमहाराजो नित्यमायाति केशवः ।
किशोरः श्रीकृष्णनारायणः श्रीभूप्रसेवितः ॥३४॥ सर्वोपचारान् गृह्णाति पूजायामर्पितानि वै ।
श्रावणे भाद्रके मासे तथाऽऽश्विनेऽपि वै प्रभुः ॥३५ ॥ पूजां तेषाममायां वै गृहीत्वा प्राह तान् हरिः ।
ऊर्जकृष्णदलाष्टम्यां मम जन्ममहोत्सवः ॥३६।
चतुर्दशोऽश्वसरसस्तटेऽक्षराख्यभूतले ।
भविष्यतीति युष्माभिश्चागन्तव्यं मम गृहम् ॥३७॥ पितृभ्यां चापि कन्याभिः पुत्रैः सह ममालये ।
आगमिष्यन्ति त्रैलोक्येश्वरा ममार्चनाय यत् ॥३८॥ इत्युक्त्वा भगवाँस्तेभ्यो भक्तेभ्योऽथ तिरोऽभवत् ।
भक्तास्ते तीर्थयात्रार्थं समुत्सुकास्ततोऽभवन् ॥३९॥ षष्ठ्यां प्रसाध्य पाथेयं गृहं पिधाय तालकैः ।
उपदाः सुभगा गृह्य पद्भ्यां प्रस्थानमाचरत् ॥2.118.४० ॥ सप्तम्यां सायमेवैते प्रापुस्त्वश्वसरोवरम् ।
दृष्ट्वा कुङ्कुमवापीं च तथा श्रीलोमशाश्रमम् ॥४१ ॥ ऋषीन् सतीः साधुजनान् देवान् देवालयान् बहून् ।
क्षेत्रपान् क्षेत्ररक्षाँश्च नगरं वाटिकादिकाः ॥४२।
उद्यानानि विचित्राणि दैविवृक्षवनानि च ।
यज्ञशालाः कथाशाला धर्मशाला महालयान् ॥४३॥ दृष्ट्वा श्रीकम्भरालक्ष्मीं श्रीगोपालं हरिं तथा ।
दैवीं भूमिं विलोक्यैव ब्रह्मप्रियाश्च कन्यकाः ॥४४
विमानानि सुदिव्यानि मुक्तान् सौधान् समन्ततः ।
अवापुः परमाश्चर्यं परमेश्वरमद्भुतम् ॥४५॥ अनादिश्रीकृष्णनारायणं नत्वाऽऽर्च्य वै ततः ।
सत्कृता भोजितास्तेन नारायणेन ते जनाः ॥४६॥ न्यूषुः रात्रिं महीमानगृहे सौधेऽतिसुन्दरे ।
चक्रुर्जागरणं रात्रौ सप्तम्यां प्रेमविह्वलाः ॥४७॥ ददृशुर्व्योममार्गेण विमानान्यागतानि ते ।
येषु मुक्तास्त्वक्षरस्य तथा गोलोकवासिनः ॥४८॥ वैकुण्ठस्य तथा मुक्ता वैराजाऽमृतवासिनः ।
ब्रह्मविष्णुमहेशाद्या ईश्वराः पितरस्तथा ॥४९।
ऋषयः स्वर्गिणो देवा मेर्वाश्रयाः सुरादयः ।
दिक्पाला लोकपालाश्च मानवाः साधवोऽमलाः ॥2.118.५०।
सिद्धाः साध्व्यः सतीनार्यः साङ्ख्ययोगिन्य इत्यपि ।
नदा नद्यश्च तीर्थानि समुद्राः ऋतवस्तथा ॥५ १ ।
मासा गुणा अरण्यानि पातालवासिनोऽसुराः ।
दिव्या भक्तास्तथा दैत्या दानवाश्चारणादयः ॥५२।
राजानो दिव्यभक्ताश्च संस्थिताः सन्ति येषु वै ।
तादृशानि विमानानि सूर्यचन्द्रनिभानि वै ॥५३।
कुमारीगणगीतैश्चोद्घोषितानि शुभानि च ।
वाद्यनादातिशब्दानि व्योम्नोऽवतेरुरक्षरे ॥५४।
क्षेत्रे कुङ्कुमवाप्यास्तु सन्निधो वै सहस्रशः ।
तेषां प्रभाः प्रकाशाश्च कोटिचन्द्रसमास्तदा ॥५५॥ अभवन् गगने भूमौ नगरे सर्वतो दिशि ।
रजोमात्रं नान्धकारस्तत्राऽभूद्धामसदृशे ॥५६॥ अनादिश्रीकृष्णनारायणः श्रीभगवान् प्रभुः ।
तथा गोपालकृष्णाख्यः पिता माता तु कम्भरा ॥५७॥ सन्तोषा च स्वसा भ्राता भगवाँश्च शुकस्तथा ।
वल्लभश्चाऽथ वै हेमन्तकोऽपि भगवाँस्तथा ॥५८॥ दासौ द्वौ मञ्जुला हंसा सगुणा च सखीगणः ।
स्वागतं वासमर्घ्यं च मधुपर्कं ददुः सुखम् ॥५९॥ अथ वै ब्राह्मसमये वेदानूचुर्महर्षयः ।
तदा मङ्गलतूर्याणि त्ववाद्यन्त समन्ततः ॥2.118.६०॥ मुनयो भजनं चक्रुः साधवो ध्यानमाचरन् ।
जनाश्चापि महीमाना ययुः स्नातुं सरोवरम् ॥६१॥ सन्तारणो द्विजश्चापि तरणिस्तस्य भामिनी ।
तरला च कुमुदा च विनोदश्च वसन्तकः ॥६२॥ सर्वे ते वै कुटुम्बं च स्मृत्वा कृष्णनरायणम् ।
ययुः स्नातुं चाश्वपट्टसरोवरजले तदा ॥६३॥ नौकामादाय शबरं तीरस्थं ते व्यलोकयन् ।
विहर्तुमानसा वार्धौ नावमारुरुहुश्च ते ॥६४॥ शुल्कं दत्वा निषेदुश्च नाविको नावमैरयत् ।
जलमध्ये गता नौका क्रोशादप्यधिकं यदा ॥६५ ॥ तदा नौका अपराश्च मानवैरधिरोहिताः ।
शतशश्चापि सरसो मध्ये तटे समन्ततः ॥६६ ॥ विहरन्ति स्म जलधौ सुखान्ननु सरोवरे ।
यदृच्छया महत्या सा नौकया सह वै तदा ॥६७॥ आघातं सहसा प्राप्य वक्रा चाधोमुखी क्षणात् ।
अभवत् तद्भयेनैते नौकास्थाः सहसा तदा ॥६८॥ एकपार्श्वेऽपसस्रुश्च पतिताः सलिलान्तरे ।
नौकाऽपि जलमध्ये सा मग्ना जलप्रपूरिता ॥६९॥ अत्रोपायो न चैवाऽस्ति समुद्धर्तुं तदा हि तान् ।
महत्या नौकया चापि तथा नौकाभिरेव च ॥2.118.७०॥ सहसा तत्र ते सर्वे धीवरैः परिमार्गिताः ।
अगाधे तु जले तत्र मग्नाः षडेव तत्क्षणात् ॥७१ ॥ तरणस्य कलां नैते जानन्ति तेन हेतुना ।
सरस्येव तले मग्ना धीवराणां न हस्तगाः ॥७२॥ अभवैंस्ते तले मग्नाः पपुर्जलं विशेषतः ।
सस्मरुः श्रीकृष्णनारायणं श्रीपरमेश्वरम् ॥७३॥ आर्त्तिहं त्राणकर्तारं निराधारजलान्तरे ।
तुष्ठुवुर्मनसा मृत्युपाशाधीनाश्च वै हरिम् ॥७४॥ जलमग्नां महीं यश्च समुद्दधार सूकरः ।
जलस्थां च महानौकां जग्राह मकरश्च यः ॥७५॥ जलमग्नं महाशैलं पृष्ठे कूर्मो दधार यः ।
जलमग्नं गजं भक्तं यो ररक्ष प्रभुर्हरिः ॥७६॥ जलमग्नं च वणिजं ररक्ष भगवाँस्तु यः ।
जलमग्नं महादेशं चोष्ट्रालयं ररक्ष यः ॥७७॥ जलमग्नं नृपं यश्च ररक्षोदयनं पुरा ।
माञ्झाम्बिकां जलमग्नां समुद्रे संररक्ष यः ॥७८॥ एवं चान्यान् जलमग्नान् ररक्ष वहुधा प्रभुः ।
निजभक्तान् यदि सत्यान् मन्यसे त्वं नरायण ॥७९॥ तदाऽस्मान् दयया कृष्ण सन्तारय जलान्तरात् ।
मृत्युस्ते सर्वदाऽधीनः कालस्ते कवलस्तथा ॥2.118.८०॥ जलं प्राणनिरोधश्च तव शक्तिवशौ सदा ।
अन्तरात्मा भवानास्ते त्वकालमृत्युहारकः ॥८ १॥ हर दुःखानि देवेश यदि त्रातुं हि मन्यसे ।
त्वं नौकास्त्वं महाप्राणस्त्वं जीवस्त्वं च जीवनम् ॥८२॥ त्वमेव जलमध्ये वै प्रह्लादं प्राणदोऽभवः ।
नास्ति स्तुतेस्तु समयः प्राणा जलनिरोधिताः ॥८३॥ स्थैर्यं यान्ति हृदात्मा च मूर्धानं प्रतिगच्छति ।
क्षणं मृत्योर्मध्यवर्ति विद्यते नाऽधिकं ततः ॥८४॥ इत्येवं ते जलमध्ये राधिकेऽतीव मूर्छिताः ।
स्तुत्वाऽर्पणं च शरणं जग्मुः श्रीकम्भरासुतम् ॥८५॥ सर्वज्ञो भगवान् श्रीशो बालकृष्णस्त्वरायुतः ।
धृत्वा वै कामठं रूपं महाकच्छपमुत्तमम् ॥८६॥ षड्भक्तान् सहसा पृष्ठे धृत्वा तांश्च जलोपरि ।
आनयामास भगवान् निर्नौकाजलमस्तके ॥८७॥ मूर्छां जलं च सहसा बालरूपधरः प्रभुः ।
हस्ताभ्यां च मुहुः स्पृष्ट्वा वारयामास तत्क्षणम् ॥८८॥ पीतं जलं विलीनं च करस्पर्शनमात्रतः ।
मूर्छा दूर गता चापि भानवन्तोऽभवँश्च ते ॥८९॥ स्वस्तिदा महति कूर्मे स्थितान् ददृशुरन्तिके ।
बालं गोपालकृष्णस्य रक्षकं ददृशुस्तथा ॥2.118.९० ॥ दिवरूपधरं कृष्णं दृष्ट्वा शान्तिं परां ययुः ।
मार्गयद्भिर्जनैः षट् ते दृष्टा वै कमठोपरि ॥९ १ ॥ अनादिश्रीकृष्णनारायणेन रक्षिता इति ।
सहसा ते तदा याता नौकायां कूर्मपृष्ठतः ॥९२॥ जगृहुस्तान् नाविका वै कूर्मश्चाऽदृश्यतां गतः ।
शङ्खचक्रगदापद्मधरोऽभूद् भगवान् हि सः ॥९३॥ सर्वैरेव क्षणं दृष्टः कूर्मो जलान्तरे नरः ।
बालकृष्णे लयं यातश्चैवं दृष्टो जनैस्ततः ॥९४॥ नौकया तान् समगृह्य तीरमानीय तत्यजुः ।
आश्चर्यं श्रीबालकृष्णचमत्कारात्मकं प्रजाः ॥९५॥ आविदन् रक्षकं कृष्णं भेजुर्वै भावतस्ततः ।
अथ जन्मोत्सवपूजां कर्तुं ततश्च मण्डपे ॥९६ ॥ आययुरीश्वरा मुक्ता देवा देव्यश्च देहिनः ।
पूजनं सर्ववस्त्वाद्यैर्व्यधुश्चारार्त्रिकं व्यधुः ॥९७॥ उपदाश्चार्पयामासुस्तथा प्रददुराशिषः ।
श्रीगोपालो महीमानान् भोजयामास सर्वशः ॥९८॥ दत्वा दानानि बहूनि मत्वोपकृतिमुत्तमाम् ।
सर्वान् विसर्जयामास महीमानान् ययुश्च ते ॥९९॥ सन्तारणो द्विजस्तत्र बालकृष्णाय वै तदा ।
कन्याद्वयमतं ज्ञात्वा कन्याद्वयं ददौ मुदा ॥2.118.१० ०॥ जग्राह भगवान् कन्यारत्नद्वयं श्रियः पतिः ।
कन्यके कृतकृत्ये च सञ्जाते पतिलाभतः ॥१० १॥ लोमशस्याऽऽश्रमे चोभे लोमशाय हरिर्ददौ ।
रक्षितुं कन्यके ब्रह्मप्रियाभिः सह माधवः ॥१ ०२॥ सन्तारणः सपत्नीकः सपुत्रः श्रीहरेस्तदा ।
पूजां जन्मोत्सवं कृत्वा दृष्ट्वा कृतेष्टकोऽभवत् ॥१ ०३॥ आज्ञामादाय स विप्रो ययौ जयन्तपत्तनम् ।
राधिके तन्महातीर्थं शुभं सन्तारणाभिधम् ॥१ ०४॥ अभवद् यत्र वै कूर्मो राजते भगवान् स्वयम् ।
तीरे मन्दिरमध्ये च स्नानात् संसारतारकः ॥१ ०५॥ पठनाच्छ्रवणाच्चापि पापतापात्स तारयेत्।
स्मरणादस्य मोक्षः स्यात् किं पुनः सेवनात्प्रभोः ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽश्वपट्टसरोवरे चतुर्दशवर्षीयबालकृष्णाष्टमीप्रातःकाले जलमग्नानां सन्तारणादिविप्राणां कूर्मरूपेणोद्धरणमित्यादि-
निरूपणनामाऽष्टादशाधिकशततमोऽध्यायः ॥११८ ॥