११५

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! चैवमाज्ञाप्य सरितात्मिकाः ।
स्वस्वप्रदेशान् गन्तुं च ततः श्रीशङ्करं हरिः ॥१ ॥ प्राह योगिन् तव भक्ता इमे योद्धार एव ये ।
तेभ्यो राज्यं प्रदातव्यं तद्योग्यं पार्वतं शुभम् ॥२ ॥ कैलाससन्निधौ चात्र पर्वते तु हिमालये ।
भूतानां पर्वताः सन्तु त्वासामस्योर्ध्वभूमिषु ॥२ ॥ पार्वतीयं महाराज्यं भूतासनं तदस्तु वै ।
इत्युक्त्वा शम्भवे कृष्णनारायणो ददौ शुभम् ॥४ ॥ मुकुटं भूतनाथेति नाम्ना राज्यं ददौ तदा ।
भूतनाथस्वरूपेग भगवान् भैरवात्मकः ॥५ ॥ स्वस्वरूपाय भूतानामधिपाय महात्मने ।
भैरवाय ददौ तत्र मुकुटं शङ्करोऽपि च ॥६ ॥ भैरवो राज्यमासाद्य नत्वा नारायणं प्रभुम् ।
हरं स्वपितरं नत्वा गृहीत्वा भूतमण्डलम् ॥७ ॥ षष्टिलक्षाधिकं शैलं हिमालयं ययौ द्रुतम् ।
भूतानामालयास्तेन पर्वता वै कृतास्तदा ॥८ ॥ एवं तस्मै प्रदत्वैव राज्यं श्रीभगवान् प्रभुः ।
ब्रह्माणं प्राह तत्रैव भवान् चेरावतीभुवम् ॥९ ॥ ब्रह्मदेशमितिख्यातां शास्तु रक्षतु सर्वदा ।
शङ्करो यातु पिङ्गायां भूमौ प्राचीनराज्यके ॥2.115.१० ॥ विष्णुर्यातु श्यामराज्यं भवन्नाम्ना प्रसिद्धिमत् ।
एवमाज्ञाप्य तान्देवान् विसर्जयित्वा चापगाः ॥११ ॥ ऋषीन् तत्तत्प्रदेशीयान् आज्ञाप्य गन्तुमित्यथ ।
स्वस्वस्थानानि नित्यानि चोपदेष्टुं प्रजा अपि ॥१२॥ सर्वविधान् देवसङ्घान् जातान् योद्धॄन् हरिस्ततः ।
प्राह मे सामवेदाख्ये देशे वसन्तु तेऽनुगाः ॥१३ ॥ येऽवशिष्टा भवन्त्यत्र ब्रह्मपुत्र्यास्तु पूर्वगाः ।
कामरूपप्रदेशेषु पतत्कायावधिं द्रुतम् ॥१४॥ दक्षिणे तु प्रदेशेऽत्र यावद्वै लुकशायिनम् ।
नग्ना ये पर्वताश्चापि लुकहीतानदीं प्रति ॥११ ॥ तन्मध्ये सामदेशम् आ अभिव्याप्य वसन्त्विति ।
सर्वयोद्धृगणानेवं वासयित्वा हरिः स्वयम् ॥१६ ॥ आसामानां नृपं तत्र शिवलिङ्गं चकार ह ।
शिवलिङ्गाख्यकगणो नीत्वा सर्वान् भटाँस्ततः ॥१७॥ आसामीयप्रदेशे संवासं चक्रे समन्ततः ।
शिवलिङ्गोद्भवां देवीं शिवां कामस्वरूपिणीम् ॥१८॥ कामरूपीयकामाक्षीं सह नीत्वा ययौ गणः ।
पर्वते तन्मन्दिरं च शुभमुच्छ्रितमालयम् ॥१९॥ कृत्वा संस्थापयामास कामरूपां सतीं गणः ।
मातरं तां सदा मत्वा पूजयामास सादरम् ॥2.115.२०॥ स्वनाम्ना नगरं श्रेष्ठं स्थापयामास चोच्छ्रये ।
एवं नारायणो दत्वा शिवलिङ्गाय राज्यकम् ॥२१ ॥ भटान् सर्वान् व्यवस्थाप्य देवान् विसृज्य वै मुनीन् ।
ततो विमाने सङ्गृह्य कोटिकन्याः प्रजार्पिताः ॥२२ ॥ दशसाहस्रकन्याश्च सेविका विंशतिश्रिताः ।
विंशतिपितृकन्याश्च तथा ब्रह्मप्रियाः पराः ॥२३ ॥ सङ्गृह्य श्रीकृष्णनारायणस्वामी सलोमशः ।
मातापितृयुत आयाद् व्योम्ना काशीं श्रियाः स्थलीम् ॥२४॥ शिवराजगृहे यत्र निजलक्ष्मीर्हि कन्यका ।
राजते सप्रतीक्षा वै प्रति श्रीपुरुषोत्तमम् ॥२५॥ तत्रोद्याने वरणायास्तटे निजं विमानकम् ।
अवतार्य भुवि कृष्णनारायणो ययौ गृहम् ॥२६॥ शिवराजं हरं नत्वा श्वशुरं पार्वतीं तथा ।
भक्तं जयं च चन्द्रं च कृष्णं धेनुपमित्यपि ॥२७॥ एकान्ते स्वसतीं लक्ष्मीं मिलित्वा स्वप्रियां ततः ।
तां विमाने सर्वकन्याऽऽश्लेषं तासां च दर्शनम् ॥२८॥ कारयित्वा तथा पित्रोर्लोमशस्यापि दर्शनम् ।
आश्वास्य च पुनस्तस्याः पितृगेहे निवेश्यताम् ॥२९॥ आशीर्दत्वा विमानेन भगवान् पुरुषोत्तमः ।
आययौ कुङ्कुमवापीक्षेत्रं चाऽक्षरसञ्ज्ञकम् ॥2.115.३०॥ फाल्गुनस्याऽसिते पक्षे द्वितीयायां हरिः स्वयम् ।
आययौ कुङ्कुमवापीक्षेत्रं सायं परः प्रभुः ॥३१ ॥ मासान्ते त्वागतं वीक्ष्य भ्रातृसम्बन्धिसज्जनाः ।
रुद्रो देवाश्च तीर्थानि अश्वपट्टसरः स्वयम् ॥३२॥ ऋषर्योऽशाऽवताराश्च तथा भक्ताश्च कोटिशः ।
आययुः सन्निधौ दृष्ट्वा तेजो विलक्षणं तु खे ॥३३ ॥ दृष्ट्वा दिव्यं विमानं वै श्रीनारायणशोभितम् ।
कोटिसूर्यप्रभं रम्यं चन्द्रकान्तिसुशीतलम् ॥३४॥ कोटिकन्याऽयुतकन्याविंशतिकन्यकान्वितम् ।
जयशब्दान् प्रचक्रुस्तेऽक्षरक्षेत्रनिवासिनः ॥३५॥ लाजाभिश्चाऽक्षतैश्चैव काश्मीरैः कुङ्कुमैस्तथा ।
वर्धयामासुरत्यर्थं विमानं पारमेश्वरम् ॥३६ ॥ अवाततार च तदा पश्चिमेऽश्वसरोवरात् ।
उद्यानेऽनादिकृष्णस्य प्रासादसन्निधौ ततः ॥३७॥ अवतेरुर्विमानाच्छ्रीस्वामी नारायणो हरिः ।
ब्रह्मप्रियाः पितृकन्याः प्रजाकन्याश्च सेविकाः ॥३८॥ लोमशश्च तथा चान्ये महर्षयस्तथा पिता ।
माता रमादिकाः सत्यो विविशुश्च निजालयम् ॥३९॥ विशश्राम हरिर्माता पिता क्षणं च लोमशः ।
कन्यकास्ता हरेः सौधं परात्परमलोकयन् ॥2.115.४०॥ अक्षरस्थाऽतिसौन्दर्यसम्पद्व्याप्तं महालयम् ।
दिव्यस्मृद्धियुतं कोटिसामर्थ्यैश्वर्यराजितम् ॥४१ ॥ साप्तभौमं पुत्तलैश्चेश्वराणां मण्डितं शुभम् ।
ब्रह्मह्रदेन च ब्रह्मसरसा चाभिशोभितम् ॥४२॥ दिव्यं दिव्यगुणोपेतं दिव्ययन्त्रादिराजितम् ।
दृष्ट्वाऽऽश्चर्यं परं प्राप्तास्ताः सर्वाः कन्यकास्ततः ॥४३॥ अनादिश्रीकृष्णनारायणः स्वां भगिनीं तदा ।
सन्तोषां प्राह चैताभ्यो भोजनं दीयतां स्वसः ॥४४॥ भ्रातृजायां तथा देवीं त्वमृतां प्राह माधवः ।
एताभ्यो दीयतां पेयं मुखवासादिकं शुभम् ॥४५॥ इत्युक्ते सहसा ते द्वे कल्पचिन्तामणिप्रजम् ।
भोजनं शतरूपं च पेयं बहुविधं तथा ॥४६॥ ददतुर्बहुसत्कारं चक्रतुः कृष्णयोषिताम् ।
समाश्लिक्षँश्च ताः सर्वाः स्वसारं भ्रातृयोषितम् ॥४७॥ तथाऽन्याः कन्यकाश्चापि ऋषिपत्नीश्च योषितः ।
अथ कृष्णार्पितया सुदिव्यया दृष्टिधारया ॥४८॥ ताः सर्वा लोकयामासुर्दिव्यास्ताः कन्यकास्तदा ।
वल्ल्यात्मिकास्तथा पक्षिमृग्यादिरूपधारिकाः ॥४९॥ कृष्णकान्ता बहुरूपा विलोक्याऽऽश्चर्यमावहन् ।
पश्चाच्छ्रीलोमशं प्राह भगवान् पुरुषोत्तमः ॥2.115.५० ॥ एता नेया भवतैव गुरो शुभनिजाश्रमे ।
ब्रह्मप्रियादिभिः सार्धे रक्षणीयाः प्रयत्नतः ॥५१॥ लोमशश्च पूजितो भोजितोऽभिवन्दितस्तथा ।
कन्या नीत्वाऽऽज्ञया नैजाश्रमं वै स तदा ययौ ॥५२॥ भगवाँश्च विशश्राम पितरौ ययतुः सुखम् ।
अथ वै राधिके! कृष्णनारायणः स्वयं प्रभुः ॥५३॥ फाल्गुने प्रचकारैव पुष्पदोलमहोत्सवम् ।
कारयित्वा दिव्यरङ्गान् विचित्रान् वारिमिश्रितान् ॥५४॥ हेमन्तभगवद्भ्यां पार्षदाभ्यां चान्यपार्षदैः ।
सामग्रीः क्लृप्तयित्वाऽथ समारभत खेलनम् ॥५५॥ क्षेपकैर्यन्त्रवर्यैश्च सौवर्णैः श्रीवसन्तकम् ।
पूजयित्वा निजमूर्तिं तथा कृष्णनरायणम् ॥५६॥ अक्षरं च तथा मुक्तान् तथा च साङ्ख्ययोगिनीः ।
स्वयं धृत्वा करे यन्त्रं सौवर्णं रङ्गसम्भृतम् ॥५७॥ चिक्षेप रङ्गं मर्यादास्थितासु जनतासु वै ।
निजाऽसङ्ख्यासु कान्तासु भक्तभक्तासु वै मुहुः ॥५८॥ भक्तेषु सात्त्वतेष्वेवं महर्षिषु जनेषु च ।
गोपीषु गोपभक्तेषु चिक्षेप रङ्गमुत्तमम् ॥५९॥ प्रचिक्षेप गुलालं च रक्तवर्णानकारयत् ।
सर्वान्निजाश्रिताँश्चापि स्वयं रक्तोऽभवत्तथा ॥2.115.६०॥ रक्तं व्योमाऽभवच्चापि पिशङ्गं कैसरं तथा ।
अश्वपट्टसरसश्च जलं रङ्गविमिश्रितम् ॥६१ ॥ चित्रभावं गतं यद्वद् व्योम्नीन्द्रधनुषा समम् ।
भूतलं चाऽक्षरं क्षेत्रं चित्ररङ्गमयं ह्यभूत् ॥६२॥ मृत्तिका कुङ्कुमवापीक्षेत्रीया चन्दनाकृतिम् ।
प्राप्ता पिशङ्गरूपं सा रङ्गवारिसुमिश्रिता ॥६३ ॥ अथैवं पुष्पदोलस्य खेलनं संविधाय सः ।
सस्नौ हरिस्तु सर्वाभिः प्रजाभिः सह चाऽश्वके ॥६४॥ ततो वनेषु वृक्षेषु नूत्नाम्बरधरा जनाः ।
ययुः सुगन्धवाय्वाभिव्याप्तोद्यानेषु चाभितः ॥६५॥ तत्र पुष्पमयी दोला प्रेङ्खां शाखासु शाखिनाम् ।
भिन्नां भिन्नां विचित्रां च बन्धयित्वा समन्ततः ॥६६॥ फलपुष्पादिभिस्तत्र कृत्वा शोभामनुत्तमाम् ।
नूत्नबेषधराः सर्वाः कन्यका भगवाँस्तथा ॥६७॥ प्रजाजनाश्च वै सर्वे पुष्पदोलमहोत्सवे ।
आन्दोलनं शुभं चक्रुर्जहृषुश्चापि निर्भरम् ॥६८॥ सख्यः परस्परं सर्वाश्चान्दोलयन्ति कन्यकाः ।
ब्रह्मप्रिया निजं कान्तं चान्दोलयन्ति भावतः ॥६९॥ कीर्तयन्ति विविधानि चमत्काराणि कीर्तनैः ।
नृत्यन्ति च तदा काश्चिद्धरेरान्दोलनान्तिके ॥2.115.७०॥ वादयन्ति सुवाद्यानि चापराः कृष्णसन्निधौ ।
तथाऽन्या हासयन्त्येव कृष्णं नर्मवचोयुताः ॥७१॥ अपराश्च ददुस्तस्मै कान्ताय शीतलं जलम् ।
इतराश्च ददुस्तस्मै पक्वफलानि योषितः ॥७२॥ बह्व्यः कृष्णं निजं कान्तं कृत्वा स्वान्दोलने ततः ।
पद्भ्यां सहैव दोलां स्वामान्दोलयति वै मुहुः ॥७३॥ अनादिश्रीकृष्णनारायणस्वामी पतीश्वरः ।
ज्ञात्वा सर्वमनांस्यत्राऽसङ्ख्यरूपोऽभवत्तदा ॥७४॥ प्रतिकन्यं प्रतिनारिप्रतिभक्तं प्रतिद्रुमम् ।
किशोरश्चाऽभवद् रम्यः कोटिकाममदापहः ॥७५॥ सर्वासां च सतीनां च भक्तानां ब्रह्मयोषिताम् ।
सेवां सङ्गृह्य भगवान् पुनश्चैकविधोऽभवत् ॥७६॥ एवं चैत्रे कृष्णपक्षे दिने तु प्रथमे हरिः ।
पुष्पदोलोत्सवं श्रेष्ठं चकाराऽक्षरक्षेत्रके ॥७७॥ ततो गेहं जगामाथ भोजयामास वै पुनः ।
सायं समुत्सवं चक्रे गीतनर्तनवादनैः ॥७८॥ ततः सुप्तिं ययुः सर्वे विश्रान्तिं प्रापुरञ्जसा ।
अथैवं वर्तमानस्य श्रावणस्तु समागतः ॥७९॥ भक्तैः सङ्क्लृप्य दोलाश्च विविधाः स्वर्णराजतैः ।
अनेकभूषाशोभाढ्याः पुष्पहारालिराजिताः ॥2.115.८०॥ दिव्यहीरकमण्याद्यैः खचिताश्च सुगन्धिताः ।
दिव्यकोमलशय्याभिर्विराजिताः शुभासनैः ॥८ १ ॥ तत्र नारायणस्वामिकृष्णकान्तं निषाद्य तु ।
ब्रह्मप्रियाश्च ता आन्दोलयामासुः स्वमीश्वरम् ॥८२॥ अथाऽऽश्चर्यमभूत्तत्र मेघा वै मानुषास्तदा ।
भूत्वा व्योम्नो हरिं त्वान्दोलनार्थं तत्र चाययुः ॥८३॥ प्रेङ्खां च नूतनां विद्युत्प्रभां दिव्यां निराश्रयाम् ।
व्योमाश्रयां ददुस्तस्मै श्रीकृष्णाय परात्मने ॥८४॥ यत्रैकैकाङ्गके तत्र मुक्ता गोप्यश्च पार्षदाः ।
अवताराश्च धामानि दृश्यन्ते ईश्वरास्तथा ॥८५॥ ऋषयो मुनयो देवाः पितरो मानुषा अपि ।
समुद्राः पर्वताश्चापि ग्रहा नक्षत्रमण्डलम् ॥८६॥ दिक्पाला लोकपालाश्च तथा पातालवासिनः ।
क्षीरोदः श्वेतधामाऽपि विशालाऽक्षरवासिनः ॥८७॥ अव्याकृतं तथा तत्रामृतं धामापि दृश्यते ।
गोलोकं चापि वैकुण्ठं साकेतं च किलासकम् ॥८८॥ तथा चतुर्मुखो ब्रह्मा ब्रह्मा चाष्टमुखस्तथा ।
तथाऽजः षोडशमुखो द्वात्रिंशदाननस्तथा ॥८९॥ पञ्चाशदाननश्चापि शताननोऽपि दृश्यते ।
सहस्रानन एवापि लक्षाननोऽपि दृश्यते ॥2.115.९०॥ कोट्याननस्तथा ब्रह्मा दृश्यते मणिमण्डले ।
तादृशी दिव्यदोला वै मेघैर्दत्ता तु शार्ङ्गिणे ॥९१॥ अनादिश्रीकृष्णनारायणो जग्राह तां तदा ।
आरुह्याऽऽन्दोलनं चक्रे मेघान् पप्रच्छ वै तदा ॥९२॥ कस्मादियं समानीता सर्वब्रह्माण्डदर्शिका ।
दिव्या प्रेङ्खा शुभा योग्या मम सर्वेशितुः कृते ॥९३॥ मेघाः प्राहुर्महाराज वयं काश्यां समागताः ।
आषाढे तीर्थयात्रार्थं वरणायास्तटे तदा ॥९४॥ दृष्टा महालये रम्ये शिवराजस्य कन्यका ।
वयं तत्र मिथो वार्तामकरवाम शोभनाम् ॥९५॥ स्नानं च दर्शनं चात्र कृत्वा गन्तव्यमेव तु ।
अश्वपट्टसरस्तीर्थं लोमशस्याश्रमं शुभम् ॥९६॥ अक्षराख्यं शुभं क्षेत्रं मोक्षदं शाश्वतं परम् ।
यत्राऽनादिकृष्णनारायणस्वामी परः पुमान् ॥९७॥ सर्वावतारधर्ता यः सर्वकारणकारणम् ।
विराजते महाराजोऽनादिश्रीपुरुषोत्तमः ॥९८॥ बालकृष्णः स्वयं साक्षात्परमात्मा परात्परः ।
कम्भराश्रीसुतः श्रीमद्गोपालकृष्णबालकः ॥९९॥ तस्यैव दर्शनार्थं वै गच्छामश्चेत एव नु ।
तच्छ्रुत्वा कन्यका प्राह दोला मम गृहेऽस्ति वै ॥2.115.१० ०॥ तस्यार्थं सा प्रदेया वै यदि गन्तव्यमस्ति हि ।
तया वै दुःखहालक्ष्म्या दत्तेयं चाहृता प्रभो ॥१०१ ॥ तद् गृहाण कृपासिन्धो कन्याभावभरः प्रभुः ।
इत्युक्तो भगवाँश्चाति जहर्ष चाददे तु ताम् ॥१ ०२॥ आशीर्वादान् ददौ तस्यै तेभ्यश्चापि पुनः पुनः ।
मेघा नत्वा ययुर्व्योम कृष्णनारायणः स्वयम् ॥१ ०३॥ आन्दोलनं स्वयं चक्रे दोलायां श्रावणे स्मरन् ।
लक्ष्मीं नारायणीं देवीं मन्यते तु महोत्सवम् ॥१ ०४॥ इत्येवं कथितं कृष्णनारायणस्य शोभनम् ।
चरितं मोक्षदं राधे सर्वसम्पत्प्रदं शुभम् ॥१ ०५॥ पठनाच्छ्रवणाच्चापि श्रावणात्पाठनादपि ।
मननान्मोक्षदं दिव्यां ब्राह्मीं तनुं ददाति च ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभुर्भूतासनराज्यं भैरवाय, नग्नपर्वतराज्यं सामराज्यं च विशिष्टयोद्धृभ्यः प्रदत्तवान्, सुन्दरवने नदीः स्वस्वप्रदेशान् गन्तुमाज्ञाप्य कुङ्कुमवापीक्षेत्रं प्रत्यागमने सति फुल्लदोलोत्सवं श्रावणोत्सवं च कृतवानित्यादिनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ॥११५ ॥