१०८

श्रीकृष्ण उवाच-
शृणु त्वं राधिके देवैर्ध्याते स्मृते नरायणे ।
कुङ्कुमवापिकाक्षेत्रे बालकृष्णः परः पुमान् ॥१ ॥ प्राह स्वान्परमान् भक्तानृषिं मङ्कणकं यतिम् ।
मङ्किरयं महर्षिं च कूर्मिणम् ऋषिपूजितम् ॥२ ॥ प्राचीनबर्हं त्रीतं च प्रभूतानर्षिमुत्तमम् ।
रुशायिनं च खासीनं चाङ्गश्यामलकं मुनिम् ॥३ ॥ आरकर्णं ब्रह्मदास्यमनामयर्षिमित्यपि ।
श्यामलर्षिं मलयर्षिं चतुर्दशर्षिमण्डलम् ॥४ ॥ समाहूय हरिः प्राह चाऽश्वपट्टसरःस्थितान् ।
शृण्वन्तु ऋषयः सौम्या महाभागवता यतः ॥५ ॥ तापसा वैष्णवाग्र्याश्च मम ध्यानपरायणाः ।
हिमालयात् पूर्वदेशे दक्षिणे च प्रदेशके ॥६ ॥ पतत्काये च वर्तन्ते विमाने पितृकन्यकाः ।
प्रधर्षितास्तु ता दैत्यैस्ततः पिता तदाऽर्यमा ॥७ ॥ ब्रह्मविष्णुमहेशाश्च सङ्कर्षणो महान् प्रभुः ।
एते दैत्याश्च युयुधुर्जघ्नुर्दैत्यासुराँस्ततः ॥८ ॥ मृतानुज्जीवयामासुरारुणान् सूर्यपार्षदान् ।
वैष्णवान् शाङ्कराँश्चापि वैश्वसृजाँश्च कोटिशः ॥९ ॥ तेभ्यो वरप्रदानार्थं देवैर्वचनमर्पितम् ।
पार्षदैरर्थितो मोक्षः परमोऽक्षरतः परः ॥2.108.१० ॥ सुरा दातुमशत्तरास्तं ततस्ते चाऽरुणादयः ।
बोधिता देववर्गैश्च तादृङ्मोक्षप्रदं च माम् ॥११ ॥ ततस्ते ध्यानमग्नाश्च मामिदानीं स्मरन्ति वै ।
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ॥१ २॥ भवद्भ्यश्च महर्षिभ्यो गतेभ्यो मम दासताम् ।
महाभागवतेभ्यो वश्चाज्ञापयामि सर्वथा ॥१ ३॥ यूयं यात क्षणात्तत्र पतत्कायाद्रितः परम् ।
वर्षे किम्पुरुषे गत्वा प्राग्ज्योतिष्षु तथाऽऽदरात् ॥१४॥ प्राचीनाऽद्रिप्रदेशेषु विचरताऽपि सर्वतः ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥१५॥ मन्त्रमिमं प्रदद्ध्वं च सर्वेभ्यो वै सुराज्ञया ।
कन्यारक्षकशम्भ्वाद्याः प्रतीक्षन्ते च मामपि ॥१६॥ भवद्भिः सः प्रदेशश्च कार्यो भागवतात्मकः ।
मिलित्वा चारुणाद्यैश्च कारणीया ह्युपासना ॥१७॥ प्रवर्तनीया मे भक्तिर्दास्ये तेषामभीष्टकम् ।
विमानैर्यात वै सर्वे मा चिरं प्रोच्य चेति वै ॥१८॥ ददौ दिव्यं विमानं च भगवान् पुरुषोत्तमः ।
ययुस्ते ऋषयश्चतुर्दश क्षणेन चाम्बरात् ॥१ ९॥ पतत्काये पर्वतोर्ध्वे विमानं तत् स्थिरं व्यधुः ।
अपश्यन् व्योमसंस्थं च पितृकन्याविमानकम् ॥2.108.२० ॥ भास्वरं कोटिसूर्याभं विमानं वीक्ष्य कन्यकाः ।
ब्रह्मविष्णुमहेशाद्यास्तथा चारुणपार्षदाः ॥२ १ ॥ जयशब्दान् हर्षनादान् चक्रुरुत्साहसम्भताः ।
ऋषयोऽपि तदा कृष्णनारायणो जयत्विति ॥२२॥ इत्येवं जयशब्दाँश्च प्रचक्रुर्व्योमसंस्तरे ।
जय कृष्ण जय नारायण श्रीपुरुषोत्तम ॥२ ३ ॥ जयोऽस्त्वनादिदेवस्य कृष्णनारायणस्य वै ।
अक्षरातीतकृष्णस्य परब्रह्मण आ जयः ॥२४॥ एवं तु भजनं चक्रुस्तच्छ्रुत्वा व्योममार्गतः ।
ऋषीणां वै विमाने ते दशयोजनविस्तरे ॥२५॥ ययुः सर्वे तु ते नेमुः परमर्षीन् ततो मुहुः ।
कन्यकाभिः पितृजाभिः कुमारिकाभिरेव च ॥२६ ॥ प्रथमं पादुकासम्मार्जनं ततश्च पादयोः ।
ऋषीणां सेवनं पादप्रक्षालनं फलार्पणम् ॥२७॥ जलार्पणं स्वागतादि चन्दनाद्यर्घ्यमित्यपि ।
स्वासनादि प्रदत्तं च मधुपर्कादिकं कृतम् ॥२८॥ ततस्तेषु च देशेषु तत्पद्धत्या निरन्तरम् ।
प्राघूणिकानां सन्मानं कुमारीभिर्विधीयते ॥२९॥ किम्पुरुषप्रदेशानां मङ्गलं कार्यमेव च ।
कुमारिकाभिः सर्वत्र प्रथमं सम्प्रवर्त्यते ॥2.108.३० ॥ राधिके कन्यकाद्यास्ते विधायर्षिसमर्चनम् ।
निन्युरतान् स्वं विमानं च ततस्ते ऋषयोऽमलाः ॥३१ ॥ परब्रह्मप्रतापेन परभावमुपागतः ।
विष्णोः शम्भोर्ब्रह्मणश्चार्यम्णः पूजां प्रचक्रिरे ॥३२॥ अनादिश्रीकृष्णनारायणशिषः समूचिरे ।
श्रीमतां स्मरणादत्र प्रेषितास्तेन चोचिरे ॥३३ ॥ मन्त्रदानार्थमेवाऽत्र प्रेषिताश्चेति चोचिरे ।
किम्पुरुषः समन्ताच्च कर्तव्यो वैष्णवः खलु ॥३४॥ इत्याज्ञा श्रीकृष्णनारायणस्याऽस्तीति चोचिरे ।
ततोऽनादिकृष्णनारायणः श्रीभगवान् स्वयम् ॥३५॥ आगमिष्यति सर्वात्मेत्येवं तेभ्यः समूचिरे ।
श्रुत्वा सर्वे जहृषुश्च विमानद्वयमेव तु ॥३६॥ चन्द्रावतीनदीतीरे शोभनेऽरण्यसन्निधौ ।
ऋषीणामाज्ञया चावतारयामासुरुत्सुकाः ॥३७॥ मीनस्थानं वनं रम्यं विलोक्य तत्र ते जनाः ।
हवनं चक्रिरे दैवम् ऋषयस्ते च वैष्णवाः ॥३८॥ ततोऽर्यम्णः सेवकेभ्यश्चारुणेभ्यो महर्षयः ।
‘ओन्नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥३९॥ इतिमन्त्रं ददुस्तत्र स्रजं च तौलसीं गले ।
पितृपुत्रा वैष्णवास्ते ततोऽभवन् सहस्रशः ॥2.108.४० ॥ अयुताऽयुतसङ्ख्यास्ते कृष्णनारायणं हरिम् ।
भेजिरे च ततस्तत्र ऋषयस्ते तपोधनाः ॥४१ ॥ विष्णुजेभ्यः पार्षदेभ्यो ददुर्मन्त्रं तमेव च ।
रुद्रस्य च गणेभ्यश्च ब्रह्मशिष्येभ्य इत्यपि ॥४२॥ कोटिकोटिसहस्रेभ्यो ददुर्मन्त्रं तमेव च ।
ते सर्वे वैष्णवास्तत्र भेजिरे पुरुषोत्तमम् ॥४३॥ अथर्षयस्ततः पितृकन्याभ्यश्चापि तं मनुम् ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥४४॥ प्रददुश्चेति कन्यास्ता भेजिरे पुरुषोत्तमम् ।
अथैवं दीक्षणात् पश्चात् कामवल्लीद्रुमोद्भवम् ॥४५॥ ऋषीणां दानतो मिष्टं सिद्धान्नं भोजनादिकम् ।
ददुर्वै वैष्णवेभ्यश्च कन्याभ्यश्चापि ते द्विजाः ॥४६॥ भुक्त्वा चन्द्रावतीनद्यां सस्नुस्ते वैष्णवादयः ।
अथाऽत्र मन्त्रयामासुः ऋषयो वैष्णवास्तथा ॥४७॥ ब्रह्मविष्णुमहेशाश्चार्यमा च कन्यकास्तथा ।
मीनकङ्गूनदीतीरे कर्तव्यो वैष्णवो मखः ॥४८॥ तत्र प्राग्ज्योतिषां सर्वाः प्रजाः समन्ततः किल ।
आहूता आगमिष्यन्ति आसमुद्राद्धि सर्वतः ॥४९॥ किम्पुरुषस्य खण्डस्याऽऽगमिष्यन्ति प्रजास्तथा ।
यज्ञे ताभ्यः प्रदेयो वै मन्त्रस्तु वैष्णवो यतः ॥2.108.५०॥ इत्येवं श्रीहरेराज्ञा पूर्णा चात्र भविष्यति ।
ब्रह्मा प्राह मखे तत्र युद्धं चापि भविष्यति ॥५ १ ॥ तामस्यो वै प्रजास्त्वत्र वर्तन्ते पार्वता नृपाः ।
जलपानफिलीपानवारणीयप्रदेशजाः ॥५२॥ वर्तन्ते तामसाश्चाति मानवा राक्षसोपमाः ।
एतेष्वपि प्रदेशेषु तैस्तु युद्धं भविष्यति ॥५३॥ ततः स्याद् वैष्णवी भूमिः पावनी तीर्थरूपिणी ।
अस्त्वेवम् ऋषयः प्राहुर्विष्णुः प्राह तथाऽस्त्विति ॥५४॥ रुद्रः प्राह तथाऽस्त्वेवं चार्यमा प्राह ओमिति ।
मीनकङ्गूनदीमूले मेलकाङ्गाभुवस्तले ॥५५॥ मखः प्रजायतां सर्वदेशानां मध्यभूतले ।
इतिनिश्चित्य ते सर्वे प्रययुर्वै हिमालयात् ॥५६॥ प्रागुत्तरे प्रदेशे वै ईशानदिग्भवे शुभे ।
पिङ्गदेशे किम्पुरुषे यज्ञार्थं विष्णुसंहिताः ॥५७॥ मेनकाङ्गावने तत्र मीनकङ्गूनदीतटे ।
पिङ्गारण्ये प्रचक्रुस्ते यज्ञार्थं भूमिशोधनम् ॥५८॥ अङ्गस्वाङ्गापश्चिमे च शालावत्यास्तु पूर्वतः ।
पञ्चाशद्योजनमाने वर्तुलेऽरण्यशोभिते ॥५९॥ मीनकङ्ग्वाः पश्चिमे च यज्ञमण्डपमाचरन् ।
मीनकङ्ग्वाः पूर्वतश्चाऽवसथान् चक्रुरुत्तमान् ॥2.108.६० ॥ मीनकङ्गूभयतीरे ऋष्याश्रमान् व्यधुस्तदा ।
देवाश्रमान् पितृवासान् सिद्धाश्रमान् व्यधुस्तथा ॥६१॥ ईश्वराणामाश्रमाँश्च शालावतीनदीतटे ।
चक्रुर्ब्रह्ममहेशाद्याः पूर्वभागेऽतिशोभने ॥६२॥ मुक्तानां वैष्णवानां चाश्रमान् रम्यान्मनोहरान् ।
शालावत्याः पश्चिमे च प्रचक्रुर्व्योमगामिनाम् ॥६३॥ इत्येवं त्रिणदं देशं पिङ्गारण्यं महायतम् ।
यज्ञार्थं कल्पयित्वैव दूतैः सर्वान् समाह्वयन् ॥६४ ॥ मुक्ताँस्तथेश्वरान् सर्वानवताराँस्तिथेश्वरीः ।
ब्रह्मप्रियास्तथा पितॄनृषीन्देवान् दिगीश्वरान् ॥६५॥ मानवान् देवजातीश्च पातालस्थान् सतीः सतः ।
गान्धर्वान् किम्पुरुषाँश्च विद्याध्रानप्सरोगणान् ॥६६॥ देवीश्च योगिनीश्चापि कैलासीयान् समग्रतः ।
वैकुण्ठीयान् समस्ताँश्च सत्यीयाँश्च समस्ततः ॥६७॥ पितृगणान् समस्ताँश्च सुरेश्वरान् सुराँस्तथा ।
दिक्पालान् पृथिवीपालान् प्रजापालान् समग्रतः ॥६८॥ पशून् पक्षिगणाँश्चापि काश्यपीर्बहुलाः प्रजाः ।
वल्लीर्वृक्षान् तृणस्तम्बान् कन्दौषधिकदम्बकान् ॥६९॥ नदान् नदीस्तटाकाँश्च सरांसि सागराँस्तथा ।
पर्वतान् खातभागाँश्चाऽखातानरण्यभूमिकाः ॥2.108.७०॥ वनान्युपवनादीनि वापीश्च दीर्घिकाः प्रहीन् ।
तीर्थानि सागाराँश्चापि नरान्नारीः समन्ततः ॥७१ ॥ गणेशान् कार्तिकेयाँश्च हनूमतश्च पार्षदान् ।
हेतीन् सर्वान् समूर्तांश्च सुदर्शनादिकाऽऽयु्धान् ॥७२ ॥ मन्त्रान् वेदान् सर्वविद्याः कलाः सर्वा रसाँस्तथा ।
तत्त्वानि चापि सर्वाणि चैत्यानि विविधान्यपि ॥७३ ॥ ऋतून् मासान् वत्सरादीन् युगान्दिनानि च क्षणान् ।
मायां गुणान् प्रकर्माणि याम्यान् प्रेतांश्च दानवान् ॥७४॥ दैत्यानासुरभावाँश्च राक्षसान् ब्रह्मवंशजान् ।
सर्वान् मखे महेशाद्या आह्वयाञ्चक्रिरे तदा ॥७५॥ आजग्मुस्ते महीमानाः सर्वलोकेभ्य उत्सुकाः ।
देवत्रयाऽनुगास्तेषामातिथ्यं चक्रुरुत्सवे ॥७६ ॥ ब्रह्मस्थाने स्वयं ब्रह्मा रुद्रस्थाने हरः स्वयम् ।
विष्णुस्थाने स्वयं विष्णुः पितृस्थानेऽर्यमा स्वयम् ॥७७॥ मातृकाश्चासने तासां ग्रहाणां -चासने ग्रहाः ।
दिक्पालानामृषीणां च स्थानेषु चेतनास्तु ते ॥७८॥ निषेदुश्चान्यदेवानां स्थानेषु देवयोषिताम् ।
समूर्तास्ते निषेदुश्च देवा देव्यो यथोचितम् ॥७९॥ मुख्यदेवः स्वयं तत्राऽनादिकृष्णनरायणः ।
संस्मृतस्तैस्तदा साक्षान्मातापितृसमन्वितः ॥2.108.८०॥ लोमशादिसमेतश्च ब्रह्मप्रियासमन्वितः ।
विमानेनाऽऽययौ शीघ्रं भगवान् पुरुषोत्तमः ॥८१॥ कल्पवल्लीकल्पवृक्षकल्पधेन्वादिसंयुतः ।
याज्ञिकाः स्वागतं चक्रुर्बहुमानपुरःसरम् ॥८२॥ समाजो हर्षमापन्नः परमेश्वरदर्शनात् ।
वासं कृत्वाऽऽप्लवनं च यज्ञभुवं हरिर्ययौ ॥८३॥ कल्पवल्ल्यादिभिस्तत्र घृतकुल्यास्तदाऽऽयताः ।
दधिकुल्या मधुकुल्या दुग्धकुल्यास्तथाविधाः ॥८४॥ रसकुल्या रसशालाभृता मिष्टान्नकामृतैः ।
हव्यसामग्र्यसङ्ख्याश्च भक्ष्यसामग्र्यनन्तता ॥८५॥ विनिर्मितास्तदा तत्र परमेशप्रतापतः ।
अनादिश्रीकृष्णनारायणश्रीपुरुषोत्तमः ॥८६॥ प्रधानदेवसदने स्वर्णासने व्यराजत ।
यजमानः स्वपत्नीश्रीकम्भरासहितः पिता ॥८७॥ श्रीमद्गोपालकृष्णो वै नैजासने व्यराजत ।
पार्षदो भगवन्हेमन्तकौ देवप्रकाशकः ॥८८॥ स्वयम्प्रकाशो भगवान् व्यराजन्त सुमण्डपे ।
वरणं देहशुद्धिश्च पुण्याहवाचनादिकम् ॥८९॥ अङ्गदेवस्थापनादि कृत्वा श्रीलोमशो मुनिः ।
वह्निं कुण्डे समन्त्रं च प्रातिष्ठिपत् ततः परम् ॥2.108.९०॥ हवनं वेदमन्त्रैश्च प्रावर्तत सुखोचितम् ।
गणेशभूतयक्षाद्याः सुराद्याश्च निजादनम् ॥९१॥ स्वस्वभागान् वह्निमुखाज्जगृहुर्हरिणाऽर्पिताः ।
पितृदेवा अतृप्यन्त चेश्वरा मुक्तकोटयः ॥९२॥ आमन्त्रिताश्च परितः प्राग्ज्योतिषां च मानवाः ।
जीवसुमातृकजना मलयस्य जनास्तथा ॥९३॥ इरावतीतटस्थाश्च मीनकङ्गूतटस्थिताः ।
शालावतीतटस्थाश्च शिक्षाङ्गातटसंस्थिताः ॥९४॥ अङ्गशिक्षाङ्गतीरस्था हराङ्गातटवासिनः ।
तारिमातटवासश्च महतीतटवासिनः ॥९५॥ आमूरतटवासाश्च सरित्प्रदेशवासिनः ।
तन्मध्यदेशवासाश्चाऽऽहूता यज्ञे तु मानवाः ॥९६॥ देशकल्याणहेतुर्वै मन्त्रोऽयं वैष्णवोत्तमः ।
अनादिश्रीकृष्णनारायणश्रीपतिदैवतः ॥९७॥ सम्पद्यतेऽत्र गन्तव्यं सर्वैः कल्याणहेतवे ।
इत्यामन्त्रणमाश्रुत्य सात्त्विका मानवास्तथा ॥९८॥ राजसाश्चापि विप्राद्याः क्षत्रिया वैश्यजीविनः ।
वैश्योत्तमास्तथा शूद्रा नार्यो नरा ययुर्मखम् ॥९९॥ विमानैर्व्योमयानैश्च गरुडैश्च जटायुकैः ।
आत्मानं कृतकृत्यं ते मेनिरे वीक्ष्य वै क्रतुम् ॥2.108.१० ०॥ प्राप्य प्रासादिकं चाऽप्यवाप्य कृष्णमनुं तथा ।
‘ओम् अनादिकृष्णनारायणाय स्वामिने स्वाहा’ ॥१०१ ॥ जपं मन्त्रं ततः कृत्वा साक्षाच्छ्रीपुरुषोत्तमम् ।
दृष्ट्वा भुक्त्वाऽमृतं पीत्वा दिव्यभावं ययुश्च ते ॥१ ०२॥ कण्ठीं च तौलसीं धृत्वाऽभवन् परमवैष्णवाः ।
कोटिशो मानवा भक्ता मुमुक्षवो हरिप्रियाः ॥१ ०३॥ अवभृथं ततश्चक्रुः परिहारं मखस्य च ।
तावत्तामसभावा ये यज्ञद्वेषिण एव ये ॥१ ०४॥ सुरारयो लक्षशस्ते सशस्त्रा यज्ञघातिनः ।
सत्कार्यनाशकाः क्रूरा जलपानीयजातयः ॥१ ०५॥ फिलीपानीयवासानां सम्बन्धिनोऽतिघातकाः ।
वारणीयप्रजानां च जातीया आदमानिनः ॥१०६ ॥ परस्परं तु मिलिताः कालप्रालेयजातिकाः ।
अन्ये तत्सुहृदश्चापि तत्सहाया गुणैरपि ॥१ ०७॥ राजानो बोधपाठीयाश्चैत्यपाठकजातिकाः ।
चाङ्कशेकाः सिङ्गलिङ्गा हाङ्गचाउदकास्तथा ॥१ ०८॥ तूनकीना हनोयाश्च रायगा बङ्गकाकिनः ।
लाशहा माङ्गजातीया मञ्चरायास्तथाऽपरे ॥१ ०९॥ एते च क्षत्रियाः सर्वे तामसा राक्षसा इव ।
लक्षायुतानि सैन्यानि गृहीत्वा चाययुस्तदा ॥2.108.११ ०॥ रणतूर्याण्यवाद्यन्त प्राजायन्त च गर्जनाः ।
शूराणां रणशस्त्राणि प्राऽस्फुरन्नम्बरे तदा ॥११ १॥ इत्येव राधिके तत्र मखान्ते युद्धसम्भवः ।
समभवद्धि दैत्यानां ब्रह्माण्डसर्जकैः सह ॥१ १२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कुङ्कुमवापीतः ऋषीणां प्रेषणां ततः पित्रादिभ्यां च सह हरेः प्राग्ज्योतिषादिदेशेषु विमानेन गमनं, यज्ञान्ते युद्धसम्भवश्चेत्यादिनिरूपणनामाऽष्टाधिकशततमोऽध्यायः ॥१०८ ॥