१०५

श्रीकृष्ण उवाच-
शृणु त्वं राधिके पश्चाद् यज्जातं कथयामि ते ।
कृष्णनारायणः प्राह हेमशालायनाय यत् ॥१ ॥ कमण्डलुं गृहीत्वा श्रीहनुमान् व्योममार्गगः ।
जलं काञ्चनगङ्गाया आनयत्पावनं द्रुतम् ॥२ ॥ ददौ नारायणाय द्राङ् नारायणोऽञ्जलिं ददौ ।
तापसीभ्यां तु शुष्काभ्यां यावत् तावत्तु वै द्वयोः ॥३ ॥ ब्रह्मरन्ध्राच्चेतनस्य सञ्चारो हृदयेऽभवत् ।
प्राणोऽप्यसञ्चरद् देहे नेत्रे चोद्धाट्य ते तदा ॥४ ॥ पुरो व्यलोकयतां श्रीनारायणं परेश्वरम् ।
प्रापतुस्तु परं हर्षं विलोक्य पुरुषोत्तमम् ॥५ ॥ सौवर्णमुकुटं रत्नमणिमौक्तिकशोभितम् ।
धारयन्तं मस्तके स्वे वक्रस्निग्धजटायुते ॥६ ॥ कर्णयोः कुण्डले चापि पार्श्वयोः शेखरालिकाम् ।
ललाटे तिलकं चन्द्रं नेत्रयोः कज्जलं शुभम् ॥७ ॥ परितः परिधिं शुक्लतैजसं त्वाननस्य वै ।
हास्ययुक्तमुखं कृष्णं हारकौस्तुभशोभितम् ॥८ ॥ रशनाशृङ्खलाभिश्च कटकैरुर्मिकादिभिः ।
अङ्गुलीयककटकैर्वेषकुसुमहारकैः ॥९ ॥ शोभितं परमेशानं परब्रह्म जनार्दनम् ।
सर्वशोभास्पदं रम्यं किशोरं स्वर्णरूपिणम् ॥2.105.१ ०॥ चम्पकाभं वह्निधौतदिव्याम्बरविराजितम् ।
शङ्खचक्रगदापद्मवनमालाविभूषितम् ॥१ १॥ वरदानं प्रदातुं वै त्वागतं कमलापतिम् ।
भक्तपतिं कृपापारावारं शान्तमनोहरम् । १२॥ पुनर्जलेन ’ सम्प्रोक्ष्य शान्तयन्तं तपोऽनलम् ।
आह्वयन्तं कमलेति उर्वशीति पुनः पुनः ॥१३॥ वदन्तं युवयोः सिद्धिं दातुं चागतवानिति ।
वरं’ वृणुत कमले प्रिये पुत्रि तथोर्वशि ॥१४॥ युवाभ्यां चातिकष्टं वै मदर्थं प्राप्तमित्यतः ।
प्रसन्नोऽस्मि ददाम्यद्य वरं भवत्यपेक्षितम् ॥१५॥ तपोयोगान्निवर्तेथां कमले चक्रवाकि च ।
शोपस्याऽन्तो भवत्वद्य ददामीष्टतमं च वाम् ॥१६॥ कमला प्राह भगवन् विवाहविधिना तु माम् ।
गृहाण निजपत्नीं वै चापराधं क्षमस्व मे ॥१७॥ यद्यप्यहं सदा पत्नी तवाऽस्मीति न गुप्तता ।
तथापि शिवराजस्य कन्यां मां विधिना वह ॥१८॥ तथाऽस्त्विति हरिः प्राह याहि पितृगृहं प्रिये ।
पूर्णे द्वादशवर्षे ते पिता माता च बान्धवौ ॥१९॥ स्वसा त्वेते प्रयास्यन्ति काशीवासार्थमेव तु ।
तत्राऽहं प्रसमागत्य ग्रहीष्ये त्वामनिन्दिताम् ॥2.105.२०॥ तत्र त्वामुद्वहिष्यामि नेष्यामि मम मन्दिरम् ।
जलं पिब फलं भुङ्क्ष्व मेंऽके निषीद वै रमे ॥२१ ॥ इत्युक्ता सा तपस्त्यक्त्वा नारायणान्तिकं ययौ ।
अङ्के निषद्य कान्तं तं समाश्लिषत् क्षणं रमा ॥२२॥ दत्तं फलं जलं चापि पुत्रीं विहाय पद्मजा ।
नाऽग्रहीदथ भगवानुर्वशीं प्राह पुत्रिके ॥२३॥ शीघ्रमायाहि भुङ्क्ष्वेदं फलं पिब जलं ततः ।
पुत्री प्राह पितनैवं ग्रहीष्ये तु फलं जलम् ॥२४॥ पितर्यदि प्रसन्नोऽसि तपः पूर्णं च मे यदि ।
भक्तेष्टदाताऽसि नाऽदेयं विद्यते यदि ॥२५॥ अपात्रभृतवार्यत्र शिखरे तपसः स्थले ।
प्रापयाऽन्यत् सलिलं न पिबामि देहिनाऽर्पितम् ॥२६॥ यद्येवं न ददास्यत्र वारि तर्हि पिबामि न ।
प्राणान् जह्यां शिखरेऽत्र त्वदग्रे जलमन्तरा ॥२७॥ विश्वम्भरेति च पितस्तव नाम प्रसिद्ध्यति ।
भक्तवत्सलनामा च भक्तार्थं श्रीवियोगवान् ॥२८ ।
मम माता रमा लक्ष्मीं त्यक्तवान् धामसंस्थिताम् ।
ततोऽहं यदि भक्ताऽस्मि पुत्री स्नेहस्य पात्रिका ॥२९॥ वात्सल्येन प्रयुक्तस्त्वं किं करोषि विलोकये ।
मया वृष्टिजलं पात्राऽभृतं चात्र समिष्यते ॥2.105.३० ॥ तत् पिबामि ततः शापान्मोक्षणं चास्तु मे पितः ।
इत्युक्त्वा नाऽऽगता चाऽङ्के जलार्थं तूर्वशी सुता ॥३ १ ।
सर्वं त्यजति भक्तार्थं मदर्थं कि त्यजत्ययम् ।
पितो मद्भक्तिवशतां प्राप्तश्चेद् भगवान् स्वयम् ॥३५॥ विचार्येत्थं हठान्नैवाऽगमत् पितुः समीपतः ।
पिता नारायणः प्राह सुते तत्र जलाप्तये ॥३३ ॥ वृष्ट्या द्रोण्यां सम्भृतायां जलं शृङ्गगतं भवेत् ।
उच्छ्रिते वृष्टिसलिले शिखरान्निम्नभूमिकाः ॥३४॥ सर्वा मग्ना जलेषु स्युः प्राणिनां प्रलयो भवेत् ।
तत्पापं ते भवेत् पुत्रि ततोऽत्राऽऽगत्य वै पिब ॥३५ ॥ उर्वशी प्राह भगवन् वरदानवचस्तव ।
अभीष्टदानवाक्यं चेत् सत्यं त्वत्र जलं नय ॥३६॥ यदि सत्यं न ते वाक्यं याहि कुर्वे तपः पितः ।
अत्रैव तु मया पेयं जलं नान्यत्र कुत्रचित् ॥३७॥ अपात्रसंस्थितं पेयं स्थिरं पेयं न चञ्चलम् ।
न वा दिव्यं बिन्दुरूपं त्बम्बरात् प्रपतत् किल ॥३८ ॥ अहं चेत्तव भक्तास्मि भक्तावाक्यं प्रपूरय ।
अवाक्यपूरणे ते स्यात्पापं त्वसत्यवाग्भवम् ॥३९ ॥ मृषाऽभीष्टप्रदं वाक्यं नोच्चार्यं वा कदाचन ।
शङ्करार्थं कृतं सर्वं मदर्थे न कथं पितः ॥2.105.४० ॥ कृष्णार्थं च कृतं सर्वे मदर्थं न कथं पितः ।
कृष्णनारायणस्वामिन् जनार्दन कृपालय ॥४१ ॥ मां भक्तां शिखरे चात्र पानीयं न ददासि चेत्॥ सङ्करिष्ये तपश्चोग्रं सर्वसंसारभस्मकृत् ॥४२॥ बहूनां देहिनां नाशे तव पापं भविष्यति ।
जलमग्ने जगत्येव मम पापं यथोदितम् ॥४३ ॥ किमत्र चातिवक्तव्यं पापनाशकरो भवान् ।
वर्ततेऽत्र तथाप्यत्र पापभीतिं ददाति चेत् ॥४४॥ पितः पापविनाशार्थं कस्त्वां वै सम्भजिष्यति ।
पुष्पोद्यानानि नैवेद्यमिष्टान्नानि त्वदर्शकम् ॥४५॥ कः करिष्यति तेऽर्थं वै यदि पापं न नाश्यसे ।
पापहन्ता भवेद् भीरुः पापी कं शरणं व्रजेत् ॥४६॥ इत्युक्तो भगवानाह पिबेदं पातुमिच्छसि ।
त्वयाऽर्थितं जलं तत्र नागमिष्यति पुत्रिके ॥५८७॥ लक्ष्मि त्वं च जलं त्वेतद् पिब चेत् पातुमिच्छसि ।
एषोऽन्यथा तु गच्छामि यथेष्टं चर भामिनि! ॥४८॥ इत्युक्त्वा भगवाँस्तत्र क्षणादन्तरधीयत ।
लक्ष्मीः पुत्रीं विना नैव पपौ वारि मनागपि ॥४९॥ पुत्री जलं न जग्राह यथेष्टं नार्पितं यतः ।
इत्येवं च जलाऽपाने पुनस्तपः प्रचक्रतुः ॥2.105.५०॥ पुत्रीं विहाय वै माता गन्तुं गृहं शशाक न ।
पुनर्घोरं तपश्चोग्रं जलार्थं ते प्रचक्रतुः ॥५१ ॥ सर्वं ददाति भक्तार्थं जलं ददाति नौ न किम् ।
इत्येवं ते विनिश्चित्य तृषिते तपसि स्थिते ॥५२॥ नारायणेन चैकात्म्यं कृत्वा संयमसाधनैः ।
तपस्ते चेरतुश्चोग्रं शुष्ककण्ठौष्ठतालुके ॥९३ ॥ चक्रतुस्ते तपश्चोग्रं मासं चैकात्म्ययोगतः ।
तदा पुत्र्यास्तथा पत्न्यास्तृषायोगाद्धरेस्तृषा ॥५४॥ ववृधे प्रतिदिवसं कण्ठदाहोऽप्यजायत ।
भक्तैर्भक्ताभिरत्यर्थं पायितं जलममृतम् ॥५५॥ पुनः पुनः स पिबति नारायणो जलाञ्जलीन् ।
तथाप्यस्य तृषायास्तु निरोधो नैव जायते ॥५६॥ श्वेतद्वीपे क्षीरवार्धौ वैकुण्ठे बदरीवने ।
अक्षरे चामृते चाव्याकृते चान्यत्र यत्र च ॥५७॥ नारायणः स्वयं त्वास्ते तत्र तत्र तु सर्वथा ।
असङ्ख्यबलपानेऽपि तृषा निवर्तते न वै ॥५८॥ जलं पीत्वा स्वयं नारायणः श्रममवाप्तवान् ।
उदरं सम्भृतं वार्भिः कण्ठः शुष्कायते मुहुः ॥५९ ॥ उर्वश्यास्तृषितायास्तु तथा लक्ष्म्यास्तपो बहु ।
वेगेन वर्धते नारायणः शान्तिं न विन्दति ॥2.105.६०॥ तृषादाहाग्निना दग्धो विचित्त इव वर्तते ।
उत्थायोत्थाय पतति चोन्मत्त इव धावति ॥६ १ ॥ मूर्छां प्राप्नोति तृषितो निद्रां सुखं न विन्दति ।
क्वचिदुत्थाय सलिले वार्धौ पतति वै मुहुः ॥६२॥ भक्ताभिः सेवकैश्चापि पवनैः सेवितो जलैः ।
सिक्तश्चापि न शैत्यं स प्राप्नोति परमेश्वरः ॥६३॥ सर्वान्तरात्मनश्चैवं जाते तृषातिशोषणे ।
अन्तःस्थितस्य देहा वै सर्वे स्थावरजङ्गमाः ॥६४॥ अवापुः शोषणं चाति तृषाजन्यं जगत्त्रये ।
ईश्वराः ऋषयो देवाः पितरो मानवाः खगाः ॥६५॥ पशवो जलगाः सर्वे दैत्याद्या अपि सर्वशः ।
तृषादोषैर्हता भ्रान्ता धावन्ति च पतन्ति च ॥६६ ॥ त्रैलोक्यं तृषितं सर्वं तदा नाशोन्मुखं ह्यभूत्॥ जलार्तिपानकर्तृत्वे तुन्दनाशे विनाशनम् ।६७।
जलाऽपाने कण्ठशोषः पानेऽपि शोषणं तथा ।
उभयथाऽपि नाशोऽत्र जगतां समुपस्थितः ॥६८॥ तदा ब्रह्मा हरो विष्णुः कृत्वा समाधिमेव ते ।
ज्ञात्वा हेतुं तृषायास्तु रमोर्वशोतृषातपः ॥६९।
शीघ्रं ययुर्भूतले ते सौराष्ट्रेऽक्षरभूतले ।
अश्वपट्टसरःक्षेत्रे यत्राऽनादिनरायणः ॥2.105.७० ॥ वर्तते कुङ्कुमवापीक्षेत्रे निजालये प्रभुः ।
सर्वावतारतृषया मूर्छितस्तृषितो भृशम् ॥७१॥ ब्रह्माद्यास्तृषिताश्चापि मृत्युसंयोगिनोऽपि ते ।
यथाकथञ्चिद्भगवत्पादयोः पतितास्तथा ॥७२॥ शुष्ककण्ठौष्ठताल्वाद्या मृत्युक्षणगता इव ।
त्रूटितया तदा वाण्या जगदुः परमेश्वरम् ॥७३ ॥ शीघ्रं नाथ रमायाश्चोर्वश्याः प्रापय वै जलम् ।
अवृष्टिजं चाऽपात्रस्थं चाऽन्याऽस्पृष्टमनाहुतम् ॥७४॥ अन्यथा वै जगत् सर्वं क्षणान्ते वा विनश्यति ।
सर्वनाशे समुत्पन्ने स्वल्पनाशो हितावहः ॥७५॥ यदि दृश्येत च तदा स्वल्प त्यक्त्वा परानवेत् ।
शीघ्रं वृष्ट्या हिमशैले शिखरे वानराश्रमे ॥७६॥ रमोर्वशीतपोभूमौ जलं प्रापय चेष्टकृत् ।
इत्यर्थितः सुरैः कृष्णनारायणः परेश्वरः ॥७७॥ द्रुतं मेघान् समाहूयाऽऽज्ञापयामास वृष्टये ।
मेघा वृष्टिं प्रचक्रुश्च सम्भूय द्वादशैव ते ॥७८॥ द्रोणीश्चोपत्यकाः क्षेत्रं शैलप्राकारमध्यगम् ।
सर्वं त्वाप्लावयामासुराशृङ्गान्तं जलैर्लयः ॥७९॥ वर्यवर्ति महान् घोरो द्रोण्यां वै पशुपक्षिणाम् ।
अरण्यानि निमग्नानि मग्नो हनुमदाश्रमः ॥2.105.८०॥ दशयोजनविस्तारः सर्वो मग्नः प्रदेशकः ।
जलं शिखरपर्येन्तं सम्मतं क्षितिपात्रके ॥८ १ ॥ निम्नदेशा निम्नभागा निम्नानि शिखराणि च ।
द्रोण्यश्च गह्वराण्येव निमग्नानि जलैर्लये ॥८२॥ लक्ष्म्युर्वश्योः पादयोश्च जलं सामुद्रजं यथा ।
तयोः प्राप्तं च शिखरे तपःस्थल्यां पुरः स्थितम् ॥८३॥ तदा नारायणो देवा गत्वा च प्रार्थयन्मुहुः ।
जलपानार्थमेताभ्यां ते पानं चक्रतुस्तदा ॥८४॥ तृषा नारायणानां च द्रागेव निवृताऽभवत् ।
देहिनां स्थावराणां जङ्गमानामपि सर्वशः ॥८५॥ तृषा शान्ताऽभवत्तूर्णं जलानि हरिवाञ्च्छया ।
पृथ्व्यां समपसस्नुश्च दिव्या मेघा ययुर्लयम् ॥८६॥ श्रीशृङ्गं चोर्वशीशृङ्गं ख्यातं तत्तपसः स्थलम् ।
लक्ष्मीवनं चक्रवाकीवनं ख्यातमभूद् वनम् ॥८७॥ लक्ष्मीगङ्गोर्वशीगङ्गा ख्याता गङ्गा तु काञ्चनी ।
हनुमद्गह्वरं चापि नारायणगुहाभिधम् ॥८८॥ जलं सरोवरं लक्ष्मीसरोवरमभूत्ततः ।
काञ्चनगङ्गातीर्थं च ब्रह्मगङ्गाऽधिकं ह्यभूत् ॥८९॥ कुश्यां काञ्चनगङ्गायां जलान्यासन् गतानि वै ।
निम्नदेशेषु लोकानामधैर्यं जलदर्शनात् ॥2.105.९०॥ जातं जललयः स्याद्वै गन्तव्यमितरत्र तु ।
एवं कोलाहलो जातो देशेषु सरितां जलैः ॥९ १॥ तन्मिषेण ततो लोकाः काशीं श्रीपुरुषोत्तमम् ।
क्षेत्रं च कौरवं क्षेत्रं ययुर्यात्रानिमित्ततः ॥९२॥ शिवराजो जानकी च कृष्णा जयश्च चन्द्रकः ।
धेनुपालं प्रदायैव राज्यं काशीं ययुस्तदा ॥९३॥ देशान्तरेषु ये दासा दास्यो वैकुण्ठवासिनः ।
प्राकट्यं जगृहुस्तेऽपि काश्यामागत्य चोत्तरे ॥९४॥ वरणायास्तटे रम्ये न्यूषुश्चाम्रवणेषु ते ।
फलिद्रुमसमाकीर्णे पुष्पवल्ल्यादिगन्धिते ॥९५॥ काशीराजस्य सैन्यैश्चाधिश्रितोद्यानशोभिते ।
काशीराजस्य सौवर्णे प्रासादे वरणातटे ॥९६॥ सर्वोपस्कारसंयुक्ते काशीराजेन मानिताः ।
सत्कृताः स्वागतैश्चाति शतहस्तिविमानकैः ॥९७॥ बहुवाद्यादिभिश्चापि लक्षशैर्मानवैः सुरैः ।
विद्वद्भिर्ब्राह्मणैर्ब्राह्मैर्बृहस्पतिपुरोगमैः ॥९८॥ देवीभिः शक्तिभिश्चापि गणैर्वीरैरसङ्ख्यकैः ।
सर्वतीर्थैश्च यतिभिः सतीभिश्चाप्सरोगणैः ॥९९॥ पूजितं शिवराजस्य कुटुम्बं गुप्तमानवम् ।
नित्यावासं साप्तभौमे सौधे सुवर्णनिर्मिते ॥2.105.१० ०॥ कल्पवल्लीसमायुक्ते चकार शम्भुमानितम् ।
सतीपतिः स्वयं काशीविश्वनाथोऽन्नपूर्णिका ॥१०१ ॥ शम्भोर्दास्यस्तथा दासाः शम्भुरूपं कुटुम्बकम् ।
शिवराजं शिवं चैवाश्लिष्य स्वागतमाचरत् ॥१ ०२॥ मधुपर्कं चामृतादि ददौ जहर्ष चाप्यति ।
एवं वासं चकारैतत् कुटुम्बं हरिवाञ्च्छया ॥१ ०३॥ सर्वं कालेन भवति यथा कृष्णः समिच्छति ।
वैष्णवाः पार्षदाश्चाऽन्ये पार्षदान्यश्च याः स्त्रियः ॥१ ०४॥ मानव्यश्चाऽभवँस्ताश्च काशिकानृपमानिताः ।
शम्भुना मानिताश्चापि न्यूषुः राजाऽऽलयेष्वधि ॥१ ०५॥ अनादिश्रीकृष्णनारायणं स्मरन्त एव ते ।
नरनारायणं चापि लक्ष्मीनारायणं तथा ॥१ ०६॥ लक्ष्मीं च तापसीं देव्यः स्मरन्त्यो न्यूषुरेव च ।
राधिके चोर्वशीलक्ष्म्यौ सस्मरतुः कुटुम्बकम् ॥१ ०७॥ चक्रवाक्यभवच्छापान्मुक्ता कन्या रमासमा ।
उर्वशीतिस्वरूपाढ्या नेमे स्वपितरं हरिम् ॥१ ०८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने नारायण-प्रोक्षितजलेन तपसि लक्ष्मीचक्रवाक्योः प्राणसञ्चारे सति चक्रवाकी शिखरे जलपानं ततो मोक्षं च वव्रे, हरिर्वृष्टिभिर्देशं निमज्जयित्वा शिखरे जलं ददौ, पीत्वा शापमुक्तिः, वृष्टिभयात्
शिवराजकुटुम्बस्य वैकुण्ठीयपार्षदादीनां मानवरूपाणां काश्यामागत्य वरणातटे काशीराजसौधेषु चाम्रवणे वासादिः, शम्भुकृतसत्कारादि चेतिनिरूपणनामा पञ्चाऽधिकशततमोऽध्यायः ॥१०५ ॥