१०२

श्रीकृष्ण उवाच-
शृणु त्वं राधिके यच्च वैकुण्ठे शपनोत्तरम् ।
यदभूत् कमलाकृष्णमध्ये तु कथयामि ते ॥१ ॥ अनादिश्रीकृष्णनारायणो हेमायनर्षये ।
यज्जगाद तथा कन्या चक्रवाक्यै जगाद यत् ॥२ ॥ तत्सर्वं ते कथयामि निबोधेकाग्रमानसा ।
शापं श्रुत्वा हरिर्नारायणकृष्णो जनार्दनः ॥३ ॥ भक्तदुःखेन दुःखात्मा ह्यनुक्त्वा कमलां तदा ।
स्वयं त्वचिन्तयत् कृष्णो न्याययुक्तं शुभास्पदम् ॥४ ॥ अहो व्यक्तेस्तु वैचित्र्यं विलक्षणपदं गतम् ।
सर्वदा तोषयाम्येनां लक्ष्मीं हृदयवासिनीम् ॥५ ॥ क्षणं दूरं करोम्येव नहि क्वचित्तथापि सा ।
अतृप्ता मे महानन्दादधीरेव प्रभाषते ॥६ ॥ मद्भक्तानां कृते चापि सहते न क्षणं सती ।
मद्वियोगं न सहते सहते न चिरायनम् ॥७ ॥ सदा सौख्यं ददाम्येव यथाऽऽत्मने तथा श्रियै ।
यथा श्रिया वियोगो मे नेष्टस्तथा न सेविनाम् ॥८ ॥ नारीणां तु स्वभावोऽयं स्वार्थश्चेन्नहि पूर्यते ।
क्षणे परवज् जायेत फलं दुष्टं प्रयच्छति ॥९ ॥ यद्यपि नैव लक्ष्मीस्तु भक्ता त्याज्या कदाचन ।
भक्तोत्तमाऽतिभक्ता मे पत्नी प्रिया सखी स्वयम् ॥2.102.१० ॥ शङ्करोऽपि यथा भक्तो भक्ता सती च कृष्णिका ।
जयश्चन्द्रो धेनुपालस्ततो भक्तोत्तमा रमा ॥११ ॥ तथापि भक्तवर्येषु स्नेहदर्शनहेतवे ।
भक्ताः स्निग्धा मम लक्ष्म्यपेक्षया नितरां सदा ॥१२॥ भक्तदुःखप्रदा चेत् स्याल्लक्ष्मीर्यद्यपि मे प्रिया ।
भक्तार्थं सन्त्यजाम्येनां दृष्टान्तं कमला स्वयम् ॥१ ३ ॥ भवेदत्र विधाने तु तथा कुर्वे निदर्शनम् ।
शापफलं मे लक्ष्म्या श्च प्राप्तं भवेन्निदर्शने ॥१४॥ शिक्षाऽपि च यथार्था स्यात् पुनर्नैवं चरेत् क्वचित्॥ इत्येवं संविचार्यैव भगवान् शोकमावहन् ॥१५॥ भक्तदुःखेन दुःखात्मा न वक्ति श्री न पश्यति ।
निर्मनस्क इव जातो नापि हसति वै मनाक् ॥१६॥ नोर्ध्वं पश्यति मनसा महोद्विग्नो विभासते ।
यथा वै मातृमरणे यथा पत्नीविनाशने ॥१७॥ यथैकपुत्रनाशे वा शोकस्तथा विभाव्यते ।
यथा क्षणान्तरे गेहं त्यक्त्वा यास्यति वा क्वचित् ॥१८॥ यथा सर्वस्वनाशे वा भग्नमानसवान् भवेत् ।
तथा वैराग्यमापन्नो नारायणो विलोक्यते ॥१ ९॥ यथा जितेन्द्रयग्रामो जितान्तःकरणादिकः ।
मायापारस्थितिश्चास्ते तथा नारायणोऽभवत् ॥2.102.२०॥ लक्ष्मीर्विहस्य बहुधा हावभावैः समायुता ।
हस्तं हस्ते गृहीत्वाऽति कृत्वा प्रचुम्बनं मुहुः ॥२ १ ॥ नारायणं समाकृष्य गृहान्तरे निनीषति ।
नारायणस्तु शववत् तथा प्रस्तरवत्तदा ॥२२॥ जडवद् भक्तशोकेन सञ्जातः परमेश्वरः ।
यद्गृहे निजभक्तानामाश्रयः सुखदोऽस्ति वै ॥२३ ॥ तद्गृहे यदि भक्तानां शापदुःखं प्रजायते ।
तत्र किं मे निवासेन विचार्येत्थं जगाद ताम् ॥२४॥ मा मां स्पृशाऽत्र वामोरु मा खेदं कारय वृथा ।
यद्गृहे मम भक्ताना शापस्तत्र न मे स्पृहा ॥२५ ॥ याहि त्वं शयने साध्वि न मे शय्या सुखावहा ।
महाभागवताः शप्ताश्चातो दुःखतरं नु किम् ॥२६ ॥ प्राघूणिकाः सदा मान्यास्तत्रापि निजभक्तयः ।
मदर्थेकृतसर्वस्वाः पूज्या मान्याः सदा मम ॥२७॥ मद्भक्तार्थ सदा लक्ष्मि! मालामावर्तयाम्यहम् ।
मद्भक्तार्थं च लोकेषु सर्वदाऽवतराम्यहम् ॥२८॥ नरनारायणश्चाऽस्मि तापसो भक्तहेतवे ।
क्षीरोदे श्वेतभूमौ चाऽक्षरक्षेत्रे नरायणः ॥२९ ॥ गोलोके चापि वैकुण्ठेऽव्याकृतेऽमृतधामनि ।
यत्र वसन्ति मे भक्तास्तत्र तिष्ठामि पद्मजे ॥2.102.३०॥ अहं भक्तगृहावासो भक्तैः सह विहारवान् ।
भक्तालयो मे वैकुण्ठो नान्यद्वै रुचिरं मम ॥३ १॥ मे भक्तानां दुःखप्राप्तौ निमित्तं मद्गृहं यदि ।
तदा वैकुण्ठनामाऽस्य यथार्थतां प्रहन्ति वै ॥३२॥ यद्वै शाश्वतसुखदं धाम मे ख्यातमैश्वरम् ।
तद् यदि दुःखदं जन्मप्रदं चेत् का विकुण्ठता ॥३३॥ तत्रापि देवदेवस्य शङ्करस्य प्रियस्य मे ।
सत्याश्च मम भक्तायाः शापो मानवजन्मदः ॥३४॥ किमतः परमं दुःखं दुष्कीर्तिप्रदमुल्बणम् ।
कृष्णायास्तव सख्याश्च जयचन्द्रकयोरपि ॥३५॥ धेनुपालस्य च तथा पार्षदस्य निपातनम् ।
कथं ते चेदृशी बुद्धिरकाण्डताण्डवी प्रिये ॥३६॥ अप्रयोज्यं प्रोक्तवती भक्तभक्तिविरोधिनी ।
कदापि न त्वया त्वेवं कृतं कृतं तु शङ्करे ॥३७॥ मया किमत्र कर्तव्यं विरोधिस्त्रीयुते गृहे ।
भोजनं मिष्टमृष्टादि भक्तं विना विषायते ॥३८॥ पेयं शीतसुगन्धाढ्यं भक्तं विनाऽनलायते ।
वस्त्रं सौम्यं च कौशेयं विना भक्तं शरायते ॥३९॥ भूषणं स्वर्णरत्नादि विना भक्तं झषायते ।
सुगन्धतैलवासादि न भक्ते कर्दमायते ॥2.102.४०॥ सर्वं ज्वालायते सौख्यं मे हृदि भक्तमन्तरा ।
लक्ष्मि शम्भुं विना चाहं दह्यामि शापवैभवात् ॥४१ ॥ भक्तशापः स मे शापो मच्छापस्तत्तवापि च ।
अंशाऽर्धाङ्गस्वभावत्वाद् दुःखदो नात्र संशयः ॥४२॥ त्वं न जानासि माहात्म्यं मद्भक्तानां महत्तमम् ।
सनत्कुमारो जानाति भक्तमाहात्म्यमुच्छ्रितम् ॥४३॥ यदि नेत्रे न पश्येतां मद्भक्तान् मामुपस्थितान् ।
निष्कास्य गोलकाभ्यां ते दूरीकरोमि सर्वदा ॥४४॥ यदि मे मस्तकं नैव नमते भक्तयोगिने ।
गलात् सञ्छिद्य दूरं तन्निक्षिपामि न संशयः ॥४५॥ यदि कर्णौ शृणुयातां नैव भक्तवचांसि मे ।
तौ मूलात् सञ्छिद्य दूरे निक्षिपामि न संशयः ॥४६॥ यदि नासा भक्तगन्धं नैव गृह्णाति मे तदा ।
सञ्छिद्य मूलतो नासां दूरं क्षिपामि पद्मजे ॥४७॥ यदि जिह्वा भक्तगाथां नैव गायति सर्वदा ।
यदि वा रसना भक्तार्पितं रसं न ऋच्छति ॥४८॥ तदा मूलाद् विनिष्कास्य जिह्वां त्यजामि नित्यदा ।
यदि चौष्ठौ भक्तदत्तं ताम्बूलादि न ऋच्छतः ॥४९॥ यदि दन्ता न भक्तैर्यच्चर्वयन्ति समर्पितम् ।
तदौष्ठदन्तकान् शस्त्रैश्छेदयित्वा त्यजामि वै ॥2.102.५०॥ यदि हस्तौ स्वभक्तानां सेवायां नोपयोगिनौ ।
छिन्द्यामामूलतस्तौ सन्त्यजेयं काष्ठवत्तु तौ ॥५१ ॥ वक्षो यदि न भक्तानामाश्लेषे चोपयोगवत् ।
तदा वक्षः समुत्पाट्य त्यजामि गर्तके सदा ॥५२॥ यदि मे हृदये भक्ता वसेयुर्न कदाचन ।
हृदयं रक्तसहितं निष्कास्य सङ्क्षिपामि हि ॥५३॥ यद्युदरं मे पचनं भक्तार्पितस्य नेष्यते ।
विभिद्य सर्वं त्वरितं त्यजामि नात्र संशयः ॥५४॥ यदि त्वङ् मम भक्तानां स्पर्शं संरोचते न वै ।
उत्पाट्य वर्ष्मणस्तूर्ण निक्षिपामि महानले ॥५५॥ यदि वीर्यं बलं लिङ्गं भक्तानां सुखकृन्न मे ।
तदा विनाश्य तत्सर्वं षण्ढत्वं प्रकरोमि मे ॥५६॥ यदि चोरू प्रभक्तानामुपवेशार्थमेव न ।
तदा त्यक्त्वा कबन्धो वै भवामि भक्तकारणात् ॥५७॥ यदि पादौ मम भक्तान् प्रति यातो न वै तदा ।
कुठारेण विनिच्छिद्य पादहीनो भवामि वै ॥५८॥ देहो मे यदि भक्तानां सौख्यार्थं न प्रजायते ।
तथा प्रोद्भाव्य वह्निं च करोमि भस्मसान्ननु ॥५९॥ गुणा बुद्ध्यादयश्चापि यदि भक्ताऽऽश्रिता न मे ।
गुणाँस्त्यक्त्वा निर्गुणश्च वसामि गहने वने ॥2.102.६० ॥ वहुनोक्तेनाऽत्र किं ते त्वं यदि भक्तरोधिनी ।
भक्तक्लेशकरी भक्तिविघ्नकरी प्रवर्तसे ॥६ १ ॥ भक्तदुःखकरी वापि भक्तशान्तिविरोधिनी ।
त्वां त्यजामि रमे तर्हि किमन्यन्न त्यजामि वै ॥६२॥ सर्वं त्यजामि सर्वस्वं भक्तार्थं नात्र मे स्पृहा ।
भक्तनाशे विनष्टं मे सर्वमवेहि पद्मजे ॥६३॥ भक्ते तु रक्षिते सर्वं रक्षितं मम विद्धि तु ।
अहो श्रीशङ्करः कुत्र मानवो वै भविष्यति ॥६४॥ अहो सती प्रिया तस्य मानवी क्व भविष्यति ।
अहो कृष्णा प्रिया दासी भक्ता वा क्व जनिष्यति ॥६५॥ अहो वै धेनुपालोऽपि जयश्चन्द्रस्तथा रमे ।
तव शापेन भूमौ ते भविष्यन्त्यसुखस्थले ॥६६ ॥ यावज्जानामि नैतेषां स्थितिं जन्मवतां रमे ।
तावत् सुखं न मे चास्ति गच्छामि यत्र तेऽप्यहम् ॥६७॥ इत्युक्त्वा कमलां त्यक्त्वा त्यक्त्वा श्रीकमलाकरम् ।
त्यक्त्वा सिंहासनं रम्यं प्रासादं धाम चोज्ज्वलम् ॥६८॥ वैकुण्ठं सर्वथा त्यक्त्वा त्यक्त्वा स्नेहपदं हरिः ।
निर्ययौ विमना भूत्वा त्यक्त्वा गरुडमित्यपि ॥६९॥ पश्चादनवलोक्यैव ब्रह्माण्डे भूतलं ययौ ।
रोरूयमाणां नाऽपश्यत् लक्ष्मीं प्राणातिवल्लभाम् ॥2.102.७०॥ नाथ नाथ व्याहरन्तीं श्रीहरिर्भूतलं ययौ ।
अदृश्योऽव्यक्तदेहश्च मणिजन्येऽत्र भूतले ॥७ १ ॥ अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे ह्यवातरत् ।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ॥७२॥ परब्रह्माऽऽक्षराऽतीतोऽवताराणां नियामकः ।
क्षेत्रे कुङ्कुमवाप्याख्ये कम्भराश्रीगृहे तदा ॥७३॥ श्रीमद्गोपालकृष्णस्य गृहे दिव्यर्द्धिसंयुते ।
नारायणाऽऽगमनस्य निमित्तेनाऽप्यवातरत् ॥७४॥ अनादिश्रीकृष्णनारायणे श्रीपुरुषोत्तमे ।
आगत्य लीनतां प्राप्य तस्थौ चाऽश्वसरोऽन्तिके ॥७५॥ ततोऽनादिकृष्णनारायणस्याऽऽदेशतो भुवि ।
यथावज्ञातरूपोऽसौ गवेषणार्थमुत्तरे ॥७६॥ हिमालयाश्रये देशे नीपालयप्रदेशके ।
कैलासधामराज्ये च शिवराजं कुमारकम् ॥७७॥ अन्वेष्य शङ्करं भक्तं तत्र तस्थावगोचरः ।
ततः सतीं मार्गयितुं षण्माण्डव्यपुरीं ययौ ॥७८॥ तत्र कन्या जानकीति नाम्ना सती च साऽभवत् ।
तत्रापि वर्तते नारायणोऽदृश्योऽनुगप्रियः ॥७९॥ तयोर्विवाहतो जाता कृष्णा जयश्च चन्द्रकः ।
धेनुपालः शिवराजभ्राता च तत्र संस्थितः ॥2.102.८० ॥ नारायणश्च तद्भक्तैः सार्धं संवसति प्रभुः ।
अप्रकाशः सह भुङ्क्ते रमते वर्ततेऽनिशम् ॥८ १ ॥ क्वचिदायात्यक्षरं च क्षेत्रं त्वश्वसरोवरम् ।
क्वचित्तत्र शिवराजगृहे तिष्ठति भक्तितः ॥८२॥ इत्येवं भगवान् लक्ष्मीं त्यक्त्वा भक्तार्थमेव तु ।
समाययौ च ब्रह्माण्डे भक्तमध्ये निवासकृत् ॥८३॥ अथ वैकुण्ठगा लक्ष्मीर्ज्ञात्वा स्वां प्रविहाय तु ।
वैकुण्ठं चासनं धामालयं त्यक्त्वा नरायणः ॥८४॥ जगाम चिरयात्रार्थं भक्तार्थं मानवे भवे ।
शुशोच बहुधा तत्र रुरोद शून्यवद्गृहे ॥८५॥ तुष्टाव बहुधा वाण्या दोषान्निजान् जगाद च ।
अहं वै चञ्चला लक्ष्मीर्दुःखदोषानुकारिणी ॥८६॥ गर्वादीनां सदा हेतुर्दीनानामसहायिनी ।
पापाऽन्यापकृतां गेहे वासो मे बहुधा मतः ॥८७॥ हिंसाऽनृतादिदोषाणां गृहं चाधर्मपुष्टिदा।
मायाकापट्यभोगादिस्थानं पूज्यावमाननम् ॥८८॥ शीलहानिः शुद्धिहानिस्तृष्णा रागोऽतिगृध्नता ।
चौर्यं प्रसह्यता चाधिक्षेपो दोषा मदाश्रयाः ॥८९॥ चञ्चला न स्थिरा क्वापि वैमनस्यविधायिनी ।
सर्वहरतगता चाऽस्मि तथापि करुणालयः ॥2.102.९० ॥ भगवान् मां स्वहृदये रक्षत्यतिकृपावशः ।
न मां निष्कास्य भुङ्क्तेऽपि स्वयं भोगान् दयापरः ॥९ १॥ सर्वं दत्वा तु मे कृष्णः स्वयं गेहाद्विनिर्गतः ।
कीदृशं चास्य सारल्यं न मे दुःखं प्रयच्छति ॥९२॥ न मां तिरस्करोत्यल्पं सहतेऽविनयं मम ।
अशुद्धां मां सदा भक्तां भक्त्यधीनः प्ररक्षति ॥९३ ॥ पातिव्रत्यं न मे सम्यक् तथापि भगवान् स्वयम् ।
पत्नीव्रतपरो भूत्वाऽवत्यधिकं निजादपि ॥९४॥ मां विहाय न भुक्तेऽसौ न वै पिबति वार्यपि ।
मां विना यत्र पक्वान्नं कृतं त्वन्येन तत् खलु ॥९५॥ नैव पश्यति गृह्णाति नैव नैवाऽत्ति केशवः ।
पाचकेषु प्रवेशो मे यदा स्याच्चेत्तदा हरिः ॥९६॥ भुङ्क्ते नैवेद्यमाप्तान्नं नान्यथा वै क्वचिद्धरिः ।
वस्त्रं रत्नं जलं पात्रं ताम्बूलमन्नमञ्जनम् ॥९७॥ भूषणं चन्दनं स्वर्णे यानं वाहनमीशता ।
आसनं शयनं वस्तु चोपदाः फलमर्पणम् ॥९८॥ सर्व मामसमर्प्याऽयं मे नाथो भुक्त एव न ।
अहो विचारतः कृष्णः श्रेष्ठः पत्नीव्रतस्थितः ॥९९॥ चञ्चलाऽपि स्नेहपात्रं नेदृश्यहं पतिव्रता ।
अहो मे सर्वसौभाग्यं विना कान्तं हि निष्फलम् ॥2.102.१० ०॥ वैकुण्ठं सम्पदः सर्वा भोग्यजातं च निष्फलम् ।
दासा दास्यो वाटिकाश्च विमानोद्यानभूमयः ॥१०१ ॥ सौधप्रासादकलशा गजाऽश्वरथधेनवः ।
भूषाम्बराऽमृतपानं कान्तं विना हि निष्फलम् ॥१०।
गृहात्कान्तो विनिर्यातो ममैव दोषकारणात् ।
अहो मृता कथं नाऽहं कथं शवो भवामि न ॥१० ३॥ कान्तं विना श वश्चाऽस्मि जीवनं निष्फलं यतः ।
इत्येवं विललापेयं कृष्णनारायणप्रभो! ॥१ ०४॥ नाथ श्मशानसदृशं वैकुण्ठं त्वां विना मम ।
इत्युक्त्वा निपपातेयं सिंहासनसमीपतः ॥१ ०९॥ मूर्छां क्षणं समासाद्य पुनरुत्थाय वेगतः ।
कान्त कान्तेति चाक्रोशं कुर्वाणा द्वारमागता ॥१ ०६॥ मूर्छयाऽङ्गनभागे सा पुनः पपात निर्बला ।
तावत् सख्यः समायाताः किमिदं किमिदं ब्रुवाः ॥१ ०७॥ तर्कयन्त्योऽप्यनिष्टं च तच्छोकेनाऽतिशोकिताः ।
दुःखिताः पवनाद्यैश्च जलसेचनकैस्तथा ॥१ ०८॥ पुष्पार्पणादिभिश्चापि मूर्छामपानुदंस्तु ताः ।
पप्रच्छुः किमकाले ते दुःखमेतदुपस्थितम् ॥१०९॥ प्राह लक्ष्मीर्हरिः क्वापि वैकुण्ठान्निर्ययौ चिरम् ।
मां विहाय च सर्वाश्च भक्ता भक्तान् नरायणः ॥2.102.११ ०॥ श्रुत्वैवं वज्रपाताभं वचो लक्ष्म्यास्तु ता अपि ।
मूर्छामवापुरत्युग्रां श्रुत्वाऽनिष्टं च राधिके ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीलक्ष्म्याः शम्भ्वादौ शापोत्तरं श्रीनारायणस्य कमलां त्यक्त्वा वैकुण्ठान्निर्गम इत्यादिनिरूपणनामा
द्व्यधिकशततमोऽध्यायः ॥१०२ ॥