०९०

श्रीकृष्ण उवाच-
शृणु राधे चमत्कारं कृष्णनारायणस्य वै ।
अन्यं ते सङ्कथयामि लोकरक्षाकरं परम् ॥१ ॥ नरनारायणौ देवौ धर्मपुत्रौ हिमालये ।
बदर्यां श्रीकृष्णनारायणं सस्मरतुः पुरा ॥२ ॥ ऊर्जकृष्णैकादश्यां तौ तापसौ स्वोद्भवं प्रभुम् ।
गङ्गातीरे दध्यतुश्च स्वाश्रमे दर्शनोत्सुकौ ॥३ ॥ पृथिव्यां पश्चिमे प्रान्ते सौराष्ट्रे चाजनाभजे ।
क्षेत्रे कुङ्कुमवाप्याख्ये कम्भराश्रीगृहे हरिः ॥४ ॥ यस्त्वास्ते बालरूपोऽसौ परब्रह्म परः प्रभुः ।
सर्वावतारहेतुः सः कदा दास्यति दर्शनम् ॥५ ॥ इत्येवं स्मरतोर्भ्रात्रोर्नरनारायणात्मनोः ।
सङ्कल्पं सम्पूरयितुं कृष्णनारायणः स्वयम् ॥६ ॥ अश्वपट्टसरःक्षेत्रगतान् भक्तान् प्रभाष्य च ।
ययौ यानेन दित्येन हैमाद्रिबदरीवनम् ॥७ ॥ लोमशं सह नीत्वैव शेषान् संस्थाप्य तत्र च ।
रक्षणार्थं कथयित्वा हराय क्षेत्रपाय च ॥८ ॥ एकादश्यां गतं कृष्णनारायणं तु बान्धवौ ।
पुपूजतुर्जलैः पुष्पैः फलैः कार्तिकपक्षके ॥९ ॥ सेवनं तौ चक्रतुश्च धर्मभक्ती तथर्षयः ।
तापसा अपि चक्रुश्च सेवनं प्रत्यहं प्रभोः ॥2.90.१ ०॥ मार्गशीर्षं श्रेष्ठमासं यज्ञीयं वीक्ष्य तापसाः ।
प्रचक्रे वैष्णवं यज्ञं बदर्यां ते महर्षयः ॥१ १॥ पर्णशालां ददौ नित्यं निवासार्थं यथोचिताम् ।
लोमशाय तथा बालकृष्णाय श्रीनरायणः ॥१ २॥ मार्गशीर्षे बभूवाऽयं यज्ञोत्सवो महान् शुभः ।
तत्र देवो हरिः साक्षात्परमात्मा परेश्वरः ॥१३॥ यज्ञेश्वरोऽनले स्थित्वा हव्यानि वुभुजे तदा ।
साक्षाद् दिव्याक्षरमुक्तास्तथा गोलोकवासिनः ॥१४॥ वैकुण्ठवासिमुक्ताश्च तथाऽन्यधामवासिनः ।
समाययुः क्रतौ तत्र प्रसादलालसा हरेः ॥१५॥ सुरा महर्षयो देव्यस्तीर्थानि पितरस्तथा ।
सिद्धाश्चारणगन्धर्वा भूसुरा व्योमगामिनः ॥१६॥ भक्ता दैत्या दानवाश्च समाययुः क्रतौ तदा ।
एवं हि भगवाँस्तत्र राजते परमेश्वरः ॥१७॥ एतस्मिन्नेव समये कार्तिके तु सुराष्ट्रके ।
शम्भोर्दूती महामारी शम्भोर्निदेशतो निशि ॥१८॥ अश्वपट्टसरःक्षेत्रं सीम्नि स्थिता प्ररक्षति ।
तदा वै सिंहलद्वीपात् स्मृत्वा वै भ्रातृपुत्रकम् ॥१९॥ कुभीनसी तथा शृङ्गी राक्षस्योऽन्याः शतद्वयम् ।
व्योमगाः कामरूपिण्यो मायाजालविशारदाः ॥2.90.२० ॥ ज्ञात्वा त्वधर्मजीवस्य मरणं वै सुराष्ट्रके ।
वैरं निर्यापयितुं शस्त्राऽस्त्रयुक्ताः समाययुः ॥२१ ॥ सिंहारण्यानि चोल्लङ्घ्य व्योम्ना सौराष्ट्रमाययुः ।
कृष्णायां तु चतुर्दश्यां कार्तिकस्याऽसिते दले ॥२२॥ दीपोत्सवात् पूर्वरात्र्यां चावतेरुस्तदाऽम्बरात् ।
उल्मुकान् दर्शयन्त्यश्च वह्निज्वालास्तथा मुखात् ॥२३॥ मूर्धजेभ्यस्त्रिशूलाँश्च दर्शयन्त्यो हि वह्निमान् ।
मारयैताः खादयैताः शत्रोः प्रियाः कुमारिकाः ॥२४॥ भेदयैताश्चर्वयैता नयैता राक्षसार्थकम् ।
ज्वालयैता धर्षयैताः सर्वाः कृष्णप्रिया बलात् ॥२५॥ नास्त्यासां रक्षकश्चाऽत्र समयो विजयस्य नः ।
इत्येवं भाषमाणास्ता लोमशस्याऽऽश्रमे द्रुतम् ॥२६॥ निपेतुर्धर्षणार्थं वै राक्षस्यः क्रूरयोषितः ।
सीमरक्षाकरी दूती महामारी हि भैरवी ॥२७॥ ज्ञात्वाऽऽकस्मिकसङ्घर्ष युद्धोपद्रवमित्यपि ।
सहस्ररूपिणी भूत्वा सशस्त्रा त्वभ्यधावत ॥२८॥ कन्यावासेषु सर्वत्र रात्रावाक्रोश उल्बणः ।
अभवत् त्रासकृत् तत्र राक्षसीनामुपद्रवात् ॥२९॥ भैरवी पाशमादाय सम्मन्त्र्य नागबन्धनैः ।
मुमोच राक्षसीसङ्घे राक्षस्यो वन्धनान्तरे ॥2.90.३०॥ नागैर्बद्धाश्चाऽभवँश्च निगडैश्चौरवत्तदा ।
हस्तेष्वपि तथा कट्यामुदरे च गलेष्वपि ॥३ १॥ सर्वा एव तु नागानां पाशैर्नद्धा विचेष्टिताः ।
अभवन्न्यपतन् भूमौ विषदग्धास्तथाऽभवन् ॥३२॥ अथ सा भैरवी शम्भुं सुप्तं चागत्य संस्तवैः ।
बोधयामास शीघ्रं चाऽऽवेदयामास घर्षणम् ॥३३॥ श्रुत्वोपद्रवमीशानो लोमशाश्रममाययौ ।
दृष्ट्वा नागास्त्रसन्नद्धा राक्षसीस्तुष्टमानसः ॥३४॥ प्राहैनां भैरवीं दूतीं कुर्वेता गतबन्धनाः ।
युद्धं कृत्वा तु ताः सर्वा विनाशाय विलोकये ॥३५॥ इत्याज्ञप्ता भैरवी सा नत्वा शङ्करपादयोः ।
राक्षसीस्ता बन्धहीनाश्चकार शङ्कराज्ञया ॥३६॥ उवाचैता रणं कर्तुं राक्षस्यो बलगर्विताः ।
युद्धं चक्रुः शस्त्रधर्त्र्यो विविधैर्युद्धतर्कटैः ॥३७॥ शक्तिभिर्मुद्गरैश्चापि यष्टिभिः प्रस्तरैस्तथा ।
खड्गैरसिभिश्छुरिकामुष्ट्याद्यैः पादताडनैः ॥३८॥ पर्वतप्रायदेहाश्च वृष्टिभिश्चाभिचारकैः ।
युयुधुस्ता व्योमगा हि भैरवीभिर्निरन्तरम् ॥३९॥ भैरव्यो रुद्रबलतो वज्रदेहास्तदाऽभवन् ।
सङ्कल्पजा बहुरूपा युयुधुस्तत्र हेतिभिः ॥2.90.४०॥ कृपाणैः परशुभिश्च कुठारैश्च त्रिशूलकैः ।
चक्रैर्भल्लैस्तथा स्तम्भैर्वज्रैर्दण्डैश्च जालकैः ॥४१॥ शलाकाभिः क्षेपणैश्च स्फोटगोलैश्च शाखिभिः ।
निजघ्नुश्चातिरुष्टास्ता भैरव्यो राक्षसीस्त्वति ॥४२॥ चित्कृत्योत्प्लुत्य चाकाशे निपेतुस्ताः परस्परम् ।
राक्षस्यो मायया नैकरूपिण्यो जघ्नुरीश्वरीः ॥४३॥ ईशान्यो जघ्नुरीशस्य मन्त्रयुक्शूलशक्तिभिः ।
सीताभिर्भल्लकैर्जघ्नुर्बिभिदुर्हृदयानि हि ॥४४॥ राक्षसीनां महासैन्यं कृत्रिमं समजायत ।
कृत्रिमा भैरवीयोषा विद्यत्पाशैस्तु तास्तदा ॥४५॥ बबन्धुर्ज्वालयामासुरवचित्य च मूलिनीम् ।
एवं युद्धे महाघोरे जायमाने सहस्रशः ॥४६॥ निपेतुस्तत्कबन्धाश्च शैलप्राया विहायसः ।
कुम्भीनसी तथा शृङ्गी दुद्रुवतुर्भयाद् बहिः ॥४७॥ तदन्याः शतसङ्ख्याश्च भैरवीभिस्तु भक्षिताः ।
शतसङ्ख्याः परास्तत्र भिन्ना मृताश्च जीवतः ॥४८॥ भैरवीनां तदा जातो विजयः शाङ्कराद् बलात्॥ शम्भुस्ताभ्यः प्रसन्नोऽभूत् क्षेत्ररक्षा यतः कृता ॥४९॥ लोमशस्याश्रमस्यापि कन्यकानां च रक्षणम् ।
कृतं रात्रौ महायुद्धं कृत्वा वचःप्रपालनम् ॥2.90.५०॥ प्रसन्नः सन्नुवाचैता महामारीर्वरप्रदः ।
प्रसन्नोऽस्मि वरदानं याचध्वं प्रददामि वः ॥५ १ ॥ महामार्यस्तदा प्राहुर्नत्वा श्रीशङ्करं तथा ।
मूलां तां भैरवीं पूज्यां मातरं जननीं पराम् ॥५२॥ यदि शम्भो प्रसन्नोऽसि यदि देयो वरोऽस्ति नः ।
तदा क्षुधासमव्याप्ता वयं तृषाऽऽकुलास्तथा ॥५३॥ तन्निवृत्तिकरं भोज्यं परिश्रमविनाशकम् ।
पुष्टिदं बलदं पेयं तामसं देहि नः प्रभो ॥५४॥ तमोजन्या वयं सर्वास्तामस्यो युद्धदुर्मदाः ।
युद्धजं मांसरक्तादि भक्षयन्त्योऽतिपुष्टिदम् ॥५५॥ तदेव भोजनं पेयं समिच्छामो ददासि चेत् ।
इत्युक्तः शङ्करः प्राह धर्मक्षेत्रे सुराष्ट्रके ॥५६ ॥ परब्रह्मनिवासेऽत्र तद्दानं चातिदुष्करम् ।
कथं कृपालुनाथस्य देशेऽत्र तद्धि सम्भवेत् ॥५७॥ तदा प्राहुस्तु ताः सर्वा हरेर्भक्तान् विहाय वै ।
तामसान् पापिनः क्रूरान्नास्तिकान् भक्तिवर्जितान् ॥५८॥ अनाचारान् दुराचारान् पूजापाठविवर्जितान् ।
अस्नातान् तीर्थयात्रादिवर्जितान् दाम्भिकान् शठान् ॥५९॥ हरेः प्रसादहीनाँश्च तुलसीस्रग्विवर्जितान् ।
अशाम्भवन् सत्त्वहीनान् अवैष्णवान् परार्तिदान् ॥2.90.६०॥ परद्रव्याद्यपहारकारकान् पुण्यवर्जितान् ।
यमयात्रार्थयोग्याँश्च भक्षयिष्याम एव तान् ॥६१॥ तादृशीश्च मलिनाश्च नारीर्धर्मविवर्जिताः ।
उपासनाविहीनाश्च भक्षयिष्याम एव ताः ॥६२॥ एवं कृते भगवाँस्तु न रोषं समुपेष्यति ।
अधार्मिकाणां पापानां दण्डार्थं यमपत्तनम् ॥६३॥ कृतं तेनैव स कस्माद् दुष्टानां भक्षणे कृते ।
सन्तुष्टो न भवेन्नाथो वयं तं प्रभुमीश्वरम् ॥६४॥ प्रतोषितं विधास्यामः सेवया किङ्करीस्त्रियः ।
इत्युक्त्वा ता विरेमुश्च शम्भुः कृपापरस्तु ताः ॥६५॥ प्राह तथास्विति भोज्यं पानं दुष्टप्रजास्वदात् ।
महामार्यस्तु तं नत्वा नत्वा चापि हरिप्रियाः ॥६६॥ नत्वा च कुङ्कुमवापीं नत्वाऽश्वपट्टसारसम् ।
नत्वा श्रीकम्भरालक्ष्मीं नत्वा गोपालकृष्णकम् ॥६७॥ स्मृत्वा गोपालतनयं श्रीपतिं स्वामिनं प्रभुम् ।
दशयोजनतः क्षेत्राद् बहिस्ताः प्रययुर्मुदा ॥६८॥ मृतानां राक्षसीनां तु देहान् उत्थाप्य पश्चिमे ।
महागर्ते विनिःक्षिप्य मानवेषु द्रुतं च ताः ॥६९॥ विविशुश्चाऽवैष्णवेषु शैवभिन्नेषु वै द्रुतम् ।
अभक्तेषु च दुष्टेषु दम्भिषु नास्तिकेषु च ॥2.90.७०॥ शठेषु धर्महीनेषु बाह्यतश्चिह्नधारिषु ।
आन्तरेषु तु मालिन्यसम्भृतेषु जनेषु च ॥७१॥ भक्तनिभेषु ख्यातेषु बाह्यतोऽन्तश्च पापिषु ।
नरेषु तादृशीषु स्त्रीष्वपि प्रविविशुश्च ताः ॥७२॥ महामारीसहस्रं तत् सहस्राणां सहस्रकम् ।
सौराष्ट्रे गौर्जरे चापि महाराष्ट्रे च दक्षिणे ॥७३॥ मध्ये पूर्वे चोत्तरे च पश्चिमे सर्वभूमिषु ।
महामार्योऽभवन् व्याप्ता अदृश्या वायुविग्रहाः ॥७४॥ तूर्णं प्रविश्य देहेषु तिष्ठन्ति हृदयेषु च ।
मांसं रक्तं द्रुतं ह्युष्णं खादन्ति च पिबन्ति च ॥७५॥ नरा नार्यो भवन्त्येव क्षणान्ते प्राणवर्जिताः ।
आसमुद्रान्तमेवैता गत्वा गत्वा प्रजाजनान् ॥७६॥ पापिष्ठान्नरनार्यादीन् प्रभक्षयन्ति लक्षशः ।
ग्रामे ग्रामे नरा नार्या म्रियन्ते प्रत्यक्षं तदा ॥७७॥ विंशत्यंशाः प्रजानां वै प्रतिसाहस्रमेव ह ।
महामार्यस्तदा क्रूरा गणयन्ति न बालकान् ॥७८॥ कन्यका न वधूंश्चापि यूनो वृद्धान्न गर्भिणीः ।
अनाथान्नाप्यतिथीँश्च महीमानान्न देशिकान् ॥७९ ॥ न राज्ञो न तथा राज्ञीर्न धनाढ्यान्न निर्धनान् ।
न कषायधृगश्चापि न वा सूतकसंस्थितान् ॥2.90.८०॥ न यज्ञहोमकर्माढ्यान् न पूजापाठकारिणः ।
पापयुक्तान् विलोक्यैव भक्षयन्ति नरान् स्त्रियः ॥८१ ॥ म्रियन्ते प्रत्यहं नार्यो नराश्च भुवि लक्षशः ।
एकं धृत्वा बहिर्यान्ति मृतस्तावत्परो भवेत् ॥८२॥ परं मृतं विनिष्कास्य यावदायान्ति वै गृहम् ।
तावदन्ये मृताः सन्ति पञ्च सहैव तत्क्षणे ॥८३ ॥ पञ्च निष्कास्य च यावदायान्ति ग्रामगोपुरम् ।
तावदन्ये दश सन्ति मृता वा च ततोऽधिकाः ॥८४॥ केषाञ्चिद् गृहवर्त्येव कुटुम्बं निधनं गतम् ।
केषाञ्चित्त्वर्धभागेन मानवा निधनं गताः ॥८५॥ कुत्रचिच्छिष्यते बालः कुत्रचित्तु नवा वधूः ।
कुत्रचिद् वृद्धजरठः कुत्रचित्पशुमात्रकम् ॥८६॥ कुत्रचिन्नगरे लक्षे सहस्रं त्ववशेषितम् ।
कुत्रचिद् ग्रामभागे तु ग्रामार्धं सर्वशो मृतम् ॥८७॥ कुत्रचिन्मानवैः शून्या ग्रामा जाता भयङ्कराः ।
म्रियमाणप्रजानां च जलदाता न विद्यते ॥८८॥ कुतोऽन्नदाता लभ्येत यत्र नास्त्येव दर्शकः ।
एवं नाशो महानासीन्मर्दनं बहुशोऽप्यभूत् ॥८९॥ मासमध्ये तु लोकानामर्धे पृच्छां मृतं ह्यभूत् ।
कोटिशस्तु महामार्योऽभक्षयन् पापिनो जनान् ॥2.90.९० ॥ राक्षसा अपि दैत्यांश्च दानवानासुराँस्तथा ।
शठान्नैष्कृतिकाँश्चापि नास्तिकान् धर्मवर्जितान् ॥९ १ ॥ अभक्षयन् हि मासान्ते हाहाकारो दिगन्तरे ।
अभवद् वै तदा लोकास्त्यक्त्वा ग्रामान् गृहाण्यपि ॥९२॥ पत्तनानि नगराणि ययुर्भयादरण्यकम् ।
वनेषु वनिवद् वासान् चक्रुः कालभयार्दिताः ॥९३॥ अरण्यानि नगराणि नगराणि वनानि तु ।
वैपरीत्येन जातानि महामारीभयात्तदा ॥९४॥ अश्वपट्टाक्षरक्षेत्रे दशयोजनविस्तृते ।
महामारीभयं नाऽभूद् भक्तेष्वेव तदा प्रिये ॥९५॥ अभक्ता येऽपि तत्रस्थास्तत्तद्भाग्येन देशिताः ।
ययुर्बहिर्हि ये क्षेत्रं त्यक्त्वा ते निधनं गताः ॥९६॥ त्राहि त्राहि प्रजाश्चोचुः सस्मरुः परमेश्वरम् ।
रोगस्याऽस्य विनाशार्थं प्रजाश्चक्रुर्हि मानताम् ॥९७॥ नैवेद्यानि विविधानि दास्यामो देवतागृहे ।
वस्त्रभूषाम्बरस्वर्णं दास्यामो देवसन्निधौ ॥९८॥ करिष्यामोऽन्नसत्राणि पारायणानि सन्मखान् ।
धर्मकार्याणि धर्माश्च करिष्यामः प्रसेवनम् ॥९९॥ हरेस्तदीयसाधूनां पूजनं देवसेवनम् ।
भजनं सङ्करिष्यामः सन्त्यक्ष्यामोऽघपातकम् ॥2.90.१ ००॥ सूर्यं शिवं सतीं लक्ष्मीं पूजयिष्याम ईशिनीम् ।
गणेशं च महाकालं मातृकाः पितृदेवताः ॥१०१ ॥ तीर्थयात्रां करिष्यामश्चाश्वपट्टसरोवरे ।
यत्र नास्ति महामारी बालकृष्णप्रभावतः ॥१ ०२॥ प्रजाः सर्वत्र च भयान्मरणस्यातिविह्वलाः ।
प्रतिज्ञां सम्प्रचक्रुश्च कृष्णनारायणं प्रभुम् ॥१ ०३॥ भीजष्यामो यदा जीविप्प्राणाः स्थास्याम एव तु ।
भैरवि! ते महामारि! कृष्णनारायणस्य ते ॥१ ०४॥ शपथोऽस्ति यदि मां त्वं स्पृशसि तत्र मा स्पृश ।
आणं ददुः प्रजास्त्वेवं हाहाकारोऽभवद् भुवि ॥१ ०५॥ शङ्करस्य शपथस्ते पित्रोस्ते शपथस्तथा ।
मा स्पृशाऽस्मान् महामारि! दद्मः संयावमत्र ते ॥१ ०६॥ इत्येवं राधिके लोका मानताः सम्प्रचक्रिरे ।
सत्यः साध्व्यो द्विजाः सन्तो व्योम्ना श्रीबदरीं ययुः ॥१ ०७॥ सद्योजातमहादेवाय ते चास्तु नमो मुहुः ।
महाकालाय च कालभैरवाय च ते नमः ॥१ ०८॥ अजापालाय च वीरभद्राय ते नमो मुहुः ।
मृत्युञ्जयाय च महाकाल्यै चाण्ड्यै नमो मुहु ॥१ ०९॥ दुर्गायै नम इत्येव दीनप्रजास्तदोचिरे ।
श्रीहरिर्ज्ञातवान् सर्वं पूर्वमेनमुपद्रवम् ॥2.90.११० ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोर्बदर्यां गमनं, राक्षसीनां कुङ्कुमवाप्यामागमनम्, महामार्या राक्षसीनां नाशनम्, ततः पापिप्रजासु
भक्षणार्थं व्यापकता, चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ॥९० ॥