०८९

श्रीकृष्ण उवाच-
क्षेत्रे कुङ्कुमवाप्याख्ये प्राग्भागे राधिके शुभम् ।
अमराणां निवासार्हं वनं वै पारिजातकम् ॥१ ॥ विशालं योजनायामं ततश्चेशानदिग्भवम् ।
वनं कादम्बमुत्कृष्टं योजनत्रयविस्तृतम् ॥२ ॥ ततश्चोत्तरतो भद्रानदी दिव्या विराजते ।
यस्यां स्थले स्थले सस्नौ स्वामिकृष्णनरायणः ॥३ ॥ तस्यास्तीरे सुविश्रम्य स्नात्वा सम्भक्ष्य पायसम् ।
ततो यात्रासमाजो वै ससाराऽग्रे गृणन् हरिम् ॥४ ॥ भूमावर्त्तगजश्चाग्रे स्वर्णचित्रादिरञ्जितः ।
गैरिकाशैलतुल्यः स भेरीं जीमूतसदृशीम् ॥५ ॥ उद्वहन् याति चाग्रे वै सशब्दा गर्जनावतीम् ।
तत्पश्चाच्छरभो याति वैराजावर्त्तनामकः ॥६ ॥ पटहद्वयमुच्छब्दं पृष्ठे वहन् समुच्छ्रयः ।
तत्पश्चान्माणिकीपृष्ठे ध्वजं शतकरायतम् ॥७ ॥ कौशेयं स्वर्णतारादिपञ्चदेवविराजितम् ।
उद्वहन् याति विन्ध्याद्रिरब्भ्राणि कर्षयन् ध्वजे ॥८ ॥ तत्पश्चाच्छङ्खनादश्च दशदिक्षु निनादवान् ।
मरुद्देवकृतो भाति भूयते स्वर्गवासिभिः ॥९ ॥ तत्पश्चाद् रोदसी चापि निनादयत् सुधातुजम् ।
विगलं भगवान् धृत्वा वामनो याति हासयन् ॥2.89.१०॥ तत्पश्चाच्छ्रीनृसिंहश्च स्वयं वै गर्जयन् दिशः ।
दिव्यसिंहच्छटाशोभः प्रयाति पिङ्गनेत्रकः ॥११ ॥ तत्पश्चादश्विनीदेवौ सूर्यचन्द्रसमावुभौ ।
सुरूपौ तुरगारूढौ कुर्वाते जयघोषणाम् ॥१ २॥ तत्पश्चाच्छ्वेतवाराहो धुन्वन् दिगन्तकान् बली ।
गर्जयन् याति तीर्थार्थं श्वेतवर्णोऽतिरूपवान् ॥१३॥ ततो यान्ति च गन्धर्वा वादका वाद्यवेदिनः ।
वादयन्ति च झङ्कारान् करतालान् मृदङ्गकान् ॥१४॥ वीणां मयूरकांश्चापि तन्त्रीं जलनिनादकान् ।
प्राणपाशान् गालशब्दान् तालिकातालपट्टकान् ॥१५॥ वृत्तभेरीः पटहाँश्च वेणुनालान् सृजिह्विकाः ।
त्राटकान् चित्रघोषाँश्च शलाकान् रागिणीस्तथा ॥१६ ॥ एवंविधानि वाद्यानि ह्यवाद्यन्त ततः परम् ।
ततो वै कीर्तनकाराः पुन्तीर्थाः सम्प्रयान्ति हि ॥१७॥ दिव्याः सिद्धास्ततो यान्ति सत्यः साध्व्यश्च साधवः ।
कीर्तयन्ति हरेर्नाम सवाद्यं कृष्णमानसाः ॥१८॥ ततो यान्ति पितरश्च जयशब्दैश्च कीर्तनैः ।
ततो वै देवता यान्ति सुराः सर्वे द्युवासिनः ॥१ ९॥ ततो यान्ति च ऋषयः सत्यस्था भूगतास्तथा ।
कीर्तयन्तश्च वेदानां मन्त्रान् सामस्तवाँस्तथा ॥2.89.२०॥ ततोऽपि चारणा भाटा गन्धर्वा गायकास्तथा ।
प्रयान्ति वाद्यघोषैश्च नामकीर्तनकारिणः ॥२१ ॥ तत्पश्चाच्च सुरराजाः प्रयान्ति लोकपालकाः ।
तत्पश्चात् सरितः सर्वा नद्यः प्रस्रवणानि च ॥२२॥ सरांसि च तडागाश्च प्रयान्ति कीर्तयन्ति च ।
ततो यान्ति ऋषिपत्न्यो देव्यस्ततः सुरस्त्रियः ॥२३॥ कीर्तयन्त्यो बालकृष्णपद्यानि प्रेमपूरिताः ।
ततो यान्ति वनारण्यशैलभूतीर्थमण्डलम् ॥२४॥ ततो दासास्तथा दास्यस्ततो यान्ति च मानवाः ।
एवं यात्राप्रवाहश्च समाजो योजनावधिम् ॥२५॥ दीर्घांऽभवत्तदा दिव्यः पुष्पवृष्टिरभूत्तदा ।
महीमानानि तीर्थानि त्वागच्छन्तीति वीक्ष्य च ॥२६॥ अनादिश्रीकृष्णनारायणः स्वागतवाञ्च्छया ।
अग्रगोभूच्चातिहर्षात् तथा गोपालकृष्णकः ॥२७॥ कपिलाद्याः साधवश्च लोमशाद्या महर्षयः ।
राधारमाद्याः सत्यश्च शङ्कराद्याश्च वैष्णवाः ॥२८॥ विप्रा वेदविदश्चापि कन्याः कोट्यर्बुदार्बुदम् ।
ब्रह्मप्रियाः कम्भराश्रीस्तथा सर्वाश्च वल्लिका ॥२५॥ तीर्थं कुङ्कुमवापी च तथाऽन्या दीर्घिकाः शुभाः ।
क्षेत्रं चाश्वपट्टसरस्तथाऽऽश्रमस्य पादपाः ॥2.89.३०॥ क्षेत्रपालाश्च तीर्थानि सर्वाण्यश्वसरस्तटे ।
यानि वसन्ति ये देवा नद्यो नदाश्च पर्वताः ॥३ १॥ सर्वे ते धृतमालाश्च मधुपर्कादिसंयुताः ।
गीतवादित्रयुक्ताश्च तैर्थिकानभिसंययुः ॥३२॥ ब्रह्महृदोऽश्वतटाकस्तथा कुङ्कुमवापिका ।
अग्रे ययुर्हरेः पार्श्वे विरजाद्यास्ततो ययुः ॥३३॥ आगतास्ते महीमाना विलोक्य हरिमन्दिरम् ।
प्रासादं साप्तभौमं च शातकौम्भं तथाऽपरम् ॥३४॥ नमश्चक्रुर्दण्डवच्च धूलिं न्यधुश्च मूर्द्धसु ।
जयशब्दान् जगदुश्च पूर्णोत्साहपरिप्लुताः ॥३५॥ विविशुः क्षेत्रपीठं ते दूरं तु योजनं यदा ।
मिमिलुश्चक्रुरालोकं जयध्वनीन् पुनः पुनः ॥३६॥ परस्परं सुखवादान् पप्रच्छुः स्वागतं तथा ।
चक्रुस्तीर्थात्मनां नारायणः श्री भगवान् स्वयम् ॥३७॥ अहो भाग्यमहो भाग्यं तीर्थानामागमो मम ।
इत्युक्त्वा श्रीहरिस्तेभ्यो मधुपर्कादिकं ददौ ॥३८॥ पुष्पहारान् चन्दनानि पुष्पमाला ददुः परे ।
मिलित्वा कुशलं पृष्ट्वा समाश्लिष्य यथोचितम् ॥३९॥ तैर्थिकास्तीर्थकामाश्च कृष्णकीर्तनतत्पराः ।
आययुः कुङ्कुमवापीसन्निधावाश्वसारसम् ॥2.89.४०॥ लुलुठुः क्षेत्रमार्गस्य धूल्यां तीर्थानि वै मुहुः ।
महद्भाग्यं मन्यमाना देवा देव्यस्तथर्षयः ॥४१॥ केचिन्नृत्यन्ति गायन्ति वादयन्त्यपरे तदा ।
धारयन्ति रजो मूर्ध्नि देहे सम्मर्दयन्ति च ॥४२॥ नमन्ति मस्तकैः केचित् केचिदञ्जलिना हरिम् ।
केचिद् वक्षःसु च रजो योजयन्ति परे मुखे ॥४३॥ स्वयङ्कुमारो भगवान् लुलोठ कृष्णपादयोः ।
केचिद् विज्ञाय माहात्म्यं भक्तानां पद्रजांसि च ॥४४॥ ऋषीणां सर्वतीर्थानां धारयन्ति च मूर्धसु ।
केचित् पत्राणि पुष्पाणि शलाकाश्च तृणान्यपि ॥४५॥ गृह्णन्ति तु मुखे धृत्वा मन्वते कृतकृत्यताम् ।
जलं प्रस्रवणोत्थं च मत्वा पापप्रणाशकम् ॥४६॥ घटुकं घटुकं पीत्वा मन्वते कृतकृत्यताम् ।
केचित् त्वश्वसरोवारिस्पृष्टं वायुं समागतम् ॥४७॥ मुखे पीत्वा मुहुर्यान्ति निर्वृत्तिं परमां तदा ।
केचित् स्मरन्ति धामानि केचित्तदवतारकान् ॥४८॥ केचिन्मुक्तान् तदैश्वर्यसिद्धीः स्मरन्ति तद्धृदः ।
आयुधाश्चक्रशङ्खाद्याः पार्षदाः सेविकास्तथा ॥४९॥ महीमानान् यदिष्टं तद् दापयन्ति पथि द्रुतम् ।
एवं वाद्यैः कीर्तनैश्च वाहनैः प्रेमपूरकैः ॥2.89.५० ॥ जयनादैः सह सर्वे प्रापुः सरोऽश्वसञ्ज्ञकम् ।
येषां वज्रसमान्यासन् पापानि देहिनां तदा ॥५१ ॥ तीर्थे त्यक्तानि सर्वाणि तान्यप्यसङ्ख्यकानि वै ।
अश्वपट्टसरसस्तु दर्शनात् हरिदर्शनात् ॥५२॥ दग्धान्येव द्रुतं तत्र शेषमात्रं न विद्यते ।
अन्यतीर्थे कृते स्नाने यानि प्रयान्ति दूरतः ॥५३ ॥ तानि दग्धानि सर्वाणि चाश्वसरो विलोकनात् ।
अहो कृष्णस्य माहात्म्यं प्रत्यक्षं दृश्यते महत् ॥५४॥ यद्रजो यज्जलं यस्य क्षेत्रस्य पत्रमित्यपि ।
दाहयन्ति च पापानि किं वक्तव्यं हरौ तदा ॥५५॥ एवं प्रशंसमानास्ते महीमानाः सरस्तटे ।
उत्तरेऽतिविशाले च शाङ्करे सुप्रदेशके ॥५६॥ विशश्रमुस्तथा सस्नुः पपुर्जलं ववन्दिरे ।
तीर्थविधिं प्रचक्रुश्चाक्षालयन् पापमात्रकम् ॥५७॥ अथाऽनादिकृष्णनारायणं संस्नाप्य तज्जलैः ।
चक्रुः स्नानानि तीर्थाद्याः पपुर्वारि प्रसादजम् ॥५८॥ दिव्यवार्भिर्दिव्यरूपा मुक्तरूपाश्च तेऽभवन् ।
एवं चाश्वसरस्तीर्थम्ं कृत्वा विधानतस्ततः ॥५९॥ ययुः श्रीकुङ्कुमवापीं विशालां धामरूपिणीम् ।
तज्जलं वै पपुः सर्वे सस्नुर्जलैर्मुहुर्मुहुः ॥2.89.६० ॥ तदा सार्ष्टि तु ते प्राप्तास्तीर्थाद्या हरिवाञ्च्छया ।
ततो ब्रह्मह्रदं गत्वा सस्नुः पपुश्च तज्जलम् ॥६ १॥ ततः सारूप्यभावं च प्राप्तास्ते महीमानकाः ।
वालकृष्णसमाः सर्वे गुणरूपसमृद्धिभिः ॥६२॥ सञ्जाता मुक्तियोग्यास्ते पुनर्जन्मविवर्जिताः ।
अथोत्तरं ययुः सर्वे लोमशस्याश्रमं शुभम् ॥६३॥ लोमशः स्वागतं चक्रे मिष्टान्नफलवारिभिः ।
भोजयामास तीर्थाद्यान् सर्वान् वै महीमानकान् ॥६४॥ ब्रह्मधामानीतदुग्धसारैर्भोज्यैश्च तर्पणैः ।
तृप्तिं प्रकारयामास मुखवासान् समार्पयत् ॥६५॥ ययुस्तीर्थानि सर्वाणि देवर्षिपितृमानवाः ।
नदा नद्यः पर्वताश्च वनारण्यानि यान्यपि ॥६६॥ महीमानाश्च ते सर्वे बालकृष्णालयं शुभम् ।
दिव्यं दिव्यविभूत्याढ्यं दिव्यमुक्तनिषेवितम् ॥६७॥ अप्रतर्क्यानन्तशक्तिसेवितं चेश्वराश्रयम् ।
अवतारैः सदा जुष्टं सायुज्यमुक्तिदं शुभम् ॥६८॥ तत्रानादिकृष्णनारायणस्नातजलह्रदे ।
दिव्ये ब्रह्मह्रदश्रेष्ठे प्रसस्नुर्महीमानकाः ॥६९॥ दिव्यदेहा दिव्यदृष्टियुक्ता दिव्ये परेऽक्षरात् ।
धाम्नि स्थितान् निजान् सर्वे ह्यपश्यन्त हि शाश्वतान् ॥2.89.७० ॥ तदा पूर्णं महिमानं विविदुर्महीमानकाः ।
सालोक्यं सार्ष्टि सारूप्यं सायुज्यं चात्र सन्ति वै ॥७१॥ पापमुक्तिश्चान्यतीर्थे त्वश्वसरोऽघदाहकम् ।
सार्ष्टिदा कुङ्कुमवापी ब्रह्मह्रदः स्वरूपदः ॥७२॥ सालोक्यदं लोमशस्याश्रमं दिव्यं हि वर्तते ।
बालकृष्णालयश्चायं सायुज्यमुक्तिदोऽस्ति हि ॥७३ ॥ अहो कृष्णप्रतापेन सर्वे त्वेकैकतः खलु ।
वर्धन्ते चातिसामर्थ्ये मोक्षदाः सर्वथाऽप्यहो ॥७४॥ अत्र वासः प्रकर्तव्योऽथवा गन्तव्यमक्षरे ।
परब्रह्मणि सम्प्राप्ते कोऽन्यत्र संवसेदघी ॥७५॥ एवं वै कथयन्तस्ते व्यधुर्महोत्सवं निशि ।
चान्द्रे तु कुमुदे मासे सप्तम्याः कृष्णके दले ॥७६॥ गायनैः कीर्तनैर्नृत्यैर्भजनैः स्तवनैस्तथा ।
ध्यानैः कथाश्रवैश्चापि निन्युर्निशां सुखं तु ते ॥७७॥ प्रातः स्नात्वाऽश्वसरसि कृष्णार्चनार्थमाययुः ।
सर्वे त्वेकादशे जन्मदिनेऽष्टम्यां महोत्सवे ॥७८॥ निर्मिते मण्डपे रात्रौ विशाले विश्वकर्मणा ।
मध्ये गजासने तत्र व्यराजत हरिः स्वयम् ॥७९॥ अन्यान्यप्यासनान्यत्र सिंहासनानि सर्वशः ।
स्थापितानि च तेष्वत्रेश्वरेश्वराः परेश्वराः ॥2.89.८० ॥ अवतारास्तथा मुक्ता मुक्तान्यः साध्व्य इत्यपि ।
साधवो ब्रह्मशीलाश्च देवा देव्यो महर्षयः ॥८१॥ ब्रह्माद्याः ऋषयश्चापि पितरो देवकोटयः ।
व्यराजन्त च तीर्थानि नदा नद्यः सरांसि च ॥८२॥ लोकपाला राज्यपालाः शैला वनानि भूमयः ।
अरण्याश्च द्रुमा वल्ल्यस्तृणानि दीर्घिकास्तथा ॥८३॥ जडचेतनतत्त्वानि व्यराजन्ताऽऽसनेषु च ।
देववाद्यान्यवाद्यन्त माङ्गल्यान्यभवँस्तदा ॥८४॥ वेदघोषाह्यजायन्ताऽभवत्कुसुमवर्षणम् ।
लोमशो मुनिराट् मायावर्जितोऽपूजयद्धरिम् ॥८५॥ तिलकं चन्द्रकं भालेऽकारयत्परमात्मनः ।
मुकुटं निदधे तस्य मस्तके मालिकां शुभाम् ॥८६॥ कानकीं तौलसीं चापि पौष्पीं रात्नीं ददौ गले ।
पुष्पाञ्जलिं ददौ चापि दुर्वाङ्कुराणि कर्णयोः ॥८७॥ हस्ते श्रीफलमग्र्यं च ददौ फलानि चाग्रतः ।
चन्दनं पादयोश्चाप्यवर्धयच्चाक्षतैस्ततः ॥८८॥ आरार्त्रिकं हरेश्चक्रे आशीर्वादान् ददौ शुभान् ।
अथ श्रीकम्भरादेवी पुपूज बालकृष्णकम् ॥८९॥ श्रीमद्गोपालकृष्णश्च हारं कृष्णगले न्यधात् ।
भगवान् शुकदेवश्च वल्लभाद्या ददुः स्रजः ॥2.89.९० ॥ हेमन्तो भगवाश्चापि हैम्युपदाः समुत्तमाः ।
सन्तोषा चामृता दुग्धा जीवन्त्याद्या ददुः स्रजः ।
तिलकं कौङ्कुमं चक्रुर्भाले बिन्दुं हरेस्ततः ॥९१ ॥ अथेश्वरा अवतारा मुक्ता मुक्तान्य ईशिकाः ।
पूजयित्वाऽऽरार्त्रिकं च प्रचक्रुः श्रीहरेस्तदा ॥९२॥ ब्रह्मव्रताः ऋषयश्च पितरः सुरमानवाः ।
देवा देव्यो नदा नद्यः सरांस्युपजलान्यपि ॥९३॥ शैलाश्च भूमयोऽखातास्तीर्थानि च वनानि च ।
अरण्यानि च तत्त्वानि पुपूजुः परमेश्वरम् ॥९४॥ आरार्त्रिकं तथा पुष्पाञ्जलीन् तथोपदा ददुः ।
आभूषणानि वस्त्राणि तथोपकरणान्यपि ॥९५॥ ऊर्मिकाः फलपुष्पाणि रत्नानि हीरकाणि च ।
यानानि कल्पवृक्षाँश्च ददुर्दिव्यानि पूजने ॥९६॥ एवं पूजोत्तरं सभापरिहारोत्तरं हरिः ।
भोजयामास सर्वान् वै महीमानान् गृहीयकान् ॥९७॥ आगन्तुकानतिथींश्च सर्वान् देहिन इत्यपि ।
ददौ तु दक्षिणास्तेभ्यः प्रासादिकानि भावतः ॥९८॥ तदा तीर्थैः कृता तत्राऽभ्यर्थना श्रीहरेः पुरः ।
लब्ध्वा मोक्षप्रदं लाभं चान्यं लाभं क इच्छति ॥९९॥ तस्मान्मोक्षं कृपासिन्धो देहि नः शाश्वतं सुखम् ।
हरिः कृपया तेषां वै व्यधाद् रूपत्रयं तदा ॥2.89.१ ००॥ मूलं दिव्यं तथा छायां मूलरूपाणि धामसु ।
विमानैः सोऽप्रेषयच्च पार्षदैः सह केशवः ॥१०१ ॥ दिव्यान्यथ स्वरूपाणि स्वसन्निधावरक्षयत् ।
अश्वपट्टसरःक्षेत्रे यथेष्टं न्यवसँश्च ते ॥१ ०२॥ तीर्थात्मकाः समूर्ताश्च विश्वकर्मकृतेषु च ।
योग्यालयेषु सन्तुष्टा हरेः सेवाभिलाषुकाः ॥१०३ ॥ छायारूपाणि तीर्थानां यानि तत्राऽभवँस्तदा ।
तेभ्यः प्राह प्रभुर्लोकपावनार्थं शुभं वचः ॥१ ०४॥ मदिच्छयैव तीर्थेशा युष्मज्जन्माऽस्ति भूतले ।
लोकानां पावनार्थं वै तस्माद्गन्तव्यमीश्वराः! ॥१ ०५॥ कार्यरूपेण तत्रैव स्थातव्यं यत्र संस्थितिः ।
मया कृताऽस्ति लोकेऽत्र नदीनदसरांसि च ॥१०६ ॥ तत्तथैव हि वस्तव्यं पापिपापदहाय वै ।
आगन्तव्यं प्रतिवर्षं जन्माहे मम सर्वशः ॥१ ०७॥ पर्वण्येकादशीकाले कुम्भे माघे च कार्तिके ।
सङ्क्रान्तौ श्रावणे चापि वैशाखे पुरुषोत्तमे ॥१ ०८॥ इत्युक्तास्ते समूर्ताश्च तीर्थेश्वराः प्रणम्य च ।
ययुर्नैजान् प्रदेशांश्च महीमाना ययुस्तथा ॥१ ०९॥ ब्रह्मप्रिया हरिं कान्तं प्रपूज्य लोमशाश्रमम् ।
ययुश्च राधिके सर्वे स्वस्वस्थानानि मानवाः ॥2.89.११ ०॥ रात्रावप्युत्सवः श्रेष्ठः कृतो नर्तनगायनैः ।
पठनाच्छ्रवणाच्चापि भुक्तिमुक्तिप्रदो भवेत् ॥११ १॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने सर्वतीर्थदेवादीनां कुङ्कुमवापीयात्रागमनं, श्रीहरेर्जन्मदिनोत्सवश्चेत्यादिनिरूपणनामा नवाऽधिकाऽशीति-
तमोऽध्यायः ॥८९ ॥