श्रीकृष्ण उवाच-
श्रूयतां राधिके दिव्यं चमत्कारं पुनर्हरेः ।
प्रयागे कुम्भयोगे तु कोटिशो देहिनो ययुः ॥१ ॥
मानवा नागदैत्याश्च सुराः ऋषिगणास्तथा ।
पितरो मुनयः सिद्धाः श्रावणे तत्र चाययुः ॥२ ॥
दशक्रोशेषु सर्वत्र नगरं नूतनं ह्यभूत्॥
तद्बहिर्देववृक्षाश्च वल्लिका ऊषुरुत्सुकाः ॥३ ॥
दिव्यान्यपि च तीर्थानि दिव्यान्यपि सरांसि च ।
सरितः सर्वतो दिव्याः कूपा वाप्यश्च दीर्घिकाः ॥४ ॥
आययुस्तत्र वै स्नातुं कुम्भयोगे तु सङ्गमे ।
गङ्गायमुनयोर्योगे सरस्वत्याः समागमे ॥५ ॥
श्रावणे च तथा भाद्रपदे सस्नुश्च तीर्थके ।
तैर्थिकैर्निजपापानि त्रिवेण्यां क्षालितानि वै ॥६ ॥
अथ तत्र महात्यागी साधुः सनत्कुमारकः ।
ब्रह्मपुत्रः पञ्चवर्षबालरूपः समाययौ ॥७ ॥
दिव्याऽणुव्योमयानस्थोऽयुतभास्करसन्निभः ।
द्योतयन् भूतलं सर्वं दिशोऽम्बरं समन्ततः ॥८ ॥
आश्चर्यं देहिनः प्रापुर्देवाद्यास्तोषमाययुः ।
विमानं सूक्ष्मरूपं तद्विकासमगमत् पुनः ॥९ ॥
यत्र दिव्यस्वरूपः स योगी बालो ह्यदृश्यत ।
शनैरवातरद् भूमावक्षयवटसन्निधौ ॥2.88.१ ०॥
तत्र तस्थौ महायोगी शीघ्रं चादृश्यतां गतः ।
प्राविरास त्रिवेण्यां सः सस्नौ शीघ्रं हरिं स्मरन् ॥१ १॥
तिरो भूत्वा क्षणाद् यत्र विमानं तत्र चाययौ ।
वटस्पर्शं ततः कृत्वा ननाम वटशायिनम् ॥१२॥
पुपूज दिव्यकुसुमैर्ववन्दे वेदसंस्तवैः ।
तावत्तत्राऽऽययुर्ज्ञात्वा देवर्षिपितृमानवाः ॥१३॥
दर्शनार्थं समागत्य पुष्पाद्यैस्तमपूजयन् ।
स्वागतं कुशलं पृष्ट्वा परस्परं च ते ततः ॥१४॥
तस्थुश्चापि निषेदुश्च विशाले भूतले दिवि ।
तावत्तत्र तु तीर्थानि नदा नद्यः समाययुः ॥१५॥
प्रयागो मूर्तिमाँश्चापि सरांसि कूपवापिकाः ।
पूषा कट्वी च पन्नारी चन्द्रावती च मञ्जिरा ॥१६॥
इन्द्रावती कुशी महानदी हुहूगली तथा ।
गण्डकी कञ्चनगङ्गा शतलाजा च गोगरा ॥१७॥
चम्बला चीनपा नन्दा झेलमा काबिला नदी ।
लुणी सिन्धुस्तथा चान्या मिलित्वा ब्रह्मणः सुतम् ॥१८॥
सनत्कुमारं पप्रच्छुर्नत्वा पापविनाशकम् ।
ऋषिे द्वादशवर्षेषु यानि पापानि देहिनाम् ॥१९॥
अस्मासु तु समागत्य क्षालितानि भवन्ति वै ।
तानि तिष्ठन्ति सर्वाणि द्वादशवत्सराणि च ॥2.88.२० ॥
कुम्भस्नानप्रसङ्गेन त्यक्तान्यत्र प्रयागके ।
तदा वयं सुखं शान्तिं प्राप्नुमः पापवर्जिताः ॥२१॥
किन्तु वर्षे वत्सरे च प्रतिवर्षं कथमृषे ।
पापनाशो भवेन्नस्तु येन शान्तिर्भवेत् सदा ॥२२॥
मासे मासे तथा पक्षे घोरपापदिने तथा ।
यत्र गत्वा पापशान्तिर्यथा भवेत् प्रदर्शय ॥२३॥
महापापातिपापानां ज्वलनं यत्र जायते ।
तत्स्थलं दाहकं विप्र प्रदर्शय च नः प्रभो ॥२४॥
प्रयागश्च हरिद्वारः पुष्करो नाशिकस्तथा ।
कुम्भे पापहराः सर्वे पापवन्तो भवन्ति ते ॥२५॥
ततस्ते पापनाशार्थं यान्ति श्रीकृष्णगोमतीम् ।
इत्येवं नारदात् पूर्वं श्रुतं गोदावरीतटे ॥२६॥
तत्र यामोऽथवा श्रेष्ठं तीर्थोत्तमं भवेद् भुवि ।
कथयाऽत्र ऋषे सर्वं विदितं तेऽस्ति मानसे ॥२७ ॥
इति पृष्टो ब्रह्मपुत्रः सनातनहरिः स्वयम् ।
सनत्कुमारनामाऽसौ प्राह तिर्थानि तादृशम् ॥२८॥
श्रेष्ठाच्छ्रेष्ठतमं सद्यः प्रत्यहं पापदाहकम् ।
महापापातिपापानां यावद्ब्रह्माण्डवर्तिनाम् ॥२९॥
ईश्वराणामीश्वरो यश्चावताराधिपः प्रभुः ।
परमात्मा? महाकृष्णोऽनादिकृष्णनरायणः ॥2.88.३ ०॥
परब्रह्माऽक्षरमुक्तपतिः परतरात्परः ।
परधामनिवासश्च स्वामी स्वामिनिकेश्वरः ॥२१ ॥
भगवतां यावतां यो भगवान् यस्य नो समः ।
अधिकस्तु भवेन्नैव यत्र काष्ठा परा गतिः ॥३२॥
सोऽयं राजाऽधिराजश्च स्वमूर्तेः क्षणमात्रतः ।
राधापतिं श्रीपतिं च लक्ष्मीपतिं सतीपतिम् ॥३ ३ ॥
आविश्चकार वसितुं तेभ्यो धामानि सन्ददौ ।
ददावैश्वर्यसिद्धीश्च ददौ निजगुणाँस्तथा ॥३४॥
सोऽयं श्रीकम्भरापुत्रः श्रीमद्गोपालनन्दनः ।
सृष्ट्यादौ यत्र प्रथमं प्राविर्बभूव बालवत् ॥३५॥
वर्तते कुङ्कुमवापीक्षेत्रे मुक्तप्रसेवितः ।
मुक्तानीभिः सेवितश्च ब्रह्मप्रियाप्रसेवितः ॥३६॥
मुनिभिर्लोमशाद्यैश्च ब्रह्मविष्णुमहेश्वरैः ।
अवतारैः सेवितश्च सहस्रभुजविष्णुभिः ॥३७॥
लक्षमस्तकवेधोभिर्वासुदेवादिभिस्तथा ।
सेवितो वन्दितो यत्र भूमावक्षरसञ्ज्ञके ॥३८॥
क्षेत्रेऽश्वपट्टसरसोऽभितः क्रीडति माधवः ।
लोमशस्याश्रमस्याप्यन्तिके सर्वत्र वर्तते ॥३९॥
यत्र मुक्ता वृक्षरूपा सुरपत्न्यश्च वल्लयः ।
मुक्ताः स्तम्बस्वरूपाश्च वर्तन्ते दर्शनेच्छया ॥2.88.४० ॥
यत्प्रसादेच्छुका देवा भूत्वा पिपीलिकात्मकाः ।
अपि हंसचटकाद्याश्चरन्त्यश्वसरोऽभितः ॥४१ ॥
दशयोजनकं क्षेत्रं चाक्षरब्रह्म तन्मतम् ।
यद्रजसा परिव्याप्ताः कीटा यान्ति परां गतिम् ॥५८२॥
प्रत्यणुभूतलं तत्तु दिव्यं मोक्षप्रदं शुभम् ।
परमेश्वरयोगेन पवनोऽपि प्रमोक्षदः ॥४३॥
वल्लयश्चापि वृक्षा वै लोकान् पवित्रयन्ति हि ।
अश्वपद्रृसरस्येव भगवान् नित्यमेव तु ॥४४॥
स्नाति खेलति भक्तैश्च ब्रह्मह्रदोऽत्र वर्तते ।
गङ्गाद्यानि सुतीर्थानि वर्तन्ते तज्जलादिषु ॥४५॥
अमृताख्यो ह्रदश्चापि विरजा यमुनादिकाः ।
वर्तन्ते तत्र सरसि श्रीहरेर्योगलालसाः ॥४६ ॥
तादृशं पावनं लोके स्वर्गे सत्ये रसातले ।
वैकुण्ठादौ च वा नद्यो वर्तन्ते नाधिकं ततः ॥४७॥
पुरुषोत्तमयोगात् तत् सरोऽक्षरस्वरूपताम् ।
प्राप्तं सर्वोकृष्टतां च पापतापनिवारकम् ॥४८॥
नित्यं गत्वैव तत्रैव स्नातव्यं सायमित्यपि ।
दिवाजातानि पापानि दह्यन्ति तत्प्रसङ्गतः ॥४९॥
प्रातर्गत्वाऽऽप्लवनं च कार्यं तेन निशोद्भवम् ।
पापं सर्वं विलीयेत स्नातुश्चाऽश्वसरोवरे ॥2.88.५ ० ॥
प्रतिपर्व प्रगन्तव्यं स्नातव्यं तत्र देहिभिः ।
दिव्याऽदिव्यैरात्मभिश्च वासनाकल्मषापहे ॥५१ ॥
मासे मासे च वा वर्षे ऋतौ वा चायनेऽपि वा ।
स्नातव्यं तत्र गत्वैव सर्वपापं दहेद्धि तत् ॥५२॥
तत्राऽऽस्ते कुङ्कुमवापी यस्या जलं हरिः स्वयम् ।
सदा पिबति नैवेद्यैः सह वाप्या जले तथा ॥५३॥
अश्वपट्टसरश्चेदं नित्यं स्नाति प्रगे ह्यगे ।
सेयं कुङ्कुमवापीति श्रीहरेर्हृदयं मतम् ॥५४॥
तत्परं नास्ति तीर्थं वै धामलोकेषु कुत्रचित् ।
देवलोकेषु वा नास्ति नास्तीश्वरादिधामसु ॥५५॥
कुतः पृथ्व्यां तु लभ्येत विना कुङ्कुमवापिकाम् ।
कुङ्कुमवापिकातुल्या कुङ्कुमवापिका स्वयम् ॥५६॥
कृष्णनारायणतुल्यः कृष्णनारायणः स्वयम् ।
कम्भराश्रीसतीतुल्या कम्भराश्रीसती स्वयम् ॥१७॥
गोपालकृष्णतुल्यश्च गोपालकृष्ण एव सः ।
अक्षरं चाक्षरतुल्यं परं तुल्यं न विद्यते ॥५८॥
एतद्ब्रह्माण्डतुल्यं च एतद्ब्रह्माण्डमेव हि ।
यत्राऽनादिः परब्रह्म कृष्णनारायणोऽस्ति हि ॥५९॥
तत्र नद्यो भवत्यस्तु गत्वा कुर्वन्तु चाप्लवम् ।
अश्वपट्टसरोदिव्यवारिणि प्रातरेव च ॥2.88.६०॥
पिबन्तु कुङ्कुमवापीजलं हरिपदामृतम् ।
प्रत्यक्षं बालकृष्णं च प्रसेवन्तां दिवानिशम् ॥६ १॥
वसन्तु देव्यस्तत्रैव मूलरूपैः सदा सुखम् ।
कार्यरूपैर्विहरन्तु देशेषु जलरूपिकाः ॥६२॥
बालकृष्णस्य योगेन यूयं प्राप्स्यथ सत्सुखम् ।
लानिर्देश्यमवर्ण्यं चाऽसीमात्यानन्दलक्षणम् ॥६३॥
यन्मूर्तिस्थः परानन्दोऽक्षरे ब्रह्मणि नास्ति च ।
अन्यत्र तु कुतः स्याद्वै तत् सुखं लप्स्यथ ध्रुवम् ॥६४॥
सर्वात्मनाऽर्पणेनैव बालकृष्णस्य सेवने ।
सर्वं सुखं हरिस्तुष्टो दास्यत्येव निजप्रियम् ॥६५॥
यत्राऽन्तरं मनाक् चास्ते तत्राऽऽनन्देऽपि चान्तरम् ।
यत्रान्तरं न तत्रास्ति तत्रानन्दे न चान्तरम् ॥६६ ॥
द्वयोरैक्ये प्रवाहाश्च सुखस्याऽऽविर्भवन्ति वै ।
सच्छ्रीकृष्णो नरश्रेष्ठः, चित् भवत्यस्तु सेविकाः ॥६७॥
तयोरानन्द एवायं तत्र दुःखस्य का कथा ।
पापानि कृष्णयोगेन विलीयन्ते क्षणे क्षणे ॥६८॥
पुण्यानां पर्वतास्तत्र प्रोद्भवन्ति क्षणे क्षणे ।
आनन्दानां प्रवाहाश्च सामुद्रा इव सर्वशः ॥६९॥
जायन्ते श्रीहरेर्योगात् सेवन्तां यान्तु तं हरिम् ।
इत्येवं कथ्यमानानां नदीनां रोममण्डलात् ॥2.88.७०॥
निर्ययुः सूक्ष्मकीटा वै कृष्णवर्णाः समन्ततः ।
तेभ्यः पृष्टं तदा ताभिः के भवन्तोऽत्र निर्ययुः ॥७१ ॥
ऊचुः कीटा वयं पापान्यघिनां पापरूपिणः।
भवतीषु समुत्सृज्य पापिनो यान्ति वै गृहम् ॥७२॥
वयं तानि निर्गता वो देहेभ्योऽश्वसरःस्मृतेः ।
गमिष्यामो वयं नद्यस्त्वन्यत्र पर्वतादिषु ॥७३॥
अन्यथा वस्तत्र गत्वा स्नानमात्रेण नः क्षयः ।
इत्येवं भयमासाद्य निर्गतान्यत्र जीवतः ॥७४॥
ये स्मृत्वा कुङ्कुमवापीं बालकृष्णं परं प्रभुम् ।
अश्वपट्टसरःक्षेत्रमक्षरं यान्ति तत्प्रति ॥७५॥
तैः कृते सङ्क्रमे शीघ्रं नश्यन्त्यघानि सर्वशः ।
तस्माद्वयं जीवनेच्छावन्तो यामः स्थलान्तरम् ॥७६ ॥
मरणाज्जीवनं श्रेष्ठं तपसा वा क्षुधाऽपि वा ।
क्वचिदवश्यं जायेत जीवत भद्रदर्शनम् ॥७७॥
पुरुषार्थोऽपि जायेत लभ्येतेष्टं पुनः पुनः ।
इत्युक्त्वा निर्ययुः सर्वाघानि सरिद्गणात्तदा ॥७८॥
तीर्थानि चापुराश्चर्यं यस्य श्रवणतः खलु ।
पापानि यान्ति वै दूरं तत्तीर्थं कीदृशं भवेत् ॥७९॥
तस्माद् गत्वैव सेव्यं तत् वस्तव्यं तत्र चैव नु ।
इति निश्चित्य च मुनिं प्रशशंसुः पुनः पुनः ॥2.88.८०॥
पुपूजुश्चातिभावेन समूचुश्च मुनिं मुहुः ।
सनत्कुमार भगवन् प्रापय क्षेत्रमेव नः ॥८ १ ॥
त्वया सहैकवारं त्वमुपकारं विधेहि नः ।
ओमित्येवं जगादाऽसौ मुनिस्तीर्थानि तत्क्षणम् ॥८२॥
पृथिव्यां यानि कान्येव जहृषुश्चाति सर्वशः ।
शीघ्रं वार्ता प्रकाशं साऽभवत् कुम्भाऽऽगतेषु तु ॥८२ ॥
सनत्कुमारो भगवान् सर्वपापविशुद्धये ।
अनादिश्रीकृष्णनारायणं प्रति प्रयाति वै ॥८४॥
सर्वतीर्थानि चादाय सह कुङ्कुमवापिकाम् ।
यत्र साक्षाद्धरिश्चास्ते बालकृष्णः परेश्वर ॥८५॥
अश्वपट्टसरःक्षेत्रे यत्रास्ते लोमशो मुनिः ।
कुम्भं कृत्वा तु गच्छामो दिव्यताप्राप्तये खलु ॥८६ ॥
इत्येवं निश्चयं कृत्वा धृत्वोपकरणानि च ।
तीर्थयात्राविधानार्थं तीर्थानि निर्ययुस्तदा ॥८७॥
सर्वखण्डस्थनद्यस्तु सर्वखण्डसरांसि च ।
सर्वखण्डगताः कूपा वाप्योऽखाताश्च सागराः ॥८८॥
निर्झरणानि सर्वाणि तटाका दीर्घिकास्तथा ।
सङ्गमानि नदीनां च समुद्रसरितां तथा ॥८९॥
जलतीर्थानि चालोक्य पृथ्वीतीर्थानि यान्यपि ।
पार्वतानि स्थलानि गह्वराण्युच्छ्रयाणि च ॥2.88.९०॥
वनान्यरण्यवर्याणि घाटानि सरितस्तथा ।
द्वीपानां सरितश्चापि तीर्थयात्रार्थमागताः ॥९१॥
मिमिलुः सहयोगिन्यः सहयोगा यथायथम् ।
पर्वताः शृङ्गशैलाश्च तद्देवा देविकास्तथा ॥१२॥
ह्रदा हदिन्यः सर्वास्तु पद्भिर्यात्रां व्यधुर्हिताम् ।
लक्षसङ्ख्यानि तीर्थानि तथाऽन्ये लक्षशोऽपि च ॥९३॥
वाद्यैर्वादित्रकैर्वंशैस्त्रासकैः करतालकैः ।
मृदङ्गैर्द्विमृदङ्गैश्च भेरीभिः स्वरवाद्यकैः ॥९४॥
तारतन्त्रीभिरेवापि तुम्बुराद्यैस्तथेतरैः ।
सुवाद्यैः सह गायन्तः कीर्तनानि हरेस्तु वै ॥९५॥
आश्वीनमासमासाद्य प्रयागान्निर्ययुः सुखम् ।
मार्गे ते पुष्करं कृत्वा गत्वा सिद्धाश्रमं तथा ॥९६॥
सतीं बहुचरां नत्वा चतुष्टिलकपर्वतम् ।
दृष्ट्वा तीर्थानि देवाश्च सिद्धा महर्षयस्तथा ॥९७॥
पितरः पर्वताद्याश्च दिव्यरूपधराः खलु ।
आययुः कुङ्कुमवापीक्षेत्रसीमान्तिकं मुदा ॥९८॥
सनत्कुमारसहिताः ऋषयश्च महार्षयः ।
तथाऽन्ये दिव्यदेहाश्च योगिनोऽपि समाययुः ॥९९॥
विशश्रमुस्तु ते क्षेत्रादुत्तरात् शाङ्करीं दिशम् ।
क्रमव्यूहं ततश्चक्रुः समाजोत्सवबोधकम् ॥2.88.१० ०॥
राधिके स्वर्गवासिन्यो देव्यो गान्धर्व्य इत्यपि ।
सत्यः साध्व्यः समाजग्मुस्तीर्थदर्शनलालसाः ॥१० १॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीसनत्कुमारर्षिप्रदर्शिताऽश्वपट्टसरोमाहात्म्येन सर्वतीर्थानां प्रयागतः कुङ्कुमवापीं प्रति यात्रानिर्देश-
नामाऽष्टाशीतितमोऽध्यायः ॥८८ ॥