०८७

श्रीकृष्ण उवाच -
शृणु त्वं राधिके भक्ता हरेर्गृह्णन्ति सद्गुणान् ।
दुष्टा गुणेषु दोषाँश्चारोप्य गृह्णन्ति दुर्गुणान् ॥१ ॥ विश्रवसस्तु पुत्रस्य खरस्य राक्षसस्य वै ।
खचर्यामभवत् पुत्रो ह्यधर्मजीवसञ्ज्ञकः ॥२ ॥ कट्यां वक्रो भग्नपृष्ठो गण्डे गोधाख्यदूषणः ।
कपर्दाक्षः सदा श्वासे दुर्गन्धाढ्यः शिशुप्रियः ॥३ ॥ सकल्मषोऽतिकापट्याचारो विश्वासघातकः ।
जन्मना ताडिता पद्भ्यां माता मृतेति मातृहा ॥४ ॥ घूकस्वरः कृष्णवर्णः पिच्छतुल्यशिरोरुहः ।
पृष्ठलिङ्गी कुण्ठकर्णो बहिर्दंष्ट्रोऽतिमत्सरः ॥५ ॥ उत्पन्नमात्रदुःखकृद्बालानां धर्षकोऽभवत् ।
एकदा स ययौ नद्यास्तटे रन्तुं सबालकः ॥६ ॥ चर्मकारस्य वासेषु चान्त्यजानां गृहेषु च ।
रिक्तेषु बालरक्षेषु ज्येष्ठास्तु कर्मणे गताः ॥७ ॥ तत्र बालांस्ताडयित्वा भक्षयामास तद्गृहे ।
श्वमांसं मद्यपानं च प्रचकार पपौ जलम् ॥८ ॥ तदा बालैर्मिलित्वा च धृत्वा बद्ध्वाऽन्त्यजैर्बलात् ।
क्षारकुण्डे विनिक्षिप्तो दुर्गन्धे स्वल्पकर्दमे ॥९ ॥ शिलया छादितस्तत्र कुण्ड्यां क्षारपटस्य सः ।
दिवानिशं स वै कुण्ड्यां कुण्डीगन्धं समग्रहीत् ॥2.87.१० ॥ मासार्धं प्राणरक्षार्थं उभुक्षितस्तृषाकुलः ।
चर्मक्षालनजं वारि चार्मकर्दममित्यपि ॥११ ॥ सूक्ष्मकीटोद्भवं कुण्ड्यां भक्षयामास पापकृत् ।
राक्षसो जातिजो यश्च चाण्डालगृहभोजनः ॥१२॥ चर्मकुण्डकृतावासश्चर्मकर्दमभक्षकः ।
मातृहाः शिशुमारश्च कोऽस्मात्पापतरो भवेत् ॥१३ ॥ राधिके! तादृशोऽधर्मजीवो नाम्ना महासुरः ।
अन्त्यजैश्चर्मकारैश्च आवलीरञ्जनाम्बरः ॥१४॥ निष्कास्य कुण्डितो दुष्टस्ताडितः षण्ढितस्तथा ।
सिंहले द्वीपके तस्थौ रणान्ते वनिभक्षकः ॥१५॥ पशून् पक्षिगणाँश्चापि क्वचित् कुटुम्बजाऽर्भकान् ।
धृत्वा करोति तद्घातं भक्षयत्येव तानपि ॥१६ ॥ एकदा भक्तराट् तत्र विभीषणो हरेः प्रियः ।
गृणन् रामेति कृष्णेति नारायणेति सञ्चरन् ॥१७॥ विहर्तुं तेन मार्गेण ययौ वनानि वीक्षितुम् ।
तत्रैनं वीक्षयामासाऽधर्मजीवं महासुरम् ॥१८॥ उवाच त्वं कथमत्र वर्तसे निर्जने सुत ।
एहि गृहं हरिं कृष्णं भज नारायणं सुखम् ॥१ ९॥ मा दुःखं वह शुष्केऽत्राऽरण्ये रणे तु निर्जने ।
श्रुत्वा विभीषणं प्राह पितृज्येष्ठं सगर्वकः ॥2.87.२०॥ को हरिः कश्च कृष्णोऽस्ति नारायणोऽपि कोऽस्ति वै ।
नैनं जानामि कश्चास्ते कस्माद् भजेऽविचारितम् ॥२१ ॥ भक्तो विभीषणः प्राह हरिर्दुःखहरोऽस्ति सः ।
परब्रह्म स्वयं दिव्यो दिव्याक्षरनिवासकृत् ॥२२॥ राक्षसोऽधर्मजीवस्तु प्राह धनापहारकः ।
द्रव्यापहारको नार्याद्यपहारक एव सः ॥२३॥ हारकस्त्वन्यसमृद्धेश्चौरः कश्चिद् भवेत् हरिः ।
कृष्णं पापं दुष्टकर्म तत्कृत् कृष्णो भवेद्धि सः ॥२४॥ नारास्वप्स्वयनः कश्चित् नदीस्थो धीवरो भवेत् ।
जलहारकभृत्यो वा किङ्करः कस्यचिद्भवेत् ॥२५॥ जले वासकरो वाऽयं सर्पो मत्स्योऽथवा भवेत् ।
परः शत्रुर्ब्रह्म महान् महाशत्रुर्भवेद्धि सः ॥२६॥ दिव्यो धूर्तो द्यूतवेत्ता व्यसनी कश्चिदेव सः ।
अक्षैः पाशैः रमते च राति गृह्णाति नाणकम् ॥२७॥ द्यूतगृहे निवासी च भवेत् कश्चिदघात्मकः ।
विभीषणस्तु तं प्राह परमात्मा परेश्वरः ॥२८॥ पुरुषोत्तम एवाऽयं भगवानीश्वरेश्वरः ।
मुक्ताऽधिपः परे धाम्नि राजमानोऽस्ति पुत्रक ॥२९॥ राक्षसोऽधर्मजीवश्च प्राह नाऽयं तथा पितः ।
पं पानं मद्यजं तत्र रमते त्वात्मना स्वयम् ॥2.87.३ ०॥ मद्यपानादिलुब्धः स मद्यपः परमो भवेत् ।
परस्य दीनलोकस्य दुःखकृच्चेश्वरो भवेत् ॥३ १॥ पुरु सिनोति पापानि चाऽधिकं तमसाऽऽवृतः ।
तामसः पापकृच्चाऽयं भवेत्। स पुरुषोत्तमः ॥३२॥ भगं गुह्यं च वा तस्य नारीचिह्नं भवेत् खलु ।
भगवान् गुप्तनारी सा भवेत् पुरुषवेषिणी ॥३३॥ ईश्वराणां मादृशानां योद्धॄणामिशुभिर्हतः ।
न रक्षितुं स्वयं शक्तः स्वं भवेदीश्वरेश्वरः ॥३४॥ मुक्ता याः पतिभिर्नार्यो गृहान्निष्कासिताश्च याः ।
तासामधिपः स भवेद् व्यभिचारिशिरोमणिः ॥३५॥ परे धाम्नि गृहे नित्यं वसति परभूस्थितः ।
गृहद्वारविहीनः स भवेद्वा भिक्षुकः पितः! ॥३६॥ विभीषणश्च तं प्राह पुत्र! व्यूहस्वरूपधृक् ।
सर्वावतारहेतुः स सर्वशक्तिधरः प्रभुः ॥३७॥ गोलोकेशः स वैकुण्ठधामेशो वै परः पुमान् ।
योगिगम्योऽन्तरात्मा च मोक्षदश्चेति तं भज ॥३८॥ अधर्मजीवरक्षोऽपि प्राह मन्ये स वञ्चकः ।
वञ्चनार्थं तु लोकानां व्यूह्य व्यूह्य तु वेषधृक् ॥३९॥ क्वचिन्नटः क्वचिद्गोपः कचिद्राजकुमारवत् ।
क्वचिद्विप्रो भवत्येव वञ्चको व्यूहवान् भवेत् ॥2.87.४०॥ सर्वेषामवताराणां लोके वै निम्नकर्मणाम् ।
हेतुः कर्ता निम्नवर्णो भवेत् कश्चिद् विवर्णजः ॥४१ ॥ सर्वेषु प्राणिषु शस्त्रशक्त्याख्यस्य प्रयोजकः ।
भवेत् स घातकी कश्चिदिति मन्ये पितः खलु ॥४२॥ प्रसह्य भवति कष्टप्रदः कश्चिद् भवेदघी ।
गवां स वृषभाणां वै लोके समूहके महान् ॥४३॥ महावृषभो वा कश्चिद् भवेद्वा वृषवाहकः ।
कुण्ठितं धामवासादि गृहकुट्यादिवर्जितः ॥४४॥ परः शत्रुस्वरूपो वा पुमान् भवेद्धि रक्षसाम् ।
समशीलैर्योगवद्भिर्गम्य_ साप्तपदीनकम् ॥४५॥ तस्मादसज्जनः कश्चिदिति मन्ये पितः खलु ।
अन्तरं भिन्नता यस्य कामे मनसि चात्मनि ॥४६॥ वाचि वा भिन्नता तस्माद् विश्वासघातको भवेत् ।
मोक्षं सर्वं समाच्छिद्य दुर्बलस्य विनाशनम् ॥४७॥ मन्ये करोति कश्चित् स हिंस्रो दुर्बलघातकः ।
कस्तं भजेदसन्तं वै गुणाग्र्यैश्च विवर्जितम् ॥४८॥ विभीषणस्तु तं प्राह स तु विद्वान् गुणाश्रयः ।
वेदविद् वेदशास्त्रादिकर्ता शीलव्रतादिमान् ॥४९॥ सर्वधर्माश्रयः साधुकर्मकः शान्तिसम्भृतः ।
अधर्मजीवो रक्षोऽथ प्राह विद्वान्न चास्ति सः ॥2.87.५०॥ न रम्भणं विजानाति गीतिं जानाति नैव च ।
अभिचारान्न जानाति मायां जानाति नैव च ॥५१ ॥ अतो नैव भवेद्वा स विद्वान् पितः कदाचन ।
गुणो रज्जुर्गवां दोहकार्यार्थं यस्य विद्यते ॥५२॥ स्कन्धे तस्माद् भवेद् गोपो गुणाश्रयः पितः खलु ।
वेदं वा वेदिकां ग्रामचतुष्के निर्मितां जनैः ॥५३॥ पाषाणानां मृदां वा तां कर्तुं जानाति कुम्भकृत् ।
कुभकारो भवेद् वाऽयं वेदिकाशिल्पवित् खलु ॥५४॥ शं शातनं हि केशानां करोत्यस्त्रेण मस्तके ।
नापितोऽयं भवेद्वा च रोमशत्रुप्रशस्त्रवान् ॥५५॥ शीलं चाऽस्खलनं धर्मो व्रतं कृच्छ्रादि यत्तपः ।
अत्ति खादति चोभं तत् तादृग्धर्मविघातकः ॥५६॥ शीलव्रतादनश्चायं भवेत् कश्चिद्धि भाण्डकः ।
सर्वे धर्माः पशुधर्मास्तद्वान् वा स पशुर्भवेत् ॥५७॥ साधोः कर्म गृहस्थानां विरुद्धं गृहभञ्जनम् ।
सन्यासादिस्वरूपं तत्कारकोऽयं यतिर्भवेत् ॥५८॥ जडो वा स्याद् विचित्तो वा शान्तिसम्भृत एकलः ।
विभीषणश्च तं प्राह पुत्र विप्रोऽस्ति माधवः ॥५९॥ यज्ञोपवीतसन्धर्ता क्लेशतापप्रशामकः ।
महाविद्याश्रयः शास्त्ररचनाकारकः स्वयम् ॥2.87.६०॥ एक एवाऽद्वितीयोऽयं तीर्थयात्राकरोऽच्युतः ।
अधर्मजीवो रक्षस्तु प्राह विप्रो भवेन्न सः ॥६ १॥ विं पक्षिणं तु यः प्राति गृह्णाति मृगयूर्यथा ।
तस्माद् व्याधो भवेत् कश्चित् पक्षिमारोऽथवा पशुः ॥६२॥ माधवो मातृगामी वा भवेत् कश्चित् पशुप्रजः ।
यस्य नियामको नास्ति यस्य नास्ति धवस्तथा ॥६३॥ मातृहीनः पितृहीनो भवेत् कश्चिद् वनेचरः ।
इतः प्राप्तश्च विः पक्षी तं यज्ञस्यैव सन्निधौ ॥६४॥ सन् धारयति भक्ष्यार्थं शकुनादो भवेद्धि सः ।
क्लेशैस्तापैः प्रकर्षैश्च शामको लोकनाशकः ॥६५॥ तस्माद् विप्लवकर्ता स भवेत् कश्चित्तु घातकी ।
महाविद्याः कामविद्याश्चोच्चाटनीं विनाशिनीम् ॥६६॥ मारिणीं मोहिनीं चेद्वा जानात्ययं तदा पितः ।
श्वपाको वाऽथ चाण्डालो मलिनो वा भवेद्धि सः ॥६७॥ शास्त्रेषु रचनां चायं प्रतारणस्य कारकः ।
प्रतारको भवेत् कश्चित् नहि शास्त्रस्य कारकः ॥६८॥ एकाकी तु वनेऽरण्ये भ्रमन् कुटुम्बहीनकः ।
अद्वितीयो विधुरोऽयं तीर्थमुण्डी च वा भवेत् ॥६९॥ न च्यवते धनं दाने दरिद्रः स भवेत् पितः ।
साधुधर्मविहीनश्च कपटी निन्दकः खलः ॥2.87.७०॥ प्रच्छन्नचौरो नारीणां चाञ्चल्यस्य प्रवर्धकः ।
असङ्ख्यवारनारीणां भ्रामको वेषधारकः ॥७१॥ गोपीनामदृश्यकर्ता सिद्धमन्त्रकरो भवेत्॥ कामिनीनां कामनायाः पूरकोऽन्यायकारकः ॥७२॥ धर्मलोप्ता कुललोप्ता ह्यासक्तो ग्राम्यदर्शने ।
क्रोधलोभादिदोषाणामाकरोऽज्ञानशेवधिः ॥७३ ॥ व्यवहारविधुरश्च बुद्धिहीनोऽतितामसी ।
पशुपाशो भवेत् कश्चित् कन्याहरः शिशुप्रियः ॥७४॥ यादृशस्तादृशो वापि भवेन्मे किं प्रयोजनम् ।
तद्गुणान्न सहे दिव्यानदिव्यान् वा कथञ्चन ॥७५॥ नास्ति कश्चित् ततो ध्येयो भजनीयोऽपि मे पितः ।
अहं श्रेष्ठस्ततश्चाऽस्मि नास्ति श्रेष्ठोऽपि कश्चन ॥७६॥ विभीषणस्ततः प्राह मा पुत्र तं विमानय ।
अनादिश्रीकृष्णनारायणः श्रीकमलापतिः ॥७७॥ सर्वपतिः परमेशश्चान्तर्यामी नियामकः ।
कर्तुमकर्तुमन्यथाकर्तुं शक्तः स वै हरिः ॥७८॥ वर्तते बालरूपस्तं भज सर्वात्मना सुत ।
दिव्याः सन्ति गुणास्तस्मिन्नेकैको मोक्षदो हि यः ॥७९॥ सत्यं शौचं दया क्षान्तिस्त्यागः सन्तोष आर्जवम् ।
शमो दमस्तपः साम्यं तितिक्षोपरतिः श्रुतम् ॥2.87.८० ॥ ज्ञानं विरक्तिरैश्वर्यं शौर्यं तेजो बलं स्मृतिः ।
स्वातन्त्र्यं कौशलं कान्तिधैर्यं च मार्दवं तथा ॥८ १॥ प्रागल्भ्यं प्रश्रयः शीलं सह ओजो बलं भगः ।
गाम्भीर्यं स्थैर्यमास्तिक्यं कीर्तिर्मानोऽनहङ्कृतिः ॥८२॥ कृतोपकारश्चाद्रोहोऽनीहाऽकिञ्चनता तथा ।
मैत्री सार्वज्ञ्यमेवैते गुणाः सन्ति परात्मनि ॥८३॥ अधर्मजीवनो रक्षः प्राह मन्ये न तान् गुणान् ।
अहं नपुंसकं मन्ये कार्योत्साहविवर्जितम् ॥८४॥ धमार्थकामनाहीनं निष्क्रियं निर्बलं च तम् ।
परभाग्योपजीवित्वं परसम्पद्विकर्षणम् ॥८५॥ अमार्गवाहिता चापि मन्ये तत्रैव सन्ति हि ।
तस्मात् पितर्न मे वक्तुं गुणानर्हसि तस्य वै ॥८६॥ राधिके एवमेवायमधर्मजीवनोऽसुरः ।
शताधिकान् हरौ दोषान् जगाद पितरं प्रति ॥८७॥ विभीषणस्तु तं क्रुद्धो जघान गदया तदा ।
अमृतश्च विदुद्राव सिंहलद्वीपतस्ततः ॥८८॥ कपटी मानवो भूत्वा सौराष्ट्रे चाजगाम सः ।
शत्रुजयानदीतीरे त्रिवटाख्ये भुवस्तले ॥८९॥ उवास कृतकेतश्च द्विषन् कृष्णनरायणम् ।
यतिवेषधरो भूत्वा सतां विद्वेषकः खलः ॥2.87.९०॥ दुष्टो धर्मध्वजो भूत्वाऽप्रतारयन् जनान् बहून् ।
अनादिश्रीकृष्णनारायणे श्रीपरमेश्वरे ॥९१॥ वैरं कुर्वन् वचोभिश्च लोके नास्तिक्यमादधन् ।
आययौ कुङ्कुमवापीक्षेत्रं नष्टायुरेव सः ॥९२॥ लोमशस्याऽऽश्रमे गत्वा निनिन्द परमेश्वरम् ।
तदा श्रीशङ्करः श्रुत्वा भैरवं प्राह सेवकम् ॥९३॥ याहि भैरव दुष्टं तमधर्मजीवनाऽसुरम् ।
घातयैनं पिशाचैस्त्वं नारकिणं हि कर्मणा ॥९४॥ इत्युक्तो भैरवः शूलं धृत्वा गत्वा पिशाचकैः ।
जीवग्राहं गृहीत्वा तं बद्ध्वा चार्मणरज्जुभिः ॥९५॥ निचिक्षेप मलस्थाने विष्टाव्याप्तक्षितौ तदा ।
तन्मखे मूत्रयामासुर्विष्ठां चक्रुः पिशाचकाः ॥९६॥ मूढमारं दृढं सर्वे मारयामासुरासुरम् ।
अङ्गानि छेदयामासुश्चिक्षिपुर्लावणं जलम् ॥९७॥ अनादिश्रीकृष्णनारायणद्वेषिणमेव ते ।
ततो रज्जुप्रबन्धेन गृध्रवासद्रुमान्तरे ॥९८॥ शाखायां बन्धयामासुर्लम्बते सोऽप्यधोमुखः ।
गृध्रकाकादिविष्ठा च पतत्येव तु तन्मुखे ॥९९॥ एवं मासद्वयं दण्डं चक्रे श्रीभैरवोऽसुरे ।
ततः क्षुधातृषाव्याप्तो ममार प्राणतो हि सः ॥2.87.१०० ॥ ययौ यमालयं सोऽयमसुरोऽधर्मजीवनः ।
कुम्भीपातेऽपतत्तत्र सहस्रवत्सरं हिं सः ॥१० १॥ अथाऽत्र भैरवो देवः सस्नौ चाश्वसरोवरे ।
तस्य संसर्गदोषोत्थपापप्रक्षालनाय वै ॥१ ०२॥ एवं विनाशमापन्नोऽसुरोऽधर्मप्रजीवनः ।
शिशुप्रियः स्वपापेन मृतोऽसद्गतिमार्गगः ॥१ ०३॥ राधिके मेऽपराधस्य कर्तॄणां नास्ति सद्गतिः ।
यदि स्याच्छरणापन्नस्तदा गतिं ददाम्यहम् ॥१ ०४॥ अथ शरणं नाऽऽयातो मृतोऽपि परमेश्वरम् ।
ततः कोट्यर्बुदवर्षेरप्यस्य सद्रतिर्न वै ॥१ ०५॥ आषाढे स मृतो दैत्यसमो रक्षोऽतिनिन्दकः ।
अथ विभीषणः श्रुत्वाऽधर्मजीवमृतिं ततः ॥१ ०६॥ नीत्वा तन्मातरं तत्र सौराष्ट्रे व्योममार्गतः ।
आययौ चार्थयामास सद्गतिं परमेश्वरात् ॥१ ०७॥ हरिर्जन्मान्तरे प्राह तस्य गतिर्भविष्यति ।
मम हस्तेन मृत्युं स लब्ध्वा यास्यति सद्गतिम् ॥१ ०८॥ तस्य मात्रे ददौ मन्त्रं लोमशर्षिस्ततः परम् ।
विभीषणाय मन्त्रं स ददौ श्रीपारमेश्वरम् ॥१ ०९॥ ‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
मासं स्थित्वा ययतुस्तौ राधिके वै निजालयम् ॥2.87.११० ॥ भेजाते श्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
विभीषणश्च खचरी त्वन्ते दिव्यौ बभूवतुः ॥१११ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने खरपुत्रस्याऽधर्मजीवनस्य नास्तिक्यं, हरेर्गुणेष्वगुणकल्पनाः, हरौ द्वेषोऽसद्गतिस्ततः कालान्तरे सद्गतिवरदानमित्यादिनिरूपणनामा सप्ताशीतितमोऽध्यायः ॥८७ ॥