०८४

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चमत्कृतिं नारायणस्य च ।
ब्रह्मपुत्रपुलस्त्यस्य भार्याया भक्तिगोचराम् ॥१ ॥ पुलस्त्यस्य प्रिया भार्या तृणबिन्दोः सुता शुभा ।
ऐलविलाऽभवन्नाम्ना तस्यां वै विश्रवाः सुतः ॥२ ॥ अभवद् बहुशास्त्राणां ज्ञाता धर्मपरायणः ।
पुलस्त्यं त्वेकदा चैलविलाऽपृच्छद् वृषान् प्रति ॥३ ॥ युगधर्माः पुरा चासन् कीदृशा वद मे पते ।
पुलस्त्यस्तु ततः प्राह सर्वान् सङ्क्षेपतो वृषान् ॥४ ॥ कृतं त्रेता द्वापरश्च कलिश्चेति चतुर्युगम् ।
ध्यानं तपः कृतयुगे त्रेतायां ज्ञानमध्वरः ॥५ ॥ द्वापरे यज्ञ एवेति दानमेकं कलौ युगे ।
ब्रह्मा कृतयुगे देवः सर्वत्र गतिमानभूत् ॥६ ॥ त्रेतायां गतिमान् सूर्यश्चाऽभवन्मेलनक्षमः ।
द्वापरे दैवतं विष्णुः साक्षाच्च गतिमानभूत् ॥७ ॥ कलौ कालस्वरूपश्च देवो रुद्रः प्रवर्तते ।
यत्र तत्र महान् क्लेशः कलौ विनाशको यतः ॥८ ॥ कृते तु समसङ्ख्याकाः कन्याश्चाथ कुमारकाः ।
आसन् समानयुगला वृत्तिस्तेषामलोलुपा ॥९ ॥ प्रजास्तृप्ताः सदा सर्वाः सर्वानन्दाः सुखाश्रयाः ।
उत्तमाऽधमता नास्ति निर्विशेषाः पुरन्ध्रिकाः ॥१० ॥ तुल्यमायुः सुखं रूपं बलं तुष्टिः स्थिरा मतिः ।
विशोका ज्ञानबहुला एकान्तबहुलास्तथा ॥११ ॥ ध्याननिष्ठास्तपोनिष्ठाः परब्रह्मपरायणाः ।
सदा निष्कामचारिण्यो नित्यं मुदितमानसाः ॥१ २॥ पर्वतोदधिवासिन्यो ह्यनिकेताः क्षितिश्रयाः ।
सङ्कल्पजन्यभोज्याश्च सङ्कल्पोत्थजलादनाः ॥१ ३॥ सङ्कल्पजन्यसुरसाः सदा शान्ता यथेश्वराः ।
सर्वमासामात्मलभ्यं तदासीद् ब्रह्मसात्कृतम् ॥१४॥ रसोल्लासाः सदा ह्यासन् कृतकृत्याः कृते युगे ।
चतुःसहस्रवर्षाणां विगमे सन्धिरागतः ॥१५॥ अष्टशताब्दस्तत्रैव रसोल्लासो न वेगवान् ।
रागश्चापि विलासश्च समुद्भवति वै शनैः ॥१६॥ सत्यसिद्धौ प्रक्षीणायामन्या सिद्धिः प्रवर्तते ।
अपां सौख्ये हिरीसमाप्ते तदा मेषात्मनाऽम्बरात् ॥१७॥ मेघेभ्यः स्तनयित्नुभ्यः प्रवृत्तं वृष्टिसर्जनम् ।
सकृदेव तया वृष्ट्या सम्पृक्तो पृथिवीतले ॥१८॥ जलं द्वादशमासांश्च वर्तते स्म स्थलभृतम् ।
तत्र वृक्षा वल्लिकाश्च प्रादुरासन् रसभृताः ॥१९॥ सर्वे प्रत्युपभोगाश्च तदा तेभ्यो भवन्ति वै ।
वर्तयन्ति स्म कल्पाख्यवृक्षादिभ्यस्तदा प्रजाः ॥2.84.२०॥ वृक्षास्तदा प्रजानां च निवासाः केतनानि च ।
आसन् भित्तिविहीनानि सर्वाण्यपि गृहाण्यपि ॥२ १ ॥ वृक्षाश्रिताः प्रजाः सर्वा रागलोभादिधर्षिताः ।
स्वकीयत्वे च पारक्ये विवादमाश्रयन् क्वचित् ॥२२॥ रागलोभोद्भवः क्लेशस्तदा स्थानमवाप्तवान् ।
तेन दैवास्तु ते कल्पद्रुमा नाशमथो गताः ॥२३ ॥ ततस्तेषु प्रणष्टेषु विभ्रान्ताः शोकिताः प्रजाः ।
कल्पद्रुमान् बलहीनान् सेवाजन्यफलप्रदान् ॥२४॥ अवापुः पृथिवीतस्ता बीजाद्युद्भवगोचरान् ।
वस्त्राणि वल्कलाख्यानि फलानि भोजनानि च ॥२५॥ पुष्पाणि त्वाभरणानि प्रसूयन्ते स्म यत्नतः ।
तेष्वेव जायते तासां गृध्नो रसोऽथ भोजनम् ॥२६॥ अमाक्षिकं महावीर्यं पुटके पुटके मधु ।
फलेभ्यः प्रस्रवन्त्येव रसा मिष्टाश्च धारया ॥२७॥ तैः प्रजा वर्तयन्ति स्म दुष्टास्तुष्टा गतज्वराः ।
अथ त्रेतोत्तरे काले प्रजा लोभावृतास्तदा ॥२८॥ विशेषतः समभवन् बलात् कृत्वा निजान् द्रुमान् ।
पर्यगृह्णन्त च मधु माक्षिकं च फलादिकम् ॥२९॥ एवं क्लेशो निर्बलानां मधुलाभे विनाऽभवत् ।
वृक्षा विलोक्य तु पक्षपातं प्रजाकृतं तदा ॥2.84.३० ॥ प्रणष्टा मधुना सार्धं बीजोद्भवा अपि द्रुमाः ।
तदा शीतातपवर्षाभिः पीडा जायते नृषु ॥३१ ॥ द्वन्द्वैः सम्पीड्यमानास्तु चक्रुरावरणानि हि ।
गृहभित्तीः पर्णकुटीर्वार्तोपायानचिन्तयन् ॥३२ ॥ वृष्टिजन्यजलान्येव निम्नगानि तु यत्र च ।
स्रोतःस्थानेषु तिष्ठन्ति गर्तेषु च सरःसु च ॥३३ ॥ तत्र वासान् प्रचक्रुश्च वृक्षसस्यादिजीविकाः ।
अपां भूमेश्च संयोगादोषधयस्तदाऽभवन् ॥३४॥ अकृष्टपच्या अपि ताश्चानुप्ताश्च क्वचित् क्वचित् ।
क्वचिदुप्ताश्च सकणाः सफलाश्च तदाऽभवन् ॥३५॥ ऋतुपुष्पफलास्तत्र वृक्षगुल्माश्च जज्ञिरे ।
त्रेतान्ते रागलोभाढ्याश्चाहम्ममत्वसम्भृताः ॥३६॥ अवश्यम्भावितार्थेन प्रजाश्चासन् सकल्मषाः ।
प्रसह्य सत्तया पर्यगृह्णन्त सस्यवाटिकाः ॥३७ ॥ वृक्षगुल्मौषधीश्चापि प्रसह्य तु यथाबलम् ।
नैजाँश्चक्रुः प्रजा रागान्नदीक्षेत्राणि पर्वतान् ॥३८॥ तत्रापि प्रबला जाताः क्षत्रिया रक्षकाः पुरा ।
ब्रह्मणा वै नियुक्तास्ते दीनरक्षाक्रियादिषु ॥३९ ॥ वर्णाश्रमव्यवस्थां च त्रेतायां कृतवानजः ।
मर्यादायाः प्रतिष्ठार्थं दण्डं तदा समसृजत् ॥2.84.४० ॥ यज्ञप्रवर्तनं चापि पशुहिंसाविवर्जनम् ।
त्रेतान्ते तां व्यवस्थां च ब्राह्मणाः क्षत्रियान्विताः ॥४ १ ॥ समरक्षन् यथायोग्यां मतेर्भेदस्ततोऽभवत् ।
रागो लोभः पक्षपातो युद्धं सम्पद्विलुण्ठनम् ॥४२॥ द्वापरे त्वागते सर्वं प्रावर्तत प्रजासु वै ।
नगराणि च राज्यानि सीमक्षेत्राणि वाटिकाः ॥४३ ॥ कृष्टपच्याः कणाश्चापि प्रावर्तन्त तदा प्रिये ।
अवृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥४४॥ वाङ्मनःकायजाः क्लेशा अभवँश्च गृहे गृहे ।
प्रजाश्च मिथुनोत्पाद्यास्त्रेतार्धोत्तरकालतः ॥४५॥ क्वचित् क्वचित्तु सङ्कल्पप्रजाश्चासंस्तदा प्रिये ।
द्वापरे सर्वथा कामबीजोद्भवाः प्रजाः खलु ॥४६॥ साश्रयाश्च मृषावीर्या मृषाफलास्तथाऽभवन् ।
वासनाबलसंव्याप्ताश्चात्मवीर्यविहीनकाः ॥४७॥ सिद्धिशून्याः प्रजाः सर्वा व्यवर्धन्त मदार्दिताः ।
दुःखानां द्वापरे चाकस्मिकता मरणस्य च ॥४८॥ तद्भयाज्जायते तासां दुःखमोक्षविचारणा ।
विचाराच्चापि वैराग्यं ज्ञानं भक्तिश्च मोक्षणम् ॥४९॥ एवं द्वापरधर्माश्च वर्णानामभवँस्तदा ।
आश्रमाणां तथा धर्माः पृथक् पृथक् ततोऽभवन् ॥2.84.५०॥ प्राप्ते कलौ क्लेशलाभे क्लेशव्याकुलिताः प्रजाः ।
तिष्ये मायामसूयां च वधं चापि तपस्विनाम् ॥५१ ॥ साधयन्ति जना नित्यं तमसा मदगर्विताः ।
कलौ प्रभारको रोगः सततं क्षुद्भयं तथा ॥५२॥ अनावृष्टिभयं घोरं देशानां च विपर्ययः ।
अधार्मिका अनाचारा महाकोपाऽल्पतेजसः ॥५३॥ अनृतं ब्रुवते लुब्धास्तिष्ये जनाः सुदुष्प्रजाः ।
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥५४॥ विप्राणां कर्मदोषैश्च प्रजानां जायते भयम् ।
न धर्मो वेदधर्मो हि किन्तु कल्पित एव सः ॥५५॥ शूद्रधर्माश्चैकवर्णाः शयनासनभोजनैः ।
भवन्त्येव प्रजाः सर्वा वर्णाश्रमविवर्जिताः ॥५६॥ राजानश्चौरकर्माणो विप्राः कापट्यभोगिनः ।
गुरवः शिष्यहाराश्च भवन्त्येव कलिप्रियाः ॥५७॥ भ्रूणहत्या वीरहत्या नारीहत्या नरेश्वरे ।
साधुहत्या सतीहत्या धर्महत्या प्रजासु च ॥५८॥ स्नानं होमो जपो दानं सुरार्चनं हरेः स्मृतिः ।
त्यज्यन्ते मानवैस्तिष्ये कामलोभपरायणैः ॥५९॥ देवान्साधून् वृषान् मोक्षं निन्दन्त्यपि श्रियः पतिम् ।
कुर्वन्त्यन्यायकर्माणि निकृष्टाचारपन्थिनः ॥2.84.६०॥ कुशीलचर्याः पाखण्डैर्वृथाचारैः समावृताः ।
बहुयाचनकाः सर्वे भवन्त्येव कलौ जनाः ॥६ १॥ देशा रूक्षा अटवीवत् ग्रामा रूक्षास्तु घोषवत् ।
नरा नार्यस्तथा रूक्षाः प्रेमहीनाः पराश्रयाः ॥६२॥ सस्यचौराः कणचौरा वस्त्रचौराः प्रहारिणः ।
चौराश्चौरस्य हर्तारो हर्तुर्हन्ता तथाऽपरः ॥६३॥ दुःखबहुला रुग्णाश्चोत्सादाश्चाल्पायुषो जनाः ।
अधर्माभिनिवेशित्वात् तमोव्याप्ताः कलौ प्रजाः ॥६४॥ उच्चनीचासनभेदो योग्यता पूज्यता नयः ।
नरनारीगौरवादि नश्यत्येव कलौ युगे ॥६५॥ राजा प्रजाः कपटस्य नर्तका इव तिष्यके ।
द्विजाः शूद्रा भवन्त्येव शूद्राश्चाण्डालकास्तथा ॥६६॥ सर्वधर्मस्त्वेक एव भोज्यान्नवासलग्नके ।
पेयापेयविभागो न भोग्याभोग्यविहीनता ॥६७॥ सत्याऽसत्यविवेको न ग्राह्याग्राह्यातिलङ्घिता ।
कल्पनाकुलधर्मांश्च कामानुकूलयोषितः ॥६८॥ मोहानुकूलकान्तश्च यतयो धूर्तधर्मिणः ।
लोकगानैर्देवतानां कीर्तनं धर्मवर्जितम् ॥६९॥ ज्ञानं कर्म विनष्टं च भवत्येव कलौ सदा ।
कीटमूषकसर्पाणां दंशा भवन्ति तिष्यके ॥2.84.७०॥ सर्वे दुष्टव्रताचाराः स्वार्थमात्रसुयोगिनः ।
मोहयन्ति जनान् सर्वान् दर्शयित्वा फलानि हि ॥७१ ॥ मन्त्रकर्मकराश्चाभिचारका मारकास्तथा ।
निर्दयाश्च शठा धूर्ता घातका मानवाः कलौ ॥७२॥ मांसादा मदिरापाश्च योनिसम्बन्धमात्रकाः ।
लिङ्गसम्बन्धमात्राश्च धनार्थकृतघातकाः ॥७३ ॥ वेषाचारसमाश्चापि नेत्रसत्कारवर्जिताः ।
विश्वासघ्नाश्च मित्रध्ना आश्रितघ्नाः कलौ युगे ॥७४॥ गृहघ्नाश्च कुटुम्बघ्नाः स्वीयघ्नाश्च कलौ युगे ।
धर्मघ्नाश्चापि धर्मिघ्ना मातृघ्नाः पितृघातकाः ॥७५॥ स्नुषाघ्नाः कन्यकाघ्नाश्च स्वसृघ्ना भ्रातृघातकाः ।
षोडशादिकसंस्कारैर्हीनाः सूतकवर्जिताः ॥७६॥ शौचहीनाः स्नानहीना व्रतहीनाः कलौ युगे ।
सूत्रहीना विवाहादिविधिवर्ज्या नराः स्त्रियः ॥७७॥ अग्निहीना मण्डपादिहीना होमविवर्जिताः ।
सदाचारविहीनाश्च गृहाचारविहीनकाः ॥७८॥ अभक्ष्यभक्षणाः सर्वे सर्वभक्षाः कलौ युगे ।
राक्षसा ब्राह्मणा यक्षा गन्धर्वाः किन्नराः सुराः ॥७९॥ श्वपचाश्च पिशाचाश्च समा भवन्ति वै कलौ ।
अन्योन्यभयकर्तारोऽन्योन्यनाशविधायकाः ॥2.84.८०॥ अलज्जाश्चापि निर्लज्जाः सर्वगौरववर्जिताः ।
यथेष्टभोगवन्तश्च कुमाराः कन्यकाः स्त्रियः ॥८ १ ॥ केशयोनिस्तनदर्शकाऽम्बराढ्यास्तु कन्यकाः ।
कर्त्र्यश्चापि च कर्तारः प्रकाशे गुप्तकर्मणाम् ॥८२॥ हस्तमात्रशरीराश्च रोमपटलवस्त्रकाः ।
पञ्चहस्तद्रुमाश्चान्ते भवन्त्येव कलौ युगे ॥८३॥ न राजा न प्रजाभावो न शास्यः शासको न च ।
न गृहाणि निवासा न न शालाः पाकसिद्धये ॥८४॥ न गृहे त्वन्नचयिता न गृहे वारिपेयिता ।
न गृहे शयनं नार्या न पत्युर्गृहवासिता ॥८५॥ पतिपत्नीकृतो योगो नहि तिष्ठति वै कलौ ।
अष्टवर्षा मध्यवेगा द्वादशान्ते मृतिः कलौ ॥८६॥ पञ्चोत्तरं सगर्भाश्च विना ग्रामं निवासिता ।
वानरीव तदा नारी सूतिका दूतिकां विना ॥८७॥ विना खष्ट्वां सूयते च पृथिव्यां बालकं तदा ।
वर्षद्वये तदा गौरी द्विवर्षान्ते तु रोहिणी ॥८८॥ वर्षत्रये भवेत् कन्या चतुर्वर्षा रजस्वला ॥ अत ऊर्ध्वं सगर्भा च मासषट्के प्रसूयते ॥८९॥ वर्षे द्वे वै प्रसूती च रजः सकृत् क्षणस्थिरम् ।
मरणं घटिकाकाले प्राणो नैव चिरायते ॥2.84.९०॥ अपत्यानि मृगशावादिवच्चरन्ति भूतले ।
सस्यरसैः प्रपुष्यन्ते पक्षदुग्धास्तु मातरः ॥९१॥ पितृनाम न चैवास्ति मातुर्नाम क्वचित् कलौ ।
दीक्षालोपो गुरोर्लोपो मन्त्रलोपो न चोत्सवाः ॥९२॥ देवानां मानवानां वा समाजो न कलौ युगे ।
इद्ं कुलमिति ख्यातिः कलौ नास्ति कुटुम्बकम् ॥९३॥ पितृशब्दो गुरुशब्दः कलावन्ते न तिष्ठति ।
न राजा राज्यनियमा दण्डा वा शासकस्तदा ॥९४॥ न देवो मन्दिरं सम्प्रदायः शास्त्रं पुराव्रतम् ।
ब्रह्मचर्यं न वै तत्र यतित्वं गृहसम्मतम् ॥९५॥ सन्यासो विद्यते नैव शीलं धर्मो न वै तदा ।
वैधव्यं वा विधुरत्वं धर्मो नैव कलौ युगे ॥९६॥ साध्वीत्वं च सतीत्वं च धर्मो नैव कलौ तदा ।
कामधर्मः परो धर्मः पाखण्डस्तत्र संयमः ॥९७॥ नरा नार्यः समरूपाः समवेषाः समक्रियाः ।
समप्रधानभावाश्च समदायादभागिनः ॥९८॥ न तदा वर्षगणना न चाङ्कगणनाऽपि च ।
न विद्याभ्यास एवापि तमोवृत्तिजनाः कलौ ॥९९॥ कलावन्ते हि भगवान् प्रादुर्भवति स्वामिराट् ।
कलेर्बलं विनाश्यैव कृतस्थितिं करोति सः ॥2.84.१० ०॥ एवमुक्ता मया पत्नि धर्मा युगचतुष्टये ।
यथा भवन्ति ते सर्वे कालयोगेन देहिषु ॥१०१ ॥ दिवसान्ते वेधसस्तु धृष्यमाणो हि गोलकः ।
स्वल्पतां याति वेगाच्च भ्रमणेन च पार्थिवः ॥१ ०२॥ दिवसा रात्र्य एवापि ह्रस्वतां यान्ति वै तदा ।
घटिकाश्च कलाः काष्ठा मासाः काला ह्रसन्ति च ॥१०३ ॥ सर्वं ह्रस्वगतिकं च क्षीणायुः परिवर्तते ।
ततो ह्रासः प्रलयश्च सम्पद्यते दिनात्यये ॥१ ०४॥ ऐलविले! वयं यामस्तदा सत्यं त्वजाऽऽश्रयम् ।
इत्येवं राधिके! प्राह पुलस्त्यो निजभामिनीम् ॥१ ०५॥ ऐलविला तु तान् धर्मान् श्रुत्वा प्राह पतिं सती ।
यत्र सर्वे युगधर्मा विद्यन्ते पौत्रमीदृशम् ॥१ ०६॥ द्रष्टुमिच्छामि चात्रैव चतुर्युगाश्रयम् ऋषे! ।
पुलस्त्यः प्राह च तथास्त्वित्येव योषितं निजाम् ॥१ ०७॥ पौत्रस्यापि प्रसङ्गेन भगवान् सम्मिलिष्यति ।
लाभमेवं विदित्वैव सुतं विश्रवसः सती ॥१ ०८॥ कृष्णयोगप्रदं वव्रे यं सोऽभूद् रावणस्तथा ।
ऐलविला तपस्तेपे कृष्णनारायणोपरि ॥१ ०९॥ अनादिश्रीकृष्णनारायणः श्रीभगवान् स्वयम् ।
ऐलविलातपो द्रष्टुमाययौ सह्यपर्वते ॥2.84.११ ०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पुलस्त्योक्तचतुर्युगधर्माः, ऐलविलायै वरदानं, तपश्चर्या चेतिनिरूपणनामा चतुरशीतितमोऽध्यायः ॥८४ ॥