०७०

श्रीराधिकोवाच-
कथं राजा ज्यामघस्तु पूर्वस्वभावपूरितः ।
पश्चादाराधनलाभान्मुक्तिमवाप तद्वद् ॥१ ॥ श्रीकृष्ण उवाच-
शृणु राधे कथां पुरातनीं वैराग्यदायिनीम् ।
ज्यामघस्य कथयामि बहुजन्मसमुद्भवाम् ॥२ ॥ धनुर्मघस्य तु ऋषेः पुत्रोऽभूत् कौशिकाभिधः ।
तस्य पुत्रोऽभवन्नाम्ना जाड्यमघो जडाकृतिः ॥३ ॥ न ब्रूते मूर्खवच्चासौ नासौ पश्यति चाऽन्धवत् ।
एनं माता गृहद्वारि द्योटिकायां प्ररक्ष्य च ॥४ ॥ ययौ जलं समाहर्तुं ग्रामकूपात् तदा खलु ।
काकाक्षी राक्षसी बालं प्रेङ्खातो विजहार ह ॥५ ॥ सुरूपं कोमलं बालं नीत्वा स्वरक्षसे ददौ ।
राक्षसो वीक्ष्य पप्रच्छ किमानीतं त्वया प्रिये ॥६ ॥ साऽब्रवीत् बालकश्चाऽयं कौशिकस्याऽऽहृतो मया ।
राक्षसः प्राह च भद्रे त्वया भद्रं न वै कृतम् ॥७ ॥ समर्थः कौशिकश्चास्मान् तूर्णं शप्स्यति कूपितः ।
तस्मादेनं तु दोलायां तद्गृहे प्रापय द्रुतम् ॥८ ॥ यद्वा जलाहरणार्थं तन्मात्रा यत्र गच्छति ।
तत्र स्थापय गत्वैव माता दृष्ट्वा ग्रहीष्यति ॥९ ॥ राक्षसी तूर्णमेवैनं गृहीत्वा वापिकां ययौ ।
तत्रागतां सतीं दृष्ट्वा बालं त्ववासृजत् पुरः ॥2.70.१ ०॥ साऽपि सती सुतं प्राप्य जलं भृत्वा गृहं ययौ ।
भाग्यं मत्वा सुतस्येयं ग्रहपूजां व्यधापयत् ॥१ १॥ विघ्नशान्तिं च दानानि कारयामास भावतः ।
राक्षसीकरयोगेन राक्षसीदुग्धपानतः ॥१२॥ बाले वै राक्षसभावो वर्तते स्पर्शतस्ततः ।
वर्धितो बालकश्चायं यज्ञसूत्रमवाप ह ॥१३॥ वेदाधीत्यै जाड्यमघो पित्रा गृहे नियोजितः ।
मूर्खत्वान्न पपाठाऽसौ पिता शिक्षां करोति च ॥१४॥ ताडनादिभयेनाऽसौ कूपे सीम्नि पपात ह ।
तत्राऽस्त्यामलकीवृक्षः पोषाय फलितोऽभवत् ॥१५॥ भक्षयित्वाऽऽमलकानि कूपे गत्वा जलं शुभम् ।
पिबत्येव सदा वृक्षमूलेनाऽऽयाति याति च ॥१६॥ वृक्षवल्लीसमाछन्ने कूपे मूलावरोहणे ।
सुखेनाऽयं वर्तते च बालकोऽज्ञातवर्तनः ॥१७॥ एवं पुष्टोऽभवच्चापि रात्रौ सस्यादिजान्यपि ।
कणकन्दफलादीनि बहिर्गत्वाऽत्ति नित्यशः ॥१८॥ पित्रादिभिस्ततो ज्ञातं मृतो वा नष्ट एव च ।
किन्तु माता कदाचिद्वै यज्ञकाष्ठाऽभिलाषुकी ॥१९॥ ययौ त्वामलकीकाष्ठान्यानेतुं सीम्नि तत्र वै ।
वृक्षशाखाः समागृह्य तीरे करोति सञ्चयम् ॥2.70.२०॥ तावत् कूपे मूलमध्ये क्षुतोऽकस्माद्धि बालकः ।
क्षुवनं मानुषं श्रुत्वा यावद् द्रष्टुमुपाययौ ॥२१॥ तावत् पुत्रं निजं वीक्ष्य चातिहर्षमुपागमत् ।
कूपाऽन्तःस्थं सुतं माता विह्वला त्वाजुहाव ह ॥२२॥ सुतः प्रेम्णा मातरं सन्दृष्ट्वा गद्गदतां गतः ।
कूपादुत्तीर्य मूलैश्च मातुः पादौ ववन्द च ॥२३॥ सा स्वपुत्रं समासाद्य नीत्वा काष्ठानि सत्वरम् ।
पुत्रयुक्ता ययौ नैजं गृहं पतिं ननाम च ॥२४॥ कथयामास तत्सर्वं चेष्टितं स्वसुतस्य तु।
ततोऽपृच्छच्च विप्रोऽसौ प्रसन्नः प्राप्य पुत्रकम् ॥२५॥ कथं त्वं निर्गतो गेहात् कथं चाऽद्यापि जीवसि ।
कथं न वदसि पुत्र हेतुं कथय सर्वथा ॥२६॥ जाड्यमघस्ततः प्राह वृत्तान्तं पूर्वजं निजम् ।
श्रूयतां कारणं तात येन मूकत्वमाश्रितम् ॥२७॥ अन्धत्वं च जडत्वं च कथयामि यथातथम् ।
पूर्वमासमहं विप्रो ज्योतिर्विद्धस्तरेखविद् ॥२८॥ नारीणां हस्तरेखाणां परीक्षया प्रसङ्गतः ।
मोहमाप्तः परदाररुचिश्चाऽऽसं पुनः पुनः ॥२९॥ कदाचिच्च जनैश्चाहं कटुभाषातिरस्कृतः ।
मृतो ह्युऽद्बन्धनेनाऽहं यमपुरीं ततो गतः ॥2.70.३ ०॥ तस्माद् वर्षसहस्रान्ते भुक्तशिष्टे तदागसि ।
अरण्ये प्राप्तवान् जन्म व्याघ्रस्य नरदेहवत् ॥३१ ॥ राज्ञा तु बालतो धृत्वा पञ्जरे पूरितस्ततः ।
बद्धस्य पञ्जरस्थस्य व्याघ्रत्वेऽपि स्थितस्य च ॥३२॥ पूर्वज्ञानं न मे नष्टं कामनाऽपि व्यवर्धत ।
व्याघ्रोऽहं न च हिंसामि न च क्रौर्यं करोम्यपि ॥३३ ॥ राज्ञा राज्ञ्या समं नित्यमुद्याने विहरामि च ।
सिंहासनाऽग्रे तिष्ठामि चानुगच्छामि पृष्ठतः ॥३४॥ रमयामि बालवच्च तदुद्याने वसामि च ।
एवं याते दिने चाऽहं यौवनं प्राप्तवान् यदा ॥३५॥ शान्तो भूत्वा निषीदामि राज्ञ्याः स्नानह्रदान्तिके ।
राजा राज्ञी यदा स्नातस्तदा पश्यामि भावतः ॥३६॥ राज्ञी स्नान्तीं विहरन्तीं विवस्त्रां च जले मुहुः ।
तेन मे कामना पूर्वसंस्कारोत्था ह्यभून्मुहुः ॥३७॥ राजा सुदर्शनः स्नात्वा राज्यकार्यार्थमेव तु ।
ययौ स्वनगरे राज्ञीमुद्याने परिहाय च ॥३८॥ सखीभिः सहिता चेयं मां व्याघ्रं रुचिरं शुभम् ।
पालितं पुत्रसदृशं रामयामास वै मुहुः ॥३ ९॥ उद्यानेऽहं व्यचरं च ताभिः साकं पुनः पुनः ।
आरोहन्ति स्म ताः क्वापि मम पृष्ठोपरि द्रुतम् ॥2.70.४०॥ अहं कदाचित् पार्श्वस्थो मुखेन सक्थिचुम्बनम् ।
करोम्येवं कामना मे राज्ञ्यां व्यवर्धत द्रुतम् ॥४१॥ रात्रौ सखीषु सर्वासु निद्रितासु तदालये ।
रात्र्याः पर्यङ्कपार्श्वस्थश्चिन्तयामि नृपप्रियाम् ॥४२॥ तां प्रति ववृधे चित्ते पूर्वाभ्यासान्मनोभवः ।
तस्या अपि मम स्पर्शाद् रजोभावो व्यवर्धत ॥४३॥ मयोक्ता राजपुत्रि त्वं नवयौवनशालिनी ।
चित्तं हरसि मे राज्ञि वद कामवशं गतः ॥४४॥ साऽब्रवीत्तु मनुष्यायां पशुदेहस्य ते प्रिय ।
कथमत्राऽऽवयोर्व्याघ्र रतियोग उपैष्यति ॥४५॥ ततोऽवोचमहं राज्ञि! कौशल्येन भविष्यति ।
अथ सा मां समाश्लिष्य प्रवृत्ता रन्तुमेव च ॥४६॥ तावत् कयाचिद् सख्या चाऽवलोकितोऽहमेव च ।
द्वारपालान् शनैर्गत्वा सशस्त्रान् सा शशंस ह ॥४७॥ एवं प्रवर्तितां वार्ता श्रुतवान् नृपतिः स्वयम् ।
राज्ञा तु मारितश्चाऽहं यमलोकं गतोऽभवम् ॥४८ ॥ ततो वर्षशतान्तेऽहं त्वभवं श्वेतगर्दभः ।
भारवाही जनानां तु कुम्भकारेण योजितः ॥४९॥ तत्रापि पूर्वविज्ञानं सर्वं मे प्रत्यभासत ।
एकदा तु महीमानाः कुम्भकारस्य चागताः ॥2.70.५०॥ कन्याः स्त्रियः सुरूपाश्च दिनद्वयं स्थितास्ततः ।
तासामेका सुरूपा च युवती च गृहे पितुः ॥५ १ ॥ गन्तुमैच्छत्पार्श्वसंस्थे ग्रामे क्रोशविदूरके ।
तामुवाच पतिर्गच्छ आरुह्यैनं सुगर्दभम् ॥५२॥ श्व एवाऽऽगमनं कार्यं न स्थेयं परतस्ततः ।
इत्येवमुक्ता सा भर्त्रा तन्वी त्वारुह्य गर्दभम् ॥५३॥ ययौ शीघ्रं त्वर्धपथि नदी तत्र समागता ।
सजला तत्र सा स्नातुं मत्पृष्ठात् समवातरत् ॥५४॥ कुम्भकारोऽपि च सार्थः शौचार्थं प्रययौ तटम् ।
सर्वैरङ्गैः रूपवतीं चैकलामार्द्रवस्त्रिकाम् ॥९५॥ दृष्ट्वाऽहं जलपानस्य मिषेण सन्निधौ गतः ।
स्नान्तीं तामुपरि गत्वा पतित्वाऽऽश्लिष्य कामतः ॥५६॥ पूर्वसंस्कारवशगोलिङ्गस्पर्शमकारयम् ।
दृष्टोऽभवं तदा तस्याः सार्थजनेन वै तदा ॥५७॥ ताडितश्च भृशं यष्ट्या पतितोऽहं जलान्तरे ।
क्षणादुत्थाय च भयात् प्रद्रुतो दक्षिणामुखः ॥५८॥ ततोऽभिद्रवतः कण्ठे रज्जुदार्ढ्यं गता बहु ।
गलपाशेनाऽर्धरात्रादभून्मे जीवितक्षयः ॥५९॥ ततोऽस्मि नरके भूयस्तस्मान्मुक्तोऽभवं शुकः ।
महारण्ये ततो बद्धः शबरेण दुरात्मना ॥2.70.६०॥ पञ्जरे न्यस्य विक्रीतो वणिक्पुत्राय तत्र च ।
गृहे वसामि सततं युवतीनां समीपतः ॥६ १॥ तास्तरुण्यः पोषयन्ति फलौदनादिभिः सदा ।
एकदा तु वणिक्पुत्री युवती चन्द्रिकाऽभिधा ॥६२॥ कराभ्यां मां प्रजग्राह रेमे वाचा पुनः पुनः ।
शयने वक्षसि कृत्वा मां वाचयति गीतिकाम् ॥६३॥ ततोऽहं स्तनयोः स्पर्शात् पूर्वसंस्कारवेगतः ।
कामभावेन तां गुह्ये पस्पर्शोड्डीय वै मुहुः ॥६४॥ पन्नखैः क्षतमापन्नं जघनं सा चुकोप ह ।
तताड मां सूक्ष्मयष्ट्या भयाच्च प्रद्रुतस्ततः ॥६ ५॥ दैवात्तस्या दृढं नीवीदोरकं मे गलेऽभवत् ।
ग्रन्थिर्जाता दृढा तेन क्षणान्मृतोऽभवं ततः ॥६६॥ यमलोके महाकष्टं भुक्त्वा तु वृषभोऽभवम् ।
चाण्डालस्य गृहे त्वासं काष्ठशकटवाहकः ॥६७॥ वने काष्ठानि चानेतुं दम्पती ययतुस्तदा ।
मध्याह्ने जलमानेतुं चाण्डालस्तु नदीं ययौ ॥६८॥ चाण्डाली युवती चास्ते छायायां शकटान्तिके ।
अहं तामलिहं कामात् पूर्वसंस्कारवेगतः ॥६९॥ नदीतीरे सदा त्वेवं काष्ठाऽऽदानार्थमेव तौ ।
प्रयातः प्रतियातश्च वर्षर्तुस्तत्र चागतः ॥2.70.७०॥ एकदा तु ज्वरव्याप्तोऽभवच्चण्डालको गृहे ।
चाण्डाली तद्वने याता काष्ठाऽऽनयनहेतवे ॥७१ ॥ पूर्वसञ्चितकाष्ठानि भृत्वा गन्त्र्या ततस्तु सा ।
जलं पाययितुं मां च नद्यां तत्राऽनयत् ततः ॥७२॥ सा स्नाता रूपसम्पन्ना मया दृष्टा दिगम्बरा ।
पूर्वसंस्कारभावेन कामो मे हृदि संस्थितः ॥७३ ॥ सा वस्त्राणि परिधाय बद्धं रशनया च माम् ।
धुरे शकट्या युयुजे योक्त्रेणाऽऽबध्य यावता ॥७४॥ धुरस्याऽग्रे स्थिता चास्ते क्षणं तावदहं तदा ।
उड्डीय सधुरश्चाऽहं तस्या उपरि चापतम् ॥७५॥ सा मदग्रपदाऽऽघातात् पतिता दूरतस्तदा ।
अहं योक्त्रेण संयुक्तो गन्त्र्या निम्नेन कर्षितः ॥७६ ॥ चक्राभ्यां निम्नगाभ्यां च प्रक्षिप्तो गर्तके तदा ।
शकट्या सह पतितोऽगाधे गर्तेवशस्ततः ॥७७॥ योक्त्रेण बद्ध एवाऽस्मि पञ्चत्वमगमं ततः ।
साऽपि चोत्थाय तु शनैर्गृहं गता हि भामिनी ॥७८॥ ततो निमग्नो नरके धर्मराजानुशासनात् ।
जातस्तव गृहे तात जातिस्मरोऽस्मि सर्वथा ॥७९॥ तावन्त्येवाऽद्य जन्मानि स्मरामि त्वानुपूर्वशः ।
पूर्वाभ्यासाच्च दुःखानि प्राप्तान्यति मया ततः ॥2.70.८० ॥ जन्मन्यत्र न वै वच्मि न शृणोमि न कामये ।
येन पापं भवेत् तत्तु नाचरिष्ये कथञ्चन ॥८१ ॥ मूकत्वे च बधिरत्वे हेतुः पूर्वस्मृतिर्मम ।
जडत्वेऽपि च विज्ञानं हेतुरेवाऽस्ति नेतरत् ॥८२॥ पापानि घोररूपाणि मनसा कर्मणा गिरा ।
शुभं वाऽप्यशुभं वापि बन्धनं वा वधोऽपि वा ॥८३॥ पूर्वाभ्यासेन जायन्ते कामनादिकमित्यपि ।
तस्माद्विज्ञानवान् जानन् तत्र मुह्यति नैव तु ॥८४॥ पौर्विकीं तु यदा जातिं स्मरत्यत्र तु मानवः ।
तदा स तेभ्यः पापेभ्यो निवृत्तिं हि गमिष्यति ॥८५॥ दानं तपोऽध्ययनं च स्तेयं पापं यशो वृषः ।
अर्थो ज्ञानं चाग्निदाहः पूर्वाभ्यासवशा हि ते ॥८६॥ अहिंसा भगवद्भक्तिः स्थैर्यं शान्तिश्च कामना ।
क्लेशस्तापो मिथुनाप्तिः पूर्वाभ्यासवशा हि ते ॥८७॥ स्नेहः प्रकृतिरास्तिक्यं सेवा विद्या कला धनम् ।
कुटुम्बिता गुरुः शिष्यः पूर्वाभ्यासवशा हि ते ॥८८॥ तस्माद् यामि वनं तात शुभार्थं पापनुत्तये ।
इत्युक्त्वा च ययौ नत्वा वनं जाड्यमघस्ततः ॥८९॥ कुरुक्षेत्रं गतः पूर्वं ततो बदरिकाश्रमम् ।
तपश्चकार बहुधा राधिके पापनुत्तये ॥2.70.९ ०॥ कालेन निधनं प्राप्तो गङ्गायां तु तदा पुनः ।
तपोभिः क्षीणपापः स पुण्यवार्धिः सवासनः ॥९ १॥ गौर्जरे श्रीनगरेऽयं रजिपुत्रोऽभवत्ततः ।
कर्कमघस्य राज्ञः स ज्यामघो धार्मिकः शुचिः ॥९२॥ पशुजातीयसंस्कारास्तापसी प्रकृतिस्तथा ।
नारायणस्य भक्तिश्च ज्यामघेऽपि तदाऽभवन् ॥९३ ॥ जातिस्मरोऽभवद् राजपुत्रो वक्ति न किञ्चन ।
न शृणोति न हसति न चित्तं विदधाति च ॥९४॥ निर्मनस्को भोजनं च भुङ्क्ते पाति जलं तथा ।
वस्त्रालङ्कारभूषादि धत्ते निर्मानसो यथा ॥९५॥ राज्यं च राज्यभोगाश्च द्रव्यं भृत्याश्च किङ्कराः ।
दासा दास्यो गजाश्वाश्च सर्वं त्वस्य समं ह्यभूत्॥९६ ॥ शय्या पुष्पमयी चापि पृथ्वी रूक्षाऽस्य वै समा ।
मिष्टं मृष्टं सुगन्धाढ्यं भोज्यं रूक्षं च वा समम् ॥९७॥ प्रशंसा चाऽप्रसंशा वा मानं तिरः समं तथा ।
नमस्कारोऽथवा पृष्ठकारोऽस्य समतां गतः ॥९८॥ एवं वै वर्तमानस्य यौवनं समुपागतम् ।
पित्रा सुयोजितश्चायं विवाहेन गृहाश्रमे ॥९१॥ का पत्नी कः पतिश्चेति जिज्ञासाऽस्य न विद्यते ।
कः कामः कश्च सङ्कल्पः का रतिर्विरतिस्तथा ॥2.70.१०० ॥ समं चाऽस्याऽभवत् सर्वमेकदा दयिता पतिम् ।
प्रपच्छ कारणं तस्मै औदासीन्ये निशान्तरे ॥१० १॥ ततः स राधिके स्मृत्वा पत्नीं जगाद शान्तितः ।
यत्क र्तव्यं भवेदत्र मानवे दुर्लभे शुभम् ॥१ ०२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने पूर्वस्वभावानुवर्तनं जाड्यमघदृष्टान्तेन षड्भिर्जन्मभिर्विवेचितमित्यादिनिरूपणनामा सप्ततितमोऽध्यायः ॥७० ॥