०६८

श्रीकृष्ण उवाच-
कुबेरो वसवः कल्पपादपा मेदिनी रमा ।
निधयश्चिन्तामणयः कृष्णनारायणाग्रतः ॥१ ॥ तस्थुस्तु राधिके दातुं सम्पारितोषिकाणि वै ।
मुक्तेभ्यो मालिका दिव्या ददुर्दिव्यविभूतिजाः ॥२ ॥ अवतारेभ्य एवैते दुदुर्मुकुटकुण्डले ।
दिव्यहारानीश्वरेभ्यो ददुः कृष्णाज्ञया तदा ॥३ ॥ ब्रह्मादिभ्यो ददुः सिंहासनानि कानकानि हि ।
पितृभ्यश्चाऽक्षयाण्येव पात्राणि प्रददुस्तदा ॥४ ॥ ऋषिभ्यो यज्ञपात्राणि प्रददुश्चासनानि च ।
सुरेभ्यो रत्नहाराँश्च ददुर्योग्यान् यथायथम् ॥५ ॥ दानवेभ्योऽसुरेभ्यश्च दैत्येभ्योऽपि ददुस्तदा ।
यानवाहनभूषाश्च मानवेभ्यो धनं ददुः ॥६ ॥ नागेभ्यो मणयश्चापि पशुभ्यो भोजनामृतम् ।
पक्षिभ्यो फलपुष्पादिरसद्रव्याणि ते ददुः ॥७ ॥ मूर्ताऽमूर्तचिदचिद्भ्यो यथायोग्यं धनानि च ।
विप्रेभ्यः स्वर्णरूप्यादि राजभ्यो हीरकादिकम् ॥८ ॥ साधुभ्यो वस्त्रकन्थादि सतीभ्यो भाग्यवर्धनम् ।
भूषाम्बरादि शृङ्गारं दक्षिणायां तदा ददुः ॥९ ॥ आतृप्ति सन्ददुस्तत्र देहीति नोच्यते पुनः ।
ददुर्यथा च ते वोढुं शेकुर्नैव यथेष्टकम् ॥१ ०॥ यद् येषां वाञ्छितं तत्तत्तत्र द्रागेव चार्पितम् ।
नशब्दो युज्यते नैव गृह्णशब्दः प्रयुज्यते ॥११ ॥ एवं वै दक्षिणाश्चाथ पारितोषिकमित्यपि ।
ददुस्तेभ्यश्च योग्येभ्यो विप्रादिभ्यो धनं बहु ॥१२॥ सूदेभ्यश्चान्धसिकेभ्यो ददुर्धनं विपूलकम् ।
कर्मचारेभ्य एवापि हारहीरकमित्यपि ॥१३ ॥ भाटेभ्यश्चारणेभ्यश्च शिल्पिभ्यश्च ददुर्धनम् ।
मल्लेभ्यो नर्तकेभ्यश्च नाटिकाभ्यो धनं ददुः ॥१४॥ गायिकाभ्यो दासिकाभ्यो हारभूषाम्बरादिकम् ।
दासेभ्योऽनाथदीनेभ्यो वस्त्रभूषादिकं ददुः ॥१६॥ सृष्टित्रयस्य कन्याभ्यो भूषाम्बरधनानि च ।
स्वर्णरूप्यकपात्राणि ददुः कृष्णाज्ञया तदा ॥१६॥ यासां येषां यथा येन परितोषोऽभिजायते ।
तत्तत् तदा प्रदत्तं च सङ्कोचो नैव विद्यते ॥१७॥ साध्वीभ्यश्च सतीभ्यश्च पतिव्रताभ्य इत्यपि ।
अधवाभ्यश्च वृद्धाभ्यो मातृभ्यश्चापि सर्वथा ॥१८॥ स्वसृदुहितृकन्याभ्यो देवीभ्यश्च यथायथम् ।
भूषाम्बरधनान्येव ददुः कृष्णाज्ञया ततः ॥१९॥ महीमानेभ्य इत्येव कृष्णनारायणः स्वयम् ।
दापयामास च पारितोषिकान्युत्तमानि च ॥२० ॥ कुबेरवसुकल्पाऽऽदिद्वाराऽनर्घ्याणि सर्वथा ।
कम्भराश्रीर्ददौ सर्वयोषिद्भ्यो भूषणानि वै ॥२१ ॥ कानकानि रत्नहीरमणिहारान् ददौ तथा ।
गोपालश्च ददौ सर्वजनेभ्यो हाटकात्मकम् ॥२२॥ धनं सद्रत्नहारादि यथापेक्षं तथोर्जितम् ॥ एवं सर्वमहर्षिभ्यस्तदा श्रीलोमशो ददौ ॥२३॥ कल्पात्मगूटिका यस्या जायेतेष्टं क्षणे क्षणे ।
सन्तोषा भगिनी कृष्णनारायणस्य चाग्रजा ॥२४॥ ददौ सौभाग्यसूत्रादिद्रव्यरञ्जनकङ्कतीः ।
कानकीश्च विभूषाश्च कञ्चुकी शाटिकास्तथा ॥२५॥ घर्घरीश्चोलिकाद्याश्च ददौ नत्थीश्च बङ्गिडीः ।
रशना वलयाँश्चाप्यूर्मिकाः सन्तोषदायिकाः ॥२६॥ एवं दानानि च पारितोषिकाणि प्रदाय च ।
अनुग्रहं महे समागतानां प्राह वै पिता ॥२७ ॥ श्रीगोपालकृष्ण उवाच-
मम पुत्रस्य कृष्णस्य यज्ञसूत्रमहोत्सवे ।
समागतानां भवतां शोभावृद्धिजुषां सदा ॥२८॥ ऋण्यहं स्वागतं कुर्वे धन्यवादान् ददामि च ।
विनयेन वदाम्यत्र न्यूनसेवा मया कृता ॥२९॥ भवेत् क्षन्तव्यविषयां मत्वा क्षम्योऽहमीश्वरः ।
मुक्तानां चावताराणां ब्राह्मीनां ब्रह्मचारिणाम् ॥३ ०॥ ईशानामीश्वरीणां देवानां च देवयोषिताम् ।
मानवानां मानवीनां दैत्यानां दैत्ययोषिताम् ॥३ १ ॥ नागानां नागपत्नीनां जडचेतनदेहिनाम् ।
दिक्पालानां नृपाणां चर्षीणाम् आर्षीप्रयोषिताम् ॥३६॥ सान्निध्येनाऽभवत्कार्यं चोत्सवीयं सुबृंहितम् ।
सर्वेषां यशसां पात्रं कृतोऽहं भवदागमैः ॥३३॥ पुत्रो मे वर्धितश्चापि तेजोभिर्निजगोचरैः ।
पुनरेवाऽवगन्तव्यं क्षन्तव्या च क्षतिर्मम ॥३४॥ इत्युक्त्वा कार्यकर्तृभ्यो धन्यवादान् ददौ मुहुः ।
आशीर्वादान् समिच्छामि सकुटुम्बः समार्थयत् ॥३५॥ तदानीं जयकारश्च सभाजनकृतोऽभवत् ।
अथ राधाकृष्ण आदौ बालकृष्णस्य वै तदा ॥३६ ॥ पूजार्थं त्वाययौ दिव्योपचारैः समपूजयत् ।
मुकुटं गोपवेषादि वंशीं चिन्तामणीन् ददौ ॥३७॥ कामधेनूर्ददौ चापि चन्दनाद्यैरपूजयत् ।
लक्ष्मीनारायणश्चाऽथाऽपूजयच्छ्रीहरिं तदा ॥३८ ॥ मुकुटं कुण्डले शङ्खं चक्रं गदां तथाऽब्जकम् ।
गरुडं च विमानं च दिव्यकौस्तुभमालिकाः ॥३९ ॥ ददौ श्रीबालकृष्णाय केसराद्यैरपूजयत् ।
वासुदेवस्तथा चान्येऽवताराः प्रकृतीश्वरः ॥४०॥ प्रधानेशस्तथा भूमा महाविष्णुर्विराट्पुमान् ।
सदाशिवस्तथा तेषां शक्तयश्चाययुर्मुदा ॥४१ ॥ तिलकं कज्जलं बिन्दुं दत्वा च मुकुटानि वै ।
कर्णभूषाः कण्ठहारान् मुक्तामौक्तिकनिर्मितान् ॥४२॥ उर्मिका रशना यष्टीन् ददुस्ते ता धनान्यपि ।
स्वस्वधामकृतान् दिव्यान् हंससिंहगजात्मकान् ॥४३॥ आसनोत्तमभौमाँश्च ददुर्बालाय देहिने ।
अष्टावरणसंस्थाश्चेश्वराः सप्तर्षयस्तथा ॥४४॥ ब्रह्मविष्णुमहेशाद्या मुनयो ब्रह्मचारिणः ।
स्वर्णहारान् पुष्पहारान् स्वर्णपात्राणि पादुके ॥४५॥ कमण्डलून् कलशाँश्च प्रावरणान्यनेकशः ।
ददुः श्रीबालकृष्णाय धनं दिव्यं नवं नवम् ॥४६॥ पितरो मुनयो देवाश्छत्रं च चामरे तथा ।
विमानानि च यानानि हंसान् दासाँश्च दासिकाः ॥४७॥ यष्टिं सौवर्णविकृतिं दर्पणं शुकमेनकाः ।
वादित्राणि विचित्राणि चामृतानां घटाँस्तथा ॥४८॥ कामकल्पलतादींश्च सूर्यचन्द्रमणीँस्तथा ।
दिगीश्वरादिवेषाँश्च विभूषा रत्नमालिकाः ॥४९॥ ददुः श्रीबालकृष्णाय दिव्यान्यपि धनानि च ।
दैत्याश्च दानवाश्चापि असुरा वैभवान् ददुः ॥2.68.५० ॥ नागाः सर्पा भोगिनश्च मणीन् माणिक्यमौक्तिकान् ।
हारान् विभूतिवैशेष्यं ददुर्द्रव्याणि वै तदा ॥५ १ ॥ रत्नाकरास्तु रत्नानि मौक्तिकानि ददुस्तदा ।
नद्यो नदा वरुणाद्या ददुर्द्रव्यरसानपि ॥५२॥ पर्वताः खनयश्चापि ददुर्मणिविशेषकान् ।
रत्नानि वज्रमणिकान् मुक्ताश्च पद्मरागकान् ॥५३ ॥ मारकतानिन्द्रनीलान् वैदूर्यान् पुष्परागकान् ।
कर्केतनान् भीष्मकाँश्च पुलकान् रुधिराख्यकान् ॥५४॥ स्फटिकान् विद्रुमान् पुङ्खराजान् ददुर्विशेषतः ।
मानवास्तु ददुस्तस्मै स्वम्बराणि शुभानि वै ॥५५॥ द्युमतः कम्बलाँश्चापि पात्रभूषोपवार्तिकाः ।
गजाश्ववृषभाँश्चापि धेनूश्च महिषीस्तथा ॥५६॥ द्रव्याणि स्वर्णरूप्याणि ददुर्बालाय भावतः ।
वृक्षवल्ल्यो मधुरसान् ददुर्माल्यादिपूजनम् ॥५७॥ पर्यङ्कान् सुबृसीश्चापि कटान् चतुष्किकादिकाः ।
खट्वा यन्त्रीस्तथा गन्त्रीर्ददुः पेषणिकास्तथा ॥५८॥ चुल्लिकाः कण्डनिकाश्च जलकुम्भीर्ददुस्तथा ।
मार्जनिका गुप्तदोरधानीश्च प्रददुर्मुदा ॥५९५॥ मुशलं तन्तुचक्रं चानर्घ्यपेटिमञ्जुषाः।
वारिधानीश्चाथ पयोधानीस्तक्रप्रमन्थनीः ॥2.68.६०॥ द्रोणश्च दधिधानीश्च कुसुलानि कर्णार्दिनीः ।
पिष्टिकां च शिलां घण्टीं रसयन्त्रीं ददुर्मुदा ॥६१ ॥ दोलां प्रेङ्खां घोटिकां च चतुष्पादां च खट्विकाम् ।
कौशेयान्यम्बराण्येव और्णान्यप्यम्बराणि च ॥६२॥ बुट्टाढ्यवेषवर्याणि ददुश्च शर्करादिकाः ।
फलानि फलहाराँश्च शुष्कैलादिस्रजस्तथा ॥६३ ॥ चन्दनानि विचित्राणि शीतलानि ददुस्तदा ।
पत्त्राणानि वर्ष्मत्राणान् शिरस्त्राणानि वै ददुः ॥६४॥ पात्राणि युगहाण्डीश्च स्थालीश्च कलशादिकान् ।
भङ्गारकाणि पात्राणि पुटपात्राणि यानि च ॥६५॥ जलसेचनपात्राणि स्थालानि भोज्यवाटिकाः ।
पट्टिशं पाठिकाश्चापि शस्त्राऽस्त्राण्यपि सन्ददुः ॥६६॥ धनानि स्वर्णरूप्याणि चासङ्ख्यानि ददुस्तदा ।
चन्दनाऽबीरकुङ्कुमाऽक्षतगुलालकैर्द्रवैः ॥६७॥ पुष्पैश्च केसरैर्गन्धैः कस्तूरिकाभिरित्यपि ।
कर्पूरैर्विविधैः रङ्गैः रञ्जनैर्हारपत्रकैः ॥६८॥ तुलस्या मञ्जरीभिश्च दलैश्च कुन्दकेतकैः ।
चम्पकैर्मृद्यतैलैश्चाऽर्चयामासुः प्रभुं पतिम् ॥६९॥ एकोत्तरशतश्रेष्ठोपचारैर्देवतादिकाः ।
अवतारा ईश्वराश्च चक्रुरारार्त्रिकं हरेः ॥2.68.७०॥ आशीर्भिर्योजयामासुः प्रदक्षिणं प्रचक्रिरे ।
तुष्टवुश्च प्रणेमुश्च निषेदुश्चाऽऽसनेषु च ॥७१ ॥ ततोऽनादिकृष्णनारायणोऽनुग्रहवान् क्षणात् ।
दर्शनं नैजमूलात्मस्वरूपस्य ददौ तदा ॥७२॥ प्रथमं परमं धाम ददृशुश्च सभाजनाः ।
तन्मुक्ताँश्चापि मुक्तानीस्तत्रैव ददृशुश्च ते ॥७३॥ ब्रह्मधामाऽक्षरं तस्य मुक्तान् मुक्तानीरित्यपि ।
बालकृष्णस्य वै मूर्तौ मस्तके ददृशुश्च ते ॥७४॥ अवतारान् हरेर्भाले सहस्रशश्च ददृशुः ।
गोलोकं दक्षिणे नेत्रे वैकुण्ठं वामचक्षुषि ॥७५॥ अमृतं नित्यकैलासं कर्णयोश्चापि ददृशुः ।
महाविष्णुं नासिकायां भाले कालं च ददृशुः ॥७६॥ भालस्य प्रान्तयोः प्रधानेशं च प्रकृतीश्वरम् ।
वासुदेवादिकान् व्यूहान् नासामूले प्रददृशुः ॥७७॥ वैराजं मुखमध्ये च ददृशुस्ते सभाजनाः ।
दंष्ट्रास्वस्य ददृशुश्च शताननादिवेधसः ॥७८॥ शतनेत्रादिरुद्राँश्च दन्तेष्वस्य प्रददृशुः ।
श्मश्रुरेखास्थितान् सहस्रादिहस्तकविष्णुकान् ॥७९॥ ओष्ठे चोर्ध्वे महामायां प्रधानं चाधरे तथा ।
श्रीं लक्ष्मीं चिबुके त्वस्य ददृशुस्ते सभाजनाः ॥2.68.८०॥ हनूरोमसु ददृशुर्मायाऽष्टावरणेश्वरान् ।
कपोलयोश्चेश्वराणीर्ददृशुः कोटिशः सतीः ॥८ १ ॥ केशमूलेषु वै सत्यं लोकं ब्रह्माद्यधिष्ठितम् ।
केशमध्येषु च स्वर्गान् केशान्ते चातलादिकान् ॥८२॥ शिरःपृष्ठे मानवाँश्च ददृशुस्ते सभाजनाः ।
एवं सर्वां ब्रह्मरूपां सृष्टिं वै कारणात्मिकाम् ॥८३ ॥ सूक्ष्मां च शाश्वतीं नित्यां बीजरूपां हि ददृशुः ।
अथ कारणसृष्टेश्च समुद्भूतां च वैकृताम् ॥८४॥ स्थूलां सृष्टिं कण्ठभागादधः पुनश्च ददृशुः ।
कण्ठेऽस्य परमं ब्रह्म हृदये ब्रह्म चाऽक्षरम् ॥८५॥ स्तनयोश्चाऽपि गोलोकं वैकुण्ठं दक्षवामयोः ।
अमृतं नित्यकैलासं स्कन्धयोश्च प्रददृशुः ॥८६॥ महाविष्णुं च हृदये कण्ठे कालं प्रददृशुः ।
कक्षयोश्च प्रधानेशं प्रकृतीशं प्रददृशुः ॥८७॥ वासुदेवादिकान् व्यूहान् हृदयोर्ध्वे प्रददृशुः ।
वैराजं हृदयाऽधस्तात् पार्श्वास्थिषु च वेधसः ॥८८॥ अग्रसन्धिषु विष्णूँश्च रुद्राँश्च पृष्ठसन्धिषु ।
उदरे च महामायां नाभौ प्रधानमेव च ॥८९॥ श्रीं लक्ष्मीं पार्श्वयोर्नाभेर्जघनेष्टाऽऽवृतानि च ।
जघनाऽधश्चेश्वराणीर्लिङ्गमूले सतीस्तथा ॥2.68.९०॥ रोमसु सत्यलोकादीन् गुप्ताऽधोऽतलप्रभृतीन् ।
तत्तत्स्थानेषु चाब्धींश्च पर्वतान् ददृशुश्च ते ॥९ १ ॥ अथापि च ततः कट्यां शेषं च कच्छपं तथा ।
ददृशुः सीवनीनाड्यां महाजलं च धातुषु ॥९२॥ लिङ्गाग्रे कामदेवं च सक्थ्नोर्दैत्याँश्च दानवान् ।
रोमसु च ऋषीन् पितॄन् देवान् ददृशुरेव च ॥९३॥ जान्वोश्च मानवान् जङ्घाद्वयेऽसुरान् प्रददृशुः ।
पादयोर्नागसर्पादीन् ददृशुः पुनरेव च ॥९४॥ सृष्टित्रयात्मिकां मूर्तिं बालकृष्णात्मिकां पुनः ।
विलोक्यैतन्महाश्चर्यं ज्ञातवन्तः स्वकारणम् ॥९५॥ सर्वेऽवतारा यस्मात् सम्भवन्त्येषः पुमान् परः ।
मत्वा चक्रुस्ततो ध्यानं बालकृष्णस्य ते क्षणम् ॥९६ ॥ अथ सभासमाप्तेश्च घण्टानादोऽभवत्तदा ।
जयशब्दैः सह सभ्या उत्तस्थुः स्वालयं ययुः ॥९७॥ मिष्टपानादिभिस्ताम्बूलकैर्मधुरभाषणैः ।
सत्कृताश्च विमानाद्यैर्महीमानास्तु सर्वशः ॥९८॥ ययुर्नैजान् गृहान् देशान् परदेशान् सुखान्विताः ।
तत्त्वानि देहिनश्चैत्या जडा गुणा रसादयः ॥९९॥ अन्येऽपि दासवर्गाद्या ययुः सम्मानिता गृहम् ।
ऋषयः पितरश्चैते स्वर्गादिकं ययुस्ततः ॥2.68.१०० ॥ परमेशा ब्रह्मलोकान् ईशा ईशनिवासकान् ।
दैत्याश्च दानवा नैजान् पातालादीन् ययुस्ततः ॥१०१ ॥ पर्वता वृक्षवल्ल्यश्च नदास्तीर्थानि चापगाः ।
सरांस्यपि च क्षेत्राणि वनान्युपवनानि च ॥१ ०२॥ ययुः प्रणम्य च कृष्णनारायणं पुनः पुनः ।
मण्डपस्य महाप्रासादस्य कल्पकृतस्य च ॥१ ०३॥ उपसंहारमकरोत् कृष्णनारायणः प्रभुः ।
सनत्कुमारो भगवान्नारदोऽपि प्रणम्य च ॥१ ०४॥ बदरीं ययतुश्चाथ कन्यका लोमशाश्रमम् ।
एवं च राधिके ब्रह्मसूत्रोत्सवो महत्तमः ॥१ ०५॥ सम्पन्नश्चाष्टमे वर्षे वैशाखे परमात्मनः ।
पठनाच्छ्रवणादस्य स्मरणान्मुक्तिभाग्भवेत् ॥१ ०६॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने महिमानेभ्यः पारितोषिकदानं, प्रभोः पूजनम्, उपदार्पणम्, दिव्यदर्शनं, परिहारश्चेत्यादिनिरूपण-
नामाऽष्टषष्टितमोऽध्यायः ॥६८ ॥