०६५

श्रीकृष्ण उवाच-
अथापि त्वं शृणु राधे! सर्वपावनपावनम् ।
आर्षं विधानं कृष्णस्य लोकं चानुसृतस्य ह ॥१ ॥ स्वयं वेदप्रणेता यो ब्रह्माणं शास्ति वै पुरा ।
सोऽयं लोकं समाश्रित्य पालयित्वा विधिं निजम् ॥२ ॥ गृह्णाति ब्रह्मसंस्कारं प्राकृतो ब्रह्मपा यथा ।
द्विजत्वं येन सृष्ट्यादौ निर्मितं श्रेयसे सदा ॥३ ॥ स तु सूत्रं समगृह्य द्विजो भवति चाऽद्विजः ।
यस्य संस्पर्शनान्नार्यो नरा वृक्षाश्च वल्लयः ॥४ ॥ पशुप्रेतपिशाचाद्याः शुद्ध्यन्ति चात्मदर्शिनः ।
यस्य योगेन कामाद्या भजन्ते दिव्यतां सदा ॥५ ॥ यद्योगं प्राप्य यक्षा वा राक्षसा म्लेच्छयोनयः ।
दिव्या भवन्ति च क्षणात् सोऽयं ब्रह्मग्रहोऽभवत् ॥६ ॥ राधिके लोमशः प्राह पितरं मातरं हरेः ।
यज्ञोपवीतयोग्योऽयं वर्तते यज्ञपावनः ॥७ ॥ देयं चास्मै ब्रह्मसूत्रं सूत्रयित्रे परात्मने ।
श्रुत्वैवं शोभनं वाक्यं लोमशस्य मुखात्ततः ॥८ ॥ प्रसन्नौ पितरौ योग्यं प्रणेमतुर्मुनिं तदा ।
भक्त्या गोपालकृष्णश्च दिव्यं गजासनं ददौ ॥९ ॥ मधुपर्कं ददौ हारान् मिष्टान्नं सलिलं ददौ ।
ताम्बूलं प्रददौ चापि फलं वस्त्रं शुभं ददौ ॥2.65.१ ०॥ उवाच लोमशं शुभोत्सवक्षणं कुरु प्रभो ।
वैशाखोऽयं समायाति भवते रोचते यदि ॥११ ॥ कर्तव्यश्चोत्सवस्तत्र मम भात्येव सर्वथा ।
यज्ञोपवीतयोग्यं च दिनं शस्यं प्रदर्शय ॥१२॥ लोमशस्तु ततः प्राह श्रीमद्गोपालकृष्णकम् ।
अक्षया चोत्तमा चास्ते तृतीयाऽक्षयदायिनी ॥१३॥ चन्द्रर्क्षबलशुद्ध्यादि सर्वं शुभं प्रवर्तते ।
आमन्त्रणं च त्रैलोक्ये सर्वेभ्यो देहि तत्तथा ॥१४॥ सम्भारान् दिव्यभोगांश्च सञ्चिनुह्यतिदुर्लभान् ।
भिन्नलोकनिवासानां योग्यान् सेव्योत्तमोत्तमान् ॥१५॥ लोमशस्य वचः श्रुत्वा श्रीमद्गोपालकृष्णकः ।
प्रेषयामास सर्वत्र दिव्या मङ्गलपत्रिकाः ॥१६॥ अश्वपट्टसरोवासैः पार्षदैः सेवकैस्तथा ।
विमानस्थैर्दिव्ययानैः प्रेषयामास सर्वशः ॥१७॥ जन्माऽष्टमेऽब्दे वैशाखे शुक्लेऽक्षयतिथौ मम ।
पुत्रस्य श्रीहरेर्यज्ञोपवीतं वै भविष्यति ॥१८॥ अवतारैस्तथा मुक्तैर्मुक्ताभिर्धामभिः सह ।
ब्रह्मभिः पार्षदैः पार्षदानीभिः सह सर्वथा ॥१९॥ सतीभिः सेविकाभिश्चाऽवतारिणीभिरित्यपि ।
ईशाभिरीश्वरैश्चापि ऋषिभिश्च कुटुम्बिभिः ॥2.65.२०॥ साधुभिर्यतिभिश्चापि भक्तैर्भागवतैः सह ।
भागवताभिर्भक्ताभिः समागन्तव्यमादरात् ॥२१ ॥ पितृभिः पत्निकायुक्तैर्देवैर्देवीसमन्वितैः ।
दिक्पालैर्लोकपालैश्च ग्रहनक्षत्रमण्डलैः ॥२२॥ ताराभिश्च तथा तत्त्वैर्भुवर्वासिभिरित्यपि ।
मानवैर्द्रुमवल्ल्याद्यैः कल्पपादपवंशजैः ॥२३॥ तृणैः स्तम्बैः समुद्भिज्जैरण्डजैर्गायकैर्जनैः ।
विद्याध्रैः किन्नरैश्चापि किम्पुम्भिर्नृत्यवेदिभिः ॥२४॥ नर्तकीभिश्चारणैश्च धर्माऽधर्मादिवंशजैः ।
सुराऽसुरकुटुम्बैश्च दिगीश्वरैः समन्ततः ॥२५॥ आगन्तव्यं यज्ञसूत्रोत्सवे मद्बालकस्य वै ।
तीर्थैर्नदनदीभिश्चाऽरण्यैर्वनैः सरोवरैः ॥२६॥ समुद्राऽखातकूपाद्यैर्नगैः खगैः समन्ततः ।
वसुन्धरास्थितैः सर्वैरागन्तव्यं च पक्षिभिः ॥२७॥ गुणैर्गुणाश्रयैश्चापि मूर्ताऽमूर्तैः समादरात् ।
कालैः ऋतुभिराद्याभिः शक्तिभिः सहवत्सरैः ॥२८॥ कामधेनुभिरेवापि वसुभिः सिद्धिभिस्तथा ।
निधिभिर्विष्णुरुद्राद्यैर्ब्रह्माद्यैर्बहुमस्तकैः ॥२९॥ इन्द्रादिराजवर्यैश्च मानवैर्मुनिभिस्तथा ।
विप्रैः क्षत्रियवर्यैश्च वैश्यैश्च सेवकैस्तथा ॥2.65.३ ०॥ सात्त्विकैः राजसैश्चापि तामसैर्मायिकैस्तथा ।
मायाभिः प्रकृतिभिश्चाऽऽगन्तव्यं चोपवीतके ॥३ १ ॥ अतलादिस्थितैर्दैत्यैर्दानवैश्चासुरैरपि ।
नागैः सर्पैः सहबन्धुमित्रकुटुम्बिदेहिभिः ॥३ २॥ आगन्तव्यं वाहनैश्च साधनैश्च रसैस्तथा ।
दिव्याऽऽदिव्याभिरेवाऽत्र विद्याभिश्च कलादिभिः ॥३३ ॥ भवतां तेजसा सारैराशीर्भिर्मम बालकः ।
वर्धितो यज्ञवत् पुण्यराशिः सम्पत्स्यते ध्रुवम् ॥३४॥ इत्येवं प्रेषयित्वा च पत्रिकाः सेवकैस्ततः ।
शुद्धसत्त्वविभूतेश्च यानि भोज्यानि धामसु ॥३५॥ परे ब्रह्मण्यक्षरे च गोलोके च विकुण्ठके ।
अमृते चेश्वरलोके सत्यलोकेऽमृतानि च ॥३६॥ ब्रह्मजलानि दिव्यानि लेह्यचोष्याणि यान्यपि ।
तेषां च सञ्चयाँस्तत्र कारयामास सत्वरम् ॥३७॥ भुवर्महर्जनलोकादिष्वपि यानि यानि च ।
खाद्यपेयोपकार्याणि तेषां च सञ्चयाँस्तथा ॥३८॥ स्वर्गे तपसि मेर्वादौ पृथ्व्यां पातालसप्तके ।
भोज्यखाद्यप्रपेयानि चोपकार्याणि यानि च ॥३९॥ मृद्यसेव्योपभोग्यानि देहियोग्यानि यानि च ।
चलस्थावरयोग्यानि मूर्ताऽमूर्ताऽर्थकानि च ॥2.65.४०॥ तेषां सर्वप्रवस्तूनां सञ्चयानव्ययाँस्तथा ।
कारयामास बहुधा श्रीमद्गोपालकृष्णकः ॥४१ ॥ ब्रह्महदान् कल्पह्रदान् कल्पवृक्षरसादिकान् ।
अक्षयाणि च पात्राणि आपूरकदलाँस्तथा ॥४२॥ अव्ययान् कोशपद्माँश्च सिद्धिपात्रोत्तमानि च ।
सञ्चयामास परितः सिद्धयष्टीश्च गूटिकाः ॥४३॥ सहस्रप्रदपात्राणि चिन्तामणीन् बहूँस्तथा ।
चमत्कारकृताँश्चापि ब्रह्मपुष्पोत्तमानि च ॥४४॥ देवमायाप्रकाण्डानि देवीसूत्राणि यानि च ।
ऐन्द्रजालिकपाशाँश्च मणिकान् लक्षदाँस्तथा ॥४५॥ मन्त्रयन्त्राणि तन्त्राणि चमत्कारकणाँस्तथा ।
योगैश्वर्याऽमृतनालीः सञ्चयामास सर्वशः ॥४६॥ योगचुल्लीर्योगदर्वीर्योगकटाहवाटिकाः ।
योगस्थालीर्योगदीपान् सञ्चयामास सर्वशः ॥४७॥ योगासनानि सर्वाणि सार्वभौमाऽमृतानि च ।
कल्पर्तून् कल्पकण्ठीश्च कल्पवलयकोर्मिकाः ॥४८॥ सञ्चयामास बहुधा यावदातिथ्यहेतवे ।
भौतिकानि च भोज्यानि पेयानि भौतिकानि च ॥४९॥ सूक्ष्मभूतजभोज्यानि पेयानि सूक्ष्मजान्यपि ।
व्यक्तजन्यानि भोज्यानि पेयानि व्यक्तजानि च ॥2.65.५०॥ अव्यक्तजानि भोज्यानि पेयान्यव्यक्तजानि च ।
मायाजन्यानि सर्वाणि तथा ब्राह्माणि यानि च ॥५१॥ आक्षराण्यपि दिव्यानि आत्ममयानि यानि च ।
स्नेहजान्यपि सर्वाणि पुण्यतत्त्वोद्भवानि च ॥५२॥ सर्वाण्यपि च भोग्यानि सञ्चयामास सर्वतः ।
रसकुल्या घृतकुल्या दधिकुल्या मनोहराः ॥५३॥ मधुकुल्या गुडकुल्याः शर्कराखण्डिकाह्रदान् ।
इक्षुकुल्या अमृतानां ह्रदान् मिष्टसरांसि च ॥५४॥ सञ्चयामास परितः श्रीमद्गोपालकृष्णकः ।
उपहारसहस्राणां पर्वतान् प्रचकार सः ॥५५॥ रत्नानां च मणीनां च मौक्तिकानां समुच्छ्रयान् ।
सुवर्णानां रूप्यकाणां हीरकाणां च पर्वतान् ॥५६॥ माणिक्यानां च मुक्तानां विभूषाणां च पर्वतान् ।
वस्त्रालङ्कारराशींश्च कारयामास वै तदा ॥५७॥ चूर्णानां गन्धसाराणां तैलानां च सुगन्धिनाम् ।
लेपानां कज्जलानां च रङ्गानां सञ्चयाँस्तथा ॥५८॥ चन्दनानां कुङ्कुमाना केसराणां च सञ्चयान् ।
कस्तूरीणां चौषधानां राशीन् चकार चाव्ययान् ॥५९॥ दर्पणानां कङ्कतीनां शुद्धिद्रव्यमृदां तथा ।
शयनानां च दोलानामासनानां च चक्रिणाम् ॥2.65.६०॥ यानानां वाहनानां चाऽसङ्ख्यसञ्चयकान् व्यधात् ।
एवं सर्वोपभोग्यादौ सम्पन्ने पूर्णताङ्गते ॥६१ ॥ अनादिश्रीकृष्णनारायणः सस्मार वै क्रमात् ।
परधामस्थमुक्ताँश्च मुक्तानीरपि सर्वशः ॥६२॥ अक्षरस्थान् मुक्तवर्गान् मुक्तानीरपि चाक्षरम् ।
अवतारानवतारिणीश्च पार्षदपुङ्गवान् ॥६३॥ पार्षदानीश्च वै भक्तान् भक्तानीरपि सर्वशः ।
चतुर्विंशतिविष्णूँश्च चतुर्व्यूहाँस्तथा क्रमात् ॥६४॥ परमेशानीश्वराँश्च ईश्वराणीश्च सर्वशः ।
वैराजान् ब्रह्मशम्भूँश्च रुद्रान् विष्णून् ऋषींस्तथा ॥६५॥ साधून् साध्वीः सतीः पत्नीः प्रिया देवी रमादिकाः ।
राधां लक्ष्मीं पार्वतीं च प्रभां हंसां च माणिकीम् ॥६६॥ द्वादशोत्तरशतमुख्याश्च पत्नीर्निजाः पराः ।
कोटिदासीस्तथा दासान् गोलोकस्थान् गवादिकान् ॥६७॥ चतुर्वैकुण्ठसंस्थाँश्च बदर्याश्रमवासिनः ।
सत्यस्थान् स्वर्गवासाँश्च परस्वर्गगताँस्तथा ॥६८॥ पितृन् सिद्धान् चारणाँश्च मुनीन्द्रान् सुरमानवान् ।
सस्मार च दिशां पालान् नृपतीन् सुरपालकान् ॥६९॥ भुवःस्थान् पृथिवीस्थाँश्च सप्तपातालवासिनः ।
जलस्थलस्थितान् सर्वान् स्थावरान् जङ्गमाँस्तथा ॥2.65.७०॥ ब्रह्मसरसस्तथा चाप्सरसः कन्यकोत्तमाः ।
भाटचारणगन्धर्वान् किम्पुङ्किन्नरमागधान् ॥७१॥ चारणान् वादकाँश्चापि गायकान् नर्तकांस्तथा ।
नटान् नाटककर्तॄंश्च नाट्यसङ्घप्रदर्शकान् ॥७२॥ मल्लान् कलाकराँश्चापि महेन्द्रजालिकाँस्तथा ।
स्वादकराँस्तथा सूदान् पाकिनः परिवेषकान् ॥७३॥ यज्ञीयान् यज्ञवेतॄँश्च कर्मकाण्डपराँस्तथा ।
ब्राह्मणाँश्च महर्षींश्च क्षेत्रद्वारादिपालकान् ॥७४॥ सस्मार दिव्यतत्त्वानि दिव्याऽमूर्तिकमानवान् ।
जलस्थलनिवासाँश्च दैत्यदानवराक्षसान् ॥७५॥ दीनान् रङ्कान् सतः साङ्ख्ययोगिनीश्च पतिव्रताः ।
कन्या देवीश्च कुलजाः कुलपूज्याश्च योगिनीः ॥७६॥ कैलासबदरीवासान् क्षीरश्वेतनिवासिनः ।
पृथ्वीस्थखण्डवासाँश्च सस्मार श्रीहरिस्तदा ॥७७॥ भक्तान् गोपान् गोपिकाश्च कोट्यर्बुदाब्जशेवधीन् ।
सस्मार वालखिल्याँश्च यतीन् ज्ञानाश्रयान् निजान् ॥७८॥ अनादिश्रीकृष्णनारायणः स्वामिनरायणः ।
सस्मार दिव्यमनसा भक्तांश्च भक्तवत्सलः ॥७९॥ अक्षयायां तृतीयायां प्रातः सर्वे समाययुः ।
ब्रह्मवद्गतिका यानैर्वैहायसैश्च मानसैः ॥2.65.८०॥ आत्मयानैर्योगयानैः समाधिवाहनैस्तथा ।
वायुवाहैश्चाम्बरात्मवाहनैश्च समाययुः ॥८ १ ॥ गरुडैश्च तथा हंसैः शुकैर्मयूरमूषकैः ।
विनायका गणेशाश्च विघ्नेशास्तत्र चाययुः ॥८२॥ गजैरश्वैरनलैश्च कुञ्जकैः सारसादिभिः ।
मेघैर्ग्रहैस्तथा विद्युल्लताभिः किरणैस्तथा ॥८३॥ सूर्यचन्द्रादयस्तूर्णं तेजोवाहाः समागताः ।
मनोवाहाः कल्पवाहा वेगवाहाः समाययुः ॥८४॥ मुक्ताश्चाप्यवताराश्च व्यूहाश्चापीश्वरास्तथा ।
ब्रह्मधामगताः सर्वे ईशधामगतास्तथा ॥८५॥ कृष्णनारायणो लक्ष्मीराधारमादिकास्तथा ।
कोटिकोट्यर्बुजाब्जादिशेवधिश्रीसखीयुताः ॥८६॥ कोटिकोट्यर्बुजाब्जादिसेवकैः सहितास्तथा ।
राममाधवगोविन्दा गोपाला गोपिकास्तथा ॥८७॥ विष्णवो वैष्णवीशक्तिप्रमुखा भूमदेवताः ।
वैराजा ब्रह्मरुद्राद्याः शतकोटिप्रमस्तकाः ॥८८॥ सत्यस्थाः साधवो देवा यतय ब्रह्मचारिणः ।
वेदा विद्यास्तथा मन्त्रा यज्ञा हवींषि यानि च ॥८९॥ समाययुर्दिव्यरूपा वह्नयो मरुतस्तथा ।
तेजांसि चापि सर्वाणि पितरः ऋषयोऽमराः ॥2.65.९०॥ प्रमुनीन्द्राः सत्पुरुषाः सत्यः साध्व्यः पतिव्रताः ।
ब्रह्मप्रियाः कृष्णप्रिया देवप्रियाः समन्ततः ॥९१॥ चतुर्दशभुवनानां राज्ञ्यो राजान इत्यपि ।
ब्रह्मकन्याः ऋषिकन्या जलकन्याः समुद्रजाः ॥९२॥ देवकन्या नागकन्या राजकन्याश्च कोटिशः ।
कुमारिकाश्च गान्धर्व्यो विद्याधर्यश्च सर्वशः ॥९३॥ वादिका वादकाश्चापि यशोगायाः समाययुः ।
भाण्डकाश्चारणाद्याश्च भाटा नटाश्च नर्तकाः ॥९४॥ चैष्टिका ऐतिहिकाः कथका हासका अपि ।
ब्राह्मणा भिक्षुकाः सन्यासार्था मुण्डधरास्तथा ॥९५॥ अवधूता ब्रह्मचारा योगचाराः समाययुः ।
स्वस्त्रीबान्धवबालाद्यैर्युता द्वितीयविश्रमाः ॥९६॥ पत्नीव्रतस्य वंशाश्च पतिव्रताकुटुम्बिनः ।
बन्धुबान्धवयोगाश्च तद्योगास्तत्सुयोगिनः ॥९७॥ नैकक्षित्युद्भवाः सर्वे वर्ष्मध्रा हि समाययुः ।
विष्णुगणा रुद्रगणा ब्रह्मगणा असङ्ख्यकाः ॥९८॥ दीपावल्यो नालमेध्यः षष्ठीदेव्यस्तलाजिका ।
गोकुमार्यस्तथाऽर्जन्त्या युवत्यः शतकन्यकाः ॥९९॥ कोटिशः कन्दरा कन्यास्तथा क्रोधनिका सती ।
लक्षं च राक्षसीकन्याः कङ्कताल्यश्च पञ्चषः ॥2.65.१० ०॥ कङ्कतालिककन्याश्च सहस्रशो ह्युपस्थिताः ।
ब्रह्मकन्या जलकन्याऽर्यमकन्याः सहस्रशः ॥१० १॥ कुबेरकन्यकाश्चेन्द्रकन्या यमसुतास्तथा ।
वायुकन्याः ऋतुकन्या विश्वकर्मसुतास्तथा ॥१ ०२॥ द्रुमकन्या दानवादिकन्यापञ्चसहस्रकम् ।
वसन्तस्य तथा पत्न्यः षोडशापि ह्युपस्थिताः ॥१ ०३॥ वह्निकन्यास्तथा सालमालकन्यासहस्रकम् ।
श्रवणकन्यकाः शावदीनकन्यासहस्रकम् ॥१ ०४॥ ऐन्द्रजालिकरौद्र्यश्च सहस्रकन्यकास्तथा ।
विद्याकन्याः किशोर्यश्च षष्टिकन्या ह्युपस्थिताः ॥१ ०५॥ सम्वत्सरस्य कन्याश्च वार्क्ष्यः कन्या असङ्ख्यकाः ।
खनिजाः कन्यकाश्चापि सोपकुम्भा ह्युपस्थिताः ॥१० ६॥ उपस्थिता लक्ष्मणस्य सहस्रद्वयपुत्रिकाः ।
उपस्थिता विश्वावसोस्तदा त्रिशतपुत्रिकाः ॥१०७ ॥ द्वासप्ततिसहस्राणि वेधःकन्या उपस्थिताः ।
जुमासेम्लानृपस्यापि तस्थुः सहस्रकन्यकाः ॥१ ०८॥ कार्ष्ण्यः कुमारिकाः शतोत्तरद्वादशसङ्ख्यकाः ।
मागल्यार्थं हरेस्तस्य कान्तस्याऽर्थमुपस्थिताः ॥१ ०९॥ चक्रुस्ताः श्रीकृष्णनारायणस्य कीर्तनानि वै ।
आगतेभ्यश्च सङ्घेभ्यश्चावासान् प्रददौ पिता ॥2.65.११ ०॥ सत्कारान् मधुपर्कादि यथार्हं बहुधा ददौ ।
अथापि राधिके! तत्र समायान्ति महर्षयः ॥११ १॥ इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोरष्टमे वर्षे वैशाखे यज्ञोपवीतमहोत्सवे आमन्त्रणपत्रिकाद्वारा सर्वेषामागमनादिनिदर्शननामा पञ्चषष्टि-
तमोऽध्यायः ॥६५ ॥