श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चादसुराणां तु मन्त्रणाम् ।
जुमासेम्ला स्वयं राजा रक्तवार्ध्यादियूथपान् ॥१ ॥
द्व्यशीतिसङ्ख्यकान् प्राह शोकमानसभृद्गिरा ।
सैन्यानि सर्वथा यानि योद्धुं गतानि तानि तु ॥२ ॥
सर्वशोऽपि विनष्टानि नैकोऽपि तु निवर्तते ।
न शवं दृश्यते वाऽपि भस्ममात्रं तु दृश्यते ॥३ ॥
विमानस्याऽभितो वह्निस्तादृशोऽगम्य उल्बणः ।
विमानं रक्ष्यते तेन क्रियतेऽन्यत्तु भस्मसात् ॥४ ॥
विमानं प्रति चास्माकं यन्त्रगोलकपुत्तलाः ।
गन्तुमेवाऽक्षमा वह्नौ भस्मीभवन्ति वै भटाः ॥५ ॥
तत्कथं चात्र कर्तव्यं यद् विमानं विनाश्यते ।
वैमानिका विमानस्था नाश्यन्ते येन ते यथा ॥६ ॥
तद्विचार्यैव वक्तव्यं रक्तवार्धे त्वया मम ।
रौद्रबाष्पप्रभतयो यथान्यायं वदन्त्विह ॥७ ॥
तदा ते तु नृपं नत्वा बहुतर्कभृतो गिरः ।
युद्धार्थं प्राजगदुश्च फलं तु नाश ईक्ष्यते ॥८ ॥
केचिदाहुर्महामायामासुरीं विरचय्य तु ।
महावृष्ट्या महावह्निं शान्तयन्तु ततः परम् ॥९ ॥
शैलवृष्ट्या विमानं तन्नाशयन्तु क्षणान्तरे ।
अन्ये प्राहुर्महावृष्टिं महाशैलानपि ध्रुवम् ॥2.53.१० ॥
यदि स्तब्धान् करिष्यन्ति महामायाकृतैश्च तैः ।
तदा कि स्यात् ततश्चान्य उपायः परिमृग्यताम् ॥११ ॥
तदा कश्चिच्चन्डसारः प्राह वै रचनां नवाम् ।
वयं वायुस्वरूपाश्च भूत्वा यामस्तु तत्स्थले ॥१ २॥
येन यथा विमानं तदितस्ताद् यास्यति क्षणात् ।
अस्मासु वायुरूपेषु मध्ये यावत्प्रयास्यति ॥१३ ॥
तावद् वायुस्वरूपैश्च झञ्झावातैर्महोग्रकैः ।
विमानं क्षेपणीयं वै ह्यकस्मान्नाशमेष्यति ॥१४॥
सर्वावयवकन्यादीर्वियुज्य च विभज्य च ।
भङ्क्त्वाऽवयवशः सर्वं करिष्यामो लयान्वितम् ॥१५॥
अथाऽस्मै चोत्तरं प्राह विज्ञतुरीयकस्तदा ।
यीग्यमेतत्तथाप्येषो विमानस्थो महेश्वरः ॥१ ६॥
श्वासे चास्मान् समस्ताँश्चेद् ग्रसिष्यति ह्यगस्त्यवत् ।
तदा दशा का चास्माकं भविष्यतीति चिन्त्यताम् ॥१७॥
तदाऽतलेष्टकश्चापि प्राह यत्र प्रगच्छति ।
यानं तद्देशरूपं च धरन्तु रामणीयकम् ॥१८॥
मध्येसमुद्रं रम्यं च दृष्ट्वा मत्वा निजं स्थलम् ।
विश्वासादवतारं च करिष्यति सुखं तदा ॥१९॥
तत्राऽस्माभिश्च तद्रूपैर्भाव्यं तेषामभीष्टकैः ।
रात्रौ सुप्तव्यकालोर्ध्वं लयः कार्यो भविष्यति ॥2.53.२०॥
तदुत्तरं न्यायसारः सेनापतिरुवाच ह ।
सर्वस्मिन्निर्मिते चापि देवा निद्राविहीनकाः ॥२१ ॥
यदि निद्रां न यास्यन्ति तदोपायश्च को हि नः ।
अथ रुद्रशिरादैत्यो युक्तियुक्तं जगाद ह ॥२२॥
सर्वथा शरणं कार्यं शरण्याः सन्ति देवताः ।
विश्वासिनश्च जायन्ते तापसे शरणागते ॥२३॥
वरदानस्य दातारो भवन्त्यप्यविचारतः ।
तस्माद् ग्राह्यं शरणं च भाव्यं तेषां प्रशिष्यकैः ॥२४॥
तन्मन्त्रास्तत्प्रदत्ताश्च दीक्षा ग्राह्या कुटुम्बिभिः ।
आमन्त्रणं प्रदातव्यं गृहपावनहेतवे ॥२५॥
गृहे गृहे च गमनं पूजनं कार्यमित्यपि ।
विमानं भूतले न्यस्य सेवाऽस्माभिः शुभा परा ॥२६॥
कर्तव्या दासभक्त्या च यथा विश्वासमाप्नुयुः ।
अन्तःप्रविश्य कालेन विषवद् बलमाचरेत् ॥२७॥
तदा तु समकालेन कन्याभिश्च कुमारकैः ।
वृद्धैर्बालैश्च युवभिः समकालं हि योधनम् ॥२८॥
कर्तव्यं चापि यद्वाऽत्र ये ये मुख्यबलाश्च ते ।
विमानेषुधरा भूत्वा नाशं कुर्वन्तु वै ततः ॥२९॥
यद्वा ये मन्त्रकर्तारो देवानामग्रगा मताः ।
त एव पूर्वं हन्तव्यास्ततः कार्यं भविष्यति ॥2.53.३० ॥
विजयाख्येन कालेन विश्वासहेतिभिस्त्विह ।
कर्तव्यं वै बलं तत्र पारकृन्नो भविष्यति ॥३ १॥
इत्युक्तिं निदधुः सर्वे स्वान्तरेषु जयप्रदम् ।
तथास्त्विति विचार्यैव राजा सेनाधरास्तथा ॥३२॥
अन्ये च सम्मताः सर्वे शरणागतिबोधकम् ।
ध्वजमारोहयामासुर्गगने हेतिशून्यताम् ॥३३॥
बोधयामासुरत्यर्थं नेमुः पृथ्व्यां शठाशयाः ।
नारदस्तु तदा प्राह शम्भुं किमिदमुत्तमम् ॥३४॥
विजयं ते दत्तवन्तः सम्प्रगृह्य पराजयम् ।
शम्भुः प्राह निषेकाद् येऽसुरास्ते न सुराः क्वचित्॥३५॥
कार्यसिद्ध्यर्थमेवैते समयार्थं नमन्ति वै ।
किन्तु शरणमाप्तानां रक्षणं धर्म उत्तमः ॥३६॥
अस्माभिः रक्षणं कार्यं वैपरीत्ये तु दण्डनम् ।
सत्त्वानां सात्त्विको धर्मो राक्षसानां तु तामसः ॥३७॥
अगतौ तामसा यान्ति वशं, गतौ तु शत्रवः ।
उन्दुरुर्हंसपक्षस्थ इव कृन्तति पक्षकम् ॥३८॥
स्वभावाद् राक्षसः शिष्यो वातापिरिव भक्षति ।
काले प्राप्ते भवेच्छीघ्रमाशीर्विष इवोल्बणः ॥३९॥
तस्माद् भाव्यं तु गुरुणा जानता चेतनेन च ।
काणं प्रति द्विकाणः स्यात् त्रिनेत्रो द्व्यक्षिकं प्रति ॥2.53.४०॥
शठं प्रति द्विशठः स्यात् साधुं प्रति द्विसाधुकः ।
तस्माच्छठेऽपि शिष्ये न विश्वसितव्यमत्यति ॥४१॥
कदाचित् स छलं कुर्याद् दुग्धपालितसर्पवत् ।
यदि ते शरणं यातास्तत्रापि विद्यते छलम् ॥४२॥
विद्युद्दण्डाभिघातेन सिंहोऽपि शरणं व्रजेत् ।
स्वार्थकार्यप्रसिद्ध्यर्थं म्लेच्छोऽपि शिष्यतां व्रजेत् ॥४३ ॥
दितेर्गर्भविनाशार्थमिन्द्रः शिष्योऽभवत्पुरा ।
राज्यचाराः कार्यसिद्ध्यै भृत्याः शिष्या भवन्ति च ॥४४॥
बको मत्स्यार्थमेवाऽऽस्ते मार्जारो मूषकार्थकः ।
व्याघ्रोऽश्वार्थं मौनमास्ते प्राप्ते छिद्रे तु घातकाः ॥४५॥
चौरः स्वार्थप्रसिद्ध्यर्थं सहास्ते सेवको यथा ।
कुलटा स्वार्थसिद्ध्यर्थं श्रयते गृहिणी यथा ॥४६॥
मूषको दंशनार्थं वै फुत्कृत्याऽङ्गं स्पृशत्यपि ।
काको मांसेच्छया चञ्च्वा शनैर्वृषं विटङ्कते ॥४७॥
व्याधो मृगार्थमुग्रेऽपि देशे तिष्ठति दीनवत् ।
क्रूरोऽपि सहते वाक्यं मर्मभिच्चापि मूकवत् ॥४८॥
राजाऽपि सहते हानिं द्यूतजां नेष्टकामपि ।
शूरोऽपि सहते गालिं निगडस्थः समानतः ॥४९॥
शुद्धाऽपि सहते नारी ऋतुजन्माद्यशुद्धताम् ।
इयमशुद्धिरस्माभिः सहनीया हि पक्षके ॥2.53.५० ॥
म्लेच्छान् शिष्यान् विधायैव कार्यं श्रेयो यथा भवेत् ।
चेतयितव्यमेष्वत्र जागरितव्यमेषु च ॥५१ ॥
वह्निसेके जायमाने स्वपतो ज्वलनं ध्रुवम् ।
तथेमे वह्नयो म्लेच्छा नैषु सुप्तव्यमित्यलम् ॥५२॥
सावधानैरेव भाव्यं न कुर्युर्नः पराभवम् ।
इति श्रुत्वा हरवाक्यं सनत्कुमार आह च ॥५३ ॥
यथा वक्ति हरस्तत्तु योग्यं सर्वं हि विद्यते ।
न हि तेजस्विनां नाशो हीनतेजा विनश्यति ॥५४॥
धर्मः प्राह शरण्या हि वयं पापनिवारकाः ।
रक्षणीयाः शरणस्थाः पात्रता च यथा तथा ॥५५॥
गजसिंहस्तेनपालाः सावधाना वशेष्वपि ।
धर्मराजजनराजौ सावधानौ वशेष्वपि ॥५६॥
हस्तिपकाऽग्निपाकस्थौ सावधानौ वशेष्वपि ।
तथा भाव्यं सावधानैर्वश्येष्वपि च पाकिषु ॥५७॥
इतिकृत्वाऽनुमननं त्वैकमत्येन नारदः ।
प्राह तान् किं वशं याता ब्रूत वशङ्गता इति ॥५८॥
तेऽब्रुवँश्च वशं यामो यथेच्छसि तथा कुरु ।
नारदः प्राह तान् शस्त्रविहीनान् वै विमानकम् ॥५ ९॥
अम्बरे स्थास्यति चात्र ब्रूत कीदृङ् किमिष्यते ।
राजा प्राह विमानं तु भूतले स्पृष्टमस्तु च ॥2.53.६ ०॥
वयं दासा भवामोऽत्र दीक्षार्हा नित्यसेवकाः ।
इत्युक्ते सति रुद्रेण विमानं त्ववतारितम् ॥६ १ ॥
नेमुः राजा तथा भृत्याः सैन्यस्य नायकादयः ।
नारीणां च गणाश्चापि प्रजागणाः समन्ततः ॥६ २॥
द्रष्टुं तत्र समायातास्ते प्रणेमुश्च सर्वशः ।
रुद्रः स्पृष्ट्वा त्रिशूलेन पावनान् कृतवाँस्तदा ॥६ ३॥
जलेन प्रोक्षणं सनत्कुमारः प्रचकार ह ।
नारदश्च जलं ब्राह्मपात्रस्थं तेभ्य आर्पयत् ॥६४॥
तैः पीतं पावनार्थं च क्षमाऽपि याचिता मुहुः ।
यमराजः स्वयं तेषां शस्त्राणि दूतसङ्घकैः ॥६५॥
एकत्र कारयामास स्वायत्तानि तदा क्षणात् ।
अथ ते प्रार्थयामासुरसुरा दीक्षणाय ह ॥६६॥
नारदस्तेभ्य एवाऽऽदौ दीक्षामन्त्रं ददौ तदा ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥६७॥
इतिमन्त्रं ददौ पश्चात् प्रददौ तुलसीस्रजः ।
कृत्वा निजाश्रितान् गन्तुमियेषाऽश्वसरोवरम् ॥६८॥
ततस्तैरासुरैर्नैजं गृहं कर्तुं तु पावनम् ।
देशं क्षेत्राणि च कर्तुं पावनानि समन्ततः ॥६९॥
मृतानां सद्गतिं कर्तुं याचिता नारदादयः ।
तथास्त्वित्याह देवर्षिस्तथा श्रीसनकादयः ॥2.53.७०॥
विमाने रक्षकान्नैजान् भटान् गणेश्वरादिकान् ।
वह्निं यमान् कार्तिकेयान् रक्षयित्वा महर्षयः ॥७१॥
ययुस्तेषां गृहाण्येव पावनार्थं तु वाहनैः ।
राजा नैजं महासौधं निनाय प्रथमं तदा ॥७२॥
राजधान्यां महादानाभिधायां स पुपूज ह ।
निम्बकटुं चालहोमं शावान्नं चालदामकम् ॥७३॥
आमेदं च युगान्तं च नीरबीजं च कङ्गुकम् ।
तुङ्गाऽनीकं प्रतारकं सुपालं वीरकेसरम् ॥७४॥
एवमन्यानि राज्यानि खण्डगानि च यान्यपि ।
तत्तद्राज्यप्रधानं तन्नगरं निन्युरादरात् ॥७५॥
सेनानां पतयो ये ते निन्युर्विजगृहाणि च ।
फलानि दुग्धपाकानि भोजनानि ददुश्च ते ॥७६॥
बहुरत्नानि चान्यानि दासान् दासीर्ददुश्च ते ।
ओतप्रोताश्च ते जाता मिश्रिताः शाठ्यसंवृताः ॥७७॥
अथ यानेन ते निन्युर्दूरं साहस्रयोजनम् ।
सहाररणपारं तु मुरार्कनगरं प्रति ॥७८॥
नारदः शङ्करश्चापि सनत्कुमार इत्यपि ।
यमराजस्तथा दूता मुरार्कनगरं ययुः ॥७९॥
जुमासेम्लाभिधभूपस्तथा विंशतिसैन्यपाः ।
ययुर्मुरार्कनगरं पश्चात्तस्थुस्तु दानवाः ॥2.53.८०॥
तैः शीघ्रं तु विमानस्थैः सेनाधिपैः क्षणान्तरे ।
सैन्यैश्च नूतनैर्नारीनरात्मकैस्तु राक्षसैः ॥८१॥
उपप्लवाः समारब्धा विमाननाशकारकाः ।
कृत्रिमा गोलकास्तत्र प्रक्षिप्ता नाशनाय वै ॥८२॥
अग्निः प्रज्वालितश्चापि कुत्रचित्तु विमानके ।
पाषाणपर्वतवृष्टिर्झञ्झावातोऽपि भावितः ॥८३॥
वस्तूनामपहरणं कृतं तत्र क्षणान्तरे ।
युद्धं विमानके जातं गणैर्देवादिभिः सह ॥८४॥
अथ स्मृताश्च रुद्राद्यास्तथा कल्पलतात्मजाः ।
कोटिशोऽथ गणास्तत्र प्राविर्भूता महाबलाः ॥८५॥
गणास्तद्दानवं सैन्यं निघ्नन्ति स्म सुकोपिताः ।
कार्तिकाश्च तथा रुद्रा गणनाथा विनायकाः ॥८६॥
कल्पवृक्षसमुत्पन्ना दशसाहस्ररुद्रकाः ।
निजघ्नुर्दानवाऽनीकं दानवा नाशमाव्रजन् ॥८७॥
फल्गुबीजं दानवेन्द्रं गदया श्रीगणेश्वरः ।
पोथयामास शिरसि ताडयित्वा व्यसुं व्यधात् ॥८८॥
गम्बिकायं कार्तिकेयः शक्त्या प्राणं जहार च ।
सेनागोलं गणपतिः कुठारेण व्यसुं व्यधात् ॥८९॥
स्फुटार्दनं परिधेन रुद्रश्चैको व्यसुं व्यधात् ।
केडण्डं जीवलं रुद्रश्चान्यः शूलेन तत्क्षणम् ॥2.53.९०॥
विप्राणं चाकरोत् तद्वत् कुमेरुं रुद्रकोऽपरः ।
तुम्बासुरं स्थानलिं च शक्त्या जघान विघ्नराट् ॥९ १ ॥
भिन्नहृदौ व्यसू जातो लीनापो मुद्गरान्मृतः ।
वीरभद्रो गणस्तत्र गदया परितो रिपून् ॥९२॥
चूर्णयामास कणशश्चालिविष्टं किमूषकम् ।
तूनायं च तथाऽऽबालं रुक्वासनं च मावुरम् ॥९३ ॥
एकैकया च गदया चक्रे चूर्णं च भद्रकः ।
कालभैरवरुद्रश्च दण्डेन वज्रपट्टिना ॥९४॥
बाङ्गिवलिं दिनोलूकं कुवंशजं कुरेनृकम् ।
दाहयामास दण्डोत्थवह्निना यानमध्यगान् ॥९५ ॥
धोधसादा दुद्रुवुश्च दृष्ट्वा रुद्रान् महोल्बणान् ।
यमदूता विलोक्यैताननुदुद्रुवुरूर्ध्वगाः ॥९६॥
निपत्योत्पत्य तान् सर्वान् जगृहुर्मस्तकेषु च ।
शैलप्राया यमदूता गदाभिर्जघ्नुरम्बरात् ॥९७॥
शैलशृङ्गैर्मुद्गरैश्च भारचक्रैश्च वज्रकैः ।
धोधसादा मृताः सर्वे सहस्रशोऽभिसारकाः ॥९८॥
एकोऽपि नावशिष्टोऽभून्निपेतुस्ते सरोवरे ।
शैलादिः शक्तिमादाय अम्बिकासं च शिर्वमम् ॥९९॥
देषलं कक्रलं चापि ईज्यापातं नबीजकम् ।
जघान बहुधा मारैर्नन्दिना वह्निना सह ॥2.53.१०० ॥
अन्ये रुद्राः शैलतुल्याः प्रलयानलशूलिनः ।
वह्निशूलैर्निर्जघ्नुश्च सुमालिं च सुदानकम् ॥१०१ ॥
त्रिष्वालं रुद्रशिरसं पिलिपं च नमाकुवम् ।
स्वरिरक्षिषया रुद्रशिरा रुद्रेष्वलीयत ॥१ ०२॥
भक्तोऽस्मि च प्रपन्नोऽस्मि नाऽपराद्धं मया मनाक् ।
इत्याह स गणाँस्तत्र ररक्षुस्तं गणास्ततः ॥१ ०३॥
अन्यान् सर्वान् व्यसूंश्चक्रुवह्निशूलैर्भयङ्करैः ।
दिनमेरोऽपि रुद्राणां भक्तोऽभून्नापराधवान् ॥१ ०४॥
तं ररक्षुस्तदा रुद्रगणे रुद्रा दयालवः ।
अथाङ्गुलादप्रभृतिचतुर्विंशतिनायकाः ॥१ ०५॥
विमानं च रणं चापि परित्यज्य समन्ततः ।
कृत्वा प्राकाररूपां च बन्धिकां बहुयुक्तितः ॥१ ०६॥
अभिचारैस्तथा चेन्द्रजालिकैर्बहुविस्तरैः ।
समुत्पाद्य मृषासैन्यसमूहान् व्योमवर्तिनः ॥१ ०७॥
शस्त्रास्त्रमन्त्रसहितान् बहुसमानरूपकान् ।
योधयामासुरत्यर्थं रुद्रैः सह समन्ततः ॥१ ०८॥
जलपाषाणकैर्वृक्षैर्वह्निभृत्पर्वतैस्तथा ।
हस्तिभिर्वाजिभिश्चापि रथैर्यानैर्विमानकैः ॥१ ०९॥
रुद्राः सर्वे तदा दशसहस्राणि विमानतः ।
बहिर्गत्वा च मायाभिः प्रतिहन्त्रीभिरेव ते ॥2.53.११ ०॥
निजघ्नुर्दानवीं मायां शस्त्रास्त्रमन्त्ररूपकैः ।
विद्युदस्त्राणि विद्युद्भिर्मेघास्त्राणि तु वायवैः ॥१११ ॥
अन्यस्त्राणि च मेघाद्यैरीश्वरास्ते न्यवारयन् ।
अथ कल्पलतावृक्षमण्युत्था यमपार्षदाः ॥१ १२॥
हिरण्यकशिपुतुल्यास्ततोऽपि बलिनो हि ते ।
अट्टहासाँस्तु मुमुचुर्ब्रह्माण्डं तैश्च पूरितम् ॥१ १३॥
श्रुत्वा ब्रह्माण्डभेर्युत्थनादतुल्यनिनादकान् ।
जुमासेम्लाख्यनृपतिस्तथा तस्य च सैन्यपाः ॥१ १४॥
नारदाद्याश्च ऋषयो विदित्वा युद्धमुग्रगम् ।
पलमात्रेण तु तत्र विमानं प्रति चाययुः ॥१ १५॥
दृष्ट्वा दैत्यमहासैन्यं नष्टं मायानलेऽपि तु ।
रुद्रैः सह प्रयुध्यन्ति मायेन्द्रजालिनोऽपरे ॥१ १६॥
शम्भुस्तत्राऽकरोन्नैजं ब्रह्माण्डसदृशं वपुः ।
मस्तकस्य जटापाशैर्दैत्यसैन्यं बबन्ध ह ॥१ १७॥
मृषा सैन्यं जटायां संलीनं सर्वं व्यजायत ।
अन्यत् सैन्यं परं त्रासं त्वापमाहात्म्यवेदनात् ॥१ १८॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कापट्यपूर्वा दैत्यानां शरणागतिः, शङ्करादीनां तद्राजधानीं प्रति गमनं स्वागतम्, पृष्ठतो विमाने युद्धं चेत्यादिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ॥५३ ॥