०५१

श्रीकृष्ण उवाच-
शृणु त्वं राधिके दूतो रक्तवार्धिर्महासुरः ।
ययौ चाब्रिक्तदेशस्य जुमासेम्लानृपं प्रति ॥१
क्रमशस्तु यथोक्तं वै श्रावयामास सर्वथा।
नान्वमन्यत दुष्टात्मा भाविनाशप्रणोदितः ॥२ ॥ क्रुद्धौ सन्नह्य सर्वांश्च स्वयं व्योम्नि महाबलः ।
गदामादाय च पुरो विमानस्याऽग्रतोऽभवत् ॥३ ॥ गर्जनां प्रचकाराऽऽदौ नादयन् रोदसी ह्युभे ।
वायुस्तरान् कम्पयँश्च जगाद् कालभाषितम् ॥४ ॥ कोऽयं विमाननेताऽऽस्ते त्वग्रतो भव मत्पुरः ।
परिहाय विमानं च याहि दूरं जिजीविषुः ॥५ ॥ यदीष्टं जीवनं तेऽस्ति क्रियतां वचनं मम ।
याश्चाऽत्र कन्यकाः सर्वाः प्रदीयन्तां द्रुतं च नः ॥६ ॥ कोऽस्ति रुद्रोऽथवा धर्मराजः सनत्कुमारकः ।
क एते भिक्षुकाश्चात्र प्राणनाशार्थमागताः ॥७ ॥ भूत्वा वै तापसाः सर्वे विमानभोगमास्थिताः ।
कन्यकागणसंलुब्धाः कपटाचारवर्तनाः ॥८ ॥ अभोग्यभोगमध्यस्थाः पापमिषस्य बोधकाः ।
गोत्रभिन्ना भवेद् भार्या भिक्षुकाणां गृहे भवेत्॥९ ॥ दुग्धभिन्ना भवेद् भार्या म्लेच्छानां धर्मवर्तिनाम् ।
क्षेत्रभिन्ना इमाः पत्नीर्ग्रहीष्यामो हि कन्यकाः ॥2.51.१ ०॥ हिरण्याक्षस्य वै भार्याशतमासीच्च तासु वै ।
कन्याः सहस्रशो जाताः कुमाराश्च सहस्रशः ॥११ ॥ हिरण्याक्षस्य बीजेन समुत्पन्नाश्च ताश्च ते ।
भिन्नदुग्धाः परस्परं विवाहितास्तदाऽभवन् ॥१२॥ एकमात्रुद्भवा नैव दम्पतीतां व्रजन्ति वै ।
एकपित्रुद्भवा भिन्नगर्भाः सन्ति विवाहिताः ॥१ ३॥ अस्मत्कुलप्रसूतानां रीतिश्चेयं सदा मता ।
ब्रह्मपुत्र्योऽथवा चान्या अमातृजाः प्रिया हि नः ॥१४॥ नारदः प्राह जित्वैव लप्स्यसे कुरु यद्धितम् ।
तच्छ्रुत्वा दानवपतिः क्रोधदीपेक्षणोऽनुगम् ॥१५॥ सान्नाहिकीं रणभेरीं ताडयितुं शशास ह ।
भृत्यस्तु ताडयामास भेरीं बलेन भूयसा ॥१६॥ सस्वान भैरवान् शब्दान् सोन्मत्ता रासभी यथा ।
तथा तन्नादमाकर्ण्य लक्षसङ्ख्या महासुराः ॥१७॥ समाययुः रणं तूर्णं सन्नद्धा युद्धकाङ्क्षिणः ।
पूर्वोक्ताः सैन्यपाश्चापि गजैरुष्ट्रैर्हयैः रथैः ॥१८॥ यानैः स्वल्पविमानैश्च योद्धुं नानायुधैस्तथा ।
विमानं परितो व्यूहैर्व्योम्नि पृथ्व्यां समन्ततः ॥१९॥ शीघ्रं संरोधयामासुर्गर्जयामासुरुत्सुकाः ।
रुद्रः सस्मार चः तदा वह्निं चाप्यथ नन्दिनम् ॥2.51.२०॥ आगतौ तावुभौ शीघ्रं शासनं देहि चाहतुः ।
हरो वह्निं प्राह चाग्ने कृत्वा प्राकारमुज्ज्वलम् ॥२१॥ वह्निज्वालामयं व्योम्नि रक्ष यानं स्थिरो भव ।
वह्निर्विमानमभितो रक्षति स्म तथोदितः ॥२२॥ रुद्रश्च नन्दिनं प्राहाऽऽमन्त्रयाऽत्र गणान् द्रुतम् ।
नन्दी जलमुपस्पृश्य सस्मार गणनायकान् ॥२३॥ सहस्रशो गणा गणाधिपाः शस्त्रास्त्रशोभिताः ।
आययुः रुद्रजातीयाः सहस्राणि दशात्र च ॥२४॥ षण्मुखाश्च समाजग्मुः षट्षष्टिशतसङ्ख्यकाः ।
गणेश्वरा हस्तिमुखाः षट्साहस्राः समाययुः ॥२५ ॥ कालानना गणाश्चान्ये खड्गाङ्गयोधिनस्तदा ।
दिग्वाससः कज्जलाभा दशलक्षाणि चाययुः ॥२६॥ कालाननेभ्यः शम्भुस्तु योद्धुमाज्ञां ददौ द्रुतम् ।
चतुर्नेत्राश्चतुर्हस्ताः श्रीवत्साङ्कितवक्षसः ॥२७॥ समायाताः खगाऽऽरूढाश्चक्रशूलधरा दृढाः ।
वैष्णवाश्च गणास्तत्र लक्षाणि त्वेकविंशतिः ॥२८॥ चतुर्मुखा ब्रह्मगणा दशलक्षाप्तसङ्ख्यकाः ।
आययुर्व्योममार्गेण तेऽस्त्रशस्त्रादिवेदिनः ॥२९॥ अथ युद्धं परं घोरं प्रववृते समन्ततः ।
कालानना महाघोरा निजघ्नुर्म्लेच्छजातिकान् ॥2.51.३०॥ भिद्यमानाश्च बलिभिर्गणाग्र्यैर्दैत्यदानवाः ।
प्रवृत्तास्ते गणान् हन्तुं कूटमुद्गरपाणयः ॥३१॥ ततो व्योम्नि स्मृता देवाः सेन्द्रविष्णुपितामहाः ।
सूर्यचन्द्रवरुणाद्याः समायाता दिदृक्षवः ॥३२॥ अथ कालाननाः सैन्यं निघ्नन्ति दानवीयकम् ।
चतुरङ्गबलं म्लेच्छजातीयं मर्दितं ह्यभूत् ॥३३॥ म्लेच्छाः श्मश्रुधरा गोलैर्महागोलैश्च तूपकैः ।
धूष्कृतीभिर्वज्रघातैर्भूशुण्डीभिश्च छूरकैः ॥३४॥ असिभिः खड्गचर्माद्यैर्भल्लैः शक्तिभिरित्यपि ।
प्रासैश्च तोमरैश्चापि जघ्नुः कालाननान् क्रुधा ॥३५ ॥ कालाननाश्चान्द्रबाणैर्गोलकैर्वह्निजालकैः ।
शरैश्च तूपकाभिश्च धूष्कृतीभिश्च सर्वथा ॥३६ ॥ क्षेपणैर्बहुयन्त्रैश्च जघ्नुः कालानलाँस्तदा ।
कालानना व्योममार्गैः पतित्वोत्पत्य वेगतः ॥३७॥ म्लेच्छेषु गलपाशान् सन्ददुः श्मश्रुषु चानलम् ।
लक्षभटास्तु ते नष्टाः सेनाग्र्या दुद्रुवुस्तदा ॥३८॥ बिगुलान् वादयामासुर्नवसैन्याह्वनाय च।
दशलक्षाणि सैन्यानि त्वसुराणां पुनस्ततः ॥३९॥ आगतान्यभितस्तत्र व्योमयानगमानि वै ।
दारुदाहैस्तदा चूर्णैरापूर्याऽऽपूर्य गोलकान् ॥2.51.४०॥ चिक्षिपुर्दशलक्षेषु तदा ब्रह्मगणेषु वै ।
ब्रह्मगणास्तदा विद्युद्बाणैर्जघ्नुश्च दानवान् ॥४१ ॥ दानवा अपि शैलैश्च वृक्षैर्वारिशिलादिभिः ।
वायुप्रहारकेश्चापि निजघ्नुर्ब्राह्मदैवतान् ॥४२॥ रणदेशे निपेतुस्ते दानवा विगतासवः ।
विद्युत्प्रहारैः सर्वत्र गतप्राणा मृतिं ययुः ॥४३॥ कुक्कटपिच्छमूर्धन्याः शङ्खशृङ्खलभूषणाः ।
घोरखातीचर्मवस्त्रा नीलाञ्चलकटिभ्रमाः ॥४४॥ हरिद्वर्णपटकाढ्या दशलक्षाणि ते मृताः ।
अथ दृष्ट्वा महत्सैन्यविनाशं दानवेश्वरः ॥४५॥ राजा त्वकारयद् भेरीनिनादान् व्योमगर्जनाम् ।
विद्युन्नलीनजाक्रोशान् कोटिसैन्यागमाय वै ॥४६॥ स शब्दो व्यानशे चतुःसमुद्रान्तो महाम्बरे ।
अब्रिक्तदेशीयसैन्यं परितो वायुवेगतः ॥४७॥ एकत्रितं मध्यदेशे परितो वै व्यजायत ।
विजयस्य दीर्घनादा विमानयन्त्रतोऽभवन् ॥४८॥ श्रुत्वा मुमुदिरे देवा म्लेच्छास्त्रासं परं ययुः ।
सैन्यानि परितस्तत्र देवानां विचरन्ति हि ॥४९॥ विश्राम्यन्त्यणिमाद्यैश्च सूक्ष्मा विमानमस्तके ।
एतस्मिन् समये व्योम्नो यथा शलभकोटयः ॥2.51.५०॥ तथा दैत्याः सर्वदिग्भ्यो विमानमभि चाययुः ।
मारयन्तु नाशयन्तु खादयन्तु विमानगान् ॥५१ ॥ अपहरन्तु गृह्णन्तु कन्यकास्तद्धनान्यपि ।
विनश्यन्तु नाशयन्तु प्रध्वंसयन्तु दैवतान् ॥५२॥ छेदयन्तु भेदयन्तु विघ्नन्तु सन्मुखान् भटाः! ।
विमानं कन्यका दिव्या यस्य हस्तगता तु या ॥५३ ॥ तत्सर्वं तु भवेत्तस्य विजेतुरिति निश्चयः ।
इत्येवं नदमानास्ते कोटिसङ्ख्या महासुराः ॥५४॥ विविधैर्यन्त्रमाराख्यैः शस्त्रैश्च गोलिकाक्षिपैः ।
निजघ्नुः परितस्तत्र विमानं वह्निरक्षितम् ॥५५॥ अग्निदेशं समागत्य गोलिका विद्रवन्ति च ।
रसरूपास्तु ता भूत्वा प्रज्वलन्ति घृतं यथा ॥५६॥ दैत्यास्तन्नैव जानन्ति जानन्त्येव तु क्षेपणम् ।
गोलिकानां वृष्टिरूपं विमानघातसिद्धये ॥५७॥ तूपियन्त्रैर्मारयन्ति शतघ्नीभिस्तथाऽपरे ।
आतङ्कयन्त्रैर्निघ्नन्ति त्र्यूरुपीडान् क्षिपन्ति च ॥५८॥ एवं चतुःप्रहरान्तं चक्रुस्ते मारमात्रकम् ।
दैत्या विमानमालक्ष्य निश्चूर्णा नष्टदारुकाः ॥५९॥ विनष्टगोलिकाश्चासन् वह्निः सर्वं व्यनाशयत् ।
विमानं सुस्थिरं चाप्यखण्डितं व्योम्नि वर्तते ॥2.51.६०॥ अथ सैन्यं वैष्णवानामेकविंशतिलक्षकम् ।
चक्रपाशगदाप्रासमुद्गरादिसुशोभितम् ॥६१॥ रुद्राज्ञया न्यपतच्च दैत्यसैन्यस्य कोटिषु ।
सुदर्शनानि चक्राणि लक्षाणि त्वेकविंशतिः ॥६२॥ अव्याहतानि रोषाद्वै प्रयुक्तान्यभवँस्तदा ।
द्विधा छिन्नं हि दैत्यानां सैन्यं कोट्येकमेव तत् ॥६३॥ काँश्चिद् गलेषु चक्राणि स्कन्धयोः कटिपृष्ठयोः ।
सक्थ्नोः कांश्चिद्धस्तयोश्च जान्वोः प्रकोष्ठयोस्तथा ॥६४॥ पादयोर्मध्ययोर्दक्षवामयोर्वामदक्षयोः ।
अर्धनिकृन्तयोर्द्वेधाभूतयोर्विदधुर्व्यसून् ॥६५॥ व्योम्नो निपेतुः पृथ्व्यां ते कोट्यैकसैन्यमित्यपि ।
शलभास्तु यथा वार्धौ तथा ययुर्हि ते लयम् ॥६६॥ अथ शोकातुरो राजा क्षणं मूर्छामवाप ह ।
बहूनां च हतानां वै स्मृत्वा निर्नाथयोषितः ॥६७॥ योद्धुमायान्ति ये तेषां मध्यादेकोऽपि नैव च ।
सप्राणो रणपर्जन्यान्नैवाऽऽयातीति दुःखितः ॥६८॥ अथ क्षणान्तरे सञ्ज्ञामवाप प्राह सैन्यपान् ।
युद्धान्नैवाऽपसर्तव्यं राजधर्मो विलुप्यते ॥६९॥ अजयो वा जयो वाऽस्तु मरणं जीवनं च वा ।
रणापासरणं त्वत्र निकृष्टं नेष्यते मया ॥2.51.७०॥ अथाऽन्यत् कोटिसङ्ख्याकं सैन्यं समाजुहाव सः ।
निशायामपि युद्धस्य विरामो नैव विद्यते ॥७१ ॥ व्याघ्रचर्मधराः शूरा लोहरक्षणरक्षिताः ।
वह्निविद्युत्करयन्त्रा व्योमयानविहारिणः ॥७२॥ कोटिसङ्ख्याकयोधारः सप्ततालोच्छ्रया हि ते ।
आययुः परितस्तत्र विमानं यत्र विद्यते ॥७३॥ दुद्रुवुस्ते विमानं वै नाशयितुं च सन्निधौ ।
वह्निना रक्षकेनैते ज्वलमानाः पराययुः ॥७४॥ असामर्थ्यं तदा तैस्तु ज्ञातं नैजं महत्तरम् ।
पक्षिणोऽप्यम्बरे यान्ति वयं चाऽप्यत्र तादृशाः ॥७५॥ यतो वह्निकृतं दाहं सोढुं शक्ता न वै मनाक् ।
कथं जयमवाप्स्याम इति सन्देहमागताः ॥७६॥ तथापि नृपतेराज्ञा योद्धव्यं सर्वथा भटैः ।
इत्येवं दूरतस्तेऽपि विद्युद्गोलैर्विमानकम् ॥७७॥ लक्ष्यीकृत्य निजघ्नुश्च द्रवन्त्यग्नौ तु गोलकाः ।
आश्चर्यं हि द्वितीयं तद् दृष्ट्वा विमानकोपरि ॥७८॥ ऊर्ध्वं स्थिता ववृषुश्च गोलकान् नाशकारकान् ।
तेऽपि गोला द्रवन्त्येव ज्वलन्त्येव विहायसि ॥७९॥ वह्निना रक्षकेनैव विमानं त्वक्षतं सदा ।
अथ ताँश्च तदा हन्तुं षटसहस्रगणेश्वरान् ॥2.51.८०॥ हस्तिशुण्ढमयान् देवान् पाशपर्शुधनुर्धरान् ।
शक्तिप्रासाऽणुगोलाढ्यान् मन्त्राक्तकुशवज्रिणः ॥८ १॥ प्रेषयामास रुद्रश्च क्षणात्ते तेभ्य ऊर्ध्वगाः ।
अन्तरीक्षे ययुः शीघ्रं जघ्नुः शस्त्रैश्च गोलकैः ॥८२॥ कोटिसङ्ख्यान् म्लेच्छदैत्यान् दैत्याः पेतुस्तदाऽनले ।
हन्यमाना न वै शक्ताः समन्ताच्च गणेश्वरैः ॥८३॥ धावितुं प्राभवँस्तेन वह्नौ पेतुः प्ररक्षके ।
पातमात्रेण भस्माख्या व्योम्न्येव तेऽभवँस्ततः ॥८४॥ नामशेषाः पुनर्द्रष्टुं राजानं चापि नाऽऽगताः ।
इत्येवं कोटियोद्धारो ययुस्तत्र क्षयं पुनः ॥८५॥ अस्थिशेषं न च प्राप्तं महानलेन भक्षिताः ।
अहो आशा बलवती गर्विणां क्षयकारिणी ॥८६॥ सैव कालस्य दुहिता जराया अग्रजा त्विव ।
ज्ञाते सर्वविनाशे च राजा धैर्यं मुमोच ह ॥८७॥ गन्तुं स्वभवनं तस्मात् स्थानाद् यावत् समिच्छति ।
तावत् सेनापतिर्योऽभूद् रक्तवार्धिस्तथाऽपरः ॥८८॥ रौद्रवाष्पो ह्युभावेतौ राजानं प्राहतुः क्षणम् ।
न गन्तव्यं न गन्तव्यं राज्ञा युद्धान्निवृत्य वै ॥८९।.
यावद्वै विद्यते सैन्यं यावद्बलं च पार्श्वयोः ।
यावद्बलं च भुजयोः सैन्यपाः सन्ति चाऽक्षताः ॥2.51.९०॥ यावत् तावन्न गन्तव्यं रणाद् गृहं कथञ्चन ।
अथ युद्धं करिष्यामो जेष्यामो यानकन्यकाः ॥९ १ ॥ इत्युक्त्वा रणतूर्याणि नादयामासुरुग्रगाः ।
विद्युद्वाद्यानि चोग्राणि विद्युद्वंशाँश्च भूरिशः ॥९२॥ वादयामासुरत्यर्थं सैन्याऽऽवाहनबोधकान् ।
श्रुत्वा सैन्यं दशकोटिसङ्ख्याकं परितोऽभवत् ॥९३ ॥ एकत्रितं क्षणात्तत्र मध्यदेशे सरोऽभितः ।
कर्मघ्नपर्वतादग्रे यावच्चन्डसरस्तथा ॥९४।
कर्माङ्गों च नदीं यावत् यावच्छ्वेतनरायणीम् ।
त्रिराशिपर्वतं यावद् दशकोटिभटाश्रयम् ॥९५।
स्थलं युद्धमहाभूमिस्तदा वै समजायत ।
तुङ्गानीकसरसश्च यावन्न्याससरस्तथा ॥९६
कोटिसैन्यं भस्मसाद्वै जातमेत्पुराऽम्बरे ।
तस्य प्राक च कालहरिरणादासाम्बपर्वतम् ॥९७॥ विज्ञतुरीयसरितस्तीरे तु दशलक्षकाः ।
हतास्तत्र ततः प्राक् च द्राक्षाबीजाद्रिपश्चिमे ॥९८॥ वालनद्यास्तटे लक्षं हता दैत्या हि राधिके! ।
एवमेते दशकोटिभटा विद्युत्कृताऽस्त्रकाः ॥९९॥ वह्निमन्त्रविदश्चापि नाशं यातुं समागताः ।
युयुधुस्ते वह्नियन्त्रैर्विद्युद्गोलैस्तथाऽस्त्रकैः ॥2.51.१ ००॥ मन्त्रकृतैः पुत्तलैश्च व्योम्नि विमानसन्निधौ ।
वह्निदेवेन ते सर्वे कृत्रिमा भस्मसात्कृताः ॥१० १॥ अथैते प्रेषयामासुर्विमानानि द्युमन्ति च ।
यत्र विद्युन्महागोला यन्त्रपुत्तलिकास्तथा ॥१ ०२॥ यन्त्राश्वा यन्त्रवाहाश्च यन्त्ररथाश्च ताम्रजाः ।
यन्त्राणां हेतयश्चापि विद्युत्ताम्रकृतास्तथा ॥१ ०३॥ तैः कृतैः साधनैश्चैता भटानां दशकोटयः ।
युयुधुर्निर्भया वह्नेर्वह्नेः प्राकारमध्यमाः ॥१ ०४॥ वह्निमुल्लङ्घ्य च गतास्तदा तत्र विमानिषु ।
हाहाकारो ह्यभूत् तावच्छम्भुरुत्थाय वाडवम् ॥१ ०५॥ अनलं प्राह गच्छैतान् भस्मसात्कुरु सत्तम ।
तावत्प्रलयकालीनसदृशोत्थस्तु वाडवः ॥१ ०६॥ शिखाः प्रसार्य परितः कोटिरूपधरोऽभवत् ।
लेलिह्यमानः सर्वास्तान् योद्धृँश्च पुत्तलाँस्तथा ॥१ ०७॥ चकार भस्मसात् स्पर्शाद् दशकोटिभटान् क्षणात् ।
ज्वालामुखो यथा व्योम्नि पर्वतो वा रविर्ग्रहः ॥१ ०८॥ नाशं प्राप्तो यथा ज्वालामयो ब्रह्माण्डसदृशः ।
विशालः स्याद् वह्निमयस्तथा दृश्यमदृश्यत ॥१ ०९॥ दशकोटिभटास्तत्र दग्धा वाडववह्निना ।
दुद्रुवुश्च बहिस्तस्मात् प्राणरक्षणकाम्यया ॥2.51.११ ०॥ तदा तेषां निरोधार्थं कार्तिकेयं महाबलम् ।
सार्धषट्कृतसाहस्रं नागपाशैर्न्यरोधयत् ॥११ १॥ अनिर्गमाश्च ते तत्र भस्मीभूतास्ततोऽभवन् ।
येषामस्थि न वा केशा न शिरांसि न नाडिकाः ॥१ १२॥ गम्यं लभ्यं च किमपि तत्र दाहे त्वभूत् किल ।
एवं विनष्टा योद्धारो राधिके! वीरमानिनः ॥१ १३॥ प्रातर्जातं ततो राधे! मायारूपधराः पुनः ।
राजाज्ञया सुसज्जाश्च योद्धुं मन्त्रैरुपाययुः ॥१ १४॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशे ब्रह्मविमानेन योधिनागरम्लेच्छाश्चैकादशकोटयश्चैकादशलक्षाणि च नष्टाश्चेत्यादिनिरूपणनामा एकपञ्चाशत्तमोऽध्यायः ॥५१ ॥