श्रीकृष्ण उवाच-
शृणु त्वं राधिके! पश्चाद् राजा सिद्धिसमाश्रितः ।
पत्तनं रचयामास सोमवेलाह्वयं महत् ॥१ ॥
यत्र सौवर्णसौधाँश्च दशसहस्रसङ्ख्यकान् ।
रौप्यसौधाँस्तावतश्च मणिसौधान् सहस्रशः ॥२ ॥
उद्यानानि विचित्राणि वाटिकाः पद्मसारसीः ।
कारयामास बहुधा वासयामास देवताः ॥३ ॥
कल्पवल्लीं ददौ तत्र प्रत्येके चालये ततः ।
यक्षान् किम्पुरुषान् बन्दीन् चारणान् भूसुरांस्तथा ॥४ ॥
मानवान् वासयामास कोटिशो देवसदृशान् ।
एवं कृत्वा सोमवेलाभिधं द्वादशगोपुरम् ॥५ ॥
नगरं पश्चिमे भागे सोमतीर्थान्मनोहरम् ।
ततः श्रीसोमनाथस्य सौवर्णं मन्दिरं पुनः ॥६ ॥
कारयामास जीर्णं चोत्तार्य वै नूतनं महत्॥
सहस्रहस्तोच्छ्रायं च साप्तभौमं च गोपुरम् ॥७ ॥
पञ्चाशद्धस्तविस्तारं शिखरं पर्वतोपमम् ।
तत्र देवः सोमनाथो व्योमस्थो राजतेऽश्रितः ॥८ ॥
सुवर्णशृङ्खलाबोध्यो घण्टो यत्र विराजते ।
दशयोजनसंश्रावः शतभारगुरुत्ववान् ॥९ ॥
शतमानवसम्बोध्यो यन्त्रमात्रेण शब्दितः ।
यस्य शिखरकलशः सौवर्णः सप्तभागवान् ॥2.44.१० ॥
पञ्चाशद्धस्तकोच्छ्रायः सूर्यसन्निभभासुरः ।
पञ्चाशद्धस्तकध्वजो दण्डोऽस्य शतहस्तकः ॥११ ॥
यत्राऽभ्राणि प्रतिष्ठन्ति चातुर्मास्ये निरन्तरम् ।
यत्र स्थितो मनुष्यश्च हंसवत् प्रविलोक्यते ॥१२ ॥
तत्र भोगान् ब्राह्मणाँश्च योजयामास पूजने ।
विशेषतश्च राजाऽसावन्नसत्रं बबन्ध ह ॥१३ ॥
यत्राऽयुतं च नारीणां नराणामयुतं तथा ।
पञ्चायुतानि बालानां बालिकानां तथैव च ॥१४॥
भुञ्जते मिष्टमिश्राणि घृतान्नानि च नित्यशः ।
एवं रणेगमो राजा यज्ञपुण्यप्रभावतः ॥१५॥
अनादिश्रीकृष्णनारायणस्योपास्तिवैभवात् ।
लोकपाल इवासीद्वै पृथ्व्यां विमानगोऽभवत् ॥१ ६॥
अथायं पौषपूर्णायां ययौ वै दक्षिणां दिशम् ।
पारेसमुद्रं यानेन वैहायसा प्रवीक्षितुम् ॥१ ७॥
दक्षिणं तु ध्रुवं द्रष्टुं ययौ चाग्रे महाबलः ।
भोज्यपानं दासवर्गं वेषं कल्पलतां तथा ॥१८ ॥
साधनानि सह नीत्वा ययौ विमानगोऽम्बरे ।
सौराष्ट्राद् दक्षिणं देशं सिंहारण्यं विलोक्य च ॥१ ९॥
शतयोजनकं देशं क्रान्त्वा चाग्रे ययौ नृपः ।
समुद्रं च ददर्शाऽसौ दक्षिणां दिशमाश्रितम् ॥2.44.२० ॥
तत्र ददर्श च लाक्षादीपद्वीपं सुशोभनम् ।
ततश्चाग्रे ययौ व्योम्ना मालद्वीपं ददर्श सः ॥२१ ॥
तं दृष्ट्वा प्रययौ व्योम्ना स्वेष्टद्वीपं ददर्श सः ।
तं विलोक्याऽभितः पश्चान्मुरशेषाभिधं शुभम् ॥२२ ॥
द्वीपं चालोकयामास यत्राऽभवन्मुराऽसुरः ।
स च योद्धुं समायातो व्योम्ना रणङ्गमेन वै ॥२३ ॥
कल्पवल्ल्या समुत्पाद्य वारुणं पाशमुल्बणम् ।
राज्ञा चाऽऽबद्ध्य च दैत्यः प्रक्षिप्तः सागरे तदा ॥२४॥
यथाकञ्चित् प्राणेन सहितः स्वालयं ययौ ।
अथ राजा ययौ चाग्रे द्वीपे कुरुजटं तदा ॥२५॥
ददर्श परितस्तत्र जटायूमानवान् ततः ।
ययावग्रे विमानेन ददर्शाऽऽन्तरबीजकम् ॥२६।
द्वीपं शीतमयं यत्र मकरास्या हि मानवाः ।
प्रायशो जलवासाश्च राज्ञा तेनावलोकिताः ॥२७॥
ततो ययौ विमानेन वैहायसेन दक्षिणाम् ।
दिशं तत्र ददर्शाऽयं पृथ्वीं श्वेतां सुवर्तुलाम् ॥२८॥
अप्करकां सशैवालां रूपवच्च प्रभान्विताम् ।
यत्र चापोमयीभूश्च देहिनः श्वेतभास्वराः ॥२९॥
अप्करकादनाः सर्वे जले शैलनिवासिनः ।
नरा नार्यो झषाकारा जलपांशुसहाः सदा ॥2.44.३०॥
पिबन्तश्च जलं शीतं खादन्तो जलशर्कराम् ।
शैवालं जलपाकाँश्च भुञ्जन्तो निर्वहन्ति ते ॥३ १ ॥
गृहाणि जलपाषाणैः कृतान्यत्र वसन्ति च ।
शीतचन्द्रसमाभासा जलोत्थाऽमृतभोजनाः ॥३ २॥
एवंविधान् जनान् पश्यन् ददर्श दक्षिणं ध्रुवम् ।
प्रथमं कारकीं भूमि ततो द्रष्टुं व्यवर्तत ॥३३॥
विमानस्थेन राज्ञा सा वर्तुला वीक्षिता क्षितिः ॥
जलरूप्यमयी सर्वा वृक्षहीना वसुन्धरा ॥३४॥
यत्र मेघाः सदा सन्ति सूर्यतापो न विद्यते ।
सामुद्रप्रस्तराः सन्ति धातवः करकामयाः ॥३५॥
रसश्चामृतमिष्टो वै जलीयः करकोद्भवः ।
जलं शैवालपुटिका जलपत्राणि वल्लयः ॥३६॥
श्वेतवर्णाः श्वेतफलाचन्द्रखण्डनिभाश्च ताः ।
जलशाकानि भोज्यानि जलपाषाणजा गृहाः ॥३७॥
सामुद्रक्षारकरका जलानां मिष्टशर्कराः ।
जलपाषाणकन्दाश्च भोज्यास्तन्मानवैः सुखैः ॥३८॥
एतत् सर्वं विलोक्यैव वारुणं भवनं तथा ।
दक्षिणध्रुवगोलस्य मध्यबिन्द्वाश्रयं स्थलम् ॥३९॥
विलोक्य पुनरायाच्च राजा रणङ्गमस्तटम् ।
तत्र कम्पप्रदेशं च ततः कटिसरं पुरः ॥2.44.४०॥
विलोक्य सर्वतः पश्चाद् राजसं च प्रदेशकम् ।
ददर्श चाग्रतो गत्वा देशं तु कन्यकालयम् ॥४१ ॥
ततश्चाग्रे ददर्शाऽसौ काणाक्षं सुप्रदेशकम् ।
ततोऽप्यग्रे ददर्शाऽयं सग्रीवं देशमुत्तमम् ॥४२॥
अद्रिघ्नं च ततो देशं ददर्श जलशैलजम् ।
यातदेशं च वीक्षारिप्रदेशं स ददर्श ह ॥४३॥
ग्रीष्मशून्यकदेशं च कुस्थदेशं ततः परम् ।
ध्रुवबिन्दुं विलोक्यैव ददर्शाऽन्तार्किवर्तुलम् ॥४४॥
एवं भूगृह्यदेशं तं शीतमात्रकृतास्पदम् ।
शीतलं संविलोक्यैव तस्माद् यावन्निवर्तते ॥४५॥
तावद् भूतलगर्भाच्च श्वेतपर्वतसदृशः ।
पुमान् कश्चित् समायातो राधिके व्योममार्गगः ॥४६॥
अनन्तवीर्यो ब्रह्माण्डोदरवासः कुटुम्बवान् ।
श्वेतवर्णः श्वेतवस्त्रः श्वेततेजप्रभान्वितः ॥४७॥
श्वेतश्मश्रुः श्वेतरसः श्वेतशैलगदायुतः ।
यन्मस्तकेऽलगन् मेघाः पादयोः श्वेतपर्वताः ॥४८॥
यत्कट्यां श्वेतशैवाला यन्मुखे स्तनयित्नवः ।
यच्छब्दो दक्षिणध्रुवमभिव्याप्य प्रवर्तते ॥४९॥
विद्युद्वेगा गतिर्यस्य श्वासः समुद्रकम्पनः ।
अट्टहासं दिशामन्तेष्वभिव्याप्य निवर्तते ॥2.44.५०॥
रणङ्गमश्च तं दृष्ट्वा भयं चावाप वै क्षणम् ।
तावत्स शुक्लपुरुषश्चाऽऽजुहाव रणङ्गमम् ॥५१ ॥
एह्येहि दिव्यदेव! त्वं वैहायसविहारकृत् ।
किं ते भयं नु मत्तोऽस्ति कल्पवल्लीश्रितस्य वै ॥५२॥
अनादिश्रीकृष्णनारायणो यस्य हृदि स्थितः ।
तादृशस्त्वं महाभक्तो बलवान् राजसे भुवि ॥५३॥
धन्योऽसि राजन्परमेश्वराश्रय-
स्त्वम्भौतिकोऽपीश्वरनाथदृष्टितः ।
विराजसे देववदीश्वरः स्वयं
पारङ्गतस्त्वं भवसागरस्य यत् ॥५४॥
आगच्छ मद्धाम पुनीहि मामकं
गृहं सदा भूमिसुगर्भवासितम् ।
मया सदाऽऽराध्यत एव यस्त्वया
रणङ्गमाऽऽराध्यत ईश्वरेश्वरः ॥५५॥
अहं हि शेषस्य सुवंशजो जनो
वसामि गर्भेऽत्र हि लक्ष्मणाभिधः ।
अनादिनारायणकृष्णबालकं
भजामि नित्यं ससमस्तबान्धवः ॥५६॥
गृहाण सत्कारमनुत्तमं मया
कृतं तथा चार्पय दर्शनं तव ।
निवेदयिष्येऽर्चनयोग्यकोपदा-
स्ताबालकृष्णाय च दातुमर्हसि ॥५७॥
नमो नमस्ते मम नाथभक्त नमो नमस्ते परमात्मवेदिन् ।
नमो नमस्ते परमेशभक्त महाक्रतुकृद् भवते नमोऽस्तु ॥५८ ॥
इत्येवं राधिके तेन लक्ष्मणेन सुसत्कृतः ।
वाग्भिर्विश्वासमापन्नो रणङ्गमः स्थिरोऽभवत् ॥५९॥
तावच्छ्रीलक्ष्मणस्तत्र रूपं कृत्वा तु मानवम् ।
सौम्यं सुरूपं भक्तस्य विश्वास्यं तिलकान्वितम् ॥2.44.६०॥
वैष्णवं तुलसीयुक्तं गृणन्तं कृष्णनाम च ।
ननाम परया प्रीत्या रणङ्गमोऽतिभावतः ॥६१ ॥
लक्ष्मणश्चाह पश्यात्र विश्वासार्थं च मे हृदि ।
अनादिश्रीकृष्णनारायणो विराजते प्रभुः ॥६२॥
रणङ्गमो ददर्शाऽस्य हृदये परमेश्वरम् ।
अनादिश्रीकृष्णनारायणं चाश्वसरःस्थितम् ॥६३॥
राधापतिं प्रभेशं पारवतीशं सुमञ्जुलम् ।
लक्ष्मीशं हंसनाथं च श्रीमद्गोपालनन्दनम् ॥६४॥
सगुणेशं कम्भरालालितं भक्तविनोदकम् ।
दिव्यकटकमुकुटोर्मिकाहारविभूषितम् ॥६५॥
कोटिकन्दर्पशोभाधिरूपरूपानुरूपितम् ।
उज्ज्वलं मन्दहास्यस्थं पश्यन्तं तु रणङ्गमम् ॥६६ ॥
एवंविधं तद्धृदये विलोक्य स्वेष्टमाधवम् ।
रणङ्गमो महाभक्तो विश्वासमगमत्पुनः ॥६७॥
ततः स लक्ष्मणं नागं नरमानवरूपिणम् ।
विमाने हस्तमादायाऽऽरोहयामास सत्वरम् ॥६८॥
तेन दर्शितमार्गेण विमानं वाहितं निजम् ।
प्राप्तं पृथ्वीगुप्तबिन्दुं जलपाषाणभूगतम् ॥६९॥
दक्षिणध्रुवगोलस्य मुखस्य सन्निधौ महत् ।
विवरं तत्र चायातं भूगर्भं गन्तुमेव च ॥2.44.७०॥
वर्तुलं योजनमानं श्वेतनागैः सुरक्षितम् ।
शीतपाषाणसोपानं शीतप्राकाररक्षितम् ॥७१ ॥
लक्ष्मणाऽऽदिष्टमार्गेण विमानं विवरान्तरे ।
विवेश क्षणतो यत्र जयशब्दास्तदाऽभवन् ॥७२॥
द्वारपानां महाशब्दैर्भूगर्भे चान्तराम्बरे ।
विद्युन्मणिप्रकाशानां चन्द्रप्रभासमुज्ज्वले ॥७३ ॥
कन्याभिर्वर्धितं लाजैः पूजितं पुष्परत्नकैः ।
विमानं चान्तरे देशे गत्वा पृथ्व्यामवातरत् ॥७४॥
तत्र वै पृथिवी रम्या श्वेता कृष्णा च पाण्डुरा ।
ओषधयश्च विविधा द्रुमाः फलसुशोभिताः ॥७५ ॥
सस्यानां स्मृद्धयश्चापि स्वर्णवर्णा विलोकिताः ।
नद्यो नदा वाटिकाश्च दीर्घिका जलपूरिताः ॥७६ ॥
अमृतैः सम्भृताः कूपा रणङ्गमेन लोकिताः ।
गावः श्वेताः पाण्डुराश्च सपक्षा व्योमगास्तथा ॥७७॥
कामरूपधराश्चान्ये पशवो दुग्धदास्तदा ।
विलोकिता नरा नार्यः सर्वे भूषाविभूषिताः ॥७८॥
उज्ज्वलाश्चन्द्रसदृशा मणिहारविराजिताः ।
शीताश्चन्द्रनिभाः सर्वे पद्मपत्रनिभेक्षणाः ॥७९॥
सुरूपाः पिङ्गनेत्राश्च रक्तनखोष्ठपत्तलाः ।
वहिशुद्धांऽशुकाः सर्वे दृढाः श्वेतान्नभोजनाः ॥2.44.८०॥
यथा भूपरि भागेऽस्मिन् वर्तते सर्वथाऽत्र च ।
तथा तत्राऽपि राजा स विभूतीन् सन्ददर्श ह ॥८ १॥
प्रासादाः श्वेतवर्णाश्च सर्वोपकरणानि च ।
नगराणि सुराज्यानि पर्वता जलभूमयः ॥८२॥
श्वेताः सर्वा मनुष्याश्चेत्यालोक्य विस्मयं गतः ।
लक्ष्मणेन विमानं तन्महानगरसम्मुखम् ॥८३॥
चालितं यत्र पुष्पाढ्योद्यानानि सुबहून्यपि ।
परितः सन्ति सौधाश्च प्रासादाः पर्वतोपमाः ॥८४॥
तत्राऽस्योच्छ्रयभूभागे प्राकारान्तरशोभितः ।
लक्ष्मणस्य तु राज्ञो वै प्रासादः पर्वतोपमः ॥८५॥
लक्ष्मणाभिधवर्णाऽङ्कोऽन्तरीक्षे ध्वजशोभितः ।
शतभौमो राजते यो दृष्टो रणङ्गमेन वै ॥८६ ॥
विमानं लक्ष्मणेनात्रोद्यानाङ्गणेऽवतारितम् ।
तदा वाद्यान्यवाद्यन्त राजरीत्या हि राधिके ॥८७॥
जयशब्दाः सैन्यपाला राज्यवच्चोपतस्थिरे ।
राजधानी स्वर्गसमा रणङ्गमेन लोकिता ॥८८॥
भूगोलस्यान्तरे भागे सृष्टिं दृष्ट्वाऽतिमानुषीम् ।
आश्चर्यं परमं प्राप रणङ्गमो जहर्ष च ॥८९॥
अथ वै लक्ष्मणो निन्ये रणङ्गमं सभान्तरे ।
यत्र वै शतराज्ञ्यश्च कन्यकाद्विसहस्रकम् ॥2.44.९०॥
कुमाराः पञ्चसाहस्रा वर्तन्ते लक्ष्मणस्य ह ।
लक्ष्मणेन सभामध्ये पुण्ये सिंहासने स्थितः ॥९१॥
प्रतिष्ठितो देवहर्म्ये कृष्णनारायणः प्रभुः ।
स्वर्णप्रतिमास्वरूपो दर्शितो भगवान् हरिः ॥९२॥
रणङ्गमाय च ततोऽर्घ्यं मधुपर्कमुत्तमम् ।
ददौवमृतपानं सुपुष्पहारादिकं ददौ ॥९३॥
अथ सिंहासने सौम्ये न्यषादयच्च तं ततः ।
कन्यैका पुष्पमालां सङ्गृह्य तत्र निदेशतः ॥९४॥
समायाता ददर्शैनं रणङ्गमं शुभास्पदम् ।
स्वागतार्थं ललाटेऽस्य कुङ्कुमाऽक्षतचन्द्रकम् ॥९५॥
चक्रे ददौ पुष्पमालां कण्ठेऽस्य च करे ददौ ।
गुच्छं सुगन्धपुष्पाणां चक्रे सुगन्धकोक्षणम् ॥९६॥
युवानं वैष्णव रक्तवर्णं दृढं च सुन्दरम् ।
दृष्ट्वा सा कन्यका नाम्ना मालिनी यौवनोद्भरा ॥९७॥
मुमोह मनसा श्रेष्ठं वरं मेनेऽनुरूपकम् ।
अथाऽयं लक्ष्मणो ज्ञात्वा ददौ रणङ्गमाय ताम् ॥९८॥
सापि भक्तं पतिं लब्ध्वा मुमुदे हृदि सर्वथा ।
अथाऽयं श्रीकृष्णनारायणमन्त्रं जगाद ताम् ॥९९॥
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ।
लक्ष्मणार्यस्तदा कृष्णनारायणं पुनर्मुदा ॥2.44.१० ०॥
प्रसस्माराऽतिभावेन धन्यं मत्वा निजं गृहम् ।
तावच्छ्रीभगवाँस्तत्राऽनादिकृष्णनरायणः ॥९० १॥
विदित्वा भक्तसद्भावं प्रत्यक्षः सम्बभूव ह ।
दिव्यकिशोररूपश्च सर्वलावण्यशेवधिः ॥१ ०२॥
युगपत्सूर्यसाहस्राधिकतेजोविराजितः ।
रूपानुरूपावयवः सभायां प्रकटोऽभवत् ॥१०२ ॥
उत्थिताः सहसा सर्वे नेमुर्नारायणं प्रभुम् ।
तेजसा छन्ननेत्रास्ते क्षणं तस्थुर्जडा इव ॥१ ०४॥
शीघ्रं तेजोविमलत्वे दत्तासनः प्रभुर्हरिः ।
लक्ष्मणार्यकृतां पूजां जग्राह दिव्यवस्तुभिः ॥१ ०५॥
निवेदितान्नं मिष्टान्नं जलं ताम्बूलकं तथा ।
जग्राह सुहसन् कृष्णनारायणस्तु तत्क्षणम् ॥१ ०६॥
स्वस्तीत्युक्त्वा कुशलं ते कल्याणं शाश्वतं तव ।
वदँस्तिरोऽभवच्छीघ्रं कन्यकास्तु सहस्रशः ॥१ ०७॥
मुग्धास्तं श्रीहरिं दृष्ट्वा वव्रिरे मनसा पतिम् ।
अभिप्रायं पिता ज्ञात्वा मनसा हरयेऽर्पयत् ॥१ ०८॥
अथ यात्रा निमित्तेन प्रयाणं प्रचकार सः ।
लक्ष्मणार्यः कुमारैश्च कन्याभिर्मातृभिः सह ॥१ ०९॥
गृहीत्वा कोटिरत्नानि स्वर्णरूप्यधनानि च ।
मणिमाणिक्यमुक्ताश्च रणङ्गमविमानकम् ॥2.44.११ ०॥
अध्यारुरोह सुखतः कृत्वा राज्यममात्यसात् ।
कामगे सङ्कल्पमात्राद् विस्तृते योजनायते ॥१११ ॥
भूद्वारनिर्गमयोग्ये रणङ्गमो रुरोह च ।
सभास्थानं महापुण्यं यत्र श्रीभगवान् स्वयम् ॥१ १२॥
प्रत्यक्षोऽभूत्परं तीर्थं नत्वा तूर्णं विहायसा ।
देशं विसृज्य भूद्वारान्निर्गम्याऽन्ताऽर्किवर्तुलम् ॥११३ ॥
जलपाषाणदेशं तं समुल्लङ्घ्याऽन्तरीक्षके ।
समद्रोपरि दीर्घं तद्विमानं वेगवद्ध्यभूत्॥१ १४॥
यथा सूर्यः समायाति यद्वा चन्द्रः प्रयाति च ।
दृष्टं जलस्थलावासैः राधिके द्योतयद् दिशः ॥१ १५॥
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रणङ्गमस्य दक्षिणध्रुवदर्शनार्थं विमानेन गतस्य अन्तार्किवर्तुलदेशमध्ये भूविवरे प्रविष्टस्य लक्ष्मणार्यकृतस्वागतं प्रभोर्दर्शनं लक्ष्मणस्य राज्ञः सकुटुम्बस्य तद्विमानेन यात्रार्थं पृथ्व्यागमनप्रयाणं चेत्यादिनिरूपणनामा चतुश्चत्वारिंशोऽध्यायः ॥४४ ॥