०४२

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! राजा कन्थाधरो हि नित्यशः ।
नारीयोगादभवच्च नास्तिकः स्वार्थतत्परः ॥१ ॥ घोषयामास नगरे दुरात्मा वेदनिन्दकः ।
न दातव्यं न यष्टव्यं न होतव्यं कदाचन ॥२ ॥ अहमेकोऽत्र वै वन्द्यः पूज्योऽहं भवतां सदा ।
मया वै पालिता यूयं निवसध्वं प्रजाः सुखे ॥३ ॥ तन्मत्तोऽन्यो न देवोऽस्ति युष्माकं य-प्परायणम् ।
मह्यं देयं च हवनं हव्यं दानं च दक्षिणा ॥४ ॥ राजाऽहं लोकपालोऽहं प्रजापालोऽहमेव च ।
दाता धाता विधाता च प्रजानामहमेव च ॥५ ॥ प्राणदाता सस्यदाता धन्यदाताऽहमेव च ।
सुखदो दण्डदश्चापि रक्षाप्रदोऽहमेव च ॥६ ॥ मन्मुखं वह्निरेवाऽस्ति देयं तत्रैव नाऽनत्ठे ।
मत्कर१ पात्रमूर्धन्यौ दानं तत्रैव युज्यते ॥७ ॥ करो दानं न तु भिक्षा करो देयो हि नीतिजः ।
वस्त्राणि पशवो गावो महिष्योऽजाऽविकादिकम् ॥८ ॥ धनं सर्वं प्रदेयं मे यत्पुनश्च प्रजाकृते ।
दुर्भिक्षादौ प्रयुज्येत प्रजानां सुखहेतवे ॥९ ॥ एतच्छ्रुत्वा तु वचनं ब्राह्मणा ब्रह्मदर्शिनः ।
प्रजावृद्धाश्च विद्वांसो वेदनेत्रा विदुत्तमाः ॥2.42.१ ०॥ परस्परं सुसम्भूय राजशिक्षार्थमाययुः ।
प्रणिपत्य च राजानं सत्कृता वाक्यमब्रुवन् ॥१ १॥ श्रुतिः प्रमाणं धर्मस्य ततो यज्ञः प्रतिष्ठितः ।
यज्ञैर्विना प्रियन्ते न देवाः सस्यप्रदा दिवि ॥१२॥ अप्रीतेषु च देवेषु दुर्भिक्षं सम्प्रजायते ।
प्रजानाशो भवेद् राजन् देशविप्लव इत्यपि ॥१३ ॥ तस्माद् राजन् भूतशान्तिर्ग्रहशान्तिस्तथा सदा ।
देवतृप्तिः पितृतृप्तिर्विधातव्या महाध्वरैः ॥१४॥ यज्ञो नैव निरोद्धव्यः श्रुतिमूलो यतो मखः ।
वह्निमुखाः सदा देवास्तर्पणीयाः सुखप्रदाः ॥१५ ॥ इत्युक्तोऽपि नृपः कन्थाधरोऽमन्यत नैव च ।
वेदान् विनिन्द बहुधा प्रतारणपरा इति ॥१६ ॥ विप्राः स्वार्थपरा धूर्तकल्पिता वेदराशयः ।
द्विजा मिष्टान्नलुब्धाश्च वहिमुद्दिश्य देवताः ॥१७॥ किञ्चित्प्रक्षिप्य वह्नौ च स्वयं मिष्टानि भुञ्जते ।
दक्षिणाधनपात्राणि गोवाजिकरिणः स्वयम् ॥१८॥ गृह्णन्ति तन्निमित्तेन तस्मात्स्वार्थपरा हि ते ।
मूर्तिस्थो नैव देवोऽस्ति न भुङ्क्ते नाऽस्य रोचते ॥१ ९॥ विप्रो देवस्तु प्रत्यक्षः सर्वं यदस्य रोचते ।
देवं निमित्तमुद्भाव्य मिष्टान्नं मिष्टवारि च ॥2.42.२०॥ आभूषणं पुष्पामालां भुङ्क्ते गन्धं च भूसुरः ।
गोदानं दुग्धपानं च शय्यादानं गृहार्पणम् ॥२ १ ॥ वाटिका देवतार्थं या भुङ्क्ते सर्वं च भूसुरः ।
यानं पात्राणि रम्याणि छत्रं चामरवाहनम् ॥२२॥ मृद्वास्तरणं भोग्यानि भुङ्क्ते सर्वं तु भूसुरः ।
रसान् फलानि पक्वान्नान्युत्तमानि च ॥२३ ॥ दासान् दासीश्च भृत्याँश्चोपभुङ्क्ते पूजको द्विजः ।
तस्मात् स्वार्थपरा विप्रा मखमुद्दिश्य भुञ्जते ॥२४॥ अतो नैव हि यष्टव्यं दातव्यं नैव नैव च ।
इत्याज्ञा हृड्डकायिन्या राज्ञ्या मे वर्तते दृढा ॥२५॥ उल्लङ्घ्यैता कामकारो मद्दण्डभाग्भविष्यति
इत्येवं डिण्डिमा राज्ञा राष्ट्रे सर्वत्र कारिता ॥२६॥ तत आरभ्य देवानां पूजा मखा न चाऽभवन् ।
दुर्भिक्षं चाऽभवत्तेन प्रजाश्च दुःखपीडिताः ॥२७॥ प्रसह्य प्रबला द्रव्यं निर्बलानां हरन्ति च ।
राजा च विषयासक्तो रक्षाकार्यं करोति न ॥२८॥ कालवेगात् तदा राष्ट्रं विपरीतमभूत् खलु ।
दण्डः सिद्धिप्रदः शम्भोस्त्यक्त्वा भूपं तिरोऽभवत् ॥२९॥ तदा राजा शुशोचाऽति मम नष्टं हि जीवनम् ।
ऐश्वर्यं विगतं चापि देवानामवमाननात् ॥2.42.३० ॥ प्रजा रुष्टाश्च धान्यार्थं रुरुधुर्भूभृदङ्गणम् ।
धान्यं गृहीत्वा प्रययुस्ततो द्रव्यं गवादिकम् ॥३ १ ॥ राज्यस्मृद्धिं प्रजह्रुश्च प्रजाश्चातीव निर्धनाः ।
अथ कन्थाधरस्तस्य पत्नी च हृड्डकायिनी ॥३ २॥ उभौ भयात् प्रययतुररण्यं चातिदुःखितौ ।
तयोश्चासीत् कुमारस्तु वर्षमात्रोऽतिकोमलः ॥३३ ॥ ब्राह्मणास्तं प्रजह्रुश्च रक्षणार्थं निजालयम् ।
विमानं दिव्यदण्डश्च दिव्योपकरणानि च ॥३४॥ विगतानि निजं स्थानं राज्यं शून्यमभूत्तदा ।
पुण्यपुञ्जे वर्धिते तु वर्धन्ते वै विभूतयः ॥३५॥ पुण्यनाशे विनश्यन्ति देवानामस्य का कथा ।
राधिके स नृपोऽरण्ये कालधर्ममुपागतः ॥३६॥ अन्नं जलं परित्यज्य मृताऽपि हृड्डकायिनी ।
वार्धेस्तीरे म्लेच्छजन्माऽवापतुस्तौ च नास्तिकौ ॥३७॥ निकटे तौ भाग्ययोगादुत्पन्नौ दुःखभागिनौ ।
कुमारो द्वादशवर्षोऽभवद् रणङ्गमाऽभिधः ॥३८॥ सोपवीतो विप्रवाक्यैर्ज्ञात्वा पितृविचेष्टितम् ।
असद्गतिं वने चापि चिन्तयामास वै मुहुः ॥३९॥ विद्याभ्यासं विधायैव राज्यभारवहोऽभवत् ।
तं योग्यं च परं मत्वा धर्मकार्यपरायणम् ॥2.42.४० ॥ अभ्यषिञ्चन् ब्राह्मणास्तं राजानं भूमिपालकम् ।
ततः स रञ्जयामास प्रजा धर्मेण पालयन् ॥४१॥ यज्ञं चकार धर्मात्मा देवपूजामवर्तयत् ।
ततो ब्राह्मणमध्यस्थो जगाद प्रणिपत्य तान् ॥४२॥ पिता मम तथा माता यज्ञविच्छेदकारकौ ।
मृतौ वने क्रिया तयोः कथं कार्या मया द्विजाः ॥४३॥ आवेदयत इत्येवं ब्राह्मणानां च सन्निधौ ।
तेजसा भासमानश्च स्वयम्प्रकाशनामकः ॥४४॥ अनादिश्रीकृष्णनारायणशिष्यो विहायसा ।
सोमक्षेत्रं प्रयास्यन् वै कोटीनारमवातरत् ॥४५॥ विप्रान् विलोक्य सहसा तान्प्रत्यभ्याजगाम ह ।
तस्मै ते त्वासनं दत्वा पप्रच्छुः प्रणिपत्य च ॥४६॥ धन्या वयं समये च प्राप्ता महर्षिदर्शनम् ।
लोकानां दुःखनाशार्थं श्रेयोऽर्थं चरणं तव ॥४७॥ भगवन् सर्वलोकस्य जानासि त्वं शुभाशुभम् ।
साक्षादनादिकृष्णस्य शिष्योऽसि हृदयङ्गमः ॥४८॥ पिताऽस्य राज्ञो दुष्टात्मा देवब्राह्मणनिन्दकः ।
स्वधर्मरहितः पत्निसहितोऽरण्यमाश्रितः ॥४९॥ वने मृत्युं गतो भाति क्वास्ते वा पापकर्मणा ।
कथं तस्य भवेन्मुक्तिर्वद बालोऽस्य पृच्छति ॥2.42.५०॥ स्वयं प्रकाशो दिव्यात्मा ज्ञात्वा दिव्येन चक्षुषा ।
कुङ्कुमवापिकास्थं श्रीकृष्णं स्मृत्वाऽब्रवीदिदम् ॥५ १॥ पश्चिमाऽब्धितटे चास्ते राजा राज्ञीयुतः खलु ।
म्लेच्छमध्ये समुत्पन्नः क्षयकुष्ठसमन्वितः ॥५२॥ तस्योद्धारश्च कर्तव्यः पुत्रेणाऽनेन सर्वथा ।
पुत्रः स कथ्यते लोके यः पितृँस्त्रायते भयात् ॥५३॥ गच्छतु तत्र पुत्रोऽयं म्लेच्छं नीत्वा सभार्यकम् ।
अश्वपट्टसरस्तीर्थे कृष्णनारायणाश्रिते ॥५४॥ तस्य देहं तीर्थजले करोतु निर्मलं ततः ।
निष्पापः सप्रियो मुक्तिं प्रयास्यति न संशयः ॥५५॥ स्वयम्प्रकाशवचनं श्रुत्वा विप्रा प्रजाजनाः ।
रणङ्गमं कुमारं तं प्राहुर्याहीति तं प्रति ॥५६॥ कुमारः स च विप्रैश्च परिमेयपुरःसरैः ।
सहितः प्रययौ चाब्धितटं यत्र पिता स्थितः ॥५७॥ स गत्वा पश्चिमं स्थानं म्लेच्छाश्रयं द्रुमान्वितम् ।
मकरालयनामाढ्य मार्गयामास किङ्करैः ॥५८॥ ददृशुः किङ्करास्तं च कुष्ठिनं क्षयरोगिणम् ।
ददृशुस्तां हृड्डकिनीं सकुष्ठां क्षयरोगिणीम् ॥५९॥ उभौ जातिस्मरौ चास्तां प्रतीक्षमाणौ पुत्रकम् ।
उद्धारकं चागतं संश्रुत्वाऽतिमुदितौ तदा ॥2.42.६ ०॥ म्लेच्छो म्लेच्छी सोत्सुकौ च किङ्करैः सह सत्वरम् ।
आययतुर्यत्र चास्ते कुमारस्तु रणङ्गमः ॥६ १ ॥ रुरुदतुश्च तं वीक्ष्योद्धारं प्रति पुनः पुनः ।
प्रार्थयामासतुस्तत्र तस्थतुस्तस्य सन्निधौ ॥६२॥ पुत्रस्तौ कुष्ठिनौ वीक्ष्य तथा क्षयसमन्वितौ ।
स्वयं शोकेन महता सन्तप्तो वाक्यमब्रवीत् ॥६३ ॥ आज्ञां पित्रोस्तु युवयोः समादाय नयाम्यहम् ।
अश्वपट्टसरस्तीर्थं करिष्यामि निरामयौ ॥६४॥ अथाऽनयोः पितृवर्गे गत्वा राजाऽब्रवीदिदम् ।
हा म्लेच्छा नौमि वश्चात्र कुष्ठिनौ द्वाविमौ जनौ ॥६५॥ चिकित्सार्थं क्षयस्यापि स्वगृहं च नयाम्यहम् ।
तत्राऽहमेतौ निरुजौ करिष्ये, चेद् भवन्मतम् ॥६६॥ तथेति सर्वतो म्लेच्छाः कुमारं तं दयापरम् ।
ऊचुः प्रणतसर्वाङ्गा यथा जानासि तत् कुरु ॥६७॥ तत आनीय पुरुषान् शिबिकावाहनान्वितान् ।
द्वौ पूर्वपितरौ राजा शिविकायां न्यषादयत् ॥६८॥ राजा चानुचराश्चापि विप्राश्च प्रातरेव ह ।
प्रययुः सत्वरं सायं चाश्वपट्टसरो ययुः ॥६९॥ ऋषिः स्वयम्प्रकाशोऽपि चाश्वपट्टाश्रमं ययौ ।
नृपाद्यास्तु निजं स्थानं विदधुर्वटसन्निधौ ॥2.42.७०॥ पश्चिमे तु तटे चास्य सरसो वायुदिग्भुवि ।
रात्रौ सर्वे तीर्थभूमौ चक्रुर्विश्रान्तिमुत्तमाम् ॥७१॥ राजा विप्राश्च तौ प्रातः स्नापयितुं सरोवरे ।
समुद्यतास्तदा वायुरन्तरीक्षेऽब्रवीदिदम् ॥७२॥ मा राजन् साहसं कार्षीस्तीर्थं रक्ष प्रयत्नतः ।
इमौ पापेन घोरेण सर्वविधेन वेष्टितौ ॥७३॥ वेदनिन्दाकरौ देवद्रोहिणौ यज्ञनाशकौ ।
धर्मनाशकरौ पापौ पापान्तो नैव विद्यते ॥७४॥ पाते सरस्यनयोस्तु सरः शुष्कं भविष्यति ।
इमौ स्नातौ महत्तीर्थं नाशयिष्यत उल्बणौ ॥७५॥ तस्मान्नैतौ सरस्तीरे जले समवगाहय ।
एतद् व्योमवचः श्रुत्वा दुःखेन महताऽन्वितः ॥७६॥ उवाच शोकसन्तप्तो व्योमवाणीं प्रति प्रभो! ।
यद्येतौ घोरपापिष्ठौ स्नानार्हौ नैव नैव च ॥७७॥ प्रायश्चित्तं करिष्येऽहं तयोरर्थे वद प्रभो ।
ततो वायुश्च देवाश्च तीर्थान्यपि समन्ततः ॥७८॥ अभिलक्ष्य च राजानं सर्वे वचनमब्रुवन् ।
स्नात्वा स्नात्वा च तीर्थेषु अश्वसरःस्थितेषु च ॥७९॥ मुहुस्त्वमभिषिञ्चस्व तीर्थकलशवारिभिः ।
आगसां लुम्पनं यावत् तयोः स्यात् तावदेव ह ॥2.42.८०॥ स्वार्थपोषयितुर्देवदूषयितुर्जनस्य वै ।
सकृत् स्नानेन शुद्धिर्न जायते कुत्रचित्क्वचित् ॥८ १॥ तस्मादेतौ समुद्दिश्य स्नात्वा तीर्थेषु भक्तितः ।
अभिषिञ्चस्व तोयेन मुहुः पूतौ भविष्यतः ॥८२॥ इत्येवं वचनं श्रुत्वा कृत्वा तत्राश्रमं ततः ।
तीर्थे तीर्थे मुहुः स्नात्वा समानीय घटे जलम् ॥८३ ॥ दिने दिने च तीर्थेषु कृत्वा चाप्लवनं नृपः ।
अभ्यषिञ्चत् स्वपितरौ तीर्थतोयेन नित्यशः ॥८४॥ एवं तीर्थजलैः सर्वैरभिषिक्तौ पुनः पुनः ।
अश्वतीर्थस्य माहात्म्यात् तौ पुत्रेण च पावितौ ॥८५॥ निष्पापौ तु यदा जातौ तीर्थान्याहुस्तदा नृपम् ।
एतौ पवित्रौ परमौ सरसि चावगाहय ॥८६ ॥ इत्युक्तो रणगो राजा वैशाखे तावगाहयत् ।
नियतौ तत्क्षणाज्जातौ दिव्यदेहसमन्वितौ ॥८७॥ म्लेच्छता लयमापन्ना दिव्यप्रभा प्रवर्धिता ।
कन्थाधरो विमानस्थो सस्त्रीको देवताऽभवत् ॥८८॥ अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।
तुष्टाव परया प्रीत्या विमानस्थोऽतिहर्षितः ॥८९॥ परब्रह्म परोद्धारकृपानुग्रहविग्रह ।
तव शिष्येण ऋषिणा तारितौ पापिनौ प्रभो ॥2.42.९०॥ पुत्रेण तारितौ चापि त्वयाऽपि तारितौ हरे ।
तोयैश्च तारितौ दुष्टौ परोपकृतिशालिभिः ॥९ १ ॥ विप्रैश्च तारितौ घोरात्तमसोऽज्ञानवैभवात् ।
नारकी तारितौ कृष्णनारायण तवाऽऽश्रयात् ॥९२॥ परेश्वराय हृत्स्थाय विप्रस्थाय च ते नमः ।
स्वयम्प्रकाशरूपाय तीर्थात्मकाय ते नमः ॥९३॥ नमः शरण्यदेवाय पापिप्राणहिताय च ।
श्रितमोक्षाय बालाय बालकृष्णाय ते नमः ॥९४॥ त्वप्प्रतापात् तरन्त्येव यक्षराक्षसपन्नगाः ।
दैत्याश्च दानवा दुष्टा आसुरास्तामसास्तथा ॥९५॥ मायिका वासनायुक्ता गर्विष्ठाश्चाभिमानिनः ।
व्यवायिनः पिशितादाः स्तेना आसवपायिनः ॥९६ ॥ वर्णसङ्करकाराश्च गोस्त्रीहत्याकरास्तथा ।
त्वत्प्रतापात्तरन्त्येव कृपानुग्रहशेवधेः ॥९७॥ आवां च तारितौ यामस्तव धामाऽमृतं प्रभो ।
इत्युक्त्वा प्रणिपत्यैतौ पुत्र स्वस्ति तवाऽस्तु च ॥९८॥ दत्वाऽऽशिषो ययतुश्च लोमशस्याऽऽश्रमं प्रति ।
‘ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा’ ॥९९॥ इतिमन्त्रं लोमशाच्च गृहीत्वा तुलसीस्रजम् ।
परमौ वैष्णवौ भूत्वा ययतुर्वैष्णवं पदम् ॥2.42.१०० ॥ आश्चर्यं परमं प्राप्तास्तैर्थिकाश्च कुटुम्बिनः ।
यदत्र स्नानमात्रेण मुक्तिर्जाता हि शाश्वती ॥१०१ ॥ अनादिश्रीकृष्णनारायणस्येयं दया परा ।
राधिके प्रबलेच्छा च करुणा प्रबला हरेः ॥१ ०२॥ यत्र मुक्तावभवतां कन्थाध्रो हृड्डकायिनी ।
कन्थाध्रं तत्परं तीर्थं ख्यातिमापद्धरातले ॥१०३ ॥ रूपद्वयं दधाराऽथ देवी सा हृङ्डकायिनी ।
छायारूपा ययौ नैजं पितरं यमराजकम् ॥१ ०४॥ यमराजाऽऽज्ञया सा चाऽभवत् हिक्कास्वरूपिणी ।
सर्वप्रजासु नियतावासं चकार योगिनी ॥१ ०५॥ द्वितीयेन स्वरूपेण दिव्या हृच्छायिनी सती ।
मुक्तिमार्गं गता दिव्यपतिना साकमेव सा ॥१ ०६॥ मुक्तिभावं गता साऽपि पितृमार्गानुगामिनी ।
हिक्कारूपा वासनया छायारूपा बभूव ह ॥१ ०७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने
कन्थाधरस्य हृड्डकायिनीपत्नीयोगेन नास्तिक्यं, वेदकर्मादिनिरोधेनैश्वर्यनाशे वने मरणं म्लेच्छजन्म, पुत्रेण रणङ्गमेनाऽश्वपट्टसरस्तीर्थे कृतोद्धारश्चेतिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ॥४२ ॥