०३६

श्रीकृष्ण उवाच-
अथाऽन्यत्ते प्रवक्ष्यामि चमत्कारं हरेः शृणु ।
पञ्चमे वत्सरे माघे गुरोर्बलं विलोक्य तु ॥१ ॥ गत्वा श्रीलोमशस्याग्रे बालकृष्णस्य शोभनम् ।
पिता हि विधिवद् विद्यारम्भं तेनाऽप्यकारयत् ॥२ ॥ लक्ष्मीं नारायणं सरस्वतीं वेदानपूजयत् ।
गणेशस्याऽर्चनं कृत्वा घृतहोमं चकार सः ॥३ ॥ विप्रान् सम्भोजयामास गोदानानि चकार च ।
सरस्वती प्रसन्ना वै साक्षात्तदा समागता ॥४ ॥ मयूरासनशोभाढ्या हस्ते वीणां निधाय च ।
चतुर्दशस्वरूपाभिर्विद्याकन्याभिरर्चिता ॥५ ॥ सर्वाभूषणवस्त्रालङ्कारशोभासमन्विता ।
अनादिश्रीकृष्णनारायणं समर्च्य शारदा ॥६ ॥ बालकृष्णेऽदृश्यभावमुपागता हरेः प्रिया ।
ततस्तस्यास्तु याः सख्यः श्रुतयः स्मृतयस्तथा ॥७ ॥ आख्यायिकाश्च कवितास्तर्कशक्तिश्च काण्डिकाः ।
मिमांसाश्च समाधिश्च विविक्तिश्च कथास्तथा ॥८ ॥ मान्त्रिकी तान्त्रिकी चापि यान्त्रिकी भौतिकी तथा ।
कलाश्च गणनाश्चापि विन्यासाश्च क्रियास्तथा ॥९ ॥ रासायनी कल्पना च साङ्ग्रामिकीन्द्रजालिका ।
ज्योतिर्मयी ऋचः साम्नी चाथर्वी च यजुर्मयी ॥2.36.१०॥ शाब्दी छान्दसी नैरुक्ती कार्षेयी लेखिनी तथा ।
सामुद्री वायवी चापि स्वाप्नी मोहिनी शाकुनी ॥१ १॥ शारीरिकी मानसी च जैवेयी सामरी तथा ।
सञ्जीवनी च वैवर्ती चार्तवी धातवी तथा ॥१२॥ चिकित्साऽस्त्रमयी दिव्या संहारिणी च पोषणी ।
शिल्पिनी भूस्तरी तत्त्वशोधिनी खनिमार्गिणी ॥१३॥ वैद्यती बहुभवनी सीवनी गर्भवेदिनी ।
द्राविणी मूर्छिनी चैवमाद्या विद्याश्च कन्यकाः ॥१४॥ धावल्यकान्तिधारिण्यश्चम्पकाभाः किशोरिकाः ।
सरस्वतीमनु कृष्णे विविशुः प्रतिमात्मिकाः ॥१५॥ एवं बाले गुरोद्वारा विद्याप्राप्तिरभूत्तदा ।
तथापि लोकरीत्यैव रेखाऽभ्यासं तदाऽकरोत् ॥१६॥ अक्षराणां च शब्दानामभ्यासं च तथाऽकरोत् ।
वेदशास्त्रादिविद्यानां निधानं दृश्यते जनैः ॥१७॥ अथ ताः कन्यकाः सर्वाः सेवन्ते बहिरेव तम् ।
अन्तर्हितास्तु वर्तन्ते सेवन्ते चान्तरे सदा ॥१८॥ प्राविर्भूताश्च वर्तन्ते सेवन्ते कान्तमेव तम् ।
शारदायास्तु ताः सख्यो वव्रिरे श्रीनरायणम् ॥१ ९॥ अनादिश्रीकृष्णबालं परमेशं पतिं प्रभुम् ।
समूर्तास्ताः सदा न्यूषुर्लोमशस्याश्रमे शुभाः ॥2.36.२०॥ कृष्णनारायणस्यैवाऽऽज्ञया विद्याः सुशोभनाः ।
नित्यं बालः प्रयात्येवाभ्यसनार्थं गुरुं प्रति ॥१ ॥ लोमशस्तं सदा प्रातरध्यापयति सार्थकम् ।
गृह्णाति लोकवत् कृष्णो गुरुस्तुतोष चाप्यति ॥२२॥ सेवां गृह्णाति कन्यायां ततो याति गृहं निजम् ।
अथैकदा देवगुरुः समायाल्लोमशाश्रमम् ॥२३ ॥ बालकृष्णो ननामैनं बृहस्पतिं सुरेडितम् ।
वृहस्पतिस्तदा बुद्धिपरीक्षार्थं हरेः खलु ॥२४॥ सन्निधौ लोमशस्यैव पप्रच्छ तर्कसम्मितम् ।
गुञ्जाभारसुवर्णस्य कति मूल्यं भवेद् वद ॥२५॥ बालः प्राह स्थिरं चेत् स्याद् गुञ्जैकमात्रमूल्यकम् ।
यदि स्यान् नैकधा नित्यं क्रयविक्रययोजितम् ॥२६॥ स्वत्वानि परिवर्तन्ते यावत्सङ्ख्यानि तत्र तु ।
तावद्गुणं ददात्येव वस्तु भिन्नं विभिन्नकम् ॥२७॥ लक्षवर्षं कोटिवर्षं यावद्धस्तगतं भवेत् ।
तावद्गुणं भवेन्मूल्यं तस्मादनन्तमूल्यकम् ॥२८॥ गुञ्जामात्रं सुवर्णं तत् तदेव परिवर्तते ।
तत्क्रीतं नूतनं वस्तु नूतनं नूतनं मिलेत् ॥२९॥ एवमनन्तमूल्यं तत् सुवर्णं मीयते गुरो ।
श्रुत्वैवं चोत्तरं गुरुस्तुतोष तार्किकं च तम् ॥2.36.३० ॥ आशीर्भिर्योजयामास सर्वज्ञः सर्वविद् भव ।
कौमारं पञ्चामाऽब्दान्तं पूर्णं भवतु पुष्टिदम् ॥३१ ॥ विद्योदययुतं स्तात्ते पौगण्डं दशमावधिम् ।
कैशोरमापञ्चदशान्महोदयपरं तव ॥३२॥ ततः परं यौवनं ते त्वनन्तानन्दभृद् भवेत् ।
शाश्वतं जीवनं तेऽस्तु सनातनस्वरूपता ॥३३॥ इत्येवमाशिषो दत्वा प्राप्य पूजां तदा कृताम् ।
पप्रच्छ श्रीहरिं यास्यन् वराटकं महासुरम् ॥३४ ॥ पश्चिमाब्धितटस्थं च तपन्तं तप उत्तमम् ।
अहिंसन्तं वदन् सत्यं व्रतमस्तेयमास्थितम् ॥३९॥ ब्रह्मचर्यपरं सर्वपरिग्रहविवर्जितम् ।
शोचान्वितं च सन्तुष्टं स्वाध्याये च रतं सदा ॥३६ ॥ ब्रह्मपरं समिच्छन्तं राज्यं सौराष्ट्रभूमयम् ।
समुद्रोत्थं सालमालासुरपुत्रं बलाधिकम् ॥३७॥ भगवन्नत्र सौराष्ट्रे पश्चिमाब्धितटान्तिके ।
तपत्युग्रं राज्यलब्ध्यै सालपुत्रो वराटकः ॥३८ ॥ पञ्चाग्नीँस्तपति ग्रीष्मे शिशिरे तिष्ठते जले ।
वर्षास्वेव तथा चास्ते वाय्वाहारो निरन्तरम् ॥३९॥ शिरो भूमौ चाम्बरे च पादौ कृत्वा दिवानिशम् ।
ओमितिव्याहरन्नास्ते राज्यार्थं स महासुरः ॥2.36.४० ॥ इन्द्रेणैतत्तपो ज्ञात्वा प्रेषितोऽहं व्रजाम्यतः ।
उपदेक्ष्यामि तं तादृग् यतस्तपो निवर्तते ॥४ १ ॥ उपदेशय मां तादृक् तन्निवृत्तिर्यथा भवेत् ।
अनादिश्रीकृष्णनारायणोऽसि परमेश्वरः ॥४२॥ देवानां रक्षकश्चाऽसि दैत्यानां दमनप्रदः ।
तद्यथा देवशूलोऽयं राज्यं नाऽऽसादयेत्तथा ॥४३ ॥ शाधि मां भगवन् गत्वा करिष्यामि च तत्तथा ।
श्रुत्वैव भगवानाह श्रीमत्कृष्णनरायणः ॥४४ ॥ इच्छाम्यहं च दैत्यस्य तपोरोधो यथा भवेत् ।
साम्ना दैत्यो वारणीयो गुरो तद्योग्यबोधिना ॥४५॥ कथयामि दैत्यधर्मान् दैत्यज्ञानक्रियादिकम् ।
त्वया ब्राह्मणरूपेण ह्युपदेशः प्रदीयताम् ॥४६॥ प्रायो दैत्या आसुराश्च दानवा इन्द्रियतृपाः ।
देहात्मवादमाश्रित्य वर्तन्ते कामकारतः ॥४७॥ दैत्यानां तु बलं धर्मो युद्धात्सम्पत्समर्जनम् ।
प्रसह्य हरणं कृत्वा स्वायत्तीकरणं तथा ॥४८ ॥ पराक्रमं दैत्यधर्मस्तपो धर्मो विरागिणाम् ।
तस्मात्तपसः प्रच्याव्य देहधर्मान्निबोधय ॥४९॥ देवधर्मविरोधं च नास्तिक्यं पापशून्यताम् ।
हिंसनं च पुरस्कृत्य दैत्यधमान्निबोधय ॥2.36.५० ॥ प्रत्यक्षं च प्रमाणं वै परलोको न विद्यते ।
तपःफलं सदा फल्गु तथा तं वै निबोधय ॥५ १ ॥ ईश्वरः पक्षपाती च देवानां हितकारकः ।
दैत्ये कापट्यमादाय विरुद्धोऽस्तीति बोधय ॥५२॥ वरदानेऽपि राज्येऽपि चान्ते दैत्यविनाशकः ।
परमेशश्च दैत्येन घात्य एवेति बोधय ॥५३ ॥ इत्येवं च समादिष्टो गुरुर्वृहस्पतिः स्वयम् ।
नत्वा कृष्णं हृदि कृत्वा लोमशं सम्प्रणम्य च ॥५४॥ ययौ वराटकं दैत्यं पश्चिमाऽब्धितटस्थितम् ।
विप्रो भूत्वाऽम्बरादेवाऽवततार महामुनिः ॥५५॥ तेजसा प्रज्वलन् सौम्यः प्रसादेन समन्वितः ।
ध्यानमग्नोऽभवद् दैत्यो भूमिकोऽम्बरपादवान् ॥५६॥ विप्रो विलोकयामास श्रद्धाकष्टसहं क्षणम् ।
ततः शनैर्जगादैनं वराटक! प्रपश्य माम् ॥५७॥ तव कामप्रपूर्त्यर्थं समागतोऽस्मि चाऽम्बरात् ।
पश्य वरय भद्र ते किमिच्छसि वदाऽधुना ॥५८॥ त्वयि सर्वं बलवति वर्तते पश्य मां द्विजम् ।
किमनेन महाघोरकष्टदेन तव प्रियम् ॥५९॥ कर्तव्यं तपसा तद्धि यदसाध्यं बलात् किल ।
बलसाध्यं बलेनैव चाप्तव्यं बलधर्मिणा ॥2.36.६०॥ इत्युक्तः स द्विजं दृष्ट्वा मनसा प्रणनाम ह ।
उवाच वद मे सर्वं देहि तथेप्सितं वरम् ॥६ १ ॥ वृहस्पतिस्तदा तं तु राधिके समबोधयत् ।
किमिच्छसि वद कष्टं कथं समुह्यते न्विदम् ॥६२॥ आगतोऽस्मि वरं दातुं ब्राह्मणोऽहं सनातनः ।
श्रुत्वा वराटकः प्राह स्वागतं द्विज तेऽस्तु वै ॥६३॥ राज्यार्थं तु करोम्येतत्तपः परमदारुणम् ।
शाधि मां प्रतपन्तं च वरं देहि तथाविधम् ॥६४॥ यथा सौराष्ट्रराज्यं च प्रविन्दामि सुखप्रदम् ।
श्रुत्वा बृहस्पतिः प्राह शृणु दैत्य बली भवान् ॥६५॥ कथं कष्टं हि सहसे तपो धर्मो विरागिणाम् ।
राज्ञां धर्मस्तु समरो निर्बलानां वृषस्तपः ॥६६॥ सबलस्त्वं तपस्त्यक्त्वा समाचर पराक्रमम् ।
उद्यमेन प्रसिद्ध्यन्ति बलिनां वै मनोरथाः ॥६७॥ तपसा निर्बलानां च धर्मेण यज्विनां तथा ।
सैन्येन तु नृपाणां वै विद्यया विदुषां तथा ॥६८॥ रोदनेन तु बालानां मोहनेन तु योषिताम् ।
कृच्छ्रेण तु पराधीनवृत्तीनां सेवनादिभिः ॥६ ९॥ प्रायोपवेशनेनैव प्रजानां नृपतिं प्रति ।
शत्रूणां घातनेनैव सिद्धिर्भवति वै द्विषाम् ॥2.36.७०॥ एवं सर्वं समालोक्य यत्नं त्वं बलवान् कुरु ।
अन्यः कश्चित्प्रदाता मे तपसेति मतिं त्यज ॥७ १ ॥ भूत्वा वै बलिनां श्रेष्ठः कृच्छ्रं सहसे यद्वृथा॥ शरीरं बलहीनं स्याद् भोगयोग्यं न वै भवेत् ॥७२॥ परदत्तं प्रभुञ्जानः प्रशस्यते न सर्वथा ।
क्षुधया त्विन्द्रियग्रामः शैथिल्यं विन्दति द्रुतम् ॥७३ ॥ वार्धक्यं जायते शीघ्रं यद्वा नाशोऽपि जायते ।
तस्मात् क्षुधां परित्यज्य देहपुष्टिं विधत्स्व वै ॥७४॥ पुष्टिरेव परो धर्मो भोगा मोक्षः परोऽत्र वै ।
आनन्दः सुखवैपुल्यं स्वर्गं वै जीवतः स्मृतः ॥७५ ॥ भोगहीनं गतं चायुर्दिनं वा व्यर्थमेव तत् ।
देहनाशे कथं सौख्यं विगतं न हि लाभकृत् ॥७६ ॥ मृत्युत्तरं न चायाति वाङ्मात्रकल्पितं फलम् ।
अनेन यन्न वै दृष्टं परेण दृश्यते कथम् ॥७७॥ अत्र योग्येऽपि भुक्तं न चायोगे भुज्यते कथम् ।
ग्रहकाले परित्यागं मूर्खो मुख्यं समीहते ॥७८ ॥ शरीरं चेन्द्रियं जीवमनादृत्य स्वकं सुखम् ।
कष्टं सहते पापात्मा स्वघाती स तु गीयते ॥७९॥ सुखघातश्चात्मघातो नरकं दुःखवेदनम् ।
नरकं त्वं परित्यज्य निवर्तस्वात्मघातनात् ॥2.36.८० ॥ केनाऽयं दोरकस्तेऽत्र प्रग्राहितस्तपोमयः ।
आत्महिंसामयो व्यर्थः पापोद्वेगाऽद्यशेवधिः ॥८१ ॥ देहिना देहसंसृष्टं मन्तव्यं सत्यमेव च ।
देहसंसर्गहीनं तु सर्वमसत्यमेव यत् ॥८२॥ रागोत्सवाश्च भोगाश्च देहे सत्येव सन्ति हि ।
भोगाभावस्तपस्तत्तु जरठानां स्वभावजम् ॥८ ३ ॥ बलेन प्राप्यते लक्ष्मीः पृथ्वी युद्धेन चाप्यते ।
भाग्येन चाप्यते नारी सम्पदुद्यमतो मता ॥८४॥ जन्मतो मरणान्तं च जीवनं न पुनर्भवः ।
दृष्टः केनापि तस्मात् त्वं तपो हित्वा सुखं व्रज ॥८५॥ जन्मतो जीव इत्युक्तो मरणे मोक्ष उच्यते ।
द्वयोर्मध्ये सुखं स्वर्गं देहश्चात्माश्रयो मतः ॥८६ ॥ विविधा विषयास्तत्र भोक्तव्या नित्यदाऽसुर ।
विना भोगं गतं चाऽहस्तदेव हानिकारकम् ॥८७॥ गतं तत्तु गतं नैतत् पुनरायास्यति क्वचित् ।
अभुक्तं च गतं दाने गतं तद् विफलं निजम् ॥८८॥ निजसौख्यप्रदं यत्तत्सफलं स्वस्य सौख्यदम् ।
न करोति स्वयं यत्नः कोऽन्यस्तस्मै प्रदास्यति ॥८ ९॥ तस्मादुत्तिष्ठ दुखात्त्वं यत्नं कुरु वराटक ।
पुण्यं तु सुखदं कर्म भोगात्मकं च तन्मतम् ॥2.36.९० ॥ कुरु कर्म सुखदं वै मा तपो दुःखदं कुरु ।
प्रसुप्तस्य मुखे नैव कवलं जायते स्वतः ॥९१ ॥ प्रयतस्य करेऽवश्यं समायाति धनादिकम् ।
नहि कश्चित्फलदाता न च कश्चित्परेश्वरः ॥९२॥ आत्मनो न परः कश्चित् कं परं त्वं प्रतीक्षसे ।
त्यज सर्वं चेन्द्रजालं कुरु सन्नाहमुल्बणम् ॥९३ ॥ बहुसैन्यान्वितो भूत्वा स्वायत्तीकुरु मेदिनीम् ।
को निजः कः परश्चेति यद्भोग्यं तन्निजं मतम् ॥९४॥ यदभोग्यं परं तत्तु तद् बलादर्जयेद् बुधः ।
अभ्युदयेऽनुकूला ये ते धर्मा वस्तुतो मताः ॥९८६॥ तत्र ये प्रतिकूलास्ते परिहार्याः प्रयत्नतः ।
अनुकूलान् दैत्यवर्यान् सङ्गृह्य राज्यमर्जय ॥९६ ॥ सुखं भुक्ष्व परं श्रेष्ठं दैत्याँश्च सुखिनः कुरु ।
यदि ते रोचते वाक्यं दमनं दैत्य चिन्तय ॥९७॥ शुक्राचार्यं तथा चान्यान् मिलित्वा बलमाप्य च ।
ईशमन्यान् विजयस्व दानवीयं वृषं चर ॥९८॥ मृषा पूजा मृषा ध्यानं संयमोऽपि मृषैव च ।
मृषा व्रतं मृषा पापं मृषा स्वानुपयोगि च ॥९९॥ मृषा चेशो मृषा चाऽऽस्था मृते सर्वं मृषा मृषा ।
मृषा चाऽऽशा निष्फला या मृषा वाणी ह्यनर्थिका ॥2.36.१०० ॥ मृषा बलं विना शौर्यं मृषा शौर्यं विना मतिम् ।
मृषा मतिर्दुःखफला मृषा सर्वं नपुंसके ॥१० १॥ यदि चेत्त्वं पुमानास्से मैतन्मृषाऽनुगो भव ।
यत्नसाध्यं कुरु शीघ्रं मा मृषा मद्वचः कुरु ॥१ ०२॥ पिपीलिकाश्च कीटाश्च यतन्ते ऋतुमाश्रिताः ।
कणान् सङ्गृह्य बलतो भुञ्जते शीतपीडिताः ॥१ ०३॥ सिंहा विक्रममासाद्य लब्ध्वा वन्यगजादिकम् ।
बलेन भुञ्जते मेदं मेदिनीं भुङ्क्ष्व तत्तथा ॥१ ०४॥ भूमिर्नारी च सम्पच्च यत्नं विना न लभ्यते ।
यशः शौचं साधुता च तपो विना न लभ्यते ॥१ ०५॥ अन्यसाधनत तत्त्वं साधनान्तरतो न वै ।
विचार्य त्वं यथेष्टं वै कुरु दानवपुङ्गव ॥१०६ ॥ हंसा मानसरस्त्यक्त्वा समुद्रं यान्ति यत्नतः ।
मौक्तिकानां भोजनानि लभन्ते च वियन्ति च ॥१ ०७॥ काका अपि पर्युषितं लभन्ते यत्ननोदिताः ।
नीडे गता नाप्नुवन्ति चालसा इव मानवाः ॥१ ०८॥ कर्षुका यतमानास्तु लभन्ते सस्यजं फलम् ।
नहि तत्तपसा लभ्यमन्नं राज्यं च कामना ॥१० ९॥ मुखे धृतं घृतं मिष्टरसं पुष्टिं ददाति हि।
नहि वह्नौ घृत तृप्तिं ददाति भस्मतां गतम् ॥2.36.११० ॥ त्वं कथं यौवनं वीर्यं बलं शून्ये जुहोषि वै ।
किं फलं लप्स्यसे तत्र चोषरे तपआत्मनि ॥१११ ॥ तस्मादुत्तिष्ठ विज्ञानं मया दत्तमुपाश्रय ।
धर्मं दानववर्याणां गृहाण त्यज रोगिणाम् ॥११२ ॥ इत्युक्तो दानवस्तेन गुरुणा राधिके क्षणम् ।
विचार्य च तपस्त्यक्त्वा कृतार्थोऽस्मीत्यभाषत ॥११३ ॥ यदहं बोधितः सत्ये निराशापरिपन्थिनि ।
वरं देहि यथाहं स्यां भूभृत् तथा कृपां कुरु ॥११४ ॥ तथाऽस्त्विति गुरुः प्राह तपस्तत्याज दानव ।
विप्रो बृहस्पतिस्तुष्टस्तपोरोधनसत्फलः ॥११५ ॥ जगाद दानवैर्युक्तः समारभस्व मेदिनीम् ।
स्वायत्तीकर्तुमेवाऽस्मात् स्थानाद् राज्यं यथा भवेत् ॥११६ ॥ शुभं भूयाच्च सर्वेषां तव भूयाद् यथेष्टकम् ।
मम वरानुसारेण भूभृत्त्वं ते भविष्यति ॥११७ ॥ इत्युक्त्वा प्रययौ विप्रः पूजां नीत्वा दिवं प्रति ।
वराटकोऽपि दैत्येन्द्रान् सङ्गृह्य मन्त्रणां व्यधात् ॥११८ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभोर्विद्यारम्भे सर्वविद्याप्राप्तिः, बुद्धिपरीक्षा, बृहस्पतिकृतो वराटकदैत्याय यत्नशीलतोपदेशः, दैत्यस्य तपस्त्यागश्चेत्यादिनिरूपणनामा षट्त्रिंशोऽध्यायः ॥३६ ॥