०३५

श्रीकृष्ण उवाच
शृणु त्वं राधिके कृष्णनारायणस्य शोभनाम् ।
चमत्कारमयीं लीलां भुक्तिमुक्तिप्रदायिनीम् ॥१ ॥ एकदा तु नटास्तत्राऽऽययुः कैलासदेशजाः ।
नैकनाट्यक्रियाविज्ञाः समाजस्तब्धताकराः ॥२ ॥ बहुसाधनसम्पन्नाश्चैन्द्रजालिकबोधिनः ।
सहस्रमानवास्तत्र पञ्चशतानि कन्यकाः ॥३ ॥ शतं गजाः शतं चाश्वाः शतं च गवयास्तथा ।
शतमुष्ट्रा गर्दभाश्च शतं केसरिणो दश ॥४ ॥ व्याघ्राश्च विंशतिसङ्ख्या भल्लुका दश इत्यपि ।
वानराः शतमेवापि हंसाः शुकाः शतं शतम् ॥५ ॥ श्वानस्त्रीणि शतान्येव गण्डका दश इत्यपि ।
मल्लाश्च विंशतिस्तत्र संहत्य बहुविस्तरम् ॥६ ॥ नाट्यमण्डलमूर्धन्यं ख्यातं तद् भूमिमण्डले ।
अर्धनारीश्वराख्येन नटेन परिपालितम् ॥७ ॥ शतं तु गरुडास्तत्र शतं चाऽनलपक्षिणः ।
कामरूपधराः सर्वे कल्पद्रुलब्धभोजनाः ॥८ ॥ अन्तरीक्षगतयश्च व्योमनगरदर्शकाः ।
विद्युत्कलाप्रयोक्तारो बहुरूपप्रदर्शकाः ॥९ ॥ विद्यन्ते कृतशिक्षाश्च यत्र नृपशुपक्षिणः ।
सौराष्ट्रे कुङ्कुमवापीक्षेत्रे तन्नाट्यमण्डलम् ॥2.35.१ ०॥ अश्वपट्टसरस्तीरे चोत्तरे समुवास ह ।
कृतस्थानं जलपानं स्नानं चकार वारिषु ॥११ ॥ पौषमासे पूर्णिमायां नाट्यं रात्रौ चकार तत् ।
विशालो मण्डपस्तत्र रम्यः क्रोशमितोऽभवत् ॥१ २॥ लक्षशो मानवास्तत्र द्रष्टुं सौराष्ट्रवासिनः ।
आययुः परितस्तत्र निषेदुर्दृष्टिहेतवे ॥१३ ॥ अनादिश्रीकृष्णनारायणश्च लोमशो मुनिः ।
माता पिता कन्यकाश्च निषेदुर्नरयोषितः ॥१४॥ विद्युद्दीपा निसर्गाश्च मण्डपस्थितरश्मिषु ।
चकाशिरे चन्द्रतुल्या दिवाभ्रान्तिस्तदाऽभवत् ॥१५॥ तावन्निसर्गवाद्यानि त्ववाद्यन्त च मण्डपे ।
स्तम्भशिरस्सु मिष्टानि ब्रह्मपर्षन्निभानि वै ॥१६॥ स्तम्भकुम्भीषु च तत्र बभूवुर्गीतिकाः शुभाः ।
व्योमवाणीस्वरूपिण्यो गायकैर्वादकैर्युताः ॥१७॥ स्तम्भमध्येषु लोक्यन्ते कन्यानामयुतानि च ।
श्रीरमाकमलागौरीतुल्यरूपाणि सर्वेशः ॥१८॥ वितानेषु तदा स्वर्गं सुधर्मा चापि वीक्ष्यते ।
अलका चाऽमृता स्वर्णा हिरण्या चाश्मका च पूः ॥१ ९॥ कल्पपर्षत् विलोक्यन्ते शोभोत्तरविराजिताः ।
वस्त्रभित्तिषु लोक्यन्ते सुरा दैत्याश्च दानवाः ॥2.35.२०॥ ऋषयः पन्नगाश्चेशाः पितरो मानवोत्तमाः ।
निसर्गदर्शनाश्चैते विलोक्यन्ते समन्ततः ॥२१ ॥ कृत्रिमं सर्वमेवेदं त्वैन्द्रजालिकदर्शनम् ।
मण्डपे संविलोक्यैव पर्षत् स्तब्धाऽभवत् क्षणम् ॥२२॥ अथ गीतिः स्वस्तिवाच्य नान्दीवोधकमङ्गलम् ।
अश्रूयत कृष्णनारायणस्तुत्यात्मकं तदा ॥२३ ॥ जय जय जगदिष्टो जय जय जगदिष्टः ।
जय जनवन्दित नन्दितवदनः कृतमदरिपुदमनः ।
जय जय जगदिष्टः ॥२४॥ जय पुरुषोत्तम मुक्तसुवन्दित नन्दितनिजशरणः ।
जय राधाधिप जय कमलाधिप, जय माधव धवगः ॥२५॥ जय जडचेतनमध्यकृताश्रय पारवतीवरणः ।
जय नारायण चामृतनिवसन, ब्रह्मपरं हृदयः ॥२६ ॥ जय माणिक्यपतेऽक्षरपालक सुरमुनिपितृधरः ।
जय चात्मन् जय प्रभापते जय, कम्भराश्रीतनुजः ॥२७॥ जय गोपालतनूद्भवबालक जय ब्रह्माण्डधरः ।
जय शङ्करचरितात्मनिवेदन, वैष्णवकष्टहरः ॥२८॥ जय कन्याऽर्बुदपद्मपते प्रिय लक्ष्मीश्वर सुखदः ।
जय कुङ्कुमवापीधृतचरण जय, चाश्वसरस्तरणः ॥२९॥ जय धामाधिपतेऽधिपते जय मञ्जुलमूर्तिधरः ।
जय चानन्दनिधे सगुणेश्वर, स्वस्तिकरः सुकरः ॥2.35.३ ०॥ जय सौराष्ट्रमणे ह्यवतारिन् हंसग जनलीलः ।
जय सर्जक रक्षक हारक जय, जडचेतनतनुगः ॥३१ ॥ इत्यश्रूयन्त माङ्गल्यवाचस्तत्र ततः परम् ।
प्रस्तावकृत् कृष्णवेषो रङ्गमध्ये ह्युपस्थितः ॥३२॥ नेमुः पारिषदा मां च प्रणमन्तं सभेश्वरम् ।
अवोचं च तदा चाहं नाट्यमाद्यन्तगर्भितम् ॥३३ ॥ परब्रह्म जगद्योनिर्जगदादिरजः प्रभुः ।
परावराणां परमः सर्वलोकगुरोर्गुरुः ॥३४॥ कृपया लोकश्रेयोऽर्थं कम्भरागर्भगो ह्ययम् ।
प्रभुः प्रभूणां परमश्चावतीर्णोऽस्ति भूतले ॥३५॥ सोऽयमायाति बालात्मा पश्यन्तु तं परेश्वरम् ।
इत्युक्त्वाऽहं च तिष्ठामि राधे! बालं प्रदर्शयन् ॥३६॥ तावद्बालः कृष्णवेषस्तत्र रङ्गे समाययौ ।
ददर्श च समाजस्तं कोटिकोट्यर्कसन्निभम् ॥३७॥ अथाऽस्य वर्ष्मणः कोटिकृष्णरामनरायणाः ।
निर्ययुर्वासुदेवाद्या व्यूहाश्चापि तथाऽर्बुदाः ॥३८॥ भूमानश्च महाविष्णुवैराजवेधसोऽपि च ।
सदाशिवोऽवताराश्च निर्ययुर्बालदेहतः ॥३९॥ पितरः ऋषयो देवास्तत्त्वानि मानवास्तथा ।
नागा दैत्या दानवाश्च वृक्षाः शैलास्तथाऽऽपगाः ॥2.35.४०॥ निर्ययुर्जङ्गमा देव्यो स्थिरमानससृष्टयः ।
सर्वं प्रदर्शितं बाले कृष्णे नारायणे तदा ॥४१ ॥ समाजस्तं विलोक्यैव स्वं स्वलोकान् नरायणे ।
आश्चर्यं परमापन्नो जयशब्दानुवाच ह ॥४२॥ अथोपहारं कृत्वाऽहमवोचं दर्शकाँस्तदा ।
सोऽयं बालः परमात्मा भवन्मध्ये विराजते ॥४३॥ श्रीमद्गोपालकृष्णस्य पार्श्वे श्रीपरमेश्वरः ।
इत्युक्तो हि मया यावज्जनस्तावन्नरायणः ॥४४॥ पटपृष्ठे ययौ नीत्वा पारिषदनमःक्रियाम् ।
अथाऽऽययुः पारवती लक्ष्मीः राधा प्रभा पुरः ॥४५॥ तावत् किशोररूपोऽसौ बालकृष्णः समाययौ ।
चतस्रो वन्दनं चक्रुः पत्युः पुमुत्तमस्य ताः ॥४६॥ पादप्रक्षालनं चक्रुः पपुश्चरणवारि तत् ।
ततस्तं पूजयामासुश्चक्रुर्नीराजनं तथा ॥४७॥ राजते श्रीहरिस्तत्र स्वर्णासनेऽर्पिताञ्जलिः ।
अथ ताः श्रीहरेर्मूर्तौ चतस्रोऽपि लयं ययुः ॥४८॥ जनाः पुनश्च ददृशुश्चोद्भूताः श्रीहरेस्तनोः ।
शतं च द्वादश चापि चोद्भूताः श्रीहरेः प्रियाः ॥४९॥ तथा च ददृशुर्लोका लोमशस्याश्रमं महत् ।
कन्यकाया हरेः पत्न्यः कोट्यर्बुदाब्जसङ्ख्यकाः ॥2.35.५०॥ निर्ययुः श्रीहरेर्मूर्तेऽर्नाट्यवेद्यां लुलोफिरे ।
रङ्गस्थास्ताः स्वकं रूपं नाट्ये दृष्ट्वा तु विस्मिताः ॥५ १ ॥ ब्रह्मसरसो देव्यश्चाप्सरसो निर्ययुर्हरेः ।
रङ्गे दृष्ट्वा पारिषदाः सतालजयघोषणाम् ॥५२॥ चक्रुः प्रसन्नाः परितः परिहारस्ततोऽभवत् ।
अथाऽऽययौ रङ्गपीठे श्रीमद्गोपालकृष्णकः ॥५३ ॥ कम्भराश्रीमहालक्ष्मीसहितो बालकृष्णवान् ।
दत्वा देवेभ्य आशीर्वादान् सपुत्रो गृहं ययौ ॥५४ ॥ एवं प्रदर्श्य रङ्गेशः पटपृष्ठे ययौ पुनः ।
इत्येवं राधिके सर्वमवतारित्वबोधकम् ॥५५॥ चरित्रं सम्प्रदर्श्यैव तत्परिहारमाचरत् ।
अथाऽन्यद् दृश्यमापेदे मण्डपे व्योममार्गके ॥५६ ॥ रज्जुजालेषु बद्धेषु नटा दृढसुवेषिणः ।
शतसङ्ख्याश्चावतेरुः प्रतिरज्जुं विहङ्गमाः ॥५७ ॥ उड्डयन्ते शतहस्तान् रश्मेः रश्म्यन्तरं प्रति ।
छत्राभ्यां चापि गच्छन्ति सहस्रहस्तकाम्बरम् ॥५८ ॥ रज्जुप्रान्तं समादाय क्षिप्तो याति शतोत्तरम् ।
धनुषा शरवत् क्षिप्तः सहस्रोत्तरमाययौ ॥५९॥ पद्भ्यां क्षिप्तः प्रयात्येव शतहस्तोच्छ्रयं पुनः ।
निरालम्बोऽवतरति रज्जुमध्येऽवलम्बते ॥2.35.६ ० ॥ वंशाद्वंशान्तरं याति स्थलात् स्थलान्तरं च खे ।
एकरश्मौ च बहूनां परस्पराभियायिनाम् ॥६ १ ॥ स्थाल्यां दत्तपदानां च मध्ये सन्निहितात्मनाम् ।
अस्पृष्ट्वाऽन्योन्यमेवाऽत्र रश्मौ त्वग्रे प्रवासनम् ॥६२ ॥ तत उड्डयनं प्रान्ते प्रान्तान्तरेऽवलम्बनम् ।
मध्ये व्योम्न्यवलम्बन्तं चूम्बयित्वा जनान्तरम् ॥६३ ॥ अथ रज्जुनिषदनोड्डयनं सर्वतो दिशम् ।
अनालम्बं करेणापि पद्भ्यां वाऽन्येन चर्मणा ॥६४ ॥ एवमुडुयनं नाट्ये दर्शयित्वा ततश्च ते ।
चक्रुश्च गोपुरं रम्यं पञ्चाशन्नाट्यशिक्षिताः ॥६५ ॥ द्वितीयं गोपुरं चक्रुः शतं चैकोर्ध्वगं ततः ।
तृतीयं गोपुरं चक्रुस्त्रिशतं द्वितीयोपरि ॥६६ ॥ पञ्चाशत्पुरुषा मध्ये स्तम्भदृश्यास्ततदाऽभवन् ।
इत्येवं च सुधर्माया गोपुरं रमणीयकम् ॥६७॥ कम्मानिकात्रययुतं पञ्चाशन्मानवा व्यधुः ।
तत्र पार्श्वे स्थिताः कन्याः पुत्तल्य इव सर्वशः ॥६८ ॥ दिव्यरूपधराः सर्वाः पर्यो देव्यः सुशोभनाः ।
हस्तचामरशोभाश्च सप्तकलशमस्तकाः ॥६९ ॥ शोभन्ते गोपुरे तत्र सर्वसिद्धिपरायणाः ।
इत्येवं गोपुरं राधे कारयित्वा नटेश्वरः ॥2.35.७० ॥ साऽम्बालिकं गजसैन्यं न्यवेशयत्तदन्तरम् ।
गतं पुनर्निर्गतं च यदा प्रत्येकतोगजम् ॥७१ ॥ गजं गजं प्रति तत्र गोपुरमानवस्त्रियः ।
ऊर्ध्वमुत्प्लुत्य च शनैरवतेरुर्गजे गजे ॥७ २ ॥ गजसैन्यं सान्तमेव गोपुरा अपि सन्ति न ।
एवं दृष्ट्वा महायत्नं महाकौशल्यमेव च ॥७३ ॥ जयकारोऽभवन्नटेश्वरनटनटीकृते ।
नैतादृशं पुरा दृष्टं गोपुरं द्रक्ष्यते न वा ॥७४॥ कुम्भकं तु विनाऽऽयामं कैश्चित् कर्तुं न शक्यते ।
विहायसगतीनां तु सरला गोपुरकृतिः ॥७५॥ अथ हस्त्युष्ट्रकाश्वानां प्रासादास्तत्र निर्मिताः ।
साप्तभौमा यत्र नरा नार्यो दोलासु सर्वतः ॥७६ ॥ आन्दोलनं प्रकुर्वन्ति स्थिरप्रासादभूमिषु ।
मध्ये सोपानमार्गाश्च गवयाऽजवृषादिजाः ॥७७॥ भूमिकाश्चानलपक्षिगारुडपक्षिकल्पिताः ।
छत्रं पन्नगवर्याणां रश्मयः पन्नगाश्च वै ॥७८॥ शुका हंसाः कूजनं च कुर्वन्ति रज्जुसंस्थिताः ।
उद्यानानि च परितस्तदेन्द्रजालकारिताः ॥७९॥ अरण्ये वह्निजालानि वृष्टिजालानि चाम्बरे ।
वायुवेगास्तथा सौधे सूर्यचन्द्रौ च कृत्रिमौ ॥2.35.८०॥ सौधेषु वानरास्तत्रोद्यानफलानि भुञ्जते ।
एवं प्रदर्श्य प्रासादान् परिहारं तदाऽकरोत् ॥८१ ॥ अथ मल्लाः समायाता मल्लयुद्धार्थमुत्सुकाः ।
विविधं मल्लयुद्धं ते नरा नार्यस्तदा व्यधुः ॥८२॥ परिहारं तस्य कृत्वा तदा हास्यकरं परम् ।
सुसैन्यं वानराणां वै भल्लुकानां महत्तरम् ॥८३॥ मानुषवेषयुक्तानां भटानां शस्त्रधारिणाम् ।
सिंहगर्दभगण्डकव्याघ्रवाहनयायिनाम् ॥८४॥ आगतं रङ्गमध्ये तद् यत्र श्वानः शृगालकाः ।
युद्धवादित्रसंवादा महिषारोहिणस्तदा ॥८५॥ सेनापतिश्च शरभस्तत्सैन्यं च परस्परम् ।
द्वेधा भूत्वा पटपृष्ठे समारेभे महारणम् ॥८६॥ युद्धे हतास्तदा तत्र प्रायशः ऋक्षवानराः ।
भल्लुका गर्दभाः श्वानः शृगालाः सिंहनाशिताः ॥८७॥ ऐन्द्रजालिकमेवाऽऽसीत् हतं यद्यत् तदाऽभवत् ।
सत्यास्तु वानराः ऋक्षा भल्लुकाद्या हता न वै ॥८८॥ अथ तस्य परिहारं चक्रे नटेश्वरस्ततः ।
व्योमयुद्धं कुमारीणामभूत्तदिन्द्रजालकृत् ॥८९॥ हता भिन्नाः पतन्त्येव व्योम्नः कुमारिका भुवि ।
सर्वं कुमारिकासैन्यं हतं सुप्तं भुवस्तले ॥2.35.९०॥ तदा नारीश्वरः सेनापतिः रुरोद वै बहु ।
अहो मे कन्यका नष्टाः सर्वं सैन्यं हतं मम ॥९१ ॥ तदा बालः स्वयं कृष्णो जीवयामास कन्यकाः ।
रुद्रच्छाया स्वरूपास्ताः कन्या रौद्र्यः सहस्रशः ॥९२॥ नवीना एव भगवान्निर्ममे ऐन्द्रजालिकाः ।
नारीश्वरो महाश्चर्यं प्राप्तो गर्वं विमुच्य च ॥१३॥ पपात पादयोस्तत्र बालकृष्णस्य वै तदा ।
परिहारं चकाराऽथ दृश्यस्याऽस्य नटाधिपः ॥९४॥ ऐन्द्रजालिककन्यास्ताः सहस्रं रुद्रसन्निभाः ।
मुमुहुः श्रीहरौ तत्र वव्रुश्च वरदानकम् ॥९५॥ त्वं नाथाऽस्मत्पतिः प्राणरक्षको भव सर्वदा ।
हरिः प्राह तथाऽस्त्वेव लोमशाय न्यवेदयत् ॥९६॥ लोमशस्याऽऽश्रमे ताश्च ररक्ष भगवान् स्वयम् ।
अथ सिंहा रङ्गभूमौ समानीतास्तु पङ्क्तिशः ॥९७॥ तस्य शिक्षकवर्येण मुखव्यापादानं तदा ।
कारितं तन्मुखमध्ये नरा नाट्यकरास्तदा ॥९८॥ ददुः शिरांसि नैजानि तदाश्चर्यं महद्ध्यभूत् ।
अथ तत्परिहारं च कृत्वा नारीश्वरः स्वयम् ॥९९॥ कारयित्वा केसरिणो मुखव्यापादनं तदा ।
स्वस्यैव मस्तकं मुखे ददावाश्चर्यकृद् यथा ॥2.35.१० ०॥ अथ तस्य महागर्वं ज्ञात्वा कृष्णनरायणः ।
गर्वविनाशनार्थाय मतिं केसरिणे ददौ ॥१०१ ॥ अयं मे रक्षकस्त्वास्ते पीडां नित्यं करोति हि ।
तस्माद्य शिरस्तस्य भक्षयामि प्रसह्य वै ॥१ ०२॥ इति निर्णीय च रुषा मुखे धृतं तु मस्तकम् ।
अचूर्णयत् बलान्मुखं दृढं पिधाय केसरी ॥१ ०३॥ हाहाकारो महानासीद् दृश्यन्ति शोकसागरः ।
रुरुदुश्च नटा नट्यः शतशोऽथ सहस्रशः ॥१ ०४॥ यद्यपि च स्वयं रुद्रस्त्वर्धनारीश्वरः प्रभुः ।
नटेश्वरो ददौ स्वस्य शिरः कालमुखे तदा ॥१ ०५॥ निर्भयोऽभूत् सिद्धिमाँश्च तथापि परवश्यता ।
देवैर्ज्ञाता स्वयं तत्र चाथ कृष्णनरायणः ॥१०६ ॥ बालकः स्वासनाच्छीघ्रमुत्थाय हरसन्निधौ ।
जगाम तु सती शम्भुमङ्के निधाय शोचति ॥१ ०७॥ सतीमाह प्रदेह्येतन्मस्तकं कूर्चितं तु यत् ।
हस्तस्पर्शेन वै स्वस्थं यथापूर्वं करोमि वै ॥१ ०८॥ इत्युक्त्वा वामहस्तेन पस्पर्श श्रीनरायणः ।
राधिके सत्वरं शम्भोः शिरः पूर्ववदाभवत् ॥१ ०९॥ शम्भुरुत्थाय च कृष्णनारायणं परेश्वरम् ।
प्रणनाम प्रसन्नः सन् गर्वं जहौ हरः स्वयम् ॥2.35.११ ०॥ अथ बालो हरं प्राह दर्शनं देहि वै हर ।
अर्धनारीश्वरो भूत्वा पारिषदेभ्य एव तु ॥१११ ॥ शम्भुस्तदाऽभवत् तत्र चार्धनारीश्वरः स्वयम् ।
अर्धं नारीस्वरूपं चाऽऽनखकेशं सुशोभनम् ॥११ २॥ केशा जटाः श्मश्र्वश्मश्रूः स्तनाऽस्तनं तदाऽभवत् ।
योनिलिङ्गं वृषणैकं लोमालोमं तदाऽभवत् ॥११३।
शाटीचर्म भूषणाऽभूषणं रूपं तदाऽभवत् ।
रङ्गे तं तादृशं दृष्ट्वा तदन्तः श्रीहरिं तथा ॥१ १४॥ दृष्ट्वा समाजः सहसा तुतोषाऽतीव तत्क्षणे ।
नटेश्वरः स्वयं शम्भुर्नटास्तस्य गणा इमे ॥११ ५॥ पश्वाद्यास्तस्य भक्ताश्च हरिं तोषयितुं ननु ।
आयाता नाटयविधये तुष्टो हरिः स्वयं ततः ॥११ ६॥ ददौ वासं चाश्वपट्टसरस्येवोत्तरे तटे ।
दिव्यदेहान् प्रचक्रे तान् सर्वान् नटान् नटीः प्रभुः ॥११७ ॥ पारितोषिकमिष्टं च परधामगतिं ददौ ।
तीर्थं तन्नटनाट्याख्यं सर्वोद्धारकरं परम् ॥११८ ॥ पापिनां तारकं स्वर्गप्रदं श्रेष्ठं बभूव ह ।
श्रवणात्पठनाच्चापि भुक्तिर्मुक्तिः प्रजायते ॥११ ९॥ परिहारं ततः कृत्वा हरिः स्वस्याऽऽलयं ययौ ।
सौराष्ट्रमानवा देवाः ऋषयः पितरस्तथा ॥2.35.१२० ॥ अन्ये च दर्शकाः सर्वे ययुः स्वस्वालयान् मुदा ।
इत्येवं राधिके! कृत्वा नाट्यं श्रीशङ्करः स्वयम् ॥१ २ १ ॥ निवासमकरोत्तत्र गणैः पशुपतत्त्रिभिः ।
प्राणिभिः सर्वथा चाश्वसरसश्चोत्तरे वने ॥१ २२॥ वटबिल्वकदम्बानामरण्ये वासमाचरत् ।
यावत् पृथ्वी स्थिरा स्याच्च तावत् तत्र निवत्स्यति ॥१२३ ॥ कृष्णवेषस्त्वया साकं राधिकेऽदृश्यतां गतः ।
कृत्रिमो नाट्यसौधश्च तदानीं विलयं गतः ॥१ २४॥ अनादिश्रीकृष्णनारायणः श्रीशङ्कराय वै ।
जगादाऽनुग्रहं कुर्वन् नाट्ये ये देहिनोऽत्र च ॥१ २५॥ भवान् गणा नरा नार्यः कन्यकाः पशुपक्षिणः ।
सर्वे भवन्तु च द्वेधा कृपया मम सर्वथा ॥१२६ ॥ दिव्यरूपा मम मुक्ता मम धाम्न्यक्षराभिधे ।
दिव्ययानैः प्रयान्त्येव चतुर्धामुक्तिमास्थिताः ॥१२७ ॥ एतद् ददामि कृपया पारितोषिकमुत्तमम् ।
अन्यरूपैर्वसन्त्वत्र वटबिल्ववने सदा ॥१ २८॥ इत्येवं श्रीहरिः प्राह न्यूषुर्हरादयः सदा ।
वसति श्रीहरिः सौधे शम्भोः सौधं च निर्ममे ॥१२९ ॥ इत्येवं शङ्करो देवः कृष्णनारायणं हरिम् ।
तोषयितुं कृतवांश्च दिव्यं नाट्योत्सवं परम् ॥2.35.१३० ॥ भगवानपि सर्वात्मा शम्भुं तोषयितुं तदा ।
भूत्वा तु दर्शकस्तत्र नाट्यभूमौ स्थितोऽभवत् ॥१३१ ॥ पूरयामास भक्तस्य शम्भोर्मनोरथं हरिः ।
भक्ताधीनो यतः कृष्णनारायणोऽस्ति राधिके ॥१ ३२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने कैलासीयाऽर्धनारीश्वरनाट्यमण्डलेन कुङ्कुमवाप्यां क्षेत्रे कृताऽलौकिकानेकनाट्यैः प्रभुः सन्तुष्टः सन् शङ्करगर्वगञ्जनो मोक्षदश्चाऽभवत्, नटनाट्यतीर्थं चेत्यादिनिरूपणनामा पञ्चत्रिंशोऽध्यायः ॥३५ ॥