०२५

श्रीकृष्ण उवाच-
शृणु राधे कृष्णनारायणकथां प्रपावनीम् ।
तृतीयवर्षे सञ्जाता फाल्गुने प्रतिपत्तिथौ ॥१ ॥ फाल्गुनस्य शुक्लपक्षे पुष्पदोलमहोत्सवम् ।
चकार कुङ्कुमवापीक्षेत्रे गोपालकृष्णकः ॥२ ॥ वसन्ते तत्र सम्प्राप्ते किंशुका ज्वलनप्रभाः ।
निष्पत्राः सततं रेजुः शोभयन्तो धरातलम् ॥३ ॥ शिशिरं नाम मातङ्गं विदार्य नखरैरिव ।
वसन्तकेसरी प्राप्तः पलाशकुसुमैः प्रिये ॥४ ॥ कुन्दा हसन्ति सततं कलिकादन्तकैस्तदा ।
वनानि कर्णिकाराणां पुष्पितानि विरेजिरे ॥५ ॥ रक्ताऽशोकवना भान्ति पुष्पिताः सहसोज्ज्वलाः ।
भृङ्गवृन्दाः पिञ्जरिता राजन्ते गहने वने ॥६ ॥ मञ्जरीभिर्विराजन्ते नदीकूलेषु वेतसाः ।
रक्ताऽशोककरा तन्वी राधिके किंशुकांऽघ्रिका ॥७ ॥ नीलाशोककरा श्यामा विकासिकमलानना ।
नीलेन्दीवरनेत्रा च मध्यबिल्वफलस्तनी ॥८ ॥ प्रोत्फुल्लकुन्ददशना मञ्जरीकरशोभिता ।
बन्धुजीवाधरा शुभ्रसिन्दुवारनवाङ्कुरा ॥९ ॥ पुँस्कोकिलस्वना दिव्या कङ्कोलवसना शुभा ।
बर्हिवृन्दकलापा च सारसस्वरनूपुरा ॥2.25.१ ०।
प्राग्वंशरशना रम्यो मत्तहंसगतिस्तथा ।
पुत्रजीवांशुकासङ्गरोमराजिविराजिता ॥१ १॥ वसन्तलक्ष्मीः सम्प्राप्ता चाश्वपट्टसरस्तटे ।
पद्मानि जलचक्षूँषि पश्यन्ति प्रेमवन्ति च ॥१ २॥ तरङ्गा जलहस्ताश्चाऽऽह्वयन्ति स्नायिनो मुहुः ।
जलस्य गर्जनाहास्यं वेदयन्ति प्रमोदनम् ॥१३॥ शुकाः पार्श्वचराः कृढगागमं चावेदयन्ति च ।
शीतशीकरपवनाश्चाकर्षयन्ति मानसम् ॥१४॥ जलहंसास्तारकाढ्यां निमन्त्रयन्ति द्यामपि ।
मत्स्याश्च रोहिणाः साधून् स्मारयन्ति जलप्लुतान् ॥१५॥ टिट्टिभध्वानमेवात्र बालान् स्नानाभिलाषुकान् ।
करोति रञ्जयत्यपि नृत्यं मायूरमुत्तमम् ॥१६॥ कोकिलाः पुष्पशाखासु कूजनेन मुहुर्हरिम् ।
स्नानार्थं चाह्वयन्तीव प्राप्ते वसन्तयौवने ॥१७॥ एवंविधं प्रसन्नं च वनं विकसितं च तत् ।
विलोक्य ब्राह्मणाः सर्वे चाश्वपट्टसरस्तटे ॥१८॥ सहस्रशस्तदा बाला बालिकाश्च स्त्रियस्तथा ।
पुष्पदोलोत्सवं कर्तुं ययुश्चोत्सुकमानसाः ॥१९॥ कदम्बानां च शाखासु दोला बद्ध्वा सुखावहाः ।
आन्दोलयन्ति बालांश्च बालिकाः कन्यकादिकाः ॥2.25.२०॥ केसरैश्च तथा पालाशकैः पीतैश्च रक्तकैः ।
हरितैः कपिशै रङ्गैर्भृत्वा गर्गरिकादिकाः ॥२१॥ रङ्गैः संरेमिरे सेतौ नरा नार्यो वसन्तके ।
धूलीक्षेपैर्जलक्षेपै रङ्गक्षेपैर्गुलालकैः ॥२२॥ कुङ्कुमै रक्तचूर्णैश्च रेमिरे सरसस्तटे ।
प्रातः परस्परं धृत्वा प्रसह्य विनिपात्य च ॥२३॥ गर्गरीरङ्गसलिलं सिञ्चन्त्यभीक्ष्णमुत्सुकाः ।
सरसो मृत्तिकां पुण्यां लेपयन्ति मुखादिषु ॥२४॥ जलधाराः प्रसिञ्चन्ति शिरस्युपरि यन्त्रकैः ।
पुष्पगुच्छान् कर्णयोश्च धृत्वा नृत्यन्ति केचन ॥२५॥ प्रगायन्ति कृष्णगीतीः काश्चन मोदसम्भृताः ।
अन्ये कदर्मितं देहं वेषं प्रक्षालयन्ति च ॥२६॥ विधुन्वन्ति शिरःकेशान् रजोधूलितधूसरान् ।
प्रमृजन्ति नेत्रधूलीः प्रविशन्ति सरोजले ॥२७॥ तरन्ति नैकतरणैः सम्भूय स्नान्ति वारिषु ।
वस्त्राणि रङ्गरक्तानि क्षालयन्ति नराः स्त्रियः ॥२८॥ स्तबकानां निकुञ्जेषु रमन्ते बालबालिकाः ।
नरा नार्यः स्वयूथेषु रमन्ते वर्षयन्ति च ॥२९॥ वाद्यानि वादयित्वा च वसन्तं प्रार्चयन्त्यपि ।
प्रतिमां कानकीं कृत्वा पीताम्बरविभूषिताम् ॥2.25.३ ०॥ रक्तपुष्पैरञ्चितां च सकल्गिमुकुटान्विताम् ।
रशनामञ्जीरयुतां सकञ्चुकां सुशोभनाम् ॥३ १ ॥ किशोरभावमापन्नां सकटाक्षां मनोहराम् ।
पुष्परथस्थितां सौम्यां मञ्जरीकृतशेखराम् ॥३२॥ गुच्छस्तबककर्णाढ्यां सुगन्धद्रवचर्चिताम् ।
केशजूटलसत्स्कन्धां स्वर्णछत्रविराजिताम् ॥३३॥ नद्धसूर्यमणिप्रान्तमध्यचन्द्रोत्तरीयकाम् ।
हीररत्नसुमौक्तिकाऽञ्चितमुकुटशोभिताम् ॥३४॥ पुष्पोत्तंसां पुष्पकटिं पुष्पावरणसम्भृताम् ।
कदम्बपुष्पमालाढ्यां चाम्पकेयललाटिकाम् ॥३५॥ कर्णिकारप्रकोष्ठां च पालाशबाहुशोभिताम् ।
जपापुष्पौष्ठललितामैन्दीवारश्मश्रूलिकाम् ॥३६ ॥ चित्रकुसुमनेत्रान्तां कुन्ददन्तविराजिताम् ।
तिलपुष्पसुनासाढ्यां कादम्बगण्डमण्डिताम् ॥३७॥ कदलीपुष्पभालाढ्यां कदलीस्तम्भसक्थिनीम् ।
काल्हारजघनभ्रामां कामलाभसुनाभिकाम् ॥३८॥ हस्तिशुण्ढसमजङ्घां पद्मपादतलान्विताम् ।
चन्द्रसूक्ष्माकृतिनखां पाण्डुरां मन्दहासिनीम् ॥३९॥ मूर्तिं वसन्तदेवस्य पुपूजुः सर्वमानवाः ।
सुपुष्पैः कुङ्कुमाद्यैश्च सस्यशुकैः सुशिग्रुभिः ॥2.25.४०॥ कुङ्कुमाऽबिलचूर्णैश्च गुलालैर्विमलद्युभिः ।
मञ्जरीभिः रक्तपत्रैः फलैर्विविधकैस्तथा ॥४१ ॥ दुग्धपाकैः सुद्रवैश्च पुपूजुः श्रीवसन्तकम् ।
रगैर्बहुविधैश्चापि संस्नाप्य श्रीवसन्तकम् ॥४२॥ वासन्तिकैरम्बराद्यैर्भूषाभिः पुष्पपट्टकैः ।
पुष्पहारैश्च पुपूजुर्वसन्तं कलिकापतिम् ॥४३॥ मञ्जरीपल्लवानाथं चाङ्कुराधिपतिं प्रभुम् ।
पुष्पाधिपं नालिकेशं काण्डिकाधिपतिम् ऋतुम् ॥४४॥ शाद्वलेशं सुकिशोरं पुपूजुः सरसस्तटे ।
वसन्तस्य प्रियाश्चान्याः कोकिलां हंसिकां तथा ॥४५॥ सारसीं सुमनां मेनां मायूरिकां च भासिकाम् ।
शुकीं च गारुडीं चैव पुपूजुः षोडशप्रियाः ॥४६॥ सर्वा लक्ष्मीस्वरूपास्ता विचित्ररङ्गशोभनाः ।
कन्यकाः काञ्चनभासाश्चन्द्रकान्तिभराननाः ॥४७॥ श्वेताम्बराः पिङ्गवस्त्रा हरिताम्बरधारिकाः ।
कपिशाम्बरयुक्ताश्च चित्राम्बरधरास्तथा ॥४८॥ कानकाभाम्बरधराः कपिशाम्बरधारिकाः ।
नीलाम्बराः पयोवस्त्राः कर्बुराम्बराधिकाः ॥४९॥ कैसराम्बरयुक्ताश्च पाण्डुराम्बधारिकाः ।
यावच्छृङ्गारशोभाश्चाऽऽनर्चुर्वसन्तयोषितः ॥2.25.५०॥ चन्दनागुरुकस्तूरीकुङ्कुमाक्षतवारिभिः ।
दुग्धपाकादिभिश्चापि ताम्बूलकैरपूजयन् ॥५१ ॥ अथ श्रीभगवाँस्तत्राऽनादिकृष्णनरायणः ।
कैशोररूपमास्थाय चाश्वपट्टसरस्तटे ॥५२॥ दोलायां श्रीवसन्ताख्यं षोडशाऽऽर्यायुतम् ऋतुम् ।
संस्थापयित्वा विविधैरुपचारैरपूजयत् ॥५३ ॥ आरार्त्रिकं च कृतवान् ततस्तत्र वसन्तकः ।
भार्याषोडशयुक्तः सः प्रत्यक्षो ह्यभवत्तदा ॥५४ ॥ यथावर्णितरूपश्च जगाद् पूजकं प्रभुम् ।
अनादिश्रीकृष्णनारायणं कान्तं मनोहरम् ॥५५॥ परमेश्वर पूजां मे लौकिकीं रीतिमाश्रितः ।
करोषि सर्वदेवाद्यैः पूज्यत्वं पुरुषोत्तमः ॥५६॥ अद्याऽहं पावनो जातः सस्त्रीकस्तव सेवकः ।
त्वामर्चयितुमिच्छामि निषीद त्वं वरासने ॥५७॥ इत्युक्त्वा श्रीवसन्तश्च सप्रियो हि निजासनात् ।
अवतीर्य भुवि स्थित्वा स्वामिनं पुरुषोत्तमम् ॥५८॥ दोलायां प्रसमारोप्य पूजयामास भावतः ।
षोडशवस्तुभिः सर्वभार्याभिः सहितः ऋतुः ॥५९॥ आनर्च श्रीहरिं तत्र कैशोरं रूपमास्थितम् ।
रूपानुरूपावयवं विलोक्य पुरुषोत्तमम् ॥2.25.६०॥ मुमुहुर्दिव्यरूपे ते वसन्ताद्या जनास्तथा ।
वसन्तयोषितः सर्वा मुग्धा बभूवुरीश्वरे ॥६ १॥ ऋषयः ऋषिपत्न्यश्च मुमुहुः परमेश्वरे ।
एवं क्षणं च निश्चेष्टाः स्तब्धाः समभवन् सुखाः ॥६२॥ श्रीकृष्णस्य कटाक्षेण हास्यप्रसन्नताभृता ।
अथ क्षणान्ते बुबुधुर्नैजात्मानं च ते तदा ॥६३ ॥ तुष्टुवुः श्रीहरिं कान्तं परमेश्वरमिष्टदम् ।
त्वमेव भगवानास्से सर्वलोकेश्वरेश्वरः ॥६४॥ सर्वैश्वर्ययुतः साक्षादनादिपुरुषोत्तमः ।
देहि पद्ं सदा नाथ सेवार्थं चरणं तव ॥६५॥ विना त्वां सर्वमेवास्ति निष्फलं सुखवर्जितम् ।
इत्युक्त्वा च जना नार्यो निपेतुश्चरणे हरेः ॥६६॥ हरिः प्राह तथास्त्वेवं भविष्यति न संशयः ।
ततः पुनश्चमत्कारं दर्शयामास केशवः ॥६७॥ वसन्तदेहे नैजं चाभिव्याप्तं रूपमैश्वरम् ।
सर्ववसन्तकान्ताभिर्दृश्यते श्रीहरिः स्वयम् ॥६८॥ वसन्ते स्वामिनि नाथे कृष्णनारायणः प्रभुः ।
तदा मुमुहुस्तं दृष्ट्वा कलिकाद्याः पतिं प्रभुम् ॥६९॥ वरयामासुरेवैनं किशोरं पुरुषोत्तमम् ।
प्रियाः षोडश एवैताः पुपूजुस्तुष्टुवुः पुनः ॥2.25.७०॥ मालाः समर्पयामासुर्विदधुश्चन्द्रकं ततः ।
आत्मार्पणं हरिर्ज्ञात्वा मानसेष्टं सुभावितम् ॥७१॥ तथास्त्विति हरिः प्राह किशोररूपधृक् प्रभुः ।
षोडशकन्यकानां श्रीप्रभुश्चैवाऽकरोत्तदा ॥७२॥ रूपद्वयं तु प्रत्येकं दिव्यं चाऽदिव्यमित्यदः ।
अदिव्यं देवतुल्यं यत् षोडशं रूपमेव तत् ॥७३॥ वसन्ताय ददौ चाथ दिव्यं षोडशरूपकम् ।
कन्यकानां सुरूपं तत् निजप्रियास्वरक्षयत् ॥७४॥ लोमशाय ददौ तत्राश्रमे कन्यासु कोटिषु ।
निवासार्थं ततः कृष्णो बालरूपो बभूव च ॥७५॥ रङ्गक्लिन्नं हरिं स्नापयितुं माता सरस्तटे ।
ययौ तावन्महादैत्यो मीनरूपो जलस्थितः ॥७६॥ जग्राह बालकं कृष्णं त्रिंशद्धस्तप्रमाणवान् ।
माताऽत्र विह्वला जाता पुत्रनाशाऽभिशङ्कया ॥७७॥ श्रीराधिकोवाच-
कोऽसौ कृष्ण! महामीनो दैत्यराट् तत्र चागतः ।
योऽनादिश्रीकृष्णनारायणं भक्षयितुं स्थितः ॥७८॥ श्रीकृष्ण उवाच-
सालमालो महादैत्यो हिरण्यकूर्चचर्मजः ।
सालेमालवने तिष्ठन्नासील्लोकभयङ्करः ॥७९॥ सौराष्ट्रपूर्वदिग्भागे वन्यभक्ष्यो महासुरः ।
सप्ततालोच्छ्रयश्चैकतालायतोऽद्रिशृङ्गवत् ॥2.25.८० ॥ गदामुद्गरधारी च पितृवैरं स्मरन्नटन् ।
अश्वपट्टसरोमध्ये तिमिरूपोऽभवत्तदा ॥८ १ ॥ कामरूपधरो दैत्यस्त्रिंशद्धस्ततिमिः स वै ।
पुच्छेन प्रचकर्षैनं बालं स्नान्तं तटे तदा ॥८२॥ मातृपार्श्वे च सोपाने स्थितं रम्यं मनोहरम् ।
बालो ज्ञात्वा कृपावार्धिरासुरं दमनोचितम् ॥८३॥ हन्तुं समागतं शीघ्रं नयन्तं च जले तलम् ।
बालकृष्णस्तदा द्वेधाऽभवद् बालश्च नक्रकः ॥८४॥ बालो भूत्वा द्रुतं सरस्तटे सोपानमास्थितः ।
नक्रो भूत्वा जलमध्ये पञ्चाशद्धस्तमानवान् ॥८५॥ महामत्स्यं ग्रसितुं वै शीघ्रं पृष्ठे बभूव सः ।
मरणस्य भयान्मत्स्यो दुद्राव जलभूतलम् ॥८६॥ नक्रो जग्राह तं मत्स्यं मत्स्यरूपं विहाय सः ।
सालेमालो महादैत्यो नरो भूत्वा गदाकरः ॥८७॥ नक्रं जघान तरसा नक्रस्तावल्लयं गतः ।
गदाधारी तु पुरुषः सप्ततालोऽपि सोऽभवत् ॥८८॥ सालेमालस्य च नारायणस्य समरो महान् ।
बलातिबलिनोस्तत्र गदाभ्यां समजायत ॥८९॥ सालेन तु हरेर्मूर्ध्नि ताडिता बलतो गदा ।
बभञ्ज शतखण्डा सा हरिर्वज्रदृढस्तदा ॥2.25.९०॥ प्रतिजघान तं दैत्यं गदयैव महाप्रभुः ।
वक्षस्येव हतः शीघ्रं निपपात विमूर्छितः ॥९१॥ पुनरुत्थाय च नैजं मुद्गरं प्राहिणोद् बलात् ।
गदया हरिणा तत्तु मुष्टिदण्डे प्रभञ्जितम् ॥९२॥ अशस्त्रः सालमालोऽसौ खमुत्पपात शृङ्गवत् ।
मुद्गलाग्रं समादाय पातयामास के हरेः ॥९३॥ भगवांश्च स्वगदया पोथयामास मुद्गरम् ।
सुदर्शनं मुमोचैनं नाशयितुं महाप्रभुः ॥९४॥ शतसूर्यसमं वह्निज्वालामालाकुलं भ्रमत् ।
शीघ्रं न्यपतत् शालस्य मूर्ध्नि चकर्त तच्छिरः ॥९५॥ हाहाकारोऽभवत्तत्र प्रसन्नाः सर्वदेवताः ।
सालेमालो मृतश्चायं क्रोशदेहप्रमाणवान् ॥९६॥ न्यपतद् भूतले वृक्षान् नाशयन् कम्पयन् महीम् ।
आत्मा तस्य हरेश्चक्रयोगेन मुक्ततां गतः ॥९७॥ विमानेन सुदिव्येन वैकुण्ठं प्राप सालकः ।
गरुडस्तस्य देहन्तु चाश्वपट्टसरोवरात् ॥९८॥ पद्भ्यां धृत्वा निनायैनमत्यजद् व्योममार्गतः ।
यशोदानोत्तरं शैले सालेमालाह्वये वने ॥९९॥ तत्र ये दैत्यवर्याः संवर्तन्ते तस्य जातिजाः ।
प्रापुः शोकं परं तस्य नार्योऽपि शतमिप्यपि ॥2.25.१० ०॥ रुरुदुर्वै भृशं व्योम्नः पतितं वीक्ष्य वल्लभम् ।
और्ध्वदैहिकमेवाऽस्य चक्रुर्जात्यनुसारतः ॥१० १॥ पञ्चशतानि दैत्यानां शतं च तस्य योषिताम् ।
सहस्रं चापि पुत्राणां सुखं न लेभिरे शुचा ॥१ ०२॥ सततं चिन्तयामासुस्ते सर्वे वैरयापनम् ।
अथाऽत्र भगवान् बालो भूत्वाऽश्वपट्टसन्निधौ ॥१ ०३॥ पुष्पदोलोत्सवं कृत्वा पितृभ्यां गृहमाययौ ।
कन्यकाः श्रीलोमशस्याश्रमं ययुस्तदाज्ञया ॥१ ०४॥ ऋषयस्तल्ललनाश्च स्वस्वालयान् ययुस्ततः ।
पिता हरेः करे रक्षासूत्रं बबन्ध चौर्णकम् ॥१ ०५॥ एवं दोलोत्सवे नारायणेन परमात्मना ।
राधिके दर्शितश्चमत्कारो दैत्यो निषूदितः ॥१ ०६॥ पठनाच्छ्रवणाद्वापि सर्वसौभाग्यमाप्नुयात् ।
नरो नारी कन्यका वा बालो यतिर्युवाऽपि वा ॥१ ०७॥ प्राप्नुयात् परमं धाम श्रुत्वा भावेन तत्कथाम् ।
कृपासाध्यहरेः राधे पारवतीशितुः प्रिये ॥१ ०८॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वसन्तविकासः, पुष्पदोलोत्सवः तिमिङ्गिलरूपसालमालासुरस्य हरिर्नाशार्थमागतस्य हरिकृतनाशश्चेत्यादिनिरूपणनामा पञ्चविंशतितमोऽध्यायः ॥२५ ॥