०२३

श्रीकृष्ण उवाच-
अथ ते दानवाः कृष्णं द्रष्टुमिच्छन्ति सत्वरम् ।
अनादिश्रीकृष्णनारायणं बालं हि राधिके ॥१ ॥ यत्प्रतापादयं दैत्येश्वरो जिग्ये हरिं प्रभुम् ।
तां भक्तिं कर्तुमिच्छन्ति प्रह्लादेनोपबोधिताः ॥२ ॥ शृणु राधे कथां तां च यथा ते दानवेश्वराः ।
समागता हरेर्भक्ता जाताश्चाराधनान्विताः ॥३ ॥ अन्धकस्य च वंशीयाः प्रह्लादस्य च वंशजाः ।
कुजम्भस्य च जम्भस्य शङ्कुकर्णस्य वंशजाः ॥४ ॥ मयस्य वंशजाश्चापि दुन्दुभेः शम्बरस्य च ।
अयःशङ्कोश्च वृत्रस्य वंशजा दानवादयः ॥५ ॥ सस्मरुश्च्यवनं विप्रं प्रह्लादमार्गदर्शकम् ।
च्यवनः शीघ्रमेवैषां पुरतः समुपस्थितः ॥६ ॥ वन्दितः पूजितश्चापि पृष्टश्च श्रेयसं प्रति ।
विद्युत्केशिसुतो ज्येष्ठः सुकेशिः समुवाच तम् ॥७ ॥ प्रष्टुमिच्छामि भवतः संशयोऽयं हृदि स्थितः ।
किंस्विच्छ्रेयः परे लोके किमु चेह द्विजोत्तम ॥८ ॥ केन पूज्यो भवेत् सत्सु केनाऽसौ सुखमेधते ।
इति पृष्टश्च्यवनस्तान् दैत्यसन्तानजाँस्तदा ॥९ ॥ विमृश्योवाच श्रेयोऽर्थमिह लोके परत्र च ।
श्रेयः पुण्यं तथा धर्मः परत्रेह च सर्वथा ॥2.23.१० ॥ धर्मे समाश्रिते सत्सु पूज्यः सुखी सदा भवेत् ।
धर्मः स्वस्य सदाचारः परात्मशान्तिदः सुखः ॥११ ॥ स्वात्मशान्तिप्रदश्चापि पुण्यं तत्सुखदं सदा ।
मानवानां परो धर्मः सदा यज्ञादिकाः क्रियाः ॥१ २॥ स्वाध्यायस्तत्त्ववेदित्वं विष्णुपूजनमित्यपि ।
केनाऽर्जितेन मनुजाः सुखिनोऽमुत्र चेह च ॥१३ ॥ देवानां भक्तरक्षा च पूजाग्रहणमित्यपि ।
प्रजापालनमित्यादि तेनाऽर्जितेन ते सुखाः ॥१४॥ दैत्यानां बाहुशालित्वं युद्धं वन्दनमित्यपि ।
नीतिर्भक्तिः प्रपत्तिश्च तेनाऽर्जितेन ते सुखाः ॥१५॥ सिद्धानां योगसिद्धिश्च स्वाध्यायो ब्रह्मचिन्तनम् ।
भक्तिश्चोपासना शान्तिस्तेनाऽर्जितेन ते सुखाः ॥१६॥ गान्धर्वाणां गीतनृत्ये वाद्यं वाणी मधुस्रवा ।
उपासनं च महतां तेनाऽर्जितेन ते सुखाः ॥१७॥ विद्याध्राणां शुभा विद्या विज्ञानं पौरुषं मतिः ।
नारायण्यां सदा भक्तिस्तेनार्जितेन ते सुखाः ॥१८॥ किन्नराणां सूर्यभक्तीर्गान्धर्वं गायनादिकम् ।
कौशल्यं हास्यभावादौ तेनार्जितेन ते सुखाः ॥१९॥ शिल्पिनां शिल्पकौशल्यं नारायणाऽभिचिन्तनम् ।
परोपकारशालित्वं तेनाऽर्जितेन ते सुखाः ॥2.23.२०॥ पितॄणां चेन्द्रियवृत्तिनिग्रहो मानहीनता ।
परमेशे सदा भक्तिस्तेनाऽर्जितेन ते सुखाः ॥२ १॥ ऋषीणां शीलता सत्यं जप्यं ज्ञानं क्षमा दया ।
निर्मलाऽन्तःकरणं च तेनाऽर्जितेन ते सुखाः ॥२२॥ त्यागिनां च सतीनां च साध्वीनां स्वामिसेवनम् ।
अनादिश्रीकृष्णनारायणार्पणमरागिता ॥२३॥ हरेर्भक्तिः सदा कार्या तेनाऽर्जितेन ते सुखाः ।
धनरक्षा भोगदानं सेवकत्वं परार्थकम् ॥२४॥ हरौ भक्तिर्गुह्यकानां तेनाऽर्जितेन तै सुखाः ।
परावमर्षिता पारक्यार्थे लौल्यं हि रक्षसाम् ॥२५॥ हरौ भक्ते च वा भक्तिस्तेनाऽर्जितेन ते सुखाः ।
अविवेकः पिशाचानां शौचहानिरसत्यता ॥२६॥ भक्तप्रसादिभक्ष्यं च तेनाऽर्जितेन ते सुखाः ।
तिरश्चां परसेवित्वं तेनाऽर्जितेन ते सुखाः ॥२७॥ इत्येवं कथिताः पुण्या धर्माः षोडश मोक्षदाः ।
स्वस्वजात्यनुसारेण धर्मस्थाः सुखिनः सदा ॥२८॥ सर्वधर्मेषु चोत्कृष्टाः सर्वसाधारणा वृषाः ।
तीर्थयानं प्रभोः पूजा परोपकरणं तपः ॥२९॥ अहिंसनं च सन्तोषो नीतिलभ्ये जपो हरेः ।
एतान् धर्मान् समाश्रित्य ये केऽपि स्युश्च देहिनः ॥2.23.३ ०॥ अवश्यं ब्रह्मशरणा मुक्तिमायान्ति शाश्वतीम् ।
न्याय्यचरणाः सुखिनो दुःखिनस्वपनीतयः ॥३ १॥ श्रुत्वैवं च्यवनस्याऽऽर्थी वाचं दैत्याः सुखार्थिनः ।
प्रह्लादपादसरणास्तीर्थं श्रेयो हि मेनिरे ॥३ २॥ च्यवनं ते पप्रच्छुश्च सर्वतीर्थोत्तमोत्तमम् ।
च्यवनस्ताँस्तदा प्राह तीर्थं श्रीहाटकेश्वरम् ॥३३॥ तीर्थोत्तमं च बदरीवनं श्रीपुरुषोत्तमम् ।
क्षेत्रं श्रीगण्डकीतीर्थं माथुरं पुष्करं तथा ॥३४॥ तीर्थोत्तमोत्तमं त्वास्ते चाश्वपट्टसरोवरम् ।
कुङ्कुमवापिकाक्षेत्रं लोमशस्याऽऽश्रमस्तथा ॥३५॥ सौराष्ट्रं सर्वतः श्रेष्ठं परमेश्वरशोभितम् ।
अनादिश्रीकृष्णनारायणो बालस्वरूपवान् ॥३६॥ वर्तते भगवान् यत्र परमेशः पुमुत्तमः ।
सर्वधामाऽधिपस्वामी सर्वकारणकारणम् ॥३७॥ सर्वाऽवतारनाथश्च सर्वलक्ष्म्यादिसत्पतिः ।
सर्वमोक्षर्द्धिदाता च सर्वतुल्यदयालयः ॥३८॥ तत्तीर्थं सर्वतीर्थानां तीर्थात्तमोत्तमोत्तमम् ।
यत्कृत्वा स्वेष्टमासाद्य मोदते सर्वशान्तिषु ॥३९॥ एतच्छ्रुत्वा च्यवनस्य दैत्यास्तीर्थेच्छवस्तदा ।
च्यवनं सह नीत्वैव चाश्वपट्टसरो ययुः ॥2.23.४०॥ दैत्याश्च दानवाश्चापि तेषां नार्यः सुतादयः ।
कुङ्कुमवापिकाक्षेत्रे तीर्थार्थं प्रययुर्मुदा ॥४१॥ च्यवनस्य प्रसङ्गेन प्रह्लादाद्युपदेशतः ।
अनादिश्रीकृष्णनारायणं द्रष्टुमुपागताः ॥४२॥ लोमशस्याऽऽश्रमं व्योम्नश्चावतीर्य च दानवाः ।
च्यवनेन समं नेमुर्लोमशं ते कुटुम्बिनः ॥४३॥ दानवानां परां भक्तिं संवीक्ष्य लोमशो मुनिः ।
च्यवनेन सह तेषां स्वागतं कृतवान् परम् ॥४४॥ मधुपर्कं चासनादि जलपानादिकं ददौ ।
आवासान् प्रददौ रम्यान् कल्पितान् कल्पवृक्षजान् ॥४५॥ अश्मकाख्यनगर्याश्च शतोत्तरान् सुशोभनान् ।
सुस्मृद्धान् सर्ववस्त्वाढ्यान् प्रासादान् चन्द्रमोनिभान् ॥४६॥ स्नानभोजनशय्याढ्यान् सभाशालाविराजितान् ।
उद्यानकुञ्जसंव्याप्तान् शीतरम्यसुखानिलान् ॥४७॥ चन्दनागुरुकस्तूरीगन्धामोदप्रमोदितान् ।
सर्वोपकरणाद्युक्तान् सेवाभक्तान् ददौ मुनिः ॥४८॥ च्यवनः सुप्रसन्नोऽभूल्लोमशस्याऽर्तिभावतः ।
दैत्याँश्च दानवानाह ऋषयस्त्वपरिग्रहाः ॥४९॥ पक्षपातादिशून्याश्च रागद्वेषविवर्जिताः ।
सर्वजीवहिताः शान्ता मोचयन्ति ह्यघाज्जनान् ॥2.23.५०॥ यस्य शत्रौ च मित्रे च समभावो विलोक्यते ।
स एव मोक्षदो बोध्यः पावनं तीर्थमुत्तमम् ॥५१॥ लोमशस्य प्रसादेन वारिणा पूर्वजन्मजाः ।
घोरपातकपुञ्जा वै लयमेष्यन्ति वोऽखिलाः ॥५२॥ तस्माच्छ्रीलोमशं विप्रं प्रसेवध्वं मुदान्विताः ।
कञ्चित्कालं वसताऽत्र समर्जयत देशनाम् ॥५३॥ स्थावरेभ्यस्तु तीर्थेभ्यो जङ्गमं द्राग् विशोधकम् ।
साधवः परमं तीर्थॆ स्पर्शनात् पापनाशकम् ॥५४॥ वन्दनात् सेवनात् पादसम्म्मर्दनात् प्रतोषणात् ।
ययेष्टवस्तुदानाच्च तारयन्त्यपि पापिनः ॥५५॥ महापापातिपापानां दाहकं साधुसेवनम् ।
भोजनीया वन्दनीया दर्शनीया हि साधवः ॥५६॥ स्पर्शनीया नमनीयास्तोषणीया हि साधवः ।
सर्वार्पणेन च परिचरणीया हि साधवः ॥५७॥ सङ्गतिः सुलभा सर्वा दुर्लभा साधुसङ्गतिः ।
कायेन मनसा वैचा तोषणीया हि साधवः ॥५८॥ ध्याननिष्ठापराः पुण्यशेवधयस्तपःप्रभाः ।
परब्रह्मपराः शिष्यश्रेयःपरायणाः प्रियाः ॥५९॥ सर्वकल्याणदाः सन्तः सेवनीयाः स्वमुक्तये ।
दानवत्वं च दैत्यत्वं मानवत्वं सुरेशता ॥2.23.६०॥ न नैत्यिकी चात्मनां वै देहजन्मादिजं हि तत् ।
देहस्य विगमे सर्वं चागन्तुकं विनश्यति ॥६१॥ ममेदं च कुटुम्बादि राज्यं मे मम बान्धवाः ।
सुताः पत्नी पतिश्चेति चाहङ्कारकृतं मृषा ॥६२॥ अहङ्कारात्मके बीजे याते यास्यति वासना ।
कर्माशयविनाशे च क्व दैत्यत्वं क्व शिष्यता ॥६३॥ आत्मा तु मायिकवर्ष्मयोगान्नामनिरुक्तिमान् ।
दितेर्जातो यतो दैत्यो दनोर्जातस्तु दानवः ॥६४॥ अजातो यश्चेतनः स जातेन जात उच्यते ।
जातं देहं न वै चात्मा ततश्चात्मा न नामभाक ॥६५॥ यत्र स्थाने तु यो जातस्तत्रैवाऽस्य प्रजायते ।
मूषा त्वभिनिवेशोऽत्र मायायां ममतावशात् ॥६ ६ ॥ तस्माद् यूयं न पातालरसातलादिवासिनः ।
न च दैत्या न वै शूरास्तत्सर्वं देहभाग् यतः ॥६७॥ सतां योगेन च सन्तो जाताश्चात्र सरोवरे ।
स्नात्वा पीत्वा जलं चात्र लोमशस्य रजोधराः ॥६८॥ पूताः स्थ तीर्थयोगेन मनुं गृह्णत चोत्तमम् ।
पूजयत गुरुं चैनं पश्चात् कृष्णनरायणम् ॥६९॥ यास्यामो दर्शनार्थं वै श्रेयः प्राप्स्यथ निश्चितम् ।
इत्युक्ता दानवा दैत्या दशसाहस्रसङ्ख्यकाः ॥2.23.७०॥ अश्वपट्टसरस्तीर्थे स्नात्वा प्राह्लादिकं स्थलम् ।
नत्वा च लोमशं विप्रं पूजयामासुरादरात् ॥७ १ ॥ पादपूजाजलं पीत्वा नेमुस्तं लोमशं मुनिम् ।
चन्दनाद्यैः पुष्पहारैरर्चयामासुरादरात् ॥७२॥ जगृहुश्च महामन्त्रं पावनं सर्वसौख्यदम् ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा’ ॥७३ ॥ एनं गृहीत्वा मन्त्रं च गृणन्तो वैष्णवाश्च ते ।
मालां च तौलसीं भाले सबिन्दुं तिलकं तथा ॥७४॥ गृहीत्वा पङ्क्तिशो भूत्वा लोमशाऽर्पितमुत्तमम् ।
भक्ष्यं भोज्यं च लेह्यं च चोष्यं भोजनमुत्तमम् ॥७५ ॥ पानं मिष्टं ताम्बूलकं जगृहुर्लोमशाश्रमे ।
च्यवनोऽपि कृतसन्ध्यावन्दनो बुभुजे मुदा ॥७६ ॥ ततः सर्वे निजावासान् ययुर्विश्रान्तिलब्धये ।
अथ सायं तु ते सर्वे गृहीत्वोपायनानि वै ॥७७॥ अनादिश्रीकृष्णनारायणदर्शनकाङ्क्षिणः ।
ययुः श्रीकम्भरालक्ष्मीप्रासादं सप्तभूमिकम् ॥७८॥ यत्र श्रीबालकृष्णोऽसौ दोलायां राजते प्रभुः ।
श्रीमद्गोपालकृष्णश्च पिता पुत्रं करे स्वके ॥७९॥ धृत्वा सिंहासने चायात् निषसाद तदोचितः ।
लोमशश्च्यवनश्चोभौ शिष्यदैत्यगणान्वितौ ॥2.23.८०॥ आययतुश्च ताभ्यां वै दत्तासनः पिता स्वयम् ।
दैत्यानामपि सत्कारं स्वागतं कृतवाँस्तदा ॥८१ ॥ दत्तासनास्तु ते दैत्याः प्रह्वीभावपरिप्लुताः ।
आत्मनो मेनिरे दृष्ट्वा कृतकृत्यान् प्रभुं हरिम् ॥८२॥ क्षणं स्थैर्यं प्रजग्मुस्ते स्थिरनेत्राः स्थवृत्तयः ।
आश्चर्यं परमं ते च लोकयामासुरैश्वरम् ॥८३॥ क्षणं दृष्ट्वा बालकृष्णं ततः किशोररूपिणम् ।
दिव्यरूपानुरूपाभिरूपमुज्ज्वलमुत्तमम् ॥८४॥ तत्र मूर्तौ च प्रह्लादं शुक्राचार्यं ततः परम् ।
ततश्च कश्यपं दितिं दानु दक्षं प्रजापतिम् ॥८५ ॥ हिरण्याक्षं च हिरण्यकशिपुं च पितामहान् ।
ब्रह्माणं च तथा रुद्रं विष्णुं ततश्चतुर्भुजम् ॥८६॥ ततो वैराजरूपं च चतुर्दश च भूमिकाः ।
तत्र रसातलं तत्राऽश्मकपत्तनमुत्तमम् ॥८७॥ तत्र नैजनिवासाँश्च तत्र नैजकुटुम्बिनः ।
नैजरूपाणि च सर्वे लोकयामासुरडुतम् ॥८८॥ तत्र पञ्चसहस्राणि कन्यानां भावितात्मनाम् ।
वरं श्रीबालकृष्णं च किशोरं वव्रिरे पतिम् ॥८९॥ एवं विलोकयामासुस्ततश्च बालरूपधृक् ।
हरिर्जातः पुनश्चात्र कैशोरं रूपमाप्तवान् ॥2.23.९० ॥ इत्येवं ते विलोक्यैव परमाश्चर्यसम्प्लुताः ।
पुपूजुः श्रीहरिं कृष्णनारायणं जगत्पतिम् ॥९१ ॥ उपदाः सन्न्यधुस्त्वग्रे पादप्रक्षालनाम्बु च ।
पपुः सर्वे तदा दैत्यदानवास्तत्स्त्रियोऽपि च ॥९२ ॥ तेषां कन्या दिव्यरूपाः पञ्चसाहस्रसङ्ख्यकाः ।
मुमुहुः श्रीहरौ लग्ना ध्यानमग्नास्तदा स्थिराः ॥९३ ॥ बभूवुश्च ततः कृष्णं वरयामासुरिच्छया ।
तव पादाम्बुजे देहि भक्तिं देहि जगत्प्रभो ॥९४॥ मुक्तिं देहि शाश्वतं च सुखं देहि जगत्प्रभो ।
अनादिश्रीकृष्णनारायणः प्राह तथाऽस्तु वः ॥९५॥ दत्तं पदं प्रदत्ता च भक्तिर्मुक्तिः सुखं तथा ।
इत्युक्तस्ता दिव्यरूपास्तदा जाता हि तत्क्षणम् ॥९६॥ पञ्चसाहस्रसङ्ख्यास्ता पत्न्यो जाता द्रुतं हरेः ।
पादौ धृत्वा तत्र तस्थुः पतिं प्राप्य प्रभुं हरिम् ॥९७॥ लोमशस्याऽऽश्रमे तस्थुः श्रीकान्तरक्षिता हि ताः ।
लोमशश्च्यवनश्चोभौ सम्पूज्य श्रीहरिं ततः ॥९८ ॥ कन्याः संरक्षयामासतुर्वै नैजाश्रमे मुदा ।
श्रीहरेराज्ञया ताश्चाऽर्बुदकन्यासु संस्थिताः ॥९९ ।
दैत्या दशाधिसाहस्राः श्रीहरेः कृपया द्रुतम् ।
वैकुण्ठं गन्तुमिच्छन्तो वव्रिरे धाम तत्र च ॥2.23.१०० ।
हरिणा प्रापितास्ते तु वैकुण्ठं दिव्यरूपिणः ।
अथोपदाः समस्ता याः कन्याभ्यः प्रददौ प्रभुः ॥१०१ ॥ ऋषिभ्यां च ददौ योग्यवस्तूनि श्रीहरिः स्वयम् ।
ततो बालस्वरूपः स भूत्वा दतेलागतोऽभवत् ॥१०२ ।
च्यवनो लोमशं नत्वा कन्याभ्यश्च शुभाशिषः ।
दत्वा ययौ तीर्थयात्रां पुष्करारण्यमुत्तमम् ॥१०३ ।
प्रह्लादश्चिरजीवी वै रसातलमुपाययौ ।
इत्येवं राधिके तस्य परेशस्य जगत्कृतः ॥१ ०४।
अतीव दिव्यमावेद्यं चरितं श्रावणेऽभवत् ।
वर्षे द्वितीयके पाठाच्छ्रवणान्मोक्षदं परम् ॥१०५ ।
स्मृद्धिदं चायुष्यदं च पुत्रपौत्रधनप्रदम् ।
अखण्डसौभाग्यकरं कृपासाध्यो यतो हरिः ॥१०६ ।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने रसातलादिस्थितदशसाहस्रदैत्यदानवानां मोक्षणं पञ्चसाहस्रकन्यकानां बालकृष्णवरणं चेत्यादिनिरूपणनामा त्रयोविंशतितमोऽध्यायः ॥२३ ॥