०२१

श्रीकृष्ण उवाच-
शृणु त्वं राधिके धाम्नि परे यथा विराजते ।
परमात्माऽवतारी स तथारूपोऽभवद्धरिः ॥१ ॥ अनादिश्रीकृष्णनारायणः कृष्णाऽर्बुदाऽधिकः ।
रूपानुरूपरूपाढ्यः सर्वोपरिस्वरूपवान् ॥२ ॥ सर्वेषां प्राणिनां चक्षुर्विषयश्चैक एव सः ।
मनोऽहम्बुद्धिविषयश्चात्मविषय एकलः ॥३ ॥ दिव्यरूपधरो न्यूनषोडशाब्दो युवा यथा ।
भ्राजमानोऽतितेजस्वी भ्राजद्वह्निसमाम्बरः ॥४ ॥ कच्छनी स्वर्णवर्णाऽस्य मञ्जुलं कटिकञ्चुकम् ।
स्वर्णबुट्टाभरताढ्यं तथा धौत्रं च कैसरम् ॥५ ॥ स्वर्णतारावलिव्याप्तं काटेयं पटमुत्तमम् ।
स्थितं कट्यां तथा स्कन्धे चोत्तरीयं सुतैजसम् ॥६ ॥ मुकुटो मस्तके त्वस्य स्थितः श्रीपरमात्मनः ।
सर्वसौगन्ध्यसंव्याप्तो दिव्यामोदसमन्वितः ॥७ ॥ मण्डपे निजयोग्ये स निषसादोच्छ्रये शुभे ।
महावेदीस्थितास्तत्र चन्दनानां सुपट्टिकाः ॥८ ॥ चतस्रो दृढपादाढ्याः स्वर्णकुम्भीपदाः शुभाः ।
सहस्रमल्लसन्तोल्या ह्येकैका पट्टिका हि सा ॥९ ॥ गारुडी नारसिंही च शारभी काच्छपी तथा ।
पादेषु शक्तयस्तासां राजन्ते बलमण्डिताः ॥2.21.१ ०॥ चतुष्पट्ट्यश्चतुर्हस्त्यधिष्ठिताः षष्टिहायनाः ।
करिणस्तत्र शोभन्ते चोत्थिताश्चाम्बरस्पृशः ॥११ ॥ सर्वभूषाम्बरधरा द्योतन्ते स्वर्णवर्णिजः ।
श्वेतोदराः श्वेतशुण्ढाः श्वेतदन्ताः पयोनिभाः ॥१ २॥ हस्तिपृष्ठे स्थिताः सिंहाः कानका भूषिताः शुभाः ।
चत्वारः केसरिणस्ते सशुण्ढा गगनस्पृशः ॥१३ ॥ चतुःकेसरिणां पृष्ठदेशेषु कच्छपो महान् ।
राजते च हरिद्वर्णां लम्बवर्तुलमण्डलः ॥१४॥ तत्पृष्ठे माणिकी शक्तिरश्विनी दिव्यविग्रहा ।
सर्वोपस्करशोभाढ्या निषण्णा समपृष्ठिका ॥१५॥ तस्याः पृष्ठे स्वर्णवर्णं मृदु चास्तरणं शुभम् ।
तुलिका राजत तत्र कौशेयी चित्रवर्णिनी ॥१६ ॥ पार्श्वपृष्ठस्थितदिव्यकशिपूत्तमसुन्दरी ।
मखमल्लास्तरणैः शोभिता साप्तपदी शुभा ॥१७॥ उपरि वर्तते छत्रं शेषभोगिफणात्मकम् ।
टिव्यहीरकचक्षुर्भिर्दिव्यतेजःप्रदं शुभम् ॥१८॥ तुलिकायां हरिस्तत्र पादौ पीठे निधाय च ।
निषसाद महाराजो राजराजाधिराजकः ॥१ ९॥ श्रीकृष्णोऽहं तथा नारायणः पार्श्वे स्थितावुभौ ।
चामराभ्यां च सहितौ पादाग्रे चाक्षरः स्थितः ॥2.21.२० ॥ लोमशः पादपार्श्वे च पूजास्थालीकरः स्थितः ।
माता पिता निषण्णौ च कृष्णनारायणान्तिकम् ॥२१ ॥ एवं स्थिते तदा व्योम्नि विमानानां तु कोटयः ।
द्रष्टुं देवभृता दिव्या वर्तन्ते युगलाश्रिताः ॥२२॥ पूजार्थं भूमितलतश्चारोढुं शोभनोच्छ्रिता ।
निःश्रेणिका कृता सोपानानां परम्परायुता ॥२३ ॥ भूमिभागे तु पट्टीनां कृतं सोपानसप्तकम् ।
ततो हस्तिलम्बशुण्ढाद्वयं पट्टीस्पृशं च यत् ॥२४॥ सोपानाधारताप्राप्तं निःश्रेणीदण्डवत् स्थितम् ।
शुण्ढयोः कुम्भपर्यन्तं क्लृप्तान्यारुणकानि च ॥२५॥ सोपानानि शृङ्खलाभिर्बद्धानि सुदृढानि च ।
कुम्भस्थलयोस्तत्रैव क्लृप्ता विश्रामशालिका ॥२६ ॥ तत ऊर्ध्वं केसरिणोः शुण्ढयोर्दण्डभान्तयोः ।
सोपानानि सुरम्याणि क्लृप्तानि चापराण्यपि ॥२७॥ केसरिमस्तकं यावत् सा निःश्रेणी कृता ततः ।
चतुष्की सिंहशिरसोर्धृता कच्छपलग्निका ॥२८॥ कच्छपस्य गलपार्श्वे स्थितं हंसद्वयं शुभम् ।
तयोरन्तर्भुजयोश्च क्लृप्ता निःश्रेणिका परा ॥२९॥ माणिकीमुखसंस्पर्शा पार्श्वयोर्गरुडद्वयम् ।
पक्षाभ्यां विवृताभ्यां च हंसपृष्ठे तु पिच्छिकाः ॥2.21.३ ०॥ स्पृष्टाः क्रमाद् यथा सोपानानि पक्षात्मकानि वै ।
माणिकीपार्श्वयोर्लग्नान्येव चोपरि पिच्छके ॥३ १ ॥ स्थित्वा पूजा हरेर्यत्र निर्वर्त्यते सुरादिभिः ।
एवं दिव्ये चायते चोच्छ्रिते रम्यासने प्रभुः ॥३२॥ अनादिश्रीकृष्णानारायणः सर्वैः प्रपूज्यते ।
न श्रुतं नापि सन्दृष्टं चासनं श्रीप्रभोः पुरा ॥३३॥ तत्र तं राजमानं श्रीराजाधिराजशोभया ।
पूजयितुं कम्भराश्रीः प्रथमं समुपस्थिता ॥३४॥ धृत्वा हस्ते स्वर्णपात्रं कुङ्कुमाऽक्षतचन्दनैः ।
कस्तूरिकाऽबिरद्रव्यैस्तुलसीमञ्जरीयुतैः ॥३५॥ गुलालांऽकुरलाजाभिः पुष्पमालाविभूषणैः ।
फलैर्जलैः शर्कराद्यैर्गन्धसारैः प्रपूरितम् ॥३६॥ लोमशः प्राह वै चाशीर्वचनानि तदा क्षणे ।
ओं स्वस्ति बालकृष्णस्य मुक्ताः स्वस्ति चरन्तु च ॥३७॥ करोतु चाक्षरं ब्रह्म स्वस्ति दीर्घायुरेव च ।
ओं स्वस्ति तं वितन्वन्तु श्रीश्रीकृष्णनरायणाः ॥३८॥ वासुदेवादयः स्वस्ति स्वस्ति कुर्वन्तु चेश्वरा ।
स्वस्ति कुर्वन्त्ववतारा देवेशाः शङ्करादयः ॥३९॥.
ऋषयः पितरः सिद्धाः साधवः साङ्ख्ययोगिकाः ।
स्वस्ति कुर्वन्तु बालस्य हरेर्देवाश्च मानवाः ॥2.21.४०॥ सर्वतीर्थानि चादित्या रुद्राः स्वस्ति भवन्तु च ।
वसवो निधयो वैद्यो स्वस्ति कुर्वन्तु वै हरेः ॥४१ ॥ सत्यः साध्व्यः कुमार्यश्च पतिव्रताश्च योषितः ।
देवता वनवासिन्यः स्वस्ति कुर्वन्तु वै हरेः ॥४२
वृक्षा वल्ल्यश्चारणाश्च किन्नराद्याश्च सूतकाः ।
भृत्या दासा नदा नद्यः स्वस्ति कुर्वन्तु वै हरेः ॥४३॥ यक्षाः ऋक्षाश्च गन्धर्वा मागधाः किम्पुमंशकाः ।
विद्याधरास्तथा साध्याः स्वस्ति कुर्वन्तु वै हरेः ॥४४॥ पर्वताः खनयो यूपाः खाता रणा वनानि च ।
पातालाः सर्पदैत्याश्च दानवा आसुरास्तथा ॥४५॥ राक्षसा भूतकूष्माण्डाः प्रेताः पिशाचकास्तथा ।
मातरः कृत्यकाश्चापि जलेशयाः स्थलेशयाः ॥४६ ॥ वनेशया विशयाश्च स्वस्ति कुर्वन्तु वै हरेः ।
चैत्या मन्त्रा दिव्यदेहाः शस्त्राऽस्त्राद्या विभूतयः ॥४७॥ बालाश्च बालिकावर्गा वृद्धा विप्रा जरायुजाः ।
अण्डजाः स्वेदजाश्चाङ्कुरजाः स्वस्तिधराश्च ये ॥४८॥ विनायका गणेशाद्या हनुमान् गरुडस्तथा ।
पार्षदा नन्दमुख्याश्च स्वस्ति भवन्तु वै हरेः ॥४९॥ राधा रमा च ललिता पद्मा जया सरस्वती ।
माणिकी श्रीः कमला च पार्वती च प्रभा रतिः ॥2.21.५० ॥ शारदा विरजा गङ्गा लक्ष्मीः सती च नर्मदा ।
सावित्री मञ्जुला हंसाऽमृता दुर्गा च मङ्गला ॥५१ ॥ सगुणा द्वादश स्वस्ति शतं कुर्वन्तु सुप्रियाः ।
अन्याः षोडशसाहस्राः कोट्यर्बुदाब्जशक्तयः ॥५२॥ सूर्यचन्द्रग्रहाद्याश्च स्वस्ति भवन्तु वै हरेः ।
तत्त्वानि भूतजा भावा माया मायापरे स्थिताः ॥५३॥ योगिनो ब्रह्मचर्यस्था वैराजा गुणमूर्तयः ।
आभूषणानि दिव्यानि स्वस्ति भवन्तु वै हरेः ॥५४॥ शृङ्गारा विविधाकाराः स्वराश्च गीतयस्तथा ।
दिव्यवाद्यानि वै स्वस्ति कुर्वन्तु श्रीहरेः सदा ॥५५॥ सङ्कर्षणोऽनिरुद्धश्च प्रद्युम्नो धर्मराजकः ।
धर्मदेवो भक्तियुक्तः स्वस्ति कुर्वन्तु ते हरेः ॥५६॥ जनकः कम्भरास्वामी स्वस्ति करोतु वै हरेः ।
अन्तरात्मा परमात्मा स्वस्ति स्वस्य करोतु सः ॥५७॥ मुक्ता चम्पा जया हैमी रमा शान्ता व्रजा दया ।
भानुर्दीपावली चोर्जा स्वस्ति कुर्वन्तु वै हरेः ॥५८॥ ओं सुशान्तिः सदा चास्तु दीर्घायुश्चान्तवर्जितम् ।
आरोग्यं नित्यसौख्यं च शाश्वतं चास्तु वै हरेः *॥५९॥

  • इत्येवं लोमशः स्वस्तिवाग्भिः प्रोक्ष्य जलादिना ।
    यवाङ्कुरैश्च कुसुमैस्तिलकं चन्द्रकं शुभम् ॥2.21.६०॥ मात्रा सङ्कारयामास पूजन साङ्गकर्मभिः ।
    मिष्टं मुखे ददौ माता दुःखहा चाञ्जलिं मुहुः ।
    शिरस्यावातारयच्चाशीर्वचो जननी ददौ ॥६ १ ॥ शाश्वतायुर्युतस्त्वं वै भव सर्वेश्वरः प्रभुः ।
    इत्युक्त्वा दिव्यपुष्पाणां कल्पमालां गले ददौ ॥६२॥ विकीर्य मस्तके तस्याऽक्षतान् नीराजनं व्यधात् ।
    पुष्पाञ्जलिं ददौ माता नत्वा स्वासनमागता ॥६३ ॥ पिता पूजां चकारैवं स्वस्तिमान् भव पुत्रक ।
    सन्तानतन्तुसन्धाता शाश्वतायुर्युतो भव ॥६४॥ अथ श्रीलोमशो देवेश्वरं समर्चयन्मुदा ।
    सर्वोपचारकैर्मन्त्रैराशीर्वाद्ं ददौ शुभम् ॥६५॥ बुद्ध्या गुणैर्विचारैश्चात्मना भक्त्या च विद्यया ।
    धर्मैर्योगैश्वर्यवर्यैः शाश्वताऽभ्युदयो भव ॥६६॥ आयुषाऽचरणैर्दिव्यैस्तेजसा च बलेन च ।
    कारुण्येन विरागेण शाश्वताऽभ्युदयो भव ॥६७॥ मातापित्रोः सेवया श्रीगुरोः शुश्रूषया तथा ।
    शरणागतरक्षाकृत् शाश्वताभ्युदयो भव ॥६८॥ ब्रह्ममार्गपरो नित्यं मानसेष्टप्रपूरकः ।
    समदृष्टिर्महाश्रेष्ठी दानधर्मपरायणः ।
    सर्वसन्तोषदाता च शाश्वताभ्युदयो भव ॥६ ९॥ इत्याशीर्भिर्लोमशेन वर्धितो बालनन्दनः ।
    अनादिश्रीकृष्णनारायणो लाजाविकीरितः ॥2.21.७०॥ अथाऽन्येभ्यस्ततः पूजाऽवसरः सम्प्रदापितः ।
    परधामगताः पत्न्यः पूजार्थं श्रीहरिप्रियाः ॥७१ ॥ दिव्यसाधनसम्पद्भिर्गन्धचन्दनवारिभिः ।
    रत्नहारसुमालाभिः पुष्पैः संहृदयैस्तथा ॥७२॥ पूजां चक्रुस्तत आरार्त्रिकं चक्रुश्च दुःखहाम् ।
    अञ्जलिं शिरसो नीत्वा चरणोदकमित्यपि ॥७३ ॥ पीत्वोपदाः समर्प्यैव धृत्वा प्रसादकुङ्कुमम् ।
    गाले स्पृष्ट्वा मुहुः प्रेम्णा निरीक्ष्य प्राणवल्लभम् ॥७४॥ ययुर्नैजविमानानि ततस्तत्राऽक्षरादयः ।
    अक्षरस्थास्तथा मुक्ता मुक्तान्योऽप्यर्चयन् पतिम् ॥७५॥ श्रीकृष्णो राधिकायुक्तः श्रीयुक्तश्च नरायणः ।
    गोलोकवासिनः सर्वे तथा वैकुण्ठवासिनः ॥७६॥ चतुर्वैकुण्ठवासाश्चाऽमृताऽव्याकृतवासिनः ।
    अन्यधामनिवासाश्च मुक्ता व्यूहास्तथा परे ॥७७॥ अवतारा ईश्वराश्च सदाशिवप्रभूत्तमाः ।
    महाविष्णुसमकक्षा मायाप्रधानपूरुषाः ॥७८॥ वैराजा ब्रह्मदेवेशा मुनयः ऋषयस्तथा ।
    पितरः सुरकोट्यश्च भुवर्लोकनिवासिनः ॥७९॥ बृहस्पतिपुरोगाश्च शुक्राचार्यपुरोगमाः ।
    नदा नद्यो मानवाश्च पर्वता द्रुलतादयः ॥2.21.८०॥ स्तम्बास्तीर्थानि चैत्याश्च मानवाः सूतबन्दिनः ।
    तृणानि रणवासाश्च पशवः पक्षिणस्तथा ॥८ १ ॥ नागा गन्धर्ववर्याश्च सौराष्ट्रा भूनिवासिनः ।
    सामुद्रा व्योमयानाश्च कोट्यर्बुदाश्च कन्यकाः ॥८२॥ लोकपालास्तथा सर्वे दिशामग्रेसरेश्वराः ।
    राजानो दिव्यराजाश्च ब्रह्मक्षत्रा दिवौकसाम् ॥८३ ॥ सर्वे पुपूजुरत्यर्थं बालकृष्णं पुमुत्तमम् ।
    तिलकं चन्द्रकं चक्रुर्ददुश्चोपायनानि च ॥८४॥ भव शाश्वतजीवश्चेत्याशीर्वादान् ददुर्मुहुः ।
    सर्वब्रह्माण्डदेव्यश्च मिलित्वा कोटिवर्तिकम् ॥८५॥ आरार्त्रिकं हरेश्चक्रुः शतैकवारभ्रामितम् ।
    पुष्पाञ्जलिं ददुश्चाथ पादवारि पपुस्ततः ॥८६॥ दुःखहां चाऽञ्जलिं प्राप्य ययुर्नैजविमानकम् ।
    एवं वै पूजने चाशीर्वचने विनिवर्तिते ॥८७॥ लोमशः सर्वसत्कारं भाषणं विदधे ततः ।
    स्वागतं श्रीहरिकृष्णः स्वयं करोति वः शुभम् ॥८८॥ भवतां श्रीमतां सर्वपूज्यानां चाशिषाऽप्यहम् ।
    शाश्वताऽभ्युदयश्चास्मीप्येवं चार्थयते हरिः ॥८९॥ कृतकृत्योऽस्मि सञ्जातो बालकृष्णो भवत्सुतः ।
    पुनश्चापि निभाल्योऽहं प्रत्यब्दं च प्रतिव्रतम् ॥2.21.९०॥ प्रत्युत्सवं प्रकर्षेण योजनीयः शुभाशिषा ।
    एषोऽहं वालपुत्रो वै नमस्करोमि सादरम् ॥९ १॥ क्षतिः त्वागतकर्मादौ क्षन्तव्या मम वै पितुः ।
    लोमशस्य महर्षेश्च मातुर्मेऽपि तथेश्वराः ॥९२॥ इत्युक्त्वा लोमशः प्राह भोजनस्य क्षणः शुभः ।
    वर्तते भोजनं युष्मन्निवासेष्वागमिष्यति ॥९३॥ सदसः परिहारश्च जायते विजयोऽस्तु वः ।
    इत्युक्ते प्रोत्थितः कृष्णः समाजोऽपि तदोत्थितः ॥९४॥ ययुर्नैजान्निवासाँस्ते भोजनं तत्तदर्हकम् ।
    नैकरूपं तथा पानं कन्याः परार्धसङ्ख्यकाः ॥९५॥ नैकरूपधरा दास्यो भूत्वा निन्युस्तदालयान् ।
    तर्पयित्वा समाजाँश्च विश्रान्तिशयनानि च ॥९६॥ ददुः सेवां तथा चक्रुर्मध्याह्नोत्तरमुत्तमाम् ।
    विदायं प्राप्य च ययुर्नैजधामानि सोत्सुकाः ॥९७॥ पिता ददौ तदा विश्वकर्मणे पारितोषिकम् ।
    कल्पहारं कल्पसूत्रं कल्पवल्लीं त्रयं त्विदम् ॥९८॥ अन्येभ्यः कर्मचारेभ्यो ददावुपायनानि च ।
    लोमशाय ददौ कल्पकन्यां शाश्वतसूत्रजाम् ॥९९॥ हरेः प्रसादं सर्वेभ्यो ददौ यास्यद्भ्य उत्तमम् ।
    मण्डपस्योपसंहारं कारयामास वै ततः ॥2.21.१०० ॥ वस्तूनि यानि सर्वाणि त्ववशिष्टानि तत्र तु ।
    तानि दत्तान्यनाथेभ्यो भिक्षुकेभ्यः समन्ततः ॥१०१ ॥ नृत्यन्तीभ्यश्चाप्सरोभ्यो ददौ शृङ्गारकोत्तमम् ।
    हारान् भूषाः कल्पवृक्षादीन्यमूल्यानि यानि च ॥१ ०२॥ श्रीमद्गोपालकृष्णश्च संहृत्य सायमुत्सवम् ।
    रात्रौ शान्तिं परां लेभे भगवान् बालरूपधृक् ॥१ ०३॥ आस्ते दोलासमारूढो लोकरीत्यनुसारतः ।
    लोमशः कन्यकाश्चापि लोमशस्याऽऽश्रमं ययुः ॥१ ०४॥ इत्येवं राधिकेऽनादिकृष्णनारायणस्य वै ।
    कृतो महोत्सवो दिव्यो द्वितीयवत्सराद्यके ॥१ ०५॥ दिवसे सर्वसौभाग्यवर्धनो मोक्षदस्तथा ।
    स्मर्तॄणां पाठकानां च श्रोतॄणां चास्य भावतः ॥१ ०६॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीबालकृष्णस्य प्रभोर्द्वितीयवर्षारम्भे महोत्सवे मण्डपे महदासनवर्णनं सर्वकृतपूजाशीर्वादाश्चेत्यादिनिरूपणनामैकविंशतितमोऽध्यायः ॥२१ ॥