००९

श्रीकृष्ण उवाच-
शृणु चान्यच्चरित्रं च राधिके परमात्मनः ।
मासे याते द्वितीये च तृतीये शुक्लपक्षके ॥१ ॥ गृहाद् बहिर्निष्क्रमणं चक्रे माता सुतस्य वै ।
पुण्याहवाचनं तत्र नान्दीश्राद्धादिकं तथा ॥२ ॥ अकारयत् पिता विप्रैराशीर्भिः समयोजयत् ।
लोमशस्याऽऽश्रमं गत्वा ह्यनामयच्च पादयोः ॥३ ॥ गुरुस्तस्य हि तिलकं भाले कुङ्कुमचन्द्रकम् ।
कृत्वा के स्वकरौ दत्वा ददौ मन्त्रं च कर्णके ॥४ ॥ ‘अनादिश्रीकृष्णनारायाणो मे शरणं नमः ।
‘ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ’ ॥५ ॥ बालः श्रुत्वा प्रत्युवाच मन्त्रं वारत्रयं पुनः ।
लोमशर्षिस्तथा माता जनकाद्या मुदं ययुः ॥६ ॥ कण्ठीं द्विरावृतां कण्ठे तौलसीं स न्यधारयत् ।
पुष्पहारं ददौ कण्ठे कृष्णस्य लोमशो मुनिः ॥७ ॥ मुखे कणं शर्कराया ददौ हस्तेन लोमशः ।
दुग्धं चापाययत् कृष्णं मुहुः पस्पर्श पाणिना ॥८ ॥ ददौ माता तदा बालं खेलनार्थं तदाश्रमे ।
स्थिताभ्यः कन्यकाभ्यः श्रीकृष्णकान्ताभ्य एव च ॥९ ॥ ताश्चुचुम्बुर्मुहुः कान्त हासयामासुरुत्सुकाः ।
निन्युरुद्यानकं पार्श्वे पुष्पवल्लीनिकुञ्जके ॥2.9.१० ॥ अहं पूर्वमहं पूर्वमित्यास कलहस्तदा ।
कान्तं चैकं रामयितु कन्यकानां च योषिताम् ॥११ ॥ कोटीनां कन्यकानां च विलोक्य भावना प्रभुः ।
कोटिरूपाणि च चक्रू तदुद्याने विशेषतः ॥१ २॥ बालचन्द्रो यथा तासां सुखदः सम्भवेत् तथा ।
प्रावर्तत सदा तासां त्वधीनः कृष्णकान्तकः ॥१३ ॥ काचित्कृष्णं रमयति चुम्बयति मुहुर्मुहुः ।
काचित्तु वक्षसि कृत्वा दत्वा स्नेहभरं वचः ॥१४॥ हासयति स्वकं कान्तं बालरूपं मनोहरम् ।
काचिदङ्के निधायैनं गण्डयोः करशाखया ॥१५॥ स्पृष्ट्वा मुहुर्मुहुः कान्तं चित्तं रञ्जयति स्थिरम् ।
काचित्तन्मस्तके दत्वा हैयङ्गवीनमुत्तमम् ॥१ ६॥ शनैर्मर्दयति हस्ततलेन बालरूपिणम् ।
काचिच्छलाकया बिन्द्वीं ददाति भालकेऽरुणाम् ॥१७॥ काचित् करोति तिलकं रक्तं स्वर्णशलाकया ।
कौङ्कुमं राजसं मनोहरं चाकर्षकं प्रभुम् ॥१८ ॥ काचिद् बालं गण्डके च चिबुके च मनोहराम् ।
बिन्द्वीं करोति रक्तां च मानसस्य सुखावहाम् ॥१९ ॥ काचित्तु स्थलपद्मानां दलानां मालिकां नवाम् ।
मृद्वीं कृत्वा गले तस्य ददाति शान्तगन्धिनीम् ॥2.9.२०॥ अन्या तु नेत्रयोस्तस्य घृतजं कज्जलं शुभम् ।
अञ्जयति प्रतेजोऽर्थं रूपार्थं रङ्गमादिनी ॥२१ ॥ अन्या बालं करे प्रोच्छालयत्येव तदाऽम्बरे ।
अपरा वक्षसि त्वेनं तथोदरे मुहुर्मुहुः ॥२२॥ मुखेनोष्ठेन प्राणेन भम्भम्भम्भं करोति च ।
वादयते शनैर्गालं किल्किलायति चापरा ॥२३॥ काचित् स्ववक्षसि पादौ तस्य धृत्वा प्रमोदते ।
काचित् कट्यां तु संस्थाप्य बाहुना तं धृतं प्रभुम् ॥२४॥ नृत्यन्तं च मयूरं वै दर्शयत्येव चेष्टया ।
इतरा पादयोस्तस्य करयोश्च मनोहरम् ॥२५॥ मनाक् संरञ्जनद्रव्यं योजयति सुदर्शनम् ।
अन्या कूजन्तमेवैनं कोकिलं त्वाम्रसङ्गतम् ॥२६॥ दर्शयति प्रतिकूजयति हासयते हरिम् ।
काचित् कृष्णस्य वैं नासां संस्करोत्यम्बरेण च ॥२७॥ काचिच्च वायुना लग्नं रजो मार्जयति द्रुतम् ।
अन्याऽङ्गुल्या शाखिसंस्थं मर्कटं दर्शयत्यपि ॥२८॥ तथाऽन्या शुक्लपुष्पाणां गुच्छान् धृत्वा नवान्नवान् ।
सौगन्ध्यं बालकृष्णाय समर्पयति सादरम् ॥२९॥ तमन्या गद्गदं शब्दं श्रावयते च मोदते ।
अपरा तु रसं मिष्टं मनाग्ददाति वै मधु ॥2.9.३ ०॥ तथाऽन्या गायति गीतिं काचिन्नृत्यति भूतले ।
अपरा चक्रवद् बालं भ्रामयति भ्रमत्यपि ॥३ १ ॥ काचित् सौगन्धिकं विष्णुतैलं सम्मर्दयत्यपि ।
तथाऽन्या वल्लिकादोलामारुह्याऽऽन्दोलयत्यपि ॥३२॥ द्वितीया शीतनाशार्थं कम्बलिकां ददात्यपि ।
अन्या वह्निं ज्वालयित्वा पार्श्वे तिष्ठति तद्युता ॥३३ ॥ अपरा मृगपृष्ठे तं समारोहयति प्रिया ।
तथाऽन्या मृगशावाग्रे नीत्वा स्थापयति प्रियम् ॥३४॥ गवां वत्सान् प्रति नीत्वा तांश्च दर्शयति प्रियान् ।
शशकर्णौ परा धृत्वा कृष्णं दर्शयते तु खे ॥३५॥ दर्पणे च मुखं तस्य तथा दर्शयति प्रिया ।
पराभ्यः संश्रावयन्ति त्वन्याश्चिह्नानि यानि च ॥३६॥ नूतनाश्च समागत्य पश्यन्ति तानि वै मुदा ।
श्रीकृष्णश्चाम्बरं दृष्ट्वा किल्किलेति करोति च ॥३७॥ काँश्चिन्मुखं स्वमुद्घाट्य ब्रह्माण्डं दर्शयत्यपि ।
अन्या गोलोकमाद्यं चाक्षर वैकुण्ठमित्यपि ॥३८॥ स्वतनौ भगवाँस्तत्र निजाभ्यो दर्शयत्यपि ।
एवं सर्वाः कुमार्यश्च मोदन्ते कृष्णलीलया ॥३९॥ आनन्दं ब्रह्मणो लब्ध्वा बभूवुः कृतवाञ्च्छिताः ।
ततः श्रीभगवाँस्तानि रूपाण्यन्तर्जहार च ॥2.9.४०॥ एक एवाऽभवल्लक्ष्मीकरगो वै चतुर्भुजः ।
माणिक्यायास्तथा चांऽके द्विभुजो हि ततोऽभवत् ॥४१ ॥ ततः श्रीकम्भरालक्ष्मीकट्यामेकलकोऽभवत् ।
सर्वा विलोक्य सामर्थ्यं तृप्ता जातास्ततः पिता ॥४२॥ पूजयामास विधिना लोमशं च गुरुं मुनिम् ।
चन्दनेनाऽर्चयामास ललाटं तिलकान्वितम् ॥४३॥ चन्द्रकं कारयामासाऽक्षतैर्लाजासुपुष्पकैः ।
हारैश्च पादुकाभिश्च फलैः पत्रैः सुकन्दकैः ॥४४॥ मूलैर्मृगाजीनवर्यैर्दुग्धैर्घृतैश्च तन्दुलैः ।
वस्त्रैश्च वल्कलैः क्रतावुपयुक्तसुवस्तुभिः ॥४५॥ लोमशं तोषयामास जगृहुस्तस्य चाशिषः ।
. कन्यकाभ्यश्च सौभाग्यद्रव्याणि जननी ददौ ॥४६॥ वस्त्राणि वलयाँश्चापि तथोपकरणानि च ।
भक्ष्यभोज्यानि पेयानि मृष्टान्नानि घृतानि च ॥४७॥ ददौ माता च केशानां प्रसाधनानि वै तदा ।
अनन्तानि तदिष्टानि सर्ववस्तूनि वै ददौ ॥४८॥ माता रक्षति कौमारे सर्वास्ताः पुत्रिका यथा ।
स्वर्गं द्वितीयं वै तत्र ब्रह्मचर्याश्रमं महत् ॥४९॥ वैकुण्ठमिव मायादिशून्यं हरेरनुग्रहात् ।
लोमशस्याऽऽश्रमं त्वासीन्मुक्तकन्याविराजितम् ॥2.9.५०॥ अहर्निशं हरिः कृष्णो नारायणोऽत्र चिन्त्यते ।
नारायणप्रियाः सर्वे सर्वाश्चासन् न चेतरे ॥५१॥ लोमशो वर्तते नित्यमुक्तो मायाविवर्जितः ।
अक्षरोऽव्यय एवाऽसौ मुक्तात्मा ब्रह्मपारगः ॥५२॥ यदाश्रमे न कामोऽस्ति न च क्रोधो विराजते ।
न लोभो नैव मोहोऽस्ति मदाद्यास्तु कथं तदा ॥५३॥ यत्र लिङ्गविकारो न यत्र योनिक्रिया न च ।
यत्र कामो न वै चाऽस्ति लोमशस्याऽऽश्रमस्तथा ॥५४॥ लीनमूर्ध्वं महत्स्थानं शान्तिर्यत्र तु शाश्वती ।
लोमशश्चाऽऽक्षराणां वै चतुष्टयं शुभार्थकम् ॥५५॥ एतादृशं ब्रह्मविदं यदा पूजयते पिता ।
तदा प्रभाभिधा कन्या बालकृष्णं प्रिय प्रभुम् ॥५६॥ रन्तुं रमयितुं नीत्वा ययावुद्यानजं द्रुमम् ।
राजचम्पकवृक्षं तं समाश्रित्य प्रिया सखी ॥५७॥ निषसाद ददौ बाला वृत्तीः सर्वा हरौ किल ।
तावत् तत्र समायातो व्योम्ना क्रोधनकोऽसुरः ॥६८॥ यस्तु रुद्रललाटाद्वै जलमध्ये व्यजायत ।
ब्राह्मणा स्वललाटाद्वै यदा रुद्रः प्रकाशितः ॥५९॥ उक्तः सृष्ट्यर्थमेवाऽथ स वै व्याकुलमानसः ।
जलाऽन्तःस्थोऽभवत् तत्रोद्वेगं प्राप क्षणं स्मरन् ॥2.9.६ ० ॥ तेन जातो ललाटेऽस्य रुद्रस्य स्वेदबिन्दुकः ।
तद्बिन्दुजोऽभवत् क्रूरो देवद्वेष्टा सुरेतरः ॥६१ ॥ क्रोधनोऽयं बलवाँश्च तपस्तेपेऽतिदारुणम् ।
तपसा सिद्धिमापन्नो व्योमगः कामरूपधृक् ॥६२॥ सोऽयं योगेन वै ज्ञात्वा कुङ्कुमवापिकाभुवि ।
अनादिश्रीकृष्णनारायणं दैत्यविरोधिनम् ॥६३ ॥ उद्याने वर्तते कन्याकरे मत्वेति वै तदा ।
जिघृक्षुर्बालकं तत्र त्वाययौ रभसाऽसुरः ॥६४॥ कन्यारूपधरो भूत्वा रामयितुं समागतः ।
प्रभाहस्तगतं कृष्णमनापृच्छ्य तदाऽऽददे ॥६५॥ बालकृष्णो विदित्वैव तस्य वै दुष्टभावनाम् ।
हस्तौ कृत्वा लम्बमानौ तस्य विनाशनाय च ॥६६ ॥ मुक्तिदानाय च देवस्तस्या हस्तगतोऽभवत् ।
प्रभा ज्ञात्वा सखी काञ्चिद् ददौ तस्मै तु बालकम् ॥६७॥ क्रोधना कन्यका सा तु बालं नीत्वा क्षणान्तरे ।
वृक्षवल्लीषु च तूर्णमदृश्यभावतां गता ॥६८॥ प्रभा न पश्यति त्वेनां समाजुहाव तां तदा ।
क्रोधना त्वम्बरे नीत्वा ययावभ्रपथं द्रुतम् ॥६९॥ मारयितुं च तं बालं कृतयत्ना मुहुर्मुहुः ।
गले पाशं ददात्येषा किन्तु सा हस्तयोस्तदा ॥2.9.७० ॥ वह्निना दह्यमाना च बालकण्ठं प्रमुञ्चति ।
आकाशस्था वह्निदग्धा शिखाव्याप्ताऽभवत्तदा ॥७ १ ॥ श्रीकृष्णदेहजाद् वह्नेर्ज्वालाभिर्दग्धदेहिका ।
हाहेत्यवोचत् कृष्णं सम्प्राक्षिपद् भूतले तदा ॥७२॥ किन्तु कृष्णशरीरोत्थो वह्निस्तां नैव मुञ्चति ।
वह्निर्ज्वलंश्च बहुधा धूम्रकेतुर्यथा च खे ॥७३ ॥ तां कन्यां दहति क्रूरो वह्निस्त्राणं न विद्यते ।
तदा सा क्षिप्रमुत्प्लुत्य बालमनु ह्यवातरत् ॥७४॥ बालस्तु प्रभया गत्वा धृतः शीघ्रं करेण ह ।
प्रभा प्राप्तं हरिं धृत्वा दुद्राव लोमशं प्रति ॥७५॥ तावत् सा क्रोधना प्राह स्वसमेऽग्निं प्रशामय ।
ज्वलामि कर्मणा मेऽत्र रक्ष दुष्टां तु पापिनीम् ॥७६॥ इत्युक्त्वा चाग्रतो मार्गं रुद्ध्वा तुष्टाव बालकम् ।
नाथ कृष्ण कृपासिन्धो मां त्वं तारय कष्टतः ॥७७॥ शङ्करस्य तु पुत्रोऽहं नाम्ना क्रोधनकोऽस्मि च ।
सुराणां द्वेषकर्ताऽहं तालनाम्नाऽसुरेण च ॥७८ ॥ प्रेषितस्तव नाशार्थं पापं चोपार्जितं मया ।
अघात्ये यन्मम बुद्धिर्घातनार्थमुपासिता ॥७ ९ ॥ तदहं च क्षमां याचे रक्ष मां मोक्षणं कुरु ।
इत्युक्तो बालकृष्णोऽसौ करुणावरुणालयः ॥2.9.८ ० ॥ नैसर्गिककृपापूर्णः क्रोधनं प्राह वै तदा ।
कथं त्वं कन्यका जाता मम नाशाय मानिनि! ॥८ १ ॥ नैव जानासि मां सर्वान्तरात्मानं परेश्वरम् ।
नाडीप्राणा मम हस्ते सृष्टेर्मुक्तेर्भवन्ति च ॥८२॥ वद त्वं चापराधं मे कृतवत्यसि शोभने ।
कं दण्डं निर्ममे तेऽर्थ वदाऽत्र तत् करोमि ते ॥८ ३ ॥ क्रोधना प्राह तं कृष्ण कान्तं मनोहरं प्रभुम् ।
उवाच मे गात्रदाहं प्रशामय प्रभो तथा ॥८४॥ कान्तो मे भव देवेश कन्या त्वां प्रवृणोम्यहम् ।
मानसं मे त्वयि कृष्णनारायण प्रधावति ॥८५ ॥ मोक्षं देहि तथा चान्ते त्वासुरत्वं विनाशय ।
हरिः प्राह तथाऽस्त्वेतत् तव सर्वं भविष्यति ॥८६ ॥ मम स्पर्शात् तव गात्रं दिव्यं सदा तु कान्यकम् ।
मदर्थं जायतां रम्यं लोमशाश्रमवृत्ति च ॥८७॥ कन्यासु च त्वया स्थेयं कन्यारूपेण भामिनि! ।
द्वितीयं ते तथारूपं मोक्षं यात्वक्षरं पदम् ॥८८॥ तृतीयं ते तथा रूपं पौरुषं वह्निसदृशम् ।
क्रोधनं सर्वथा क्रूरं क्रोधनाख्यं भुवस्तले ॥८९॥ मुनिरूपं भवत्वेव क्रोधनस्त्वं सदा भव ।
एवं रूपत्रयं कृष्णो दत्तवान् क्रोधनाय वै ॥2.9.९० ॥ जन्मान्तरे च दुर्वासाः क्रोधनोऽयं भविष्यति ।
सर्वदा वैष्णवश्रेष्ठो नारायणसमो गुणे ॥९१ ॥ नारायणाऽवतारेषु निमित्तोऽयं भविष्यति ।
इत्युक्त्वा भगवान् राधे क्रोधनां कन्यकां शुभाम् ॥९२॥ कृत्वा शश्वत्कन्यकां सुरूपां तस्यास्तथेष्टकम् ।
द्वितीयं कान्यकं रूपं चापि तस्याः सुमोक्षगम् ॥९३ ॥ कृत्वप्विप्रेषयद् धामाऽक्षरं विमानतः क्षणात् ।
तृतीयं पौरुषं रूपं तामसं च तत्पाऽभवत् ॥९४॥ तपश्चचार परमं लोमशाश्रमसन्निधौ ।
क्रोधनाख्यं परं तीर्थ चाश्वपट्टसरस्तटे ॥९५॥ जातं तदिति विज्ञेयं राधे मोक्षप्रदं शुभम् ।
अथ प्रभा तथा कन्या क्रोधना बालकृष्णकम् ॥९६॥ नीत्वा लोमशपूजायाः स्थानमाययतुस्तदा ।
नवीना कन्यका केयं चेति पृष्टा प्रभाऽवदत् ॥९७॥ नारायणचमत्कारं श्रुत्वाऽऽश्चर्यं ययुर्हि ते ।
लोमशस्य पूजनं च कृत्वा माता पिता हरिः ॥९८॥ ययुर्गृहं कन्यका सा कन्यासु हरिवाञ्च्छया ।
सदा निवासमकरोत् कृष्णकान्तप्रियाऽभवत् ॥९९॥ अथ प्रदोषसमये विधिवच्छशिनोऽर्चनम् ।
अकारयत् पिता माता वामदेव्यमगापयत् ॥2.9.१० ०॥ पुत्रस्याऽकारयन्माता सौम्यं वै विधुदर्शनम् ।
चन्द्रपत्न्यस्तथा चन्द्रो जहृषुर्वीक्ष्य माधवम् ॥१०१ ॥ हरिश्चन्द्रं विलोक्यैवाऽङ्गुल्याऽऽह मातरं तदा ।
चन्द्रमानय मातर्मे सन्निधौ चेति वै हृदा ॥१ ०२॥ चन्द्रो ज्ञात्वा हरेर्भावं सप्तविंशतिसंयुतः ।
सप्तविंशतिपत्नीनां रथैर्युक्तः समाययौ ॥१० ३॥ कुङ्कुमवापिकाक्षेत्रं चान्द्रमण्डलसदृशम् ।
अभवत् सर्वथा दिव्यं यदा चन्द्रोऽगमत् तदा ॥१ ०४॥ चन्द्रेण तु समानीता मणयो विविधास्तथा ।
मालिका दिव्यतेजःसम्भृताः शीताऽमृतावहाः ॥१ ०५॥ हरये त्वर्पितास्तत्र मात्रा चन्द्रमसस्तथा ।
तत्पत्नीनां स्वागतादिसत्कारश्च कृतः शुभः ॥१ ०६॥ पाद्यं चार्घ्यं मधुपर्कं दत्तं भोजनपानकम् ।
पूजयित्वा हरिं चन्द्र आशीर्वादान् प्रयुज्य च ॥१ ०७॥ ययौ स्वभवनं स्वर्गे श्रीकृष्णो मुदितोऽभवत् ।
अथ सर्वेऽपि पित्राद्या लोमशं मुनिसत्तमम् ॥१ ०८॥ कृत्वा च दण्डवद्भक्त्या समर्प्योपायनानि च ।
सुप्रसादं गृहीत्वापि गृहीत्वाऽऽशिष एव च ॥१ ०९॥ कन्याभ्यश्चाशिषो दत्वा ययुः स्वं भवनं प्रति ।
एवं वै राधिकेऽनादिकृष्णनारायणस्य हि ॥2.9.११० ॥ संस्कारं पावनं चमत्कारयुक्तं सुखावहम् ।
श्रोतॄणां मुक्तिदं तस्य स्मर्तॄणां सम्पदाम्प्रदम् ॥१११ ॥ लोकपुत्रधनेच्छूनां स्वर्गाऽपत्यधनप्रदम् ।
विद्यैश्वैर्यादिवाञ्छानां विद्यासिद्धिप्रदं परम् ॥११ २॥ भुक्तिदं मुक्तिदं चापि सौभाग्यदं तु योषिताम् ।
आवेदितं च ते राधे! बालरूपस्य पावनम् ॥११ ३॥ सर्वतीर्थफलाऽवाप्तिरस्य वै चिन्तया भवेत् ।
सर्वक्रतूनामवभृथजं पुण्यं लभेत्तथा ॥१ १४॥ सर्वदानफलं चापि सर्वयोगफलं तथा ।
प्राप्तौ श्रीकृष्णकान्तस्य समाप्यते तु राधिके ॥१ १५॥

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णप्रभोस्तृतीये मासि शुक्लदले बहिर्निष्क्रमणसंस्कारे योषिद्भिः कारिते लालनरमणे बहुरूपता, दिव्यदर्शनम्, लोमशाश्रमे प्रभा कृष्णकान्तं नीत्वा ययौ, तत्र क्रोधनोऽसुरः क्रोधना कन्या भूत्वा हरिमहरत् । व्योम्नि सा हरिणा दग्धा तं मुमोच, तां दिव्यां त्रिरूपां कृत्वा लोमशाश्रमे, मोक्षे, दुर्वासोभाविजन्मनि चेतिन्यरूपयत् । विधुदर्शनं चमत्कारश्चेत्येवमादिनिरूपणनामा नवमोऽध्यायः ॥९ ॥