००८

श्रीकृष्ण उवाच-
श्रूयतां सुभगे राधे कथां पुमुत्तमाश्रिताम् ।
प्रेङ्खोत्सवोत्तरं कृष्णनारायणः परः प्रभुः ॥१ ॥ दुहितृहारकश्चेतिमत्वा तलाख्यरक्षसा ।
प्रद्विष्टो बहुधा बालकृष्णो वै कम्भरागृहे ॥२ ॥ नाऽस्य क्लेशः परेशस्य फलं क्लेशस्तु रक्षसः ।
तलेन गत्वा चार्जन्तां गुफां तत्र स्थितास्तु ये ॥३ ॥ राक्षसा निजजातीया बोधितास्ते च मन्त्रिताः ।
सौराष्ट्रे कुङ्कुमवाप्यां कृष्णं नाशयितुं मुदा ॥४ ॥ सर्वे चाकर्ण्य वृत्तान्तं तलाजाऽऽहरणादिकम् ।
तलेन सह चागत्य सिंहारण्ये स्थिता हि ते ॥५ ॥ भ्रमन्तो निशिथे ग्रामान् रन्ध्रान्वेषणतत्पराः ।
घातयितुं हरिं ते वै प्रयतन्ते स्म नित्यदा ॥६ ॥ प्रच्छन्नास्ते समायान्ति चाऽनासाद्य क्षणं ततः ।
वियन्ति च निराशास्ते प्रभोश्चक्राद् भयं गताः ॥७ ॥ एवं मासः प्रथमस्तु बालकृष्णस्य चाऽभवत् ।
जनेर्द्वितीयमासस्य प्रथमे वै दिने ततः ॥८ ॥ माता पिता लोमशश्च प्रभुं श्रीपुरुषोत्तमम् ।
इच्छन्ति स्म दिव्यदुग्धं पाययितुं तदा हरिः ॥९ ॥ मार्गकृष्णनवम्यां च प्रातरुत्थाय चैव सः ।
रमते स्म हसति स्म प्रेङ्खायां ज्ञापयन् कृपाम् ॥2.8.१० ॥ माता चातिप्रसन्नाऽस्ति दुग्धं पाययितुं हरिम् ।
दुदोह मङ्गलागौरीनाम्नीं कामदुघां तु गाम् ॥११ ॥ उष्णं कृत्वा शर्कराक्तं कवोष्णं कम्बुसन्धृतम् ।
वस्त्रपूतं च गोक्षीरं कम्बुनाऽपाययद्धरिम् ॥१ २॥ ज्ञात्वा दुग्धोत्सवं गावः कामरूपधराः शुभाः ।
दिव्यलक्षणसम्पन्ना मानवीवाग्विवेचिकाः ॥१३ ॥ जगदुर्मातरं चास्मद्दुग्धं पायय गोपतिम् ।
गोसहस्रस्याऽर्थनां संश्रुत्वा माताऽऽह गास्तदा ॥१४॥ बालोऽयं स्यात्कथं न्वर्हः सर्वदुग्धातिपानकृत् ।
अपथ्यं तद् भवेत् सर्वं किं करोमि हि शंसत ॥१ ५ ॥ गावः प्राहुः किमभाग्यमस्माकं तादृशं भवेत् ।
वयं गावो भवत्याः स्म हरेः सेवां न चाप्नुमः ॥१६ ॥ गवामभ्यर्थनां माता यावच्छृणोति तावता ।
व्योममार्गाद् गवां लक्षं गोलोकादागतं तदा ॥१ ७॥ अक्षराच्चापि वैकुण्ठादव्याकृताद् दिवस्तथा ।
भूमेश्चापि वृषारण्यात् कोटयस्त्वाययुर्गवाम् ॥१८ ॥ अनादिश्रीकृष्णनारायणेच्छया समाययुः ।
व्योम्नि विमानगाः काचिदन्तरीक्षगताः पराः ॥१ ९॥ जलस्थाः क्षितिगाश्चान्यास्तस्थुर्नेमुर्हरिं मुदा ।
दुग्धस्रावान् प्रचक्रुश्च दुग्धसरित् ततोऽभवत् ॥2.8.२० ॥ अश्वपट्टसरस्येव दुग्धं जले च मिश्रितम् ।
दुग्धतीर्थं तु तज्जातं पापतापप्रणाशनम् ॥२१ ॥ हरिर्ज्ञात्वा गवामिच्छाः मातरं प्राह तत्क्षणम् ।
मातः कथय सर्वास्ताः क्षीरं पास्यति मे सुतः ॥२२ ॥ गावश्चक्रुः स्तुतिं तं च पिब नः क्षीरमच्युत ।
ब्रह्माण्डोदर विश्वात्मन् साफल्यं नो विधेहि च ॥२३ ॥ अनादिश्रीकृष्णनारायणस्तत्प्रार्थनां तदा ।
स्वीकृत्याऽनुग्रहेणैव कोटिरूपो बभूव ह ॥२४॥ प्रतिधेनुं तु बालोऽसौ दुग्धदोहकवत् स्थितः ।
प्रतिधेनुस्तनं प्राप्य दुग्धधारां निसर्गजाम् ॥२५ ॥ स्नेहजां चातिमिष्टां च हरिः स्वस्य मुखेऽग्रहीत् ।
पपौ पयांसि चाऽऽतृप्तिं गोभ्यः स्तन्यमपाययत् ॥२६ ॥ प्रासादिकं च देवेभ्यः कन्याभ्यः पितृभ्यस्तथा ।
ददौ पश्चादेकरूपोऽभवत् कृष्णनरायणः ॥२७॥ धेनवस्तास्तदा कृष्णं प्रार्थयामास सत्पतिम् ।
सदा रक्षय नो नाथ तवाऽग्रे सेवनाय वै ॥२८ ॥ कृष्णनारायणः प्राह तथाऽस्त्विति हसन् प्रभुः ।
धेनूनां च तदा देवो रूपद्वयं चकार ह ॥२९॥ एकं धेनुस्वरूपं च द्वितीयं कन्यकात्मकम् ।
कन्यास्ता लोमशाऽग्रे च ररक्ष भगवान् हरिः ॥2.8.३ ०॥ गावः सर्वा दिव्यदेहा ययुः स्वस्वस्थलानि वै ।
एनं महोत्सवं वीक्ष्य देवा देव्यः स्मयं ययुः ॥३ १ ॥ अथाऽसुरास्ते समयं दुग्धोत्सवं विलोक्य च ।
धेनुरूपास्तदा भूत्वा स्तन्यदानार्थमाययुः ॥२२॥ अर्जन्ताद्यास्तथा तेषां नार्यो गोरूपधारिकाः ।
कपिलाः पिङ्गला रक्ताः श्यामाः शबलिकाः पराः ॥३३ ॥ भूत्वा श्रीबालकृष्णस्य सन्निधावाययुस्तदा ।
ओधःसु सम्भृतं क्ष्वेडं श्वेतदुग्धनिभं तदा ॥३४॥ ज्ञात्वा वसुन्धरा देवी कृत्यं तद् रक्षसां तथा ।
गौश्च भूत्वा स्वयं चायात् प्रथमं श्रीहरिं प्रति ॥३५॥ प्राह गोस्वामिनं बालं नाथ पिब पयो मम ।
यथा तृप्तिर्यथेष्टं च पिब सर्वं पयो मम ॥३६॥ इमा गावोऽरण्यवासा आगता मोक्षकाङ्क्षया ।
तासामाकण्ठमापीय स्तन्यं मोक्षं प्रदेहि ताः ॥३७॥ श्रुत्वैतद् भगवाँस्तस्या वसुमत्यास्तु भावभृत् ।
ओमित्युक्त्वा शतरूपो बभूव लीलया पुनः ॥३८॥ तासामोधांसि भगवान् कराभ्यां दृढमादधे ।
स्तनानि चानने कृत्वा पपौ क्ष्वेडपयोऽतिगम् ॥३९॥ क्ष्वेडं त्वमृततापन्नं भगवन्मुखमागतम् ।
सप्राणं सर्वथा स्तन्यमपिबत् ताः प्रसह्य सः ॥2.8.४०॥ एवं कृते तु ते दैत्या दैत्यनार्यश्च वै तदा ।
त्राहि त्राहि कृपासिन्धो मुञ्च मुञ्चेति पाहि च ॥४१॥ क्षमां तदाऽर्थयामासुरासन् दैप्यस्वरूपगाः ।
माता पिता कुमार्यश्च भयमुद्वेगमागताः ॥४२॥ त्रेसुर्दैत्यकुकृत्येन कृष्णघातककर्मणा ।
दैत्यान् विलोक्य रुरुदुर्लोमशस्ता असान्त्वयत् ॥४३॥ अर्जन्ताद्या राक्षसास्ते तुष्टुवुः परमेश्वरम् ।
नमस्ते देवदेवेश परमेश नमोऽस्तु ते ॥४४॥ कृपालो तव पुत्राः स्म दासिकास्ते इमाः स्त्रियः ।
वृश्चिकानामविनये रोषं याति न सज्जनः ॥४५॥ आसुराणां निसर्गे त्वं मा याहि रोषमच्युत ।
प्राणान् रक्षय मुक्तेश क्ष्वेडं त्वयाऽमृतं कृतम् ॥४६॥ क्ष्वेडाश्रयाँस्तथा चास्मानमृतान् संविधेहि च ।
अवतारास्तथा मुक्ता ईश्वरा मुनयः सुराः ॥४७॥ ऋषयः पितरो मर्त्याः पिशाचा यक्षराक्षसाः ।
किन्नराश्चारणाः सूताः किम्पूरुषा यमानुगाः ॥४८॥ तिर्यञ्चः पशवो वृक्षा वल्ल्यः सरीसृपा मृगाः ।
गुल्मास्तृणानि पक्ष्याद्याः कीटा मशकजातयः ॥४९॥ दैत्याश्च दानवा वर्णसङ्करा असुराः शठाः ।
नागाः सर्पा जडाश्चैत्या नरा नार्यस्त्वदात्मजाः ॥2.8.५०॥ तव पुत्राः प्रभो सर्वे सत्त्वरजस्तमोयुताः ।
सर्वेष्वेव समा प्रीतिस्तव कृष्ण भवेदिति ॥५ १ ॥ पितुर्मातुः समा प्रीतिर्बालेषु विषमेष्वपि ।
रक्ष रक्ष महाराज मा प्राणेभ्यो वियोजय ॥५२॥ वयं पितृहनो जाता गरदाः पापचेतसः ।
मा गणयाऽपराधान् नो ह्यज्ञानां क्रूरकर्मिणाम् ॥५३॥ वारं वारं प्रणमामस्तृणान्यादाय वै मुखे ।
रक्ष जीवय नो नाथ मा प्राणेभ्यो वियोजय ॥५४॥ इत्यभ्यर्थ हरिं दैत्या निपेतुः पादयोर्हरेः ।
मोक्षयिष्ये हरिस्ताँश्चाऽवत् पृथ्वीसमीपतः ॥५५॥ श्रीकृष्णस्य सुयोगेन तेषां पापानि जज्वलुः ।
अर्जन्तो दैत्यवर्यस्तु राक्षसीयोनिकारणम् ॥५६॥ वर्णयामास शुद्धेन ज्ञात्वा वै हृद्येन ह ।
वयं पूर्वे मरुस्थाने गालवस्याऽऽश्रमस्थिताः ॥५७॥ विप्रा वेदाध्यायवन्तः शुद्धयज्ञपरास्तथा ।
अपरिग्रहधर्माणः कन्दमूलफलाशिनः ॥५८॥ कल्पवृक्षकल्पवल्लीकल्पमणिप्रजीविनः ।
कामरूपधरा व्योम्ना यायिनः सूर्यवर्चसः ॥५९॥ तीर्थयात्राकराश्चापि परिग्रहविवर्जिताः ।
आस्म तथापि शूद्रस्य तपसा मरुभूतले ॥2.8.६०॥ अनावृष्टिरभूत्तेन ध्वस्ताः कन्दफलादयः ।
भूत्वा च भिक्षुकाः सर्वे ह्यभूम सपरिग्रहाः ॥६१॥ दानग्राहाश्चान्नलुब्धाः प्रसह्य धनहारिणः ।
अभक्ष्यभक्षका जाता बुभुक्षिता हि पापिनः ॥६२॥ वृक्षा नष्टस्तथा नष्टा वल्लयः कामदास्तु याः ।
ततो वने विचरामो यथाकामं विधर्मिणः ॥६३ ॥ यः कश्चिन् मिलति मार्गे तद्धनं चाम्बरादिकम् ।
तदन्नं च तत्सलिलं हरामस्तस्य तत्तदा ॥६४॥ एवं वै वर्तमानानां पञ्चदशकुटुम्बिनाम् ।
सन्निधावेकदा विप्रयुगलं समुपागतम् ॥६५॥ धर्मयुक्तं दयायुक्तं ब्रह्ममार्गपरं तथा ।
वेदध्यायनसम्पन्नं षट्कर्मसम्परायणम् ॥६६॥ पत्नी पतिव्रता चासीत् स्वामिमात्रपरायणा ।
पतिसेवाकरी साध्वी स्नानपूजादिकारिणी ॥६७॥ एकभुक्तव्रतं द्वयोर्व्रतेषु जागरस्तथा ।
ब्राह्मणानां पूजने तौ प्रसन्नौ सर्वसम्प्रदौ ॥६८॥ श्रद्धाभावसमायुक्तौ गुरुपितृपरायणौ ।
तावागत्याश्रमेष्वेव विश्रान्तौ नः समीपतः ॥६९॥ तयोरग्रे पक्वसक्तून्यासन् यवास्तथाऽक्षताः ।
अस्माभिस्ते त्वपहृता भोज्यं चापहृतं तयोः ॥2.8.७०॥ वस्त्राण्यवस्कन्दितानि धनं चापहृतं तथा ।
द्वयोः कौपीनयोग्यं च वस्त्रं तदाऽवशेषितम् ॥७१ ॥ पतिर्हरिं स्मरत्येव ह्रियमाणेऽपि तद्धने ।
साध्वी सापि न च वक्ति जपत्येव हरिं मुहुः ॥७२॥ एवं तौ लुण्टतौ तत्राऽस्माभिर्दयाविवर्जितैः ।
प्रसह्य चौररूपैर्वै ब्राह्मणैर्ब्राह्मणौ तदा ॥७३॥ धर्मिष्ठौ पीडितौ वीक्ष्य भूकम्पः समजायत ।
अश्मवृष्टिरभूत्पांसुवर्षणं चाभवत्तदा ॥७४॥ द्वावेतौ वृक्षमाश्रित्य तिष्ठतश्च हरिस्मृती ।
पतिव्रता सा मन्वाना सर्व हरीच्छयेति च ॥७९॥ पतिं संवाहयामास मर्दयामास वर्ष्म च ।
सत्यां पाषाणवृष्टौ च पांसूनां वर्षणेऽपि च ॥७६॥ चक्रतुर्न च शोकं तौ रक्षेच्छां चक्रतुर्न च ।
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ॥७७॥ इति जापं प्रकुर्वन्तौ सस्मरतुर्हरिं गुरुम् ।
तावत्तत्र समायातः सछत्रवस्त्रभोजनः ॥७८॥ ब्राह्मणोऽन्यः सतिलको हृदि श्रीवत्सशोभितः ।
उज्ज्वलश्चन्द्रसदृशो ददौ पृष्ट्वा सुभोजनम् ॥७९॥ वस्त्राणि च तथा छत्रं ददौ तद्युगलाय सः ।
अस्माभिस्तद्वीक्षितं च वर्तमाने तु वर्षणे ॥2.8.८०॥ तत्र गत्वा च तदपि पुनर्हृतं समस्तकम् ।
तदा दाता तिरोऽभूच्च दिव्यदेवोऽथवा ऋषिः ॥८ १ ॥ शशापाऽस्मान् ब्रह्मपुत्रा भवन्तः क्रूरनिर्दयाः ।
स्वज्ञातिखादका यस्मात् तस्माद् भवन्तु राक्षसाः ॥८२॥ येषां नास्ति दयालेशो नार्यां नरेऽपि वै द्विजे ।
प्राप्तं पूर्वं तु तत्प्राप्तं यववस्त्रादिकं तु तत्॥८३॥ देशकालप्रवैषम्यात् क्षान्तं पापापवर्तनम् ।
पुनः प्राप्तौ पुनर्हृतं निर्दयैश्च दुरात्मभिः ॥८४॥ तस्मात् पाषाणवर्षैश्च मृतिं गत्वा हि राक्षसाः ।
भवन्तु मरुधर्माणो वसन्तु शूष्कपर्वते ॥८५॥ पश्वाहाराश्च मांसादा भवन्तु सुखवर्जिताः ।
इति शप्ता हि तेनैव व्योमवाण्या तदा वयम् ॥८६॥ शपन्तं प्रार्थयामासुः क्षमां मोक्षं सुखं पुनः ।,
तदा व्यक्तस्वरूपः स ऋषिर्वै गालवः स्वयम् ॥८७॥ आसीत्पूर्वगुरुर्नश्च जगाद दयया पुनः ।
सौराष्ट्रे श्रीकृष्णनारायणस्य च परात्मनः ॥८८॥ योगेन भवतां मुक्तिर्भविष्यति व्रजन्तु तम् ।
ततोऽस्माभिर्वन्दितश्च मुनिस्तद्युगलं तथा ॥८९॥ क्षमार्थं याचितं द्रव्यं चार्पितं प्रतिपूजितम् ।
प्रत्यर्पितं च वस्त्रान्नं ततो वयं तु वृष्टिभिः ॥2.8.९०॥ शापेन वै मृतास्तत्र राक्षसीं योनिमागताः ।
अर्जन्ताद्या वयं सर्वे राक्षसा वै कुटुम्बिनः ॥९१ ॥ पर्वतादौ निवासश्च कृत्वा नारायणं प्रभुम् ।
चिन्तयामः कदा मुक्तिप्रदः श्रीभगवान् भवेत् ॥९२॥ जातिस्मरा वयं सर्वे तलस्य कथनात् खलु ।
ज्ञानवन्तो परब्रह्म मोक्षदं चात्र राजते ॥९३ ॥ तद् वयं कृतकृत्याः स्म दैत्यभावाद् विमोचिताः ।
तव योगेन देवेश पापं प्रज्वलितं तु नः ॥९४॥ पापात्मानो वयं नाथ तारिता ब्रह्मराक्षसाः ।
क्ष्वेडं त्वस्मत्कृते जातं ह्यमृतं त्वपराधिनाम् ॥९५॥ पारः कृपायास्ते नास्ति नास्ति पारः क्षतेश्च नः ।
पारकृत् प्रकरोत्वेव पारधीन् भवपारगान् ॥९६॥ इत्युक्त्वा रुरुदुर्दैत्या जातिस्मरा मुहुर्मुहुः ।
प्रणेमुर्दण्डवत् कृष्णनारायणं जगुर्जयम् ॥९७॥ भगवाँस्तान् करुणया लोकयामास सत्वरम् ।
त्याजयामास देहाँस्तान् कारयामास देवताः ॥९८॥ रूपद्वययुतास्ताश्च कन्यकास्तास्तदाऽभवन् ।
कुमार्यः शतसङ्ख्याका रक्षिता लोमशाश्रमे ॥९९॥ दिव्या देव्यो दिव्ययानैः प्रेषिता ब्रह्मधामनि ।
एवं तेषां ब्राह्मणानां तलयोगात् प्रयोगिनाम् ॥2.8.१ ००॥ कृपया वै कृता मुक्तिः पृथ्वीगौस्तु तिरोऽभवत् ।
अनादिश्रीकृष्णनारायणो बालो बभूव ह ॥१० १॥ रेमे रञ्जनदोलायां कन्यकाभिः सुलालितः ।
आवेदितं गोस्वरूपपृथिव्या तत्र चोत्सवे ॥१ ०२॥ मात्रे पित्रे कन्यकाभ्यो ज्ञातं कृष्णस्य चेष्टितम् ।
मया ते कथितं राधे पाठे श्रवेऽपि मुक्तिदम् ॥१ ०३।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने बालकृष्णस्य द्वितीयमासारम्भे क्षीरपानोत्सवे नैकरूपैर्दिव्यगवां दुग्धपानं, गोरूपधारिणां कपटिनां राक्षसानां पत्नीनां गोरूपाणां सप्राणदुग्धधावने नाशो मुक्तिश्च भगवता कृतेत्यादिनिरूपणनामाऽष्टमोध्यायः ॥८ ॥