००७

श्रीकृष्ण उवाच-
श्रूयतां च त्वया राधे कृष्णकान्तस्य चाद्भुतम् ।
चमत्कारं द्वादशेऽह्नि प्रेङ्खायां यो व्यजायत ॥१ ॥ गोपालकृष्णको देवो नामकरणके दिने ।
पुत्रस्यार्थे शुभां दोलां कारयामास चन्दनैः ॥२ ॥ मृदुलां शायनीं शय्यां क्लृप्तयामास तत्र च ।
सद्रत्नसारमौक्तिकहीरकादिसमञ्चिताम् ॥३ ॥ स्वर्णदर्पणशोभाढ्यां धामचित्राप्यलङ्कृताम् ।
स्वर्णमयूरकीराद्यैः शोभितां सुचतुष्पदाम् ॥४ ॥ चतुर्गारुडमूर्तिस्थां चतुर्हंसमुखेषु च ।
हीरसूत्रालम्बितां च मौक्तिकदण्डिकाश्रिताम् ॥५ ॥ सुखस्पर्शकुसुमानां दिव्यवल्लीचतुष्टयाम् ।
पीयूषकिरणस्राविमध्यवितानछत्रिताम् ॥६ ॥ नैसर्गाऽनिलयोगेन वेणुगीतिमनोहराम् ।
विनैवाकर्षणं बालेच्छया रक्षितसञ्चराम् ॥७ ॥ क्वचिद्व्योम्नि क्वचिद्भूमौ क्वचिन्निम्नां क्षितिस्पृशाम् ।
क्वचिदूर्ध्वां च धवलां क्वचित्सुवर्णरूपिणीम् ॥८ ॥ क्वचिदान्दोलनं याति क्वचित् स्वभावतः स्थिरा ।
कामावसायितायुक्तां प्राप्तिसिद्धिसमन्विताम् ॥९ ॥ एवंविधां शुभां दोलामुपस्करविलासिताम् ।
विश्वकर्माणमाहूय कारयामास वै पिता ॥2.7.१ ०॥ नामविधानदिवसे क्षणे श्रेष्ठे हरिं सुतम् ।
प्रेङ्खामारोहयन्याता पुत्रं प्राक्शिरसं प्रभुम् ॥११ ॥ शोभितायां तु दोलायामस्वापयत्पुमुत्तमम् ।
अथ दोला नूतनाश्च देवा नीत्वा समाययुः ॥१२॥ अनादिश्रीकृष्णनारायणस्य शयनाय वै ।
राधे ययिथ तत्र त्वं प्रेङ्खां गोलोकजां पराम् ॥१३॥ दिव्यां नीत्वा महामूल्यां विमानवरशोभिताम् ।
लक्ष्मीस्तत्राऽऽजगामाऽपि प्रेङ्खां वैकुण्ठजां शुभाम् ॥१४॥ दिव्यां विभूतितत्त्वाढ्यां व्योममार्गस्थिरां पराम् ।
अक्षरस्य तथा पत्न्यः प्रेङ्खां परमशोभनाम् ॥१५॥ दिव्यसिंहासनाकारां समादाय ददुस्तदा ।
ईश्वर्यश्च महाविष्णुवैराजपत्निकास्तथा ॥१६॥ ब्रह्मविष्णुमहेशानां पत्न्यो वै दिव्यशोभनाः ।
प्रेङ्खा ददुर्हि विविधा बालकृष्णाय ताः स्त्रियः ॥१७॥ चतुष्कोणा वर्तुलाश्च कमलाकारनिर्मिताः ।
मत्स्याकाराः कूर्माकाराः शङ्खाकारास्तथा शुभाः ॥१८॥ हस्त्याकारा घोटिकाश्च पर्यङ्किकाश्च खट्विकाः ।
दोलाकाराश्चैकस्तम्भा द्विस्तम्भा बहुपादिकाः ॥१९॥ चक्राधाराः पदाधारा दारवीः स्वर्णनिमिताः ।
राजतीस्तैजसीश्चापि चान्द्रीर्माणिक्यमौक्तिकीः ॥2.7.२०॥ शची तत्र समायाता चैकशृङ्खलयाऽन्विताम् ।
ध्रुवाकर्षणकाधाराऽन्तरीक्षस्थायिनीं शुभाम् ॥२१॥ आन्दोलनिकां नीत्वैव वज्रसारमयीं पराम् ।
ददौ च कम्भरादेव्यै पारिजातसुगन्धिनीम् ॥२२॥ अमृतस्राविणीं भद्रां विमानवद् विहारिणीम् ।
तारा च रोहिणी मेना सिद्धिर्वसुन्धरा सती ॥२३॥ विविधाश्चानयामासुः प्रेङ्खाः कृष्णमनोहराः ।
दिव्यद्रव्यसमोपेता दिव्यसङ्कल्पजास्तथा ॥२४॥ यत्रैकैके प्रदेशे वै स्वर्गं वैकुण्ठमित्यपि ।
गोलोकं चाक्षरं धाम दृश्यते भूमिमण्डलम् ॥२५॥ यत्रैकैकमणौ तत्र ससागरवनान्विता ।
क्षितिः सन्दृश्यते तत्र मेर्वाद्याः पर्वतास्तथा ॥२६॥ क्वचिन्मणौ तदा सूर्यः क्वचिन्मणौ सुधाकरः ।
क्वचिद् विभावसुर्भाति क्वचिद् विलोक्यते दिवम् ॥२७॥ क्वचिद् विलोक्यते सत्यलोको ब्रह्मसभा तथा ।
कुत्रचित्तु मणौ तत्राऽऽलोक्यते गोपिकागणः ॥२८॥ कुत्रचिद् दृश्यते तत्र विशालं रासमण्डलम् ।
कुत्रचिच्च मणौ विलोक्यते सागरसप्तकम् ॥२९॥ अरण्यानि विलोक्यन्ते मण्यन्तरे तथा परे ।
मणौ चालोक्यते शुभ्रं नन्दनं च वनं महत् ॥2.7.३ ०॥ पातालानि विलोक्यन्ते चान्येषु मणिषु प्रिये ।
कुत्रचित् क्षीरवार्धिश्च कुत्रचिन्नागमण्डलम् ॥३ १ ॥ विमानानि विलोक्यन्ते सर्वं देवगृहादिकम् ।
कुत्रचिद् दृश्यते द्वादशाधिकं शतमुत्तमम् ॥२२॥ परधामस्थपत्नीनां निजसेवापरायणम् ।
सप्तर्षिमण्डलं ध्रुवमण्डलं च ग्रहादिकम् ॥३३॥ आश्चर्याणि विलोक्यन्ते हीरकेषु तु केषुचित्॥ उद्यानानि विलोक्यन्ते केषुचिद् विमलानि वै ॥३४॥ इत्येवं दिव्यतायुक्तप्रेङ्खाश्चादाय योषितः ।
समायाता ददुस्ताश्च बालकृष्णार्थमेव ताः ॥३५॥ चारण्यश्चापि गान्धर्व्यः किन्नर्यश्चापि कन्यकाः ।
नृत्यगीतिपराः कृष्णप्रेङ्खादानार्थमाययुः ॥३६॥ कम्भरायै ददुस्ताश्च गोप्यो ददुश्च खट्विकाः ।
मानव्योऽपि ददुस्तस्यै समान्दोलनघोटिकाः ॥३७॥ हीररश्मिसमायुक्ताः किङ्किणीजालराविताः ।
वाद्यमिष्टस्वरश्रावाः वस्त्रग्रन्थनकारिताः ॥३८॥ एवमासाद्य सा माता प्रसन्नाऽति बभूव ह ।
कृष्णस्तासु च सर्वासु युगपत्कृतकेतनः ॥३९॥ यावत्सङ्ख्याश्च ता दोलास्तावद्रूपधरो हरिः ।
बालरूपः स्वयमान्दोलनं चक्रे हसन् मुहुः ॥2.7.४०॥ दृष्ट्वा चैनं चमत्कारं महाश्चर्यप्लुताः स्त्रियः ।
कृष्णं कान्तं हृदि कृत्वा दध्यू रूपं पतिं प्रभुम् ॥४१॥ अक्षराधिपतिः श्रीमाननादिर्भगवानयम् ।
सर्वासां कामनापूर्णकरः का चित्रताऽत्र वै ॥४२॥ तदा तं परमब्रह्म दृष्ट्वा तेजस्विनं हरिम् ।
प्रेमपूर्णहृदयास्ताः स्वस्वपालनगं प्रभुम् ॥४३॥ आन्देलयित्वा गृह्णन्ति यावद् रामयितुं हरिम् ।
तावद् दोलानद्धमणिष्वनेकरूपतां गतः ॥४४॥ प्रत्येकायां च दोलायां बहुरूपमयं प्रभुम् ।
विलोक्य यावद् गृह्णाति प्रतिबिम्बं च तद् भवेत् ॥४५॥ नैव हस्तगतः कृष्णो भवत्याश्चर्यकारकः ।
तदा निवृत्तिमापन्ना जडेव तिष्ठति प्रिया ॥४६ ॥ एवं सर्वासु दोलासु बहुरूपं हरिं च ताः ।
अगृह्णन्त्योऽभवन्मुग्धाः कथं कृष्णो न लभ्यते ॥४७॥ तदा तु ललिता लक्ष्मीः प्रभा पारवती जया ।
माणिक्या नित्ययोगिन्यस्तासां प्रत्ययहेतवे ॥४८॥ सर्वाभ्यः प्राह शृणुत भगिन्यः सत्यमाधवम् ।
ग्रहीतुं चेच्छथ यदि वदाम प्रत्ययं हरेः ॥४९॥ तस्य दक्षे करे सन्ति मीनशूलधनुर्ध्वजाः ।
बिम्बे दक्षकरे ते स्युः प्रतिबिम्बे तु वामके ॥2.7.५०॥ सचिह्नं वामहस्तं मा स्पृशत प्रतिबिम्बकम् ।
सचिह्नदक्षहस्तं तं गृह्णत श्रीहरिम् ऋतम् ॥५१॥ इत्युक्तास्तास्तथा धृत्वा समुत्तोल्य परेश्वरम् ।
हसन्ति हासयन्ति श्रीकान्तं कट्यां निषाद्य च ॥५२॥ चूम्बयित्वा प्रभुं कृष्णं बालं कान्तं पुनः पुनः ।
करतलयोर्दोलावत् कृत्वा त्वान्दोलनं मुहुः ॥५३ ॥ उत्क्षेपयित्वा गृह्णन्ति रामयन्ति स्म तत्पराः ।
एवमानन्दमासाद्य चक्रुर्दोलागतं हरिम् ॥५४ ॥ तावद्रूपाणि संहृत्य त्वेकरूपोऽभवत्प्रभुः ।
रिक्ता दोलाश्च या जातास्ताश्च ताभ्यः प्रसादजाः ॥५५॥ कम्भराश्रीर्ददौ सर्वाः प्रत्यर्पणविधानतः ।
एका प्रेङ्खाऽक्षररूपा गोपालकृष्णकारिता ॥५६॥ बालयुक्ता शिष्यते स्म चान्दनी दारवी शुभा ।
तास्तु प्रसादरूपाश्च दिव्याः प्रेङ्खाः सुपावनीः ॥५७॥ गृहीत्वा कन्यका देव्य ईशान्यो हर्षमागताः ।
अथैका तलदैत्यस्य सिंहारण्यनिवासिनः ॥५८॥ पुत्री कन्या तलाजाख्या तलपर्वतवासिनी ।
आगता चोत्सवं श्रुत्वा कृत्वा रूपद्वयं तदा ॥५९॥ एका सा कन्यकारूपा यथेन्द्रस्य कुमारिका ।
सर्वावयवशोभाढ्या दिव्यरूपविलासिनी ॥2.7.६ ०॥ सर्वभूषणसंशोभत्स्वर्णवस्त्रादिधारिणी ।
दिव्यहस्तिसमारूढा दिव्याम्बालिकसंस्थिता ॥६ १ ॥ द्वितीयं चाकरोद् रूपं दोलाख्यं बहुहीरकम् ।
बहुचित्रसमायुक्तं बहुरत्नसुमौक्तिकम् ॥६२॥ असङ्ख्यमालिकाहारशकुन्तव्रातशोभितम् ।
अन्तरीक्षगतौ दीपौ विद्येते चोर्ध्वयायिनौ ॥६ ३ ॥ तदाधारा च सा प्रेङ्खा निराधाराऽन्तरीक्षगा ।
दीपोष्मकृतसञ्चारा दिव्यकौशेयगेन्दुका ॥६४॥ एवंविधा च कमलपुष्पाकारा सुवर्तुला ।
मध्यक्लृप्तसुशयना कोमला क्षीरवर्णगा ॥६५॥ तलाजयाऽवतीर्यैव हस्तितो भूतलं प्रति ।
व्योमचारा तु सा दोला शनैश्च करचेष्टया ॥६६ ॥ अप्यवतारिता भूमौ तथापि सा तदाऽम्बरे ।
हस्तमात्रं भुवस्तूर्ध्वं स्थिराऽभवन्न भूगता ॥६७॥ एवंविधां शुभां दोलां दृष्ट्वा देवस्त्रियस्तदा ।
मुमुहुश्च जहृषुश्च प्रशशंसुः पुनः पुनः ॥६८॥ तलाजा तु हरिं कृत्वा कुङ्कुमाऽक्षतपूजितम् ।
अर्पयामास दोलायां कम्भरासन्निधौ स्थिता ॥६ ९॥ हरिं च चान्दनीदोलासुप्तं धृत्वा शनैः शनैः ।
स्वदोलायां धृतवती मनोमालिन्यसम्भृता ॥2.7.७ ० ॥ तलेन प्रेषिता शत्रुं कृष्णं मारयितुं तथा ।
तादृग्रूपधरा दुष्टा प्रेङ्खास्थं बालकं शनैः ॥७ १ ॥ उत्तोल्य व्योममार्गेण शीघ्रं दुद्राव चाम्बरे ।
अष्टयोजनदूरं सा गताऽरण्यं निजाश्रमम् ॥७२ ॥ हरिणैषा च विदिता हन्तुमिच्छावती तदा ।
तलाजाया गह्वरे स प्रभुश्चतुर्भुजोऽभवत् ॥७३ ॥ द्वितीयं बालरूपं च कुङ्कुमवापिकागताम् ।
आश्रित्य चान्दनीं दोलां वर्तते चेत्यदर्शयत् ॥७४॥ तत्र देव्यो रामयन्ति दोलायां परमेश्वरम् ।
यतो नाऽसां भवेच्छोकः प्रेङ्खोत्सवे तथाऽकरोत् ॥७५ ॥ शङ्खचक्रगदापद्मधरोऽपि बालरूपवान् ।
अत्युज्ज्वलः स भगवान् हासयामास राक्षसीम् ॥७६ ॥ हास्यैर्विविधैश्चेष्टाभिर्बालकम्पनकैस्तदा ।
चन्द्रतुल्यं हरिं दृष्ट्वा सा तु मुमोह राक्षसीम् ॥७७॥ मारयितुं मयाऽऽनीतो बालोऽयं कोमलाङ्गकः ।
कथमेनं मारयामि रामयितुं सुयोग्यकम् ॥७८ ॥ न चायं मारयितव्यो रामयितव्य एव ह ।
वृद्धिं गतो मम स्वामी भविष्यति युवा दृढः ॥७९ ॥ इति सा चिन्तयित्वैव गह्वरे शयने शुभे ।
फलैः सुमधुभिश्चैनं रसैर्दुग्धादिभिः सदा ॥2.7.८ ० ॥ पोषयति स्म तत्रैव रक्षति स्माति नित्यदा ।
बालोऽपि चेष्टते नित्यं यथा सा रञ्जिता भवेत् ॥८ १ ॥ कृष्णपतित्वसङ्कल्पः पुण्यं तस्यास्तदाऽभवत् ।
तेन शुद्धां निजभक्तां मत्वा कृष्णनरायणः ॥८२ ॥ पापिन्याः सेवया पापध्वंसं चकार माधवः ।
सेवां जग्राह सततं प्रेमदुग्धं पपौ मुहुः ॥८३ ॥ एवं दिनाष्टकं यातं तलः प्रतीक्षते सुताम् ।
अनायातां तदाऽरण्ये तलस्याऽऽश्रममित्यतः ॥८४॥ ज्ञातवान् स मृता सेति यद्वा कृष्णगृहे स्थिता ।
यद्वाऽन्येन वलिष्ठेन धर्षिता च हृता च वा ॥८५ ॥ मार्गयामीति कृत्वैवाऽऽश्रमं त्यक्त्वा वनं वनम् ।
वृक्षं शृङ्गं तलं चाद्रिं पश्यन् याति यदा तदा ॥८६ ॥ दृष्टवान् पादविन्यासान् गह्वरस्य मुखे स्त्रियाः ।
आह्वयामास तां नाम्ना सा श्रत्वा भयमागता ॥८७॥ मारणार्थं मयाऽऽनीतो रक्ष्यते चेति कारणात् ।
पिता मां क्रोधमापन्नो सबालां मारयिष्यति ॥८८॥ इति सा भयमापन्ना तुष्टाव मौनमास्थिता ।
कृष्णं चतुर्भुजं कान्तं सर्वया शरणागता ॥८९॥ रक्ष रक्ष हरे कान्त परमेश्वर केशव ।
त्वयि मे मानसं लग्नं पिता मां घातयिष्यति ॥2.7.९०॥ इति स्तुत्वा च तं बालं कृत्वा वक्षसि भामिनी ।
अश्रुपातं चकाराऽथ कृष्णो युवा दृढोऽभवत् ॥९ १ ॥ पुष्टो दानवनाशार्थं धृतचक्रो बभूव ह ।
तलाजा तं विलोक्यैव क्षणं चुचुम्ब तं पतिम् ॥९२॥ भगवाँस्तु क्षणानन्दं दत्त्वा दिव्यां विधाय च ।
कृत्वा लीनां निजदेहे श्यामरूपो बभूव ह ॥९३॥ आजगाम गुहायास्तु बहिर्यत्र तलः स्थितः ।
तलो गदायुतश्चापि जीवने शङ्कितोऽभवत् ॥९४॥ शङ्खं दध्मौ हरिस्तत्र तलो दुद्राव भीतितः ।
पृथिव्यन्तस्तले लीनोऽभवत् तत्र हरिस्तदा ॥९५॥ त्यक्त्वा तं च स्वयं कन्यायुतः कुङ्कुमवापिकाम् ।
समाजगाम सततं लोमशस्याऽऽश्रमे हरिः ॥९६॥ विधाय कन्यकारूपद्वयं चैकां तदैव सः ।
हंसयानेन च नैजं धाम चाप्रेषयत् प्रियाम् ॥९७॥ द्वितीयं कन्यकारूःप लाजाख्यं समरक्षयत् ।
लोमशस्याऽऽश्रमे चान्यकन्याभिः सममेव सः ॥९८॥ कृष्णार्पणं गता सा च तलाजा दिव्यरूपिणी ।
लाजारूपाभवत् सर्वपूजायां मङ्गलात्मिका ॥९९॥ श्रीहरिं लाजया नित्यं वर्धयन्ति सुरस्त्रियः ।
एवं तलाजा प्रेङ्खा सा लाजारूपाऽभवत्तथा ॥2.7.१० ०॥ प्रेङ्खारूपा तथा चास्ते कृष्णस्याऽनुग्रहात् सदा ।
कन्यारूपा कृष्णपत्नी कुमारिकादिषु स्थिता ॥१०१ ॥ तथा दिव्यस्वरूपा च परे धाम्नि विराजते ।
कृष्णनारायणयोगाच्चतुर्धारूपधारिणी ॥१ ०२॥ अनादिश्रीकृष्णनारायणसेवास्थिताऽभवत् ।
लाजा प्रेङ्खा कन्यका च मुक्तरूपेतिभामिनी ॥१०३ ॥ यथा गङ्गाम्बुनो योगाद् रथ्याम्बु याति गाङ्गताम् ।
तथाऽनादिकृष्णयोगाद् राक्षसी याति मुक्तताम् ॥१ ०४॥ किमत्र तु महाश्चर्यं राधे वदामि वै हरेः ।
त्वादृशी सा हरेः पत्नी विवाहेन भविष्यति ॥१ ०५॥ अथ श्रीभगवान् मातृसन्निधौ बालके पुनः ।
बालरूपः समागत्य चान्तर्लीनोऽभवत्तदा ॥१ ०६॥ तलाजयेदं कथितं लोमशाय महर्षये ।
लोमशेन च कथितं पितृभ्यां दैवतं च तत् ॥१ ०७॥ सर्वैर्ज्ञातश्चमत्कारो याते दिनाष्टके तदा ।
मेनिरे ते महाश्चर्यं शान्तिपाठान् प्रचक्रिरे ॥१ ०८॥ अथोत्सवे समायाता देवा देव्यश्च भोजिताः ।
वन्दिताश्चाऽर्पिता दानैर्गमिताः शं निजगृहान् ॥१० ९॥ त्रयोदशे दिने गत्वा गृहानष्टदिनोत्तरम् ।
ज्ञात्वा कृष्णप्रतापं च चमत्कारभरं परम् ॥2.7.११० ॥ परम्परया ते देवा देव्यो मुमुदुरान्तरे ।
नेमुः प्रसस्मरुः स्वामिकृष्णनारायणं हृदि ॥१११ ॥ इत्येवं कथितो राधे! प्रेङ्खोत्सवो महान् शुभः ।
चमत्कारश्च कथितः श्रोतृवक्त्रोः प्रमुक्तिदः ॥१ १२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीकृष्णनारायणप्रभोः प्रेङ्खाऽऽरोहणोत्सवे तलपुत्र्यास्तलाजाराक्षस्याः कापट्येनाऽऽगताया अपि हरौ मोहिताया मुक्त्यादिचमत्कारवर्णननामा सप्तमोऽध्यायः ॥७ ॥