००६

श्रीकृष्ण उवाच-
शृणु त्वं राधिकेऽनादिकृष्णनारायणस्य वै ।
प्राप्ते त्वेकादशे चाह्नि लोमशाद्या महर्षयः ॥१ ॥ शीलव्रताः साधवश्च ब्रह्मविद्यापरा जनाः ।
पित्राऽऽहूता आययुस्ते कृष्णनारायणगृहम् ॥२ ॥ नामकरणसंस्कारं चक्रुस्ते तु विधानतः ।
आद्यं ग्रहार्चनं चक्रुर्देवतापूजनादिकम् ॥३ ॥ गाणेशार्चनमीशादिपूजनं चक्रुरादरात् ।
मातृकापूजनं चार्षं पूजनं चक्रुरीश्वराः ॥४ ॥ ऊर्जाऽष्टम्यां कृष्णपक्षे मिथुने चन्द्रके स्थितौ ।
जन्माऽस्य तेन नामाऽस्य कृष्णनारायणेति हि ॥५ ॥ यस्य नाऽऽदिर्नचैवाऽन्तोऽनादिनारायणस्ततः ।
अवतारपतिः सोऽयमवतारी निगद्यते ॥६ ॥ सर्वदुःखहरश्चाऽयं हरिरित्यभिधीयते ।
दुःखानां कर्षणात् कृष्णो नरस्थत्वान्नरायणः ॥७ ॥ नारस्थोऽस्ति यतश्चाऽयं नारायणोऽपि गद्यते ।
अक्षराधिपतिश्चाऽयमक्षरातीत उच्यते ॥८ ॥ पुरुषेषूत्तमश्चायं पुरुषोत्तम उच्यते ।
पुंसामुत्तम एवाऽयं पुमुत्तमः सदोच्यते ॥९ ॥ बृहत्वाद् व्यापकत्वाच्च परत्वात् सर्वतस्तथा ।
परब्रह्मेत्यभिधानं कृष्णवल्लभते यतः ॥2.6.१ ०॥ श्रिया जुष्टः सदा तस्माच्छ्रीकृष्णवल्लभः स्वयम् ।
ईश्वराणामीश्वरोऽस्ति परमेश्वर उच्यते ॥१ १॥ मायानामीश्वरश्चायं धवो माधव उच्यते ।
सर्वात्मनामतं स्वामी स्वामिनारायणो यतः ॥१२॥ घनश्यामस्तथा छत्रशाल्याचार्योऽस्ति सर्वदा ।
जयारमाललितामाणिक्यालक्ष्मीपतिः प्रभुः ।
प्रभापारवतीमञ्जूहंसासगुणिकापतिः ॥१३ ॥ द्वादशोत्तरशतसुराज्ञीनां परमेशिता ।
अन्यासां कोट्यर्बुदानां पतिश्चायं भविष्यति ॥१४॥ अस्य हस्ते धनुर्मत्स्यो ध्वजः स्वस्तिर्विराजते ।
वज्रं शरस्त्रिशूलं च पादयोः शिखरादिकम् ॥१५॥ षोडशानां च चिह्नानां रेखाः सन्ति शुभाः स्फुटाः ।
ललाटे कानकी रेखा तिलकस्य विराजते ॥१६॥ नेत्रकोणेषु च रक्ता रेखाः सन्ति विमोहिकाः ।
आकर्णान्ते तथा नेत्रे चन्द्रकोट्याननोज्ज्वलः ॥१७॥ ओष्ठौ स्वभावतो रक्तौ कण्ठे तिलश्च वर्तते ।
वक्षसि चास्य रोम्णां च दक्षावर्तोऽपि वर्तते ॥१८॥ कानकी च शुभा लक्ष्मीरेखा मणिप्रलेखिका ।
असूत्रहारः सौवर्णो वर्तते हृदयेऽस्य च ॥१९॥ नखाश्चन्द्रसमाः सन्ति करपादतलानि तु ।
पद्मगर्भनिभान्येव चतुश्चक्राणि सन्ति च ॥2.6.२०॥ शङ्खचिह्नं स्वकं चास्य वर्तते शोभनं हरेः ।
सक्थिमूले क्षतचिहं वर्तते वामसञ्ज्ञिते ॥२ १॥ वामजान्वोपरि सक्थ्नि पाण्डुरश्चन्द्रमा अपि ।
वर्तते कोटिपत्नीनां स्वामित्वबोधको हि सः ॥२२॥ जघने नाभ्यधोभागे स्त्रीचिह्नं चास्य वर्तते ।
अर्धनारीश्वरश्चायं पतिपत्नीस्वरूपवान् ॥२३॥ आजानुलम्बभूजौ च वर्ततेऽस्य प्रभोस्तथा ।
घूटिकात्रयमस्तस्य प्रत्येके चरणेऽस्ति वै ॥२४॥ दक्षिणे सक्थिनि मध्ये रथचिह्नं हि वर्तते ।
गरुडस्तिष्ठति तत्र रेखयाऽतो नरायणः ॥२५॥ सहस्रभुजवान्नाऽयं भवत्येव परेश्वरः ।
लिङ्गे चास्योपरि चास्ते तिलः कृष्णो हि पार्श्वके ॥२६॥ वामे सक्थिमूलके च ततोऽसौ वीर्यवान् बहु ।
चत्वारश्चास्य वृषणा द्वौ पार्श्वे द्वावधःस्थितौ ॥२७॥ ततोऽसौ कोटिनारीणां तृप्तिदोऽस्खलितो बली ।
अस्योदरे तु नाभेर्वै ह्युपरि कुम्भलेखिका ॥२८॥ विद्यते कुम्भवद् रेखा प्राणायामनिरोधिका ।
ततोऽसौ योगिराट् नैकरूपधारी भवेदपि ॥२९॥ नेत्रेऽस्य चान्धकारेऽपि सूर्यवत्तु प्रकाशते ।
ततोऽसौ दिव्यदर्शी च वर्तते परमेश्वरः ॥2.6.३०॥ जिह्वाग्रं रक्तमस्याऽस्ति लिङ्गाग्रं रक्तमित्यपि ।
अङ्गुल्यग्राणि रक्तानि विद्यन्तेऽस्य स्वभावतः ॥३ १ ॥ ततश्चायं भवेद् राजाधिराजः परमेश्वरः ।
रोमाग्राणि स्वर्णवर्णसमानानि लघूनि च ॥३२॥ प्रकाशन्ते चान्धकारे विद्युल्लता यथा स्थिताः ।
ततोऽसौ परधामस्थो भगवान् पुरुषोत्तमः ॥३३॥ दन्तेष्वस्य च धावल्यं चमत्कृतिकरं तथा ।
कान्तिप्रदं च हास्यादौ दृश्यतेऽतो नरायणः ॥३४॥ पश्य गोपालकृष्णऽस्य बाह्वोर्मूले करावुभौ ।
स्वर्णरेखामयौ दिव्यौ राजेतेऽतो नरायणः ॥३५॥ उज्ज्वला त्रिवली चास्य मध्यनाभौ प्रवर्तते ।
ललाटं चोन्नतं नेत्रे दीर्घे नासाग्रवक्रता ॥३६ ॥ विद्यते दन्तकलिकाः समानाः पूर्णसङ्ख्यया ।
सुगन्धश्चास्य च पारिजातकुसुमवत् सदा ॥३७॥ मूर्तौ संवर्तते श्वासे कैसरो वास इत्यपि ।
स्वेदे शैत्यं च धावल्यं नैर्मल्यं च सुगन्धिता ॥३८॥ मेहनादावपि चास्य दौर्गन्ध्यं न मनागपि ।
औज्ज्वल्यं चान्तरे भागे कुक्षौ कुक्षौ च रक्तता ॥३९॥ श्यामता रोममध्येषु कृष्णता मूलकेषु च ।
वक्रता नाडिकाः श्यामा रक्ताः पिशङ्गिकास्तथा ॥2.6.४० ॥ मर्माणि धवलान्यस्य रम्यता च मनोहरा ।
स्थलपद्मसमं चास्य सौकुमार्यं प्रविद्यते ॥४१ ॥ वाणी वेदमयी गीतिः स्वरा घोषाश्च शारदाः ।
सर्वज्ञाननिधिश्चायं परमात्मा परेश्वरः ॥४२॥ नामान्यस्य त्वनन्तानि गुणाश्चाऽसङ्ख्यकास्तथा ।
ऐश्वर्याण्यप्यनन्तानि गणनारहितानि वै ॥४३ ॥ अनादिश्रीकृष्णनारायणोऽयं सर्वदा भुवि ।
ख्यातिमाप्स्यति ऋषिभिः संहिताभिश्च सर्वथा ॥४४॥ कथाभिर्बहुभिश्चापि पत्नीनां चार्बुदैस्तथा ।
अवतारैरनेकैश्च कार्यैश्चमत्करैस्तथा ॥४५॥ एवमुक्त्वा विरराम लोमशो मुनिसत्तमः ।
ऋषयोऽपि तदा चान्ये शुभाशीर्वादमाददुः ॥४६॥ कुमारिका अपि कान्तं सेवयामासुरुत्सुकाः ।
अथ नामानि च पिता श्रावयामास चाऽच्युतम् ॥४७॥ वाद्यानि वादयामासुर्गापयामासुरुत्तमाः ।
गीतिका नर्तयामासुर्नृत्यवेत्र्यः सतालिकाः ॥४८॥ वर्धयामासुराशीर्भिर्देव्यः सर्वभुवां तदा ।
रमयामासुरत्यर्थं कृष्णनाममहोत्सवे ॥४९॥ प्रजा जनाश्च भोज्यानि भोजयामासुरत्यति ।
ददौ दानानि च तदा श्रीमान् गोपालकृष्णकः ॥2.6.५० ॥ पूजयामासुरीशाश्चाऽनादिकृष्णनरायणम् ।
उपायनानि च ददुः स्वर्गधामाऽभिजानि च ॥५१ ॥ एवं नामविधं कृत्वा लोमशाद्या ययुर्गृहान् ।
देवाः सर्वे यथास्थानं ययुः प्रजाजना ययुः ॥५२ ॥ शृण्वत्र राधिके नाममहोत्सवेऽसुरो महान् ।
द्रष्टुं देवं समायातो व्याघ्रारण्यनिवासकृत् ॥५३॥ साणनामाऽसुरो गिरेर्गह्वरे कृतकेतनः ।
यत्र साणो वसत्येव गिरयोऽपि तदा च ते ॥५४॥ साणस्य गिरयश्चैवं ख्यातिमाप्तास्तदाऽभवन् ।
साणोऽयं तु पुरोत्पन्नो हिरण्याण्डस्य मेहतः ॥५५॥ असुरस्य मृतेः काले सङ्कर्षणसमीपतः ।
स च विलोक्य संहारकारणं कर्षणं बलम् ॥५६॥ तुष्टाव भयसम्पन्नः शरणं समियेष च ।
तदा सङ्कर्षणस्तं तु जीवनं दानमाददौ ॥५७॥ साणः पृथ्वीं खण्डभूतां वियुक्तां च विलोक्य वै ।
तत्र वासं तदा कर्तुं चाययौ समरण्यकम् ॥५८॥ अरण्यं चायतं वृक्षान् निबिडान् शतयोजनम् ।
वीक्ष्य तत्र शतक्रोशक्षितौ पर्वतकोच्छ्रयान् ॥५९॥ साणश्चकार वसतिं चासुरस्तत्र निर्भयः ।
स च तत्र समायातो नामसंस्कारके दिने ॥2.6.६ ०॥ यत्राऽनादिः प्रभुः कृष्णनारायणो गृहेऽस्ति वै ।
साणो विप्रस्वरूपेण चागत्य प्राप्य भोजनम् ॥६ १॥ दक्षिणां विविधां नीत्वा ययौ साणाद्रिगह्वरम् ।
द्वादशे दिवसे तस्य मतिर्जाताऽतितामसी ॥६२॥ सस्मार पितृवैरं च मारकं बालकं च तम् ।
सङ्कर्षणात्मकं नारायणं निश्चित्य माधवम् ॥६३ ॥ अस्त्रशस्त्राणि नीत्वैव सन्नद्धश्चागतोऽसुरः ।
कृष्णं नाशयितुं राधे वैरिणं बालरूपिणम् ॥६४॥ दिवा विप्रो हि स भूत्वाऽतिथिरूपेण वर्तते ।
मार्गयन् हर्तुमेवैनं छिद्रं दिने न लब्धवान् ॥६५॥ षष्ठीकन्याः कुमार्यस्ताः सम्भूय कान्तमच्युतम् ।
रामयन्ति रमयन्ति रमन्ते स्माऽविरामतः ॥६६॥ रात्रौ तास्तं विहायैव लोमशस्याऽऽश्रमं ययुः ।
तदा छिद्रं परं प्राप्य व्याघ्ररूपधरोऽसुरः ॥६७॥ रात्र्यर्धे विगते बालं भक्षितुं क्रूररूपवान् ।
क्रूरकर्मा क्रूरनेत्रः क्रूररावोऽभवत्क्षणम् ॥६८॥ सूतिकागृहमागत्य गर्जनां प्रचकार ह ।
चकाराऽन्या गर्जनाश्च वनं कम्पयुतं तदा ॥६९॥ भूः सर्वा कम्पिता लोकास्त्रासं ययुश्च विह्वलाः ।
माता च विह्वला त्रस्ता पिता भीतिं जगाम ह ॥2.6.७०॥ जना व्याघ्रभयात्तत्र निलिल्युश्च गृहेष्वपि ।
हाहाव्याक्रोश एवाऽऽसीत् कृष्णशय्यास्थले तदा ॥७१ ॥ अहो व्याघ्रो वनाद् यातो मृत्युरूपोऽर्भकस्य वै ।
रक्षन्तु देवता देवं देव्यश्चेति जगुर्जनाः ॥७२॥ अनादिश्रीकृष्णनारायणं रक्षन्तु रक्षकाः ।
इति माताऽवदत्तत्र साक्रोशं वै मुहुर्मुहुः ॥७३ ॥ व्याघ्रस्तावत्समुत्प्लुत्य सूतिकाशयनं ददौ ।
बालं करेण जिघृक्षुर्यावद् यतते श्वापदः ॥७४॥ तावत् कृष्णोऽभवत्तत्र किशोरः ससुदर्शनः ।
माता मूर्छां गता वीक्ष्य मत्वा व्याघ्रहृतं सुतम् ॥७५॥ सुदर्शनं परं चक्रं कृष्णनारायणेन वै ।
अङ्गुलिमध्यतो मुक्तं वह्निव्याप्तं महोज्ज्वलम् ॥७६ ॥ भ्रमत्सहस्रारयुक्त शतसूर्यातिशायि तत् ।
तदा चोग्रमभूद् व्यग्रं यावद् व्याघ्रं जिघांसति ॥७७॥ तावन्मृत्युभयाद् व्याघ्रः समुत्प्लुत्य गृहाद् बहिः ।
विनिपत्य प्रदुद्रावाऽरण्यं जीवितुमुत्सुकः ॥७८॥ चक्रं पृष्ठे तस्य लग्नं तं ददाह पुनः पुनः ।
क्वचित्क्वचित् पृष्ठदेशं स्पृष्ट्वा चकर्त भागतः ॥७९॥ व्याघ्रो निहन्यमानोऽसौ प्लवते स्माति वेगतः ।
आक्रोशति स्म दीनार्तो वाचा भीभृतया तदा ॥2.6.८०॥ क्रोशमात्रं गतो यावद् दक्षिणां दिशमेव सः ।
सुदर्शनेन निहतः साणः सव्याघ्रदेहभृत् ॥८ १॥ व्याघ्रहणं च तत्तीर्थं सुदर्शनकृतं स्थलम् ।
प्रख्यातं कुङ्कुमवाप्या दक्षिणेऽश्वसरोवरात् ॥८२॥ साणो नष्टो योजनोच्छ्रं शरीरं प्राज्वलत्तदा ।
सुदर्शनाग्निना भस्म जातं पुण्येन तेन वै ॥८३॥ साणात्मा तद्विनिर्गत्य भूत्वा चतुर्भुजस्तदा ।
दिव्यो वै पार्षदो भक्तो धौतात्मा पापवर्जितः ॥८४॥ अनादिश्रीकृष्णनारायणेतिमुखतो वदन् ।
सुदर्शनस्य वशगोऽनादिकृष्णं प्रति द्रुतम् ॥८५॥ व्योम्ना समाजगामाथ प्रभौ विलीनतां गतः ।
अथाऽक्षरस्य मुक्तास्तं नेतुं विमानसंस्थिताः ॥८६॥ आययुः श्रीहरेः क्षेत्रे तदाऽयं कृष्णमूर्तितः ।
विनिर्गत्य ययौ धामाऽक्षरं साणस्तु शाश्वतम् ॥८७॥ सुदर्शनं तदा शान्तं कृष्णाङ्गुलौ लयं गतम् ।
अनादिश्रीकृष्णनारायणोऽपि निद्रितः सुखम् ॥८८॥ अन्ये मात्रादयो योगनिद्रां कृत्वा प्रगे तदा ।
विघ्नशान्तिक्रियां चक्रुर्लोमशाद्या अपीश्वराः ॥८९॥ व्याघ्रासुरो हतश्चेति श्रुत्वा निश्चिक्युरीश्वरम् ।
साधारणा जना बालं देवाश्चक्रुः प्रपूजनम् ॥2.6.९०॥ श्रुत्वा च कन्यकाः सर्वा रुरुदुर्विघ्नमुल्बणम् ।
रक्षणं च बलं श्रुत्वा जहृषुश्चागताः पुरः ॥९१ ॥ दर्शनं च समाचक्रुः कान्तस्याऽतीव भावतः ।
शुभाशिषः प्रददुश्च मेनिरे नवमागतम् ॥९२॥ पिता विघ्नस्य शान्त्यर्थं होमं जपं चकार ह ।
साध्वादींस्तर्पयामास भोज्यान्नपानसद्धनैः ॥९३॥ वस्त्रभूषादिदानानि कन्यकाभ्यो ददौ सती ।
गोभ्यो ददौ च घासानि मिष्टान्नान्यपि भूरिशः ॥९४॥ पिपीलिकादिसूक्ष्मेभ्यः पिष्टकणादिकं ददौ ।
एवं शान्तिं कारयित्वा रमयामास माधवम् ॥९५॥ माता पिता तथा चान्यवर्गः कुमारिकागणः ।
इत्येतत् कथितं राधे बालकृष्णपराक्रमम् ॥९६॥ पठनाच्छ्रवणाच्चापि मोक्षदं स्वर्गदं परम् ।
पुत्रदं धनदं स्मृद्धिप्रदं रोगविनाशकम् ॥९७॥ शोकविघ्नहरं रम्यं रक्षाकरसुखावहम् ।
नारीणां शोकहरणं शुभं सौभाग्यवर्धनम् ॥९८॥ अवैधव्यकरं कृष्णचरित्रं पावनोत्तमम् ।
श्रोतव्यं सततं चैतदैश्वर्यार्थिभिरादरात् ॥९९॥ षण्मासाभ्यन्तरे श्रोतुरुपतिष्ठन्ति सिद्धयः ।
अणिमाद्या दिव्यगुणा दिव्याः समृद्धयस्तथा ॥2.6.१० ०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परमेश्वरस्य नामकरणसंस्कारविधिः, साणाऽसुरस्य व्याघ्ररूपधरस्य हरिं हन्तुमिच्छतश्चक्रेण विनाशनं शान्तिकरणं चेत्यादिनिरूपणनामा षष्ठोऽध्यायः ॥६ ॥