००४

श्रीकृष्ण उवाच-
शृणु राधे कम्भराया गृहे तत्र महोत्सवः ।
सञ्जातः सुमहान् सौराष्ट्रस्थानां च गृहेषु च ॥१ ॥ ज्ञात्वा ब्रह्माण्डपालाश्च दिक्पाला ईश्वरादयः ।
मानवाश्च सुरा देव्यो विमानैर्व्योममार्गतः ॥२ ॥ दर्शनार्थं समायाताः सर्वे व्योमप्रचारिणः ।
आकाशं चाभवच्छन्नं विमानैर्दिव्यभास्वरैः ॥३ ॥ कम्भराया गृहे पुष्पवृष्टिश्चन्दनवर्षणम् ।
दिव्यधामगतानां चाऽक्षतानां वर्षणं ह्यभूत् ॥४ ॥ निपेतुश्च तदा व्योम्नो दिव्यकुङ्कुमबिन्दवः ।
जयशब्दा वाद्यशब्दा गीतयश्चाऽभवँश्च खे ॥५ ॥ यथाऽपरं च गोलोकं वैकुण्ठं चाऽपरं च वा ।
अव्याकृतं द्वितीयं वाऽक्षरं धामाऽपरं यथा ॥६ ॥ तथा कुङ्कुमवाप्याख्यं क्षेत्रं कामसमं ह्यभूत् ।
अवतारा ईश्वराश्च सुराः स्तवनमादधुः ॥७ ॥ उपदाश्च न्यधुर्नत्वा कृत्वा दर्शनमुत्तमम् ।
वयं यस्मात्समुत्पन्ना यदैश्वर्यप्रभोगिनः ॥८ ॥ यन्नियम्याः सर्वदा स्मो नमामस्तं परेश्वरम् ।
सत्स्वरूपं पररूपं सर्वधामसु वासिनम् ॥९ ॥ कृपया लोकरक्षाया धर्मवन्तं परात्परम् ।
बालं च कम्भरालक्ष्मीनन्दनं च नुमः प्रभुम् ॥2.4.१ ०॥ यस्यैश्वर्यविभूतीनां नैव पारो हि विद्यते ।
सत्वं सङ्क्षिप्य सञ्जातः कृपया त्वां नुमः प्रभुम् ॥११ ॥ मोक्षदः सर्वलोकानां धामदः पुण्यशालिनाम् ।
स्वर्गदो रागयुक्तानां यस्तं नुमः पुमुत्तमम् ॥१ २॥ दैत्ये देवे राक्षसे च मानवे च पिशाचके ।
नागे नगे मुनौ नार्यां तिर्यक्षु च द्रुमे तृणे ॥१३।
समदृष्ट्या च चाण्डाले वर्तसे त्वं कृपावशः ।
समानपितरं तं त्वां वन्दामहे नरोत्तमम् ॥१४॥ भावियुगेषु चान्यानि क्षेत्रतीर्थानि वै भुवि ।
भविष्यन्ति तथाप्येतत्सदृशानि न तानि वै ॥१५॥ मत्स्याद्या अवताराश्च भविष्यन्ति ह्यतः परम् ।
एतत्क्षेत्रं समासाद्य निवत्स्यन्ति तवाऽन्तिके ॥१६ ॥ यत्राऽऽस्से त्ववताराणां कारणं परमेश्वरः ।
तत्क्षेत्रं सर्वधाम्नां च वन्द्यं सदा भविष्यति ॥१७॥ अन्याऽण्डेभ्यश्चाऽधिकं वै स्वस्तिमच्चाऽण्डक न्विदम् ।
यदत्र खण्डकेऽखण्डपूर्णप्रभुर्विराजसे ॥१८॥ तवाऽनुग्रहहीनोऽपि सम्राट् दीनतरो मतः ।
तवाऽनुग्रहयुक्तस्तु हीनोऽपि भूभृतायते ॥१९॥ तव पत्कजहीना तु दिव्या भूरपि कल्मषा ।
तव पत्कजयुक्ता तु कृष्णा भूरपि भास्वरा ॥2.4.२०॥ धन्येयं कम्भरालक्ष्मीर्धन्यो गोपालकृष्णकः ।
धन्यः सुराष्ट्रको देशो धन्या कुङ्कुमवापिका ॥२१ ॥ अश्वपट्टसरो धन्यं धन्यास्ता वृक्षवल्लिकाः ।
धन्या नराः स्त्रियश्चात्र ह्यपि कीटपतङ्गिकाः ॥२२॥ यासां येषां नित्ययोगोऽनादिकृष्णनरायणे ।
जय स्वामिन् जय चाऽऽद्य जय देव नमोऽस्तु ते ॥२३॥ इति स्तुत्वा प्रभुं सर्वे राधिके! मौनमास्थिताः ।
हसन् श्रीभगवाँस्ताँश्च देवान् देवीस्तथाऽपरान् ॥२४॥ वरं वृणुतेत्युवाच भगवान् करुणालयः ।
वक्रः सर्वे नमस्कृत्य जन्म कुङ्कुमवापिके ॥२५॥ क्षेत्रे देशे सुराष्ट्रे च यत्र तत्पादपङ्कजौ ।
धामधामनिवासिन्यो देव्यो वव्रुस्तथा वरम् ॥२६॥ तव पार्श्वे निवसामो गृहीत्वा जन्म कन्यकाः ।
कोट्योऽर्बुदानि तासां च सौराष्ट्रादौ प्रलेभिरे ॥२७॥ प्राकट्यं च तथा देवाः कुमाराह्यभवँस्तदा ।
सङ्कल्पमात्रजन्मानो गृहे गृहे च देवताः ॥२८॥ वृक्षा वल्ल्यश्च ताः सर्वा अनन्ता देव्य एव ताः ।
गावो वृषास्तथा चान्ये करिणो वाजिनस्तथा ॥२९॥ मृगाश्च मेध्यपशवो दिव्यदेहास्तदाऽभवन् ।
कल्पद्रुमाः कल्पलताः कल्पस्तम्बास्तदाऽभवन् ॥2.4.३ ०॥ चिन्तामणयः सततं कामदुघाश्च कोटिशः ।
हंससारसमेनाकोकिलकीरमयूरकाः ॥३ १ ॥ देवतास्तत्स्वरूपाश्चाऽभवन् कुङ्कुमवापिके ।
यतयो मुनयश्चान्ये ऋतवः साधवोऽपरे ॥३२॥ बभूवुस्तत्र वृक्षादौ शकुनानि समन्ततः ।
नदा नद्यश्च तीर्थानि वासं चक्रुस्तदन्तिके ॥३ ३ ॥ मूर्ताऽमूर्तानि तत्त्वानि कीटपतङ्गरूपिणः ।
अश्वपट्टसरस्तीरे भूत्वा चक्रुर्निवासनम् ॥३४॥ गान्धर्वा गायिकाश्चान्या देव्यश्च नागकन्यकाः ।
तत्र जले निवासं च दिव्यदेहा व्यधुर्मुदा ॥३५॥ स्वर्णस्थलं रत्नपूर्णं दिव्यतां प्राप तत्स्थलम् ।
यानि रत्नानि चाब्धौ वै यानि स्वर्गादिके स्थले ॥३६॥ यानि मेर्वादिशैलेषु देवानां त्वाश्रमेष्वपि ।
सिद्धानां सम्पदो याश्च भूमिपानां विभूतयः ॥३७॥ ताः सर्वाः कुङ्कुमवाप्यामागता हरिपादयोः ।
रैवताचलतः पूर्वं शत्रुञ्जितायाः पश्चिमम् ॥३८॥ भद्रानद्या दक्षिणं च पञ्चाशत्क्रोशवर्तुलम् ।
कुङ्कुमवापिकाक्षेत्रं परन्धाम विराजते ॥३९॥ हरिस्तत्र बालभावैः राजते परमेश्वरः ।
ब्रह्मा तत्र समायातस्तस्मै श्रीहरिणाऽर्पितम् ॥2.4.४० ॥ परमेष्ठिपदं चाद्ये जन्मनो दिवसे स्वके ।
विष्णवे लोकरक्षार्थं वैकुण्ठं च जलोपरि ॥४१ ॥ अर्पितश्च तथा श्वेतद्वीपो नारायणाय च ।
क्षीरोदश्चार्पितस्तेन शेषनारायणाय च ॥४२॥ अर्यम्णे चार्पितं पितृराज्यं श्रीहरिणा तदा ।
तेन सनत्कुमारायाऽर्पितं चार्षं पदोत्तमम् ॥४३॥ नारदाय तदा दत्तं देवर्षित्वं च मानसम् ।
माहेन्द्रं च पदं दत्तमिन्द्राय दिवि राजसम् ॥४४॥ धर्मराजाय च याम्यं पदं तेन समर्पितम् ।
कुबेराय धनाढ्यत्वं वारुणं वरुणाय च ॥४५॥ वायवे चाग्नये ईशानाय निर्ऋतये तथा ।
दिक्पालत्वं प्रदत्तं च सूर्याय तैजसं स्थलम् ॥४६॥ सोमायौषधिनाथत्वं तथा नक्षत्रराजता ।
मेरवे पर्वतराज्यं सरिद्राज्यं च सागरे ॥४७॥ तत्त्वानां परमं राज्यं तत्तत्तत्त्वेषु चाहितम् ।
एवं तेन कृता लोके व्यवस्था परमात्मना ॥४८॥ रत्नसिंहासने स्थित्वा मुकुटान्यार्पयत् प्रभुः ।
ते च सत्ताशासनानि गृहीत्वा हरिमार्चयन् ॥४९॥ जन्ममध्याह्नपूर्वं वै व्यवस्था लोकधारिणी ।
अनादिश्रीकृष्णनारायणेन रचिता पुरा ॥2.4.५० ॥ तदा जन्मनिमित्तानि राज्यनिमित्तकानि च ।
पिता देवाः प्रददुश्च दानान्यसङ्ख्यकानि च ॥५१॥ रुद्रः सहारकृद्धिष्ण्य लब्ध्वा दानानि सन्ददौ ।
गोपालकृष्णो दानानि गवां लक्षायुतानि च ॥५२॥ रत्नानि स्वर्णपात्राणि मणीन् गृहाणि सन्ददौ ।
रम्याणि भवनानि श्रीमन्ति दाने ददौ हि सः ॥५३॥ यानानि स्वर्णवर्णानि सवितानानि सन्ददौ ।
व्योमयानानि दिव्यानि गजाश्वेरेथवन्ति च ॥५४॥ कन्यादानानि विप्रेभ्यो ददौ द्रव्याणि वै मुदा ।
भोजनानि विचित्राणि सुमृष्टानि घृतानि च ॥५५॥ शर्करा दिव्यवस्त्राणि विभूषा हीरकाञ्चिताः ।
शारीरसाधनलेपान् विष्णुतैलादिकान् ददौ ॥५६ ॥ ऊर्मिकाः कङ्कणान् दिव्यान् शय्यापर्यङ्कवल्कलान् ।
कलशान् स्थालिका कमण्डलूनास्तरणानि च ॥५७॥ पूजापात्राणि दिव्यानि पात्राण्यक्षयकानि च ।
वाहनानि वृषान् योग्यानन्नानां सञ्चयान् ददौ ॥५८॥ कल्पवृक्षान् कल्पकल्मान् कल्पवल्लीर्ददौ मुदा ।
चिन्तामणीन् दासदासीः सेवकान् किङ्करान् ददौ ॥५९॥ स्वर्णपद्मानि चान्द्राणि पाषाणानि ज्वलन्ति च ।
प्रकाशकप्रदीपाँश्च स्वर्णपेटीश्चटीर्ददौ ॥2.4.६० ॥ आसनानि स्वर्णरूप्यतन्तुजन्यानि सद्बृसीः ।
कटानि धोत्रकञ्चुकादीन्यसङ्ख्यानि वै ददौ ॥६१ ॥ भक्ष्यभोज्यानि पेयानि चाऽमृतान्यक्षयाणि च ।
मण्डपान् सवितानाँश्च सुवर्णशकटीर्ददौ ॥६२॥ उष्ट्रानजानाविकाश्च घोटकान् गवयान् ददौ ।
जलयानानि सामुद्रान्तःसञ्चारीणि सन्ददौ ॥६३ ॥ गौमुखीर्जपमालाश्च मृगचर्माणि वै ददौ ।
आसनानि विचित्राणि कम्बलानि घटीर्ददौ ॥६४॥ कालवेधकयन्त्राणि विषहारमणीनपि ।
कायाकल्पकररसान् दंशावरणकानि च ॥६५॥ ध्रुववीक्षकयन्त्राणि वह्निकान्तमणीन् ददौ ।
महिषीश्चामरीगाश्च तदा कृष्णामृगान् ददौ ॥६६॥ उपस्कराणि सर्वाणि गृहयोग्यानि वै ददौ ।
यज्ञपात्राणि सर्वाणि विप्रेभ्यो ब्रह्म वै ददौ ॥६७॥ मोक्षपात्राणि दिव्यानि देवमूर्तीर्ददौ मुदा ।
तथा चाऽभयदानानि सन्तोषाँश्च ददौ तदा ॥६८॥ रम्ययज्ञोपवीतानि दूरदर्शकयन्त्रकान् ।
दूरश्रवणयन्त्राणि शीतहारमणीन् ददौ ॥६९॥ सूर्यकान्तानयस्कान्तानसङ्ख्यान् वै ददौ तदा ।
चिन्तामणीन् भोग्यमणीन् संहारकृन्मणीन् ददौ ॥2.4.७०॥ पौष्पबाणान् विलासाँश्च फलपत्राणि गन्धकान् ।
वृष्टिवाहान् भूगदण्डान् चमत्कारद्रवान् ददौ ॥७१॥ दिव्यमन्त्रान् सिद्धभावान् कामरूपधरान् ददौ ।
कल्पजालचमत्कारान् ब्राह्मसङ्कल्पकान् ददौ ॥७२॥ उज्ज्वलाश्च शुभा विद्या शारदाः कन्यका ददौ ।
विप्रेभ्यो विप्रयोग्यानि ऋषियोग्यानि यानि च ॥७३॥ क्षत्रियेभ्यः क्षात्रधर्मपुष्टिदानि ददौ तदा ।
ध्वानयन्त्राणि च वायुयन्त्राणि गूटिकास्तथा ॥७४॥ वैश्ययोग्यानि च सर्वकरणानि तदा ददौ ।
सेवकानां च योग्यानि वर्गाणां नियतानि च ॥७५॥ यानि यानि यदिष्टानि तानि तानि तदा ददौ ।
अदेयं न तदा तस्य किञ्चिदासीन्महोत्सवे ॥७६॥ सिद्धिजं योगजं दिव्यं मानसोत्थं च तत्त्वजम् ।
भौतिकं मात्रिकं बौद्धं मन्त्रजं चात्मजं च वा ॥७७॥ यत् किञ्चिद् येन यच्चेष्टं वाञ्छितं वै तदा तदौ ।
मया दत्तं चाऽक्षयं वै यस्मादक्षयमेव तत् ॥७८॥ सर्वेषां लोकवासानां तन्तुश्चाऽक्षयतां व्रजेत्॥ इति मत्वा सम्पदां वर्धकं सम्पत्प्रदं ददौ ॥७९॥ कल्पपुत्तलिका रम्याः सर्वकामदुघा ददौ ।
कल्पाङ्गुलीयकान्यपि मणियुक्तानि वै ददौ ॥2.4.८०॥ एवं ह्यनादिश्रीकृष्णनारायणजनेर्दिने ।
दानान्यारात्रिं प्रददौ श्रीमद्गोपालकृष्णकः ॥८ १ ॥ कम्भरा च महालक्ष्मीर्ददौ दानानि वै हृदा ।
शाटिकाः कङ्कतीश्चापि दर्पणानि च कञ्चुकीः ॥८२॥ घर्घरीश्चोलिकाश्चापि कुङ्कुमाऽलक्तकानि च ।
तैलानि च सुगन्धीनि कङ्कणानि च शृङ्खलाः ॥८३॥ योषिद्भ्यः कन्यकाभ्यश्च बालिकाभ्यश्च बङ्गिडीः ।
बलयानैरेयकाँश्च नत्थीश्चिबूकबिन्द्विकाः ॥८४॥ चन्द्रकारशना हारानूर्मिका नूपुराणि च ।
कौशेयकानि वस्त्राणि सौभाग्यस्य द्रवाणि च ॥८५॥ भोजनानि विचित्राणि बालक्रीडनकानि च ।
बालासनानि दोलाश्च प्रेङ्खा हिन्दोलिकास्तथा ॥८६॥ घोटिकाः खट्विकाः पर्यङ्किकाश्च चमचानि च ।
मृदूनि बालवस्त्राणि कन्यावस्त्राणि सन्ददौ ॥८७॥ कलशान् गर्गरीश्चापि द्रोणान् हाण्डानि भाण्डकान् ।
पात्रान् दर्वीन् स्रुवान् स्थालीः पात्राणि विविधानि च ॥८८॥ किङ्किणीजालसन्नद्धप्रकोष्ठभूषणानि च ।
हस्तिदन्तजरम्याभूषणानि सन्ददौ सती ॥८९॥ क्षेत्राणि वाटिका ग्रामानुद्यानानि वनानि च ।
सस्यान्युत्तमधान्यानि मृष्टान्नानि ददौ तदा ॥2.4.९०॥ सिन्दूरान् पत्रिकाः सूत्राण्यपि कानकचीपिटान् ।
स्वर्णहारान् मणिनद्धान् हीरकाञ्चितमालिकाः ॥९ १ ॥ केयूरकाँश्च मुकुटान् चूल्लिका व्रेल्लणानि च ।
ताम्रपेटास्तालिकाश्च चामरव्यजनानि च ॥९२॥ कशिपुगेन्दुकगुप्तदोरकादीनि सन्ददौ ।
दुग्धं दधि घृतमाज्यं मिष्टं मिश्रं ददौ तदा ॥९३ ॥ पेयं स्वाद्यं च सम्मृद्य सुगन्धद्रव्यमाददौ ।
पिष्टं शालीनक्षताँश्च जारिका बर्जरान् ददौ ॥९४॥ गोधूमान् मुद्गमाषाँश्च राजमाषादिकान् ददौ ।
यवान् व्रीहींश्चणकाँश्च कणान् कुलत्थिकान् ददौ ॥९५॥ गुडान् मधूनि च तिलान् मधुपर्कांस्तदा ददौ ।
सर्पिहैयङ्गवीनं च पायसानि तदा ददौ ॥९६॥ यद् यदासीत् स्मृतौ तत्र तत्तत् दानं तदा ददौ ।
देवा दैत्या ऋषयश्च मानवा विस्मयं ययुः ॥९७॥ ईश्वरा लोकपालाश्च दृष्ट्वा जग्मुश्च विस्मयम् ।
सुवर्णरसवल्लीश्च - सन्धिन्याद्यौषधीर्ददौ ॥९८॥ गृहीत्वा दिव्यवल्लीश्च दिव्यबीजादिगूटिकाः ।
कामरूपप्रदाः सर्वा गृटिकाः प्राप्य योषितः ॥९९॥ मुमुदुश्चाप्यतीवाति ददुराशिष ईशिकाः ।
महोत्सवो महान् जातो भोज्यदानाऽभिनन्दनैः ॥2.4.१०० ॥ चतुर्दशानां लोकानां श्रीहरिं वीक्ष्य वासिनः ।
उपदाः सम्प्रदायैव गृहीत्वा च प्रतिग्रहान् ॥१०१ ॥ भुक्त्वा पीत्वा च सम्भूय तृप्तिमासाद्य शाश्वतीम् ।
नीत्वा प्राप्तं दानमानं सायं लोकान् ययुः स्वकान् ॥१ ०२॥ जन्मोत्तरं दर्शितं च नालच्छेदादिकं तदा ।
महामाया महापुंसः पत्नी स्वयं चकार ह ॥१ ०३॥ स्नानसंस्कारकान् शुद्धिं वह्निसेवनमित्यपि ।
देववल्लोकवत् सर्वं सूतिकागृहमान्तरम् ॥१ ०४॥ स्नानादि योग्यमेवापि चकार जनकोऽपि च ।
भगवान् बालवज्जातः सुष्वाप योगनिद्रया ॥१ ०५॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने परमेश्वरस्य जन्मदिनेऽवतारा ईश्वरा लोकपालाः प्रजाः समागताः, विविधदानानि चेति-
निरूपणनामा चतुर्थोऽध्यायः ॥४ ॥