००२

श्रीकृष्ण उवाच-
शृणु राधे प्रवक्ष्यामि शान्तिदं माणिकीश्वरम् ।
यतश्चाहं ततश्च त्वं त्वत्तो हिरण्मयः पुमान् ॥१ ॥ महाविष्णुः समुत्पन्नस्ततो विराडजायत ।
अष्टावृत्तियुताण्डानि वैराजात् सम्प्रजज्ञिरे ॥२ ॥ वैराजस्य नाभिदेशान्नालं विश्वसृजा युतम् ।
समुत्पन्नं जले तत्र ब्रह्मणे चाण्डमर्पितम् ॥३ ॥ पञ्चाशत्कोटिसङ्ख्याकयोजनं त्वेकमण्डकम् ।
पीठयुक् कानकं तेजोव्याप्तं शुभास्पदं बहिः ॥४ ॥ अन्तर्लोकांस्ततो ब्रह्मा कल्पयामास योगतः ।
चतुर्दशप्रसङ्ख्यातान् ह्युपर्युपरि संस्थितान् ॥५ ॥ मध्ये मेरुर्महाशैलश्चाधारस्तम्भ इत्यपि ।
कृतवाँस्तं स्वयं ब्रह्मा यदाधारास्तरा मताः ॥६ ॥ पृष्ठदण्डो यथा देहे ब्रह्माण्डे मेरुराट् तथा ।
वैराजस्य च देहाद् यज्जलं तत्र व्यजायत ॥७ ॥ तस्मिंस्तु कमलं नाभेर्जातं ब्रह्मात्र साऽण्डकः ।
ववृते सर्वथा पूर्वं दिव्यवर्षसहस्रकम् ॥८ ॥ स्वोत्पन्ने च जले शिष्ये वैराजोऽब्दसहस्रकम् ।
अथ यस्मात्स्वयं जातो वैराजः स हिरण्मयात् ॥९ ॥ सोऽपि हिरण्मयः कोशो द्वेधा मध्याद् व्यजायत ।
द्वौ तौ जातौ कूर्चभागौ स्थितौ तौ तु महाजले ॥2.2.१ ०॥ यथा शकुनिबालं च पक्वं सम्पूर्णगात्रकम् ।
अण्डं भित्त्वा बहिर्याति बहिस्तस्मात्तथा विराट् ॥११ ॥ निर्यात्येव जले तत्र विद्यमानः स्वपित्ययम् ।
तदाऽण्डकोशभागौ द्वौ कूर्चौ स्थितौ तु यौ जले ॥१२॥ क्लिद्यमानौ जलपक्वौ बहुवर्षसहस्रकम् ।
कूर्चाभ्यां जलपक्वाभ्यामुत्पन्नावसुरौ तदा ॥१३ ॥ हिरण्यकूर्चनामा च हिरण्याण्डाभिधः परः ।
वैराजतुल्यदेहौ तौ ब्रह्माण्डाऽधिकवर्ष्मणौ ॥१४॥ क्षुधितौ बलगवाढ्यौ गदावर्मान्वितौ दृढौ ।
नर्दन्तौ सुमहानादान् भ्रामयन्तौ गदे निजे ॥१५॥ जलान्यालोडयन्तौ च स्फोटयन्तौ स सक्थिनी ।
गर्जयन्तौ दिशः सर्वास्त्रासयन्तौ महेश्वरान् ॥१६॥ हसन्तौ त्वट्टहासाँश्च मुञ्चन्तौ लीलयाऽन्वितौ ।
पश्यन्तौ चाभितस्तत्र भक्ष्याणि वारिधौ तदा ॥१७॥ धावमानौ च परितो दृष्ट्वा छायां जलादिषु ।
भ्रान्त्या भक्ष्याणि मत्वैवाऽलाभे निराशतां गतौ ॥१८॥ मार्गणेऽपि न लब्ध्वा तौ भक्ष्यं जलसमुद्भवम् ।
तदा सुप्तं तु वैराजं भक्षयितुमुपागतौ ॥१ ९॥ एकेन सन्धृतश्चायं वैराजो मस्तके तदा ।
अपरेण धृतश्चायं पादयोर्जलमध्यतः ॥2.2.२० ॥ उत्तोल्य च ततः स्थानाद् गन्तुमुद्यमितावुभौ ।
तौ विलोक्य तु वैराजः स्वसदृशौ महासुरौ ॥२१ ॥ अप्रधृष्यौ भक्षणार्थमुद्यन्तौ तामसावुभौ ।
सस्मार स्वजनकं च महाविष्णुं शरण्यकम् ॥२२॥ तुष्टाव परया भक्त्या कर्षयद्भ्यां प्रपीडितः ।
वैराजस्तौ गदाचक्रैस्ताडयामास वै तदा ॥२३ ॥ पल्लताभिर्मुष्टिभिश्च ताडयामास वेगतः ।
तथाऽप्यगणयन्तौ तत् जह्रतुस्तं जलान्तरे ॥२४॥ तदा परवशः सोऽयं वैराजः पितरं निजम् ।
एकाग्रमानसो भूत्वा दध्यौ रक्षार्थमेव च ॥२५॥ ब्रह्मणः कमलं नालं ब्रह्माण्डं सर्वमेव च ।
जले विलुलितं तत्राऽभवत् प्रलयकालवत् ॥२६॥ ब्रह्माऽपि भयमापन्नो रक्षार्थं परमेश्वरम् ।
सस्मार प्रपितरं स्वं महाविष्णुं हिरण्मयम् ॥२७॥ काविमौ भगवन् दैत्यौ महावार्षु विनाशकौ ।
रक्ष रक्ष महाविष्णो शीघ्रं नाशय तावुभौ ॥२८॥ एवं स्मृतो विराजेन ब्रह्मणाऽपि मुहुर्मुहुः ।
महाविष्णुः शङ्खचक्रगदापद्माऽसिशक्तिमान् ॥२९॥ नाराचमुद्गरशूण्डीशतघ्नीसहितः प्रभुः ।
दिव्यं यानं समारुह्योपतस्थे दैत्यसन्निधौ ॥2.2.३०॥ दृष्टौ तेन समुत्पन्नौ शकलाभ्यामुभौ दृढौ ।
हन्तुं समिच्छुकौ पुत्रं वैराजं जलशायिनम् ॥३ १ ॥ शखनादः कृतस्तेन विष्णुना प्रभविष्णुना ।
ईशलोकानभिव्याप्य गोलोकं व्याप्तवान् ध्वनिः ॥३२॥ वैकुण्ठं च तदा व्याप्तोऽव्याकृत धाम सर्वशः ।
अमृताख्यं तथा धाम संव्याप्तो युद्धबोधकः ॥३३॥ ध्वनिस्तेन महाराजः सङ्कर्षणः प्रतापवान् ।
युद्धं ज्ञात्वा क्षणं ध्यात्वा ब्रह्माण्डरक्षणाय सः ॥३४॥ वैराजस्य महाविष्णोर्ब्रह्मणो रक्षणाय च ।
स्मृतमात्रं दिव्यदेहो ययौ दिव्यगदान्वितः ॥३५॥ यत्र दैत्यौ महाविष्णुर्विराडपि जले स्थिताः ।
महाविष्णुः सृष्टिपालं संहारकं दुरात्मनाम् ॥३६॥ तुष्टाव नमनं कृत्वाऽर्थयामास प्ररक्षणम् ।
सङ्कर्षणस्तदा रूपं विकरालं समातनोत् ॥२७॥ सहस्रदशकं यस्य बाहूनां वर्तते तदा ।
शिखाः यस्य तु वैकुण्ठमभिव्याप्योर्ध्वमागताः ॥३८॥ सहस्रदशकं तस्य पादानां तु महाजले ।
कच्छपस्याऽप्यधो यातं मध्ये ब्रह्माण्डकोटयः ॥३ ९॥ करकन्दुकतुल्यास्ताः शिलाः शस्त्राणि चाऽभवन् ।
क्षेपयित्वा करैस्तानि ब्रह्माण्डानि परस्परम् ॥2.2.४० ॥ युयुधुस्तेऽसुराभ्यां वै सङ्कर्षणादयस्तदा ।
अनेकाऽण्डानि नष्टानि प्रक्षिप्तानि परस्परम् ॥४१ ॥ गदाभिस्ताड्यमानानि बभञ्जुश्चूर्णवत्तदा ।
दैत्यावपि च तान्येव समादायाऽण्डकानि वै ॥४२॥ चिक्षिपाते महाविष्णौ सङ्कर्षणे दृढौ दृढौ ।
सङ्कर्षणस्तु गदया निजघान च तान्यपि ॥४३॥ व्योममार्गे तथा युद्धं घोरं ताभ्यामजायत ।
हिरण्यकूर्चेनोत्प्लुत्य महाविष्णुर्ललाटके ॥४४॥ प्रताडितोऽगमन्मूर्छा हिरण्याण्डेन मस्तके ।
ताडितो गदया रोषं सङ्कर्षणो जगाम ह ॥४५॥ हिरण्याण्डकटिनिम्ने जघान गदया रुषा ।
हिरण्याण्डः क्षणं मूर्छामवाप पुनरुत्थितः ॥४६॥ स्वस्थो बभूव च यावत् तावत्सङ्कर्षणः प्रभुः ।
गदया ताडयामास हिरण्यकूर्चकं हृदि ॥४७॥ भग्नं वै हृदयं तस्य ममार गदयैकया ।
हिरण्याण्डस्तदा मूर्ध्नि महाविष्णुं जघान ह ॥४८॥ महाविष्णुः समुत्प्लुत्य हिरण्याण्डं जघान के ।
उत्प्लुत्य स विदुद्राव सङ्कर्षणं तु पृष्ठके ॥४९॥ ताडयामास गदया सङ्कर्षणस्तदाऽसुरम् ।
गदया ताडयामासाऽसुरोऽपि गदया तदा ॥2.2.५ ०॥ ताडनं तत् प्रतिगृह्य चाट्टहासं मुमोच वै ।
भ्रामयित्वा गदां व्योम्नि दशब्रह्माण्डसदृशीम् ॥५१॥ प्राहिणोद्धस्तमुक्तां तां सङ्कर्षणजिघांसया ।
महाविष्णुः स्वगदया मध्ये तताड तां गदाम् ॥५२॥ बभञ्ज सा गदा तत्र जले वै शतधाऽभवत् ।
सङ्कर्षणो गदायुक्तो दुद्राव चाऽसुरं प्रति ॥५३॥ असुरः स्वस्य रक्षार्थं जग्राहाऽण्डं महत्तमम् ।
षट्पञ्चाशत्स्तरयुक्तं चिक्षेप कर्षणं प्रति ॥५४॥ गदया चूर्णतां यातं सङ्कर्षणस्य तत्तदा ।
ततः परन्धावमानोजग्राहान्यन्महाण्डकम् ॥५५॥ महाविष्णोश्च गदया हतं तच्छतधाऽभवत् ।
ततः परं धावमानस्तृतीयाण्डं करे तदा ॥५६॥ गृहीत्वा प्राक्षिपत्तूर्ण सङ्कर्षणस्य वै हृदि ।
हृदि लग्नं बिभेदाऽपि चूर्णतां चागमद्धि तत् ॥५७॥ अथ सङ्कर्षणो देवः क्रुद्धः सृष्टिविनाशकम् ।
हन्तुं वै प्राणतस्तत्र समैच्छद् गदया प्रभुः ॥५८॥ पृष्ठं दैत्यस्य तु सङ्कर्षणोऽधावन्महाजले ।
दैत्योऽपि च प्रदुद्राव गृहीत्वाऽण्डं समीपगम् ॥५९॥ ब्रह्मनालस्थितं यत्तत् सावरणं समेरुकम् ।
साऽण्डकटाहकं पद्मे ब्रह्मणा सह यत् स्थितम् ॥2.2.६०॥ सर्वां पृथ्वीं गृहीत्वैव सङ्कर्षणभयात् स च ।
दुद्राव व्योममार्गेण सङ्कर्षणोऽन्वगात्तदा ॥६१ ॥ अथाऽसुरः प्रविवेश महाजलतले तदा ।
सङ्कर्षणोऽपि च पृष्ठलग्नो विवेश वै जलम् ॥६२॥ सङ्कर्षणेन च धृतो केशेषु च महासुरः ।
तावत् सूक्ष्मं तदा रूपं धृत्वाऽसुरो महाजले ॥६३॥ भयाद् युद्धश्रमाञ्चापि साहाय्यरहितः खलु ।
अष्टावरणमाविश्य ब्रह्माण्डस्योदरेऽगमत् ॥६४॥ तत्र सङ्कर्षणो देवः सूक्ष्मरूपधरः प्रभुः ।
ब्रह्माणं सह नीत्वैव क्षणमात्रे समाययौ ॥६५॥ ब्रह्माणं स्थापयामास सत्यलोके परस्तरे ।
सङ्कर्षणस्तदा रौद्रं रूपं दधार लीलया ॥६६॥ महाविष्णुस्तदा सूक्ष्मं विष्णुरूपं दधार ह ।
अथ ते च त्रयस्त्वत्र ब्रह्माण्डान्तर्निवासिनः ॥६७॥ असुरं मार्गयामासुर्मेरावदृश्यतां गतम् ।
हिरण्याऽण्डोऽण्डरूपः सन्मेरुकट्यां व्यवस्थितः ॥६८॥ दृश्यते नैव देहेन मृग्यमाणोऽपि वै तदा ।
योगं चकार वै विष्णुर्ददर्श छन्नविग्रहम् ॥६९॥ मेरुकट्यां गुप्तभागे स्थितं भीतं महाश्रमम् ।
अथ सङ्कर्षणो रुद्रो धृत्वा सूक्ष्माणुरूपकम् ॥2.2.७०॥ विवेश मेरुकट्यां स योगास्त्रेण च तं तदा ।
प्रजग्राह महादैत्यं प्रच्छन्नवासकारिणाम् ॥७ १ ॥ असुरो मायया तत्र शीघ्रं स्थूलो बभूव च ।
विनिर्गत्य करात् तस्य सङ्कर्षणस्य शूलिनः ॥७२॥ मेरुं प्रदक्षिणं कृत्वा पलायनं चकार सः ।
सङ्कर्षणोऽपि च तस्य पृष्ठे दुद्राव वेगतः ॥७३ ॥ असुरस्त्वाश्रयं मेरुं मत्वा बभ्राम चक्रवत् ।
शतोत्तराणि च तदा कृतानि भ्रमणानि वै ॥७४॥ तेनाऽत्यतीव श्रान्तेन मर्तुकामेन वै तदा ।
सङ्कर्षणः परावृत्त्य मुद्गलेन प्रताडितः ॥७५॥ सङ्कर्षणोऽपि च गदां प्राहिणोत् करमुक्तगाम् ।
हिरण्याण्डं प्रति हन्तुं तावद् दैत्यो बलेन वै ॥७६॥ साकर्षणीं गदां धृत्वा सङ्कर्षणमताडयत् ।
पुनर्दुद्राव च मेरुं बभ्राम भयतस्तथा ॥७७॥ सङ्कर्षणो ययौ पृष्टे यत्र यत्र स धावति ।
सङ्कर्षणो गदां धृत्वा तस्य पृष्ठेऽप्यताडयत् ॥७८॥ एवं प्रधावमानाभ्यां मेरुकम्पो व्यजायत ।
पृथिवी सप्तलोकाश्च दिवः पातालकान्यपि ॥७९॥ ह्यकम्पयन् पदन्यासैर्गदाशब्दैश्च घोषणैः ।
सङ्कर्षणस्य स गदा नीत्वा चक्रे पलायनम् ॥2.2.८०॥ सङ्कर्षणो महाविष्णोर्गदां जग्राह कानकीम् ।
मेरोः कट्यां गदाभ्यां तौ युयुधाते परस्परम् ॥८ १ ॥ द्वयोर्गदाप्रहननान्मेरुश्चुक्षोभ शैलराट् ।
मेरोः पार्श्वानि सर्वाणि चुक्षुभिरे समन्ततः ॥८२॥ भूकम्पो मेरुकम्पश्च शृङ्गकम्पो व्यजायत ।
निष्फलं हननं मेरोः कट्यां यदा प्रवर्तते ॥८३॥ तदा विशीर्यते खण्डो मेरोः कट्याः पुनः पुनः ।
एवं विशीर्णभावेन वह्निस्तत्र च घर्षणात् ॥८४॥ समुत्पन्नो लोकदावानलो जज्वाल वै दिवम् ।
गदाहननसञ्जाताऽनलप्रवाहरश्मयः ॥८५॥ यावत्कटाहमायान्ति ब्रह्माण्डं परितस्तदा ।
सविमानं च देवानां प्रजज्वाल समन्ततः ॥८६॥ महाविष्णुश्चामृतेन शमयामास चानलम् ।
हाहाकारो महानासीत् सर्वलोकनिवासिषु ॥८७॥ गदापातैस्तदा मेरोः पार्श्वखण्डाः समन्ततः ।
पृथग् व्योम्नि निपेतुश्च ताडिताश्च वियोजिताः ॥८८॥ लक्षयोजनदीर्घाश्च केचिच्चाऽयुतयोजनाः ।
अन्ये विंशतिसाहस्रयोजना द्विगुणास्ततः ॥८९॥ पञ्चविंशतिसाहस्रत्रिंशत्साहस्रयोजनाः ।
चत्वारिंशत्सहस्रयोजनाः खण्डास्तथाऽपरे ॥2.2.९०॥ केचित् षष्टिसहस्रयोजनाऽऽयतास्तदाऽभवन् ।
केचिद् दीर्घाश्च पञ्चाशद्साहस्रयोजनाः परे ॥९१॥ प्रसप्ताशीतिसाहस्रा बभूवुरायता हि ते ।
एवं भिन्ना ग्रहाः कृष्णवर्णा मेरोः समन्ततः ॥९२॥ स्वर्लोकस्य निम्नदेशे स्मोड्डयन्तेऽन्तरीक्षके ।
केचित् खण्डा जले केचिद् वायौ वर्तन्त एव ते ॥९३ ॥ आकर्षणेन वै सर्वे तूड्डयन्ते व्यवस्थया ।
तारकावत् ग्रहाः सर्वे केतवश्चाऽभवंस्तदा ॥९४॥ मेरोर्वै दक्षिणे भागे हिरण्याण्डं महासुरम् ।
जघान वक्षसि पार्श्वे मस्तके पतितं तदा ॥९५॥ सङ्कर्षणस्तु गदया प्राणतो हि जघान तम् ।
तदा गदाप्रहारैश्च गदामारैरनेकधा ॥९६॥ प्रभिन्नो दक्षिणो भागः पृथ्व्या मेरोरवाऽक्षरत् ।
लक्षक्रोशमितः खण्डो युतो लावणवारिभिः ॥९७॥ यत्र हैमश्च माहेन्द्र उरलश्चाम्रिकाचलः ।
अब्रिक्तशैलराजोऽपि चान्ये शैलाः प्रसन्त्यपि ॥९८॥ ध्रुवाकर्षणयोगेनाऽन्तरीक्षे तदधः स्थितः ।
यत्रोत्तराः कुरवश्च किम्पुरुषाः प्रदेशकाः ॥९९॥ नरनामास्तथा देशा दक्षिणे लावणे जले ।
पश्चिमे तत्र वै भागे चाब्रिक्ताश्च प्रदेशकाः ॥2.2.१० ०॥ द्वीपा लावणमध्याश्च दशसाहस्रयोजनाः ।
सहस्रयोजनाश्चान्ये स्वल्पास्त्वन्ये सहस्रशः ॥१०१ ॥ त्रयो दाक्षिणखण्डास्ते पुष्ट्या मेरोः पृथक्तताः ।
षष्टिसाहस्रकक्रोशायतो लावणवारिधिः ॥१ ०२॥ चत्वारिंशत्सहस्रक्रोशात्मा भूतलभागवान् ।
एवं लक्षक्रोशमानो ग्रहोऽन्तरीक्षकेऽभवत् ॥१ ०३॥ तत्र कालेन च वारिस्थलयोः पर्ययान्मुहुः ।
मध्यसामुद्रकखण्डाः पर्यावर्तन्त कालतः ॥१ ०४॥ जलं स्थलं स्थले वारि वने वासो गृहे वनम् ।
एवं कालेन जायेरन् भ्वां परिवर्तनानि वै ॥१ ०५॥ खण्डमध्ये समुद्राश्च भवन्ति कालयोगतः ।
जलमन्नं चाजनाभं पृथक् करोति पश्चिमम् ॥१०६ ॥ सिंहारण्यं जलमग्नं चाब्रिक्तं वियुनक्ति च ।
शुक्ल_ कुरुर्जलमग्नश्चोत्तरं किन्नरीयकम् ॥१ ०७॥ विभजते किम्पुरुषं राशनीं जापनीं भुवम् ।
मध्ये निम्नाऽखातदेशा अवान्तरप्रदेशकान् ॥१ ०८॥ विभजन्ते यत्र लोके हैमे पार्थिवगोलके ।
नरनारायणो यत्र हिमाद्रौ राजते प्रिये ॥१ ०९॥ तदेतस्मिन् मम राधे चानर्तमणिभूतले ।
कुङ्कुमवापिकाक्षेत्रे सौराष्ट्रे पुरुषोत्तमः ॥2.2.११ ०॥ अश्वपट्टसरस्तीरे गोपालकृष्णबालकः ।
प्राविर्बभूव च श्रीकम्भरालक्ष्मीसमुद्भवः ॥११ १॥ अनादिश्रीकृष्णनारायणः श्रीपरमेश्वरः ।
तत्र याहि प्रिये राधे कृष्णनारायणी भव ॥११२।
येन दत्ता च यस्याऽसि तं प्रसेव्य सुखं लभ ।
पुनर्यास्यसि मे धाम गोलोकं तदनुज्ञया ॥११३ ॥ हिरण्याण्डो मृतो मेरौ सङ्कर्षणकरेण वै ।
हिरण्मयी तु सा भूमिरण्डमध्ये व्यजायत ॥१ १४॥ हिरण्यकूर्चनामा च लोकालोकाचलाद् बहिः ।
जले मृतश्च तद्देहाज्जाता भूस्तत्र काञ्चनी ॥१ १५॥ इत्येतत् कथितं राधे प्रागाख्यानं भुवस्तव ।
प्रत्ययार्थं तथाऽण्डस्य परिचयार्थमत्र वै ॥१ १६॥ अनादिश्रीकृष्णनारायणो यत्र तु गोलके ।
प्राविर्बभूव भगवान्नरनारायणाश्रये ॥१ १७॥ इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽक्षरपरधामाधिपतेर्बहुधा वंशविस्तारे हिरण्याण्डकोशकूर्चजन्ययोर्हिरण्यकूर्चहिरण्याण्डयोरसुरयोः सङ्कर्षणद्वारा नाशः, पृथ्वीगोलकस्य तु मेरोर्दक्षिणखण्डात्मकस्यैवाऽवशेषतया राधिकायैश्रीकृष्णस्य परिचयदानमित्यादिनिरूपणनामा द्वितीयोऽध्यायः ॥२ ॥