५९०

श्रीनारायण उवाच-
अतः परं मम वक्षो लक्ष्मि! तवैव वक्षसि ।
वर्तमानं दिव्यं त्रेतासन्तानकं हि विद्यते ॥१ ॥ मया श्रीकृष्णरूपेण राधायै ते कथाः शुभाः ।
गोलोके कथितास्ताश्च सन्ति त्रेताप्रतानके ॥२ ॥ पुरायुगेऽवतारो मे त्वया साकं सुराष्ट्रके ।
ऊर्जकृष्णाष्टमीरात्र्यां बभूव प्रथमे दले ॥३ ।.
सौराष्ट्रे त्वाश्विनकृष्णदलं जानन्ति तत् सदा ।
पूर्वार्धकाले तत्सर्वं व्यवर्तत मम प्रिये ॥४ ॥ कृतदेवाः कृतपालाः कृतभक्ताः कृतप्रियाः ।
कृतधर्माः कृतात्मानः पान्तु कृताधिवासिनः ॥५ ॥ सत्यसत्यः सत्यदेव्यः सत्यव्रताः सतीस्त्रियः ।
सत्यान्तरात्मविधृताः पान्तु सत्यसमर्पिताः ॥६ ॥ यश्चाऽऽसेक्षणकः स्वविद्रुतिमनु द्रावं गतश्चात्मवान् ।
युक्सञ्ज्ञामभिगृह्य लक्ष्मपधरो द्वेधाऽभवन्नरायणः ॥ रालक्ष्माधिपतिर्गिरां मनुजनौ कृष्णारभृद् गाङ्गतः ।
सोऽहं ज्यर्थमवैमि भक्तिसुभृतैस्ते यन्तु मद्द्व्यर्थकम् ॥७ ॥ पूर्णब्रह्मतदीयदिव्यतनवो नारायणाः श्रीः श्रियः ।
ईशा ईशनिकाश्च तत्त्वविभवो देवर्षिपित्रासुराः ॥ चैत्याऽचैत्यविभूतयस्तलिगणास्तिर्यग्भवाः सन्त्वमी ।
कृत्सन्तानकृते मदर्पणविधौ पृथ्व्यो मिथः श्रेयसाम् ॥८ ॥ ये वै काश्यपगोत्रजास्तदितरे मद्धस्तसंस्पर्शगा,
ये वा मद्धृदयङ्गमा मम सतामाशीर्वचोभूमयः ॥ या मामर्पणयाजिका निजगुणैः सम्पद्य सर्वात्मना ।
ब्राह्मीं भूमिमितास्तदीयकुलजान्मोक्षं नयाम्यक्षरे ॥९ ॥ केचिन्मां प्रयजन्ति यज्ञनिकरैरन्ये प्रसेवादिभि-
र्नित्यं संस्मरणैः परे तदितरे सर्वार्पणैः संयमैः ॥ रक्ता मां रतिमार्गणैरपि रुषा रुष्टा वृषस्था वृषै-
स्ते कान्ते मयि दिव्यशाश्वतपदे मज्जन्तु चानन्दिताः ॥1.590.१०॥ अथ लक्ष्मि! कुरु शान्तिं कथयिष्ये पुनः कथाः ।
धर्मार्थकाममोक्षाढ्याः सत्योत्तरमुपस्थिताः । ११ ॥ सत्ये! सत्यविधानज्ञे! सत्यव्रतधरे! सति! ।
सत्यसन्तानकश्चात्र त्वयि सत्यां समाप्यते ॥१२॥ श्वेतव्यासश्चादिमोऽहं व्यासो व्यासाश्रये हरौ ।
लक्ष्मीनारायणसंहिताऽऽद्यसन्तानमर्पये ॥१३ ॥ प्रत्यक्षः श्रीहरिः स्वामिस्वरूपः श्रेयसे नृणाम् ।
कृष्णनारायणो नित्यप्रत्यक्षो जयतीह वै ॥१४॥ देहेन्द्रियाऽन्तःकरणात्मसु गुणेषु कर्मसु ।
व्यापको मूर्तिरूपः श्रीहरिर्जयतु सर्वदा ॥१५॥ पञ्चपञ्चाशत्सहस्राण्यपि पञ्चशतान्यपि ।
सप्तविंशतिश्चश्लोका आद्यखण्डस्य सन्ति हि ॥१६॥ ( ५५,५२७) श्लोका अस्य प्रथमखण्डस्य)
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
त्रेतासन्तानप्रस्तावः, आशीर्वादाः, स्तुतिश्चेतिकथननामा
नवत्यधिकपञ्चशततमोऽध्यायः ॥५९० ॥

इतिश्रीलक्ष्मीनारायणसहितायां प्रथमः कृतसन्तानखण्डः समाप्तः
श्रीकृष्णनारायणस्वाम्यर्पणमस्तु

यः, ईक्षणकः आस, स्वस्य विद्रुतिं विवृत्तिरूपां सृष्टिम्, अनु द्रावं प्रवेशं गतः । आत्मवान् अन्तर्यामी । युक् सञ्ज्ञाम् युगलसञ्ज्ञाम् । अभिगृह्य । लक्ष्मपधरः-लक्ष्मीपतिनामधृक् । श्रायणः-राधापतिनामभाक् । रालक्ष्माधिपतिः - राधापतिः लक्ष्मीपतिः । गिरम् मनुभावे । कृष्णारभृत्-कृष्णः नारायणश्चेति । गां वाणीं गतः । स एवाऽहं भक्तिभृज्जनैः । ज्यर्थम्-जय जयेति प्राप्नोमि । ते भक्ताः । मत्तोऽपि द्व्यर्थं द्विगुणं जयं यन्तु ॥७ ॥