५८९

श्रीनारायण उवाच-
शृणु लक्ष्मि! महावेदीमहोत्सवं वदामि ते ।
वैशाखशुक्लतृतीयातिथौ तु वरयेद् द्विजम् ॥१ ॥ तक्षाणं वृणुयाच्चापि वनयागाय वै वनम् ।
गत्वा वृक्षमध्यभुवि वह्नावष्टोत्तरं शतम् ॥२ ॥ हुत्वाऽऽज्यं वृक्षमूलेऽपि बलिं दत्वा च क्षेत्रपे ।
वृक्षमूले द्विजः किञ्चिच्छिन्द्यात् ततस्तु वर्धकिः ॥३ ॥ काष्ठान्यादाय च रथं कुर्याद् गणेशमर्चयेत् ।
द्वाविंशतिकरोच्छ्रायं चतुर्द्वारं रथं हरेः ॥४ ॥ षोडशचक्रसंयुक्तं गरुडध्वजशोभितम् ।
चतुर्दशारं शेषस्य भद्राया द्वादशारकम् ॥५ ॥ एवं साङ्गान् कारयित्वा चाकचक्यायेच्च तान् ।
बृंहयेत् सत्पटैः शृङ्गारयेत् सद्रत्नकैश्च तान् ॥६ ॥ आषाढशुक्लद्वितीयोरुणोदयेऽर्चयेद्धरिम् ।
ततो यात्रां कारयेच्च गुण्डिकामण्डपं प्रति ॥७ ॥ राज्योपचारैः रचयेदुत्सवं लक्षमानवैः ।
नातः परतरं विष्णोर्यान्त्रातरमवेक्ष्यते ॥८ ॥ चातुर्मास्ये स्थापयेच्च कार्तिकेऽन्नानि चार्पयेत् ।
विष्णोः प्रसादं भुञ्जीत तत्पावित्र्यं श्रिया कृतम् ॥९ ॥ नैवेद्यान्नं जगद्भर्तुर्गाङ्गं वारि समं द्वयम् ।
अपि कुक्कुरचाण्डालस्पृष्टं दिव्यं जलान्नकम् ॥1.589.१० ॥ यात्रा द्वादश वै कार्या मोक्षदा जगदीशितुः ।
वैशाखशुक्लतृतीये रथनिर्माणयात्रिका ॥११ ॥ ज्येष्ठे यात्रां पञ्चतीर्थी पद्भ्यां गत्वा समाचरेत् ।
ज्येष्ठे कार्या गुण्डिकाभिगतिर्वै रथयात्रिका ॥१ २॥ ज्येष्ठे प्रासादाभिगतिस्तुर्या दक्षिणयात्रिका ।
आषाढे शयनीयात्रा कर्तव्या माश्चतुष्टयी ॥१३ ॥ भाद्र पार्श्वपरिवृत्तिर्यात्रा पूजनरूपिणी ।
कुमुदे बोधिनीयात्रा महोत्सवस्वरूपिणी ॥१४॥ मार्गे प्रावरणयात्रा और्णवस्त्रादिधारणम् ।
पौषे पुष्यस्नानयात्रा तपःस्नानात्मिका शुभा ॥१ ५॥ पौषे सूर्योत्तरयानयात्रा पुण्यात्मिका मता ।
माघे वसन्तयात्रा च पूजोत्सवात्मिका मता ॥१६ ॥ फाल्गुने पुष्पदोलाया दोलायाः श्रावणेऽथवा ।
एवं महोत्सवाः कार्या मोक्षदा जगदीशितुः ॥१७॥ जगन्नाथपुरे दिव्ये जातिभेदो न विद्यते ।
नरनारीप्रभेदोऽपि तत्र कार्यो न सर्वथा ॥१८॥ सर्वे चतुर्भुजा दिव्या दृश्यन्ते तु द्विहस्तकाः ।
वसन्ति सर्वे मुक्ता मे पुण्यपुञ्जप्रदायकाः ॥१ ९॥ सर्वं प्रासादिकं मेऽस्ति दिव्यं दोषविहीनकम् ।
गोलोकं चापि वैकुण्ठं मया पृथ्व्यां समाहितम् ॥1.589.२० ॥ नार्यो लक्ष्म्यो नरा नारायणा मे जगदीशितुः ।
कृपया च प्रतापेनाऽनुग्रहेण मता मम ॥२१ ॥ भोज्याऽन्नपानवस्त्रादि नाऽशुद्धं तत्र विद्यते ।
एकादशीमया तत्राऽन्नाशने तु वशीकृता ॥२२॥ मत्प्रसादान्नभोज्यैर्न दूषणं किन्तु भूषणम् ।
साधुसेवा गुरुसेवा मम सेवाऽत्र मुक्तिदा ॥२३॥ मया गोपीविहारैर्दीयते शश्वद्धि दर्शनम् ।
दिव्या क्रीडा कामरूपा संशयात्मविनाशिनी ॥२४॥ दिव्यभावात्मनां मोक्षानन्दसन्दोहदायिनी ।
एवं स्वात्मनि विज्ञाय दिव्यतां यान्ति देहिनः ॥२५॥ अहं गोपीपतिर्वृन्दावने कुङ्कुमवापिके ।
पुरुषोत्तमभूमौ च दुर्गभूमौ प्रसिद्धिमान् ॥२६॥ यस्मै यस्मै प्रसन्नः स्यां नान्यत्तस्याऽवशिष्यते ।
आनन्ददाता वै चास्मि यथा यैर्मत्त इष्यते ॥२७॥ लक्ष्मि! क्षेत्रे मोक्षदे मे स्थापनं जगदीश्वरे ।
दर्शनं स्पर्शनं दूरस्मरणं चापि मोक्षदम् ॥२८॥ तुभ्यं मया कथितोऽयं कृतसन्तानखण्डकः ।
लक्ष्मीनारायणसंहितायाः प्रथमकोत्तमः ॥२९॥ अत्राऽऽरम्भे नारदस्य वैकुण्ठे द्रवता हरौ ।
मुक्तादीनां द्रवमुक्तिः साकारत्वं परेऽक्षरे ॥1.589.३ ०॥ गोलोकस्य प्रनिर्माणं राधार्थं कृष्णरूपतः ।
वैकुण्ठस्य च निर्माणं लक्ष्म्यर्थं चाक्षरेशितुः ॥३ १ ॥ वासुदेवात्समारभ्य परमेष्ठ्यन्तसर्जनम् ।
ब्रह्मविष्णुमहेशानामनेकत्वं ततः परम् ॥३२॥ अव्याकृतस्य च बद्रिकाश्रमस्य च दिव्यता ।
ब्रह्मणा वीक्षिता सृष्टिर्नारायणतनौ धियै ॥३ ३ ॥ ब्रह्मविष्ण्वोर्महत्त्वे च विवादः कवचादिकम् ।
ब्रह्मतेजोमयशम्भुलिङ्गाविर्भावकीर्तनम् ॥३४॥ लिङ्गान्तवीक्षणे मृषावादी ब्रह्मा च केतकी ।
अपूज्यतां सदा प्राप्तौ विष्णोश्च पूज्यतेति च ॥३५॥ अण्वण्डानां समुत्पत्तिरावरणेषु वासिनः ।
क्षणादिकमहाकालगणना च ततः परम् ॥३६॥ ब्रह्मणा च गुणाऽज्ञानाऽधर्माद्या मानसाः कृताः ।
धर्मरुद्रकृतान्तानां सृष्टिः रुद्रलयस्तथा ॥३७॥ सात्त्विकरुद्ररुद्राणीदासदासीप्रसर्जनम् ।
सनकादिशान्तसृष्टिर्वेदप्राकट्यमित्यपि ॥३८॥ माहात्म्यं च सतां दिव्यगीतादिसृष्टिरित्यपि ।
उपनिषत्कन्यकानां सृष्टिर्विद्याप्रसर्जनम् ॥३९॥ ब्रह्मप्रियादिगायत्रीसरस्वतीप्रसर्जनम् ।
एकादशीजयन्त्यादिभक्त्याराधनसर्जनम् ॥1.589.४०॥ महालक्ष्मीरमाराधासतीगङ्गादिसर्जनम् ।
साध्वीनां दिव्यनारीणां दिव्यचिह्नगुणादिकम् ॥४१ ॥ नारायणावतारात्मनरनारीप्रचिह्नकम् ।
पतिव्रताया उत्पत्तिः सामर्थ्यं च ततः परम् ॥४२॥ कुङ्कुमाऽक्षतताम्बूलनारिकेलरसादिकम् ।
रक्तगैरिकधात्वादि यथोत्पन्नं तथोदितम् ॥४३॥ कामधेनुसमुत्पत्तिः कामदेवादिसर्जनम् ।
पत्नीव्रतद्विजोत्पत्तिः पितृसेवामहत्त्वकम् ॥४४॥ पत्नीव्रतस्य माहात्म्यम् ऋणानुबन्धिपुत्रता ।
गर्भे निषेके प्राबल्यं कालदेशादिजं तथा ॥४५॥ निषेकसमयो रजोदोषापहरणं व्रतम् ।
आद्ये दिने ब्रह्मणस्तु ब्राह्मणानां प्रसर्जनम् ॥४६ ॥ सत्यलोके मानसी चर्षीणां सृष्टिः प्रकाशिता ।
महर्जनतपःस्वेव पितॄणां सर्जनं तथा ॥४७॥ पितृभ्यो देयमन्नादि हव्यवृक्षादिकं तथा ।
सूर्योत्पत्तिर्हिरण्यादि धाम चन्द्रोद्भवस्तथा ॥४८॥ रोहिण्यां पक्षपातेन चन्द्रस्य क्षयरुग्णता ।
सौराष्ट्रे सोमनाथस्य स्थापनात् क्षयहीनता ॥४९॥ देवमानुषभूतादिदैत्यदानवजङ्गमाः ।
यथा सृष्टा उदितास्ते युगवर्षादिसिद्धयः ॥1.589.५ ०॥ सिद्धिह्रासो नगराद्यौषधिवर्णाश्रमादिकम् ।
विश्वरूपस्य हत्यायाश्चतुर्धादानमित्यपि ॥५ १ ॥ दध्यञ्चास्थिकृतवज्रं वृत्रनाशोऽश्वमेधकः ।
वराहस्याऽवतारश्च पृथोश्चाऽवतरस्तथा ॥५२॥ मिथुनीसृष्टिसञ्चारः स्वप्नं मृत्युप्रदं तथा ।
चक्रवर्तिप्रचिह्नानि हिंसापक्षिप्रपातनम् ॥५ ३ ॥ द्वापरस्य स्वभावाश्च रैवतं नारदागमः ।
तत्त्वोद्देशो विवरश्च भुवो विवरपूरणम् ॥५४॥ रैवतस्य चन्द्रभावो मण्यंशो रैवतः स्वयम् ।
खद्वाङ्गस्य तपश्चाऽश्वपट्टसरसि वर्णितम् ॥५५॥ कुङ्कुमवापिकातीर्थं गोपालकृष्णकोद्भवः ।
कम्भराया महालक्ष्म्याः प्रादुर्भावः समीरितः ॥५६ ॥ लक्ष्मीनारायणजन्म बर्हिषाङ्गदकोद्भवः ।
पन्नीव्रतर्षेश्च गले मृतसर्पप्रसञ्जनम् ॥५७॥ ऋषेः पुत्रस्य शापेन कुहकदंश इत्यपि ।
प्रायोपवेशनं राज्ञः कथायाः स्थापनं तथा ॥५८॥ मूर्तिध्यानं व्रतदायास्तटे धन्वन्तरेर्गमः ।
सर्पसत्रे रक्षणं च सूर्यस्यापि विवाहनम् ॥५ ९ ॥ सूर्यपत्न्यास्तु सञ्ज्ञाया रूपद्वयस्य धारणम् ।
श्राद्धदेवयमयमीजननं च ततः परम् ॥1.589.६ ०॥ छायायामश्विनीवैद्याद्युत्पत्तिश्च ततः परम् ।
याम्यमार्गपुराणां वर्णनं नारकवर्णनम् ॥६ १ ॥ नारकाणां फलं कर्म जन्मचिह्नादिकं तथा ।
शारीरदैवचिह्नानि श्रियाश्चिह्नानि योषिताम् ॥६२॥ शवौर्ध्वदैहिकं प्रेतपीडा तस्या निवारणम् ।
प्रेतता प्रेतभोज्यादि सूतकं पिण्डकार्पणम् ॥६३ ॥ दानफलं पिण्डब्रह्माण्डैक्यं निषेकनिर्मितिः ।
मृतानां दानकार्याद्यैर्गतयो मुक्तिसाधनम् ॥६४॥ नारायणबलिश्चापि धन्वन्तरेः कथा तथा ।
सोमजन्म गुरुपत्न्या अपहृतिर्बुधोद्भवः ॥६५॥ धन्वन्तरित्रयजन्म दिवोदासकथानकम् ।’
शम्भोर्वाराणसीत्यागो दिवोदासे सविघ्नता ॥६६ ॥ योगिन्यर्कविधातृश्रीगणेशस्वप्नवर्तनम् ।
विष्णोर्नास्तिक्यकरणं राज्ञः प्रतापनाशनम् ॥६७॥ लक्ष्मीनारायणसंहितायाः सप्ताहवाचनम् ।
विश्वेश्वरप्रतिष्ठा च राज्ञो भक्तिविवर्धनम् ॥६८॥ इन्द्रसदसि च गुरोरवमानं दुर्वाससः ।
मालाया अवमानं च श्रीह्रासोऽब्धिप्रमन्थनम् ॥६९॥ रत्नोत्पत्तिरमृतार्थे दैत्यानां वञ्चनं तथा ।
सुरासुररणः पश्चात् पार्वत्यै मन्त्रयोजनम् ॥1.589.७०॥ पुण्यव्रतं च पुत्रार्थं कृष्णदर्शनमित्यपि ।
कार्तिकेयसमुत्पत्तिर्देवसेनापतित्वकम् ॥७१ ॥ तारकासुरनाशश्च तारकाख्यानमित्यपि ।
भिक्षार्थं श्रीकृष्णगतिर्गणेशोत्पत्तिरित्यपि ॥७२॥ शिरोनाशो गजमस्तकस्य सन्धानमर्चनम् ।
शनेर्दृष्टेः फलं चेति गणेशकार्तिकेययोः ॥७३॥ पृथ्वीप्रदक्षिणं चापि विवाहो मल्लिकार्जुनम् ।
नरनारायणप्रादुर्भावः पित्रोः प्रसेवनम् ॥७४॥ शम्भोवैष्णवदीक्षाया ग्रहः सत्या अपि ग्रहः ।
तप्तचक्राङ्कनपुण्यं मन्त्रार्थास्तिलाकानि च ॥७५॥ धाम्नां नामानि च परब्रह्मधाम्नः प्रवर्णनम् ।
अक्षरवर्णनं चापि गोलोकवर्णनं तथा ॥७६॥ स्थानानां गोपुरादीनां पट्टाङ्गनानां वर्णनम् ।
महावैकुण्ठकथनं सप्तव्यूहादिवर्णनम् ॥७७॥ दासदासीभवनानां पार्षदानां च वर्णनम् ।
द्वितीयवैकुण्ठकस्य वर्णनं च जलोपरि ॥७८॥ तृतीयश्वेतद्वीपस्य वर्णनं सोपभूतिकम् ।
चतुर्थक्षीरवार्धिस्थवैकुण्ठवर्णनं तथा ॥७९॥ शम्भोर्भस्माऽवगुण्ठादिशङ्काया वारणं तथा ।
हयग्रीवाऽसुरोत्पत्तिर्मत्स्यावतरणं तथा ॥1.589.८० ॥ नौकाया धारणं हिरण्याक्षनाशो वराहतः ।
जयस्य विजयस्याऽपि वैकुण्ठात्तु विवासनम् ॥८१ ॥ वाराहेण यथास्थानं पृथिव्याः स्थापनं ततः ।
तपो हिरण्यकशिपोः रुद्राच्च वरदानकम् ॥८२॥ प्रह्लादस्य ततो द्वेषो नृहरेरुद्भवस्ततः ।
हिरण्यकशिपोर्नाशः प्रह्लादस्य प्ररक्षणम् ॥८३ ॥ रैवताद्रौ वामनस्य प्रतापश्च प्रदक्षिणम् ।
मयराजस्य यज्ञश्च तीर्थानि विविधानि च ॥८४॥ अदितेश्च तपश्चर्या वामनोत्पत्तिरित्यपि ।
बलेर्यज्ञे याचना चेन्द्राय त्रिलोकदानकम् ॥८५ ॥ पयोव्रतं मृगीकुण्डकथा शकुनकानि च ।
तीर्थविधिर्व्रतादीनि चेन्द्रेश्वरकथानकम् ॥८६ ॥ शिवरात्रिमहिमादि मन्दराद्यागमस्तथा ।
अनेकतीर्थागमनं महालक्ष्मीप्रपूजनम् ॥८७॥ अलक्ष्म्याश्च समुत्पत्तिर्वासस्थानानि यान्यपि ।
द्वादश्यां हरिवासत्वं स्थानं लक्ष्म्याः समर्चनम् ॥८८॥ रेवतीजन्म च दुर्दमेन सह विवाहनम् ।
रेवतस्य तथा जन्म कृतवाचो गृहे पुनः ॥८९॥ रेवतीजन्म च विवाहनं बलेन प पुनः ।
तीर्थे दामोदरकुण्डे श्राद्धादिकफलं तथा ॥1.589.९०॥ पत्नीव्रतद्विजस्याऽत्र सर्वधामप्रदर्शनम् ।
द्वयोर्नारायणयोश्च श्राद्धकर्मप्रवर्तनम् ॥९१ ॥ वस्त्रापथस्य तीर्थानि राधालक्ष्म्यादिसम्भवः ।
मघुकैटभनाशार्थं मोहिनीभवनं हरेः ॥९२॥ महिषासुरनाशार्थं कात्यायनीप्रकाश्यता ।
ब्रह्मणो वीर्यतो जन्म महर्षीणां पुरोदितम् ॥९३ ॥ सतीजन्म दक्षजन्म पुनर्नारदजन्म च ।
शुम्भनिशुम्भयोर्जन्म कालीचामुण्डिकाजनुः ॥९४॥ रक्तबीजादिनाशश्च देवीसैन्योद्भवस्तथा ।
शुम्भादीनां विनाशश्च सतीप्राकट्यकोत्सवः ॥९५॥ गोपगोपीगणोत्पादो देव्युत्पत्तिश्च नैकधा ।
शम्भोर्वैराजभालोत्था सत्यास्तपसि वर्तनम् ॥९६ ॥ विवाहश्च वालखिल्याद्युत्पत्तिर्वेधसोऽपि च ।
कैलासपुरनिर्माणं शिवस्याऽऽत्मनिवेदिता ॥९७॥ दक्षयज्ञे द्विजानां च शापाः सत्या विनाशनम् ।
वीरभद्रकृतयज्ञभङ्गो दक्षस्य वै तपः ॥९८॥ शम्भोर्भस्माऽस्थिधारित्वं पार्वतीजन्म इत्यपि ।
पितृकन्यास्तिस्र एता मेना धन्या कलावती ॥९९॥ तासां पुत्र्यः शिवा चापि सिता राधा हरिप्रियाः ।
कालीमन्त्रोत्सवश्चापि पार्वतीगुणवर्णनम् ॥1.589.१०० ॥ पार्वतीतप एवाऽथ मङ्गलोत्पत्तिरेव च ।
शम्भोर्गोलोकधेन्वां वै वृषरूपोद्भवस्तथा ॥१०१ ॥ ब्रह्मवीर्याद्ब्रह्मपर्यो ब्रह्मसरस इत्यपि ।
शम्भोर्वीर्याच्च हनुमान् वायुद्वारा समुद्गतः ॥१ ०२॥ शनैश्चरः पन्नतिश्च कामदाहो वरस्ततः ।
गौरीतपः शङ्करस्य दर्शनं च गृहं गतिः । १ ०३॥ शम्भोश्च नर्तनं शिवनिन्दा लग्नविनिर्णयः ।
मङ्गलं मण्डपशोभा पत्रिका वरयात्रिका ॥१ ०४॥ मेनाशोकनिवृत्तिश्च वरस्यापि प्रपूजनम् ।
कुलदेवीपूजनं च शिवस्य मण्डपागमः ॥१०५ ॥ विवाहः कालिकायाश्च गौरी जाता ततः परम् ।
लिङ्गपातो द्वादशज्योतिर्लिङ्गानां समुद्भवः ॥१०६ ॥ गुरुपूजामहिमादि सन्ध्यापित्रादिकोद्भवः ।
स्वर्णोत्पत्तिर्नारदस्य तथा गन्धर्वपुत्रता ॥१ ०७॥ मरणं जीवदानं च वैष्णवत्वं मृतिस्तथा ।
पुनर्नारदजन्मापि कैलासगमनम् ऋषेः ॥१ ०८॥ शङ्कराद् ब्रह्मज्ञानं च बदर्यागमनम् ऋषेः ।
तीर्थानि मार्कण्डकस्य चिरजीवित्वकारणम् ॥१ ०९॥ पञ्चशिलादितीर्थानि सोमकुण्डादयस्तथा ।
उर्वश्याश्च समुत्पत्तितीर्थादीनि शुभानि च ॥1.589.११ ०॥ नारदस्य विवाहश्च तथाऽग्निवंशवर्णनम् ।
काश्यपीयप्रजोद्देशः कल्पादीनां च वर्णनम् ॥१११ ॥ कलेर्धर्मा अथाऽऽनर्ताऽऽनीतसौराष्ट्र्देशता ।
द्वारिकावर्णनं चापि गोमत्यादिकवर्णनम् ॥१ १२॥ नृगराजसमाख्यानं दुर्वाससो रथे स्थितिः ।
गोपीतटाकमाहात्म्यं ब्रह्मकुण्डादितीर्थकम् ॥११ ३॥ कुशादिदैत्यनाशश्च पट्टराज्ञीस्थलानि च ।
कृष्णार्चनं सोमशर्मपितृप्रमोक्षणं तथा ॥१ १४॥ शङ्खपिण्डारकतीर्थं गोदावर्यास्तथाऽऽगमः ।
वज्रलेपाऽघनाशित्वं मायानन्दकथानकम् ॥१ १५॥ त्रिस्पृशैकादशी दैत्यमुरनाशादिकं तथा।
उन्मीलनी पक्षवर्धा तथान्यासां व्रतानि च ॥१ १६॥ स्वर्णाङ्गदस्य च वैश्वानरस्य लुम्भकस्य च ।
केतुमतः कपिलाया गान्धर्वयोः कथास्तथा ॥१ १७॥ पर्शुरामजयो धात्रीकथा मेधाविनः कथा ।
ललितयोः कथा वरूथोद्धारादिप्रकीर्तनम् ॥१ १८॥ धृष्टबुद्धेर्विमुक्तिश्च शलभामोक्षणं तथा ।
क्रत्वाख्यानं हेममाल्याख्यानं वामनकृच्छ्रकम् ॥१ १९॥ श्रावणानां महासिद्धिः रतेः कामाभिप्रापणम् ।
पुरुरवोपाख्यानं च हरिश्चन्द्रकथा ततः ॥1.589.१२०॥ मान्धातृकथनं शूद्रतपो धर्मस्य नाशनम् ।
चन्द्रसेनकथा वेदशिरःकथानकं तथा ॥१२१ ॥ इन्द्रसेनचन्द्रभागाकथा चाण्डालमोक्षणम् ।
कृच्छ्रव्रतानि च शाकटायनस्यर्द्धिवर्धनम् ॥१ २२॥ पुण्डरीककुमुद्वत्योरक्षराख्यपदे गतिः ।
उद्यापनं च प्रतिपद्व्रतानि च बहून्यपि ॥१ २३॥ द्वितीयायास्तृतीयायाश्चतुर्थ्याश्च व्रतान्यपि ।
पञ्चम्याः षष्ठिकायाः सप्तम्या व्रतानि यान्यपि ॥१२४॥ अष्टम्या नवम्याश्च दशम्याश्च व्रतान्यपि ।
एकादश्या द्वादश्याश्च त्रयोदश्या व्रतानि च ॥१ २५॥ चतुर्दश्याः पूर्णिमाया अमायाश्च व्रतानि च ।
दोलाव्रतं रथयात्रा धनुर्मासो वसन्तकः ॥१ २६॥ सङ्क्रान्तिहोलिकापुष्पदोलाश्च शारदोत्सवः ।
लक्ष्मीनारायणव्रतं सुमतेश्च कथानकम् ॥१ २७॥ हरिपञ्चकसञ्ज्ञं च व्रतं वारव्रतानि च ।
रुक्माङ्गदसमाख्यानं विद्धाऽऽख्यमोहिनीकृतम् ॥१ २८॥ यमस्य शोचनं मोहिन्याश्च जन्म ततः परम् ।
रुक्माङ्गदस्य पत्नीत्वं व्रतभङ्गकरं वचः ॥१२९॥ धर्माङ्गदाख्यपुत्रस्य शिरोऽर्पणादिकं ततः ।
मोहिन्या दाहनं पश्चाद् विद्धातिथित्वमित्यपि ॥1.589.१३० ॥ पुरुषोत्तममासस्य व्रतदानमहत्त्वकम् ।
बदर्यां मलमासस्य तिरस्कारे ततः परम् ॥१३१ ॥ अक्षरं धाम गमनं पुरुषोत्तमनामिता ।
तृतीयार्चाफलं रमाकृतं चतुर्थिकाव्रतम् ॥१ ३२॥ शारदा श्रीहरेः पत्नी जाता वै पञ्चमीव्रतात् ।
मेनाधन्याकलानां तु षष्ठीव्रतेन ईश्वराः ॥१२३॥ जामातरोऽभवन् शम्भुरामकृष्णाः परेश्वराः ।
पतयः पार्वतीसीताराधानां परमेश्वराः ॥१ ३४॥ सप्तमीव्रततः सिद्धिबुद्धिभ्यां श्रीगणेश्वरः ।
पतिः प्राप्तश्च गोलोकेश्वरः श्रीकृष्ण एव यः ॥१ ३५॥ अष्टमीव्रततो घण्टाकम्बुदुन्दुभिप्रभृतेः ।
वाद्यगणस्य देवानां सन्निधौ वसतिः सदा ॥१३६॥ नवमीव्रततो वह्निसुवर्णयोः प्रपूज्यता ।
दशमीव्रततः पृथ्व्यामवतारो हरेः सदा ॥१ ३७॥ एकादशीव्रतान्मूर्त्या नरनारायणोद्भवः ।
द्वादशीव्रततः सावित्री ब्रह्माणमवाप ह ॥१ ३८॥ त्रयोदशीव्रताज्जयाललितापार्वतीप्रभाः ।
अनादिश्रीकृष्णनारायणं प्रापुः पतिं मुदा ॥१३९॥ चतुर्दशीव्रताल्लक्ष्मीर्माणिकी चापतुः पतिम् ।
अनादिश्रीकृष्णनारायणस्वामिनमीश्वरम् ॥1.589.१४० ॥ पूर्णाव्रतात्प्रेयसीश्रेयस्योः पतिर्नरायणः ।
अन्यपक्षे प्रतिपदि व्रतात् सहस्रनेत्रकः ॥१४१ ॥ राजा ह्यवाप च पदं वैराजं चैश्वरं शुभम् ।
द्वितीयाया व्रतात् सर्वहुतो नृपः ऋतम्भरा ॥१४२॥ पत्नी जातौ परमेष्ठी गायत्री चेति दैवतौ ।
तृतीयाया व्रताद् ब्रह्मसविता नृपतिस्तथा ॥१४३॥ भूरिशृङ्गा च तत्पत्नी सूर्यसञ्ज्ञे बभूवतुः ।
चतुर्थीव्रतकरणात् समित्पीयूषभूपतिः ॥१४४॥ सप्तविंशतिपत्नीभिः सह चन्द्रो बभूव ह ।
पञ्चमीव्रतकरणाद् वसुदाननृपस्तथा ॥१४५॥ राध्यासा तस्य पत्नी च हिरण्मयौ बभूवतुः ।
षष्ठीव्रतेन च देवयवगिरिक्षितौ पुरा ॥१४६॥ पत्नीभ्यां सह माहेन्द्रपदमवापतुर्दिवि ।
सप्तमीव्रतकरणात्सन्ध्या जाता ह्यरुन्धती ॥१४७॥ सन्ध्या द्वेधा समुत्पन्ना कामस्य यौवने गतिः ।
अष्टमीव्रतकरणाद् गोपालकृष्णसद्गृहे ॥१४८॥ कम्भरालक्ष्मीसुतोऽभूत् श्रीकृष्णपुरुषोत्तमः ।
नवमीव्रतकरणात् शतमखनृपगृहे ॥१४९॥ द्युवर्णायां रामादित्यनरादित्यौ बभूवतुः ।
दशमीव्रतकरणाद् विकुण्ठायाः स्वरूपतः ॥1.589.१५०॥ षट्श्रीरूपाणि चत्वारि वैकुण्ठान्यभवन्पुरा ।
एकादशीव्रतेनापि वम्री दशप्रचेतसाम् ॥१५१॥ पत्नी जाता वृक्षपुत्री ब्रह्मतनुविराजिता ।
द्वादशीव्रतकरणाज् ज्योष्ट्री त्रेधा हरेः प्रिया ॥१५२॥ त्रयोदशीव्रतेन सुदुघा पञ्चपतिप्रिया ।
चतुर्दशीव्रताद् दृढधन्वा मोक्षमवाप ह ॥१५३॥ अमाया व्रतकरणात् कदर्यमोक्षणादिकम् ।
धर्मपत्न्यश्च तत्पुत्राः ब्रह्माद्या ब्रह्मदर्शकाः ॥१ ५४॥ व्रताराधनया जाता हरेर्दर्शनकारिणः ।
जालन्धरसमाख्याने वृन्दाया राधिकाशपात् ॥१५५॥ कालनेमिसुता त्वं च जालन्धरोद्भवस्तथा ।
देवपराजयो जालन्धरगृहेऽवसद्धरिः ॥१५६ ॥ जालन्धरो ययौ नेतुं पार्वतीं कैलकासनम् ।
वृन्दापातिव्रत्यभङ्गो जालन्धरविनाशनम् ॥१५७॥ वृन्दादत्तो धर्मदेवे शापो वृन्दा तु तूलसी ।
लक्ष्म्यास्तुलसीरूपत्वं गङ्गाद्याः सरितस्तथा ॥१५८॥ पद्मावत्यास्तूलसीत्वं सीता कुशध्वजोद्भवा ।
सुदामा शङ्खचूडोऽभूत् युद्धं तस्य च शम्भुना ॥१५९॥ तुलसीशिलभङ्गश्च विष्णुः शालशिलात्मकः ।
पूजामाहात्म्यं तुलसीविष्ण्वोर्विवाहनं तथा ॥1.589.१६० ॥ गण्डकीविष्णुसालङ्कायनाख्यानानि चक्रकम् ।
शालग्रामात् हरिहरक्षेत्रे तीर्थानि वै ततः ॥१६१ ॥ रुरुऋषीकेशतीर्थं लोहार्गलादिकं तथा ।
माथुरक्षेत्रमाहात्म्यं कृष्णावतरणं पुरा ॥१६२॥ निषादस्य राजजन्म राक्षसस्य च मोक्षणम् ।
भाण्डीरादिकतीर्थानि प्रक्रमणं वनानि च ॥१६३ ॥ विप्रस्य ब्रह्महत्यादिनाशनं कपिलात्ततः ।
वाराहमूर्तिदिव्यत्वं प्रतिष्ठानादिकं ततः ॥१६४॥ विश्रामघाटस्नानेन राक्षसत्वनिवारणम् ।
डाकिन्यादिमोक्षणं च कृष्णनारायणकृतम् ॥१६५॥ सुभद्रस्य सुतप्राप्तिर्गौकर्णं तीर्थमित्यपि ।
कुङ्कुमवापिकोद्याने वृक्षवल्ल्यादिदिव्यता ॥१६६॥ शुकमोक्षश्च गोकर्णद्वारा प्रेतप्रमोक्षणम् ।
पाञ्चालद्विजमुक्तिश्च भगिनीरतिनाशिका ॥१६७॥ साम्बे क्षोभजपापानां क्षालनं कृष्णयोषिताम् ।
ध्रुवतीर्थे कोटिपित्रुद्धारो दासीकृतः पुरा ॥१६८॥ निमिना पुत्रतृप्त्यर्थं श्राद्धं कृतं विधानतः ।
मेधातिथेः कथा श्राद्धे पितरश्च प्रदर्शिताः ॥१६९॥ नाचिकेतःकथा याम्यपुरीप्राकारवर्णनम् ।
नारकाणां दर्शनं च फलोदयसमीरणम् ॥1.589.१७०॥ पतिव्रताया माहात्म्ये जनकस्त्री वने पुरा ।
सम्पद्वती च सञ्जाता पातिव्रत्यकथा तथा ॥१७१ ॥ धेनुसेवा साधुसेवा सावित्र्यां वेददर्शनम् ।
सरमा गोरक्षयित्री दैत्यान् ददाह शापतः ॥१७२॥ अश्वपतिगृहे पुत्री सावित्री तपसाऽभवत् ।
कर्मफलानां कथनं सत्यवतश्च जीवनम् ॥१७३ ॥ पद्मायाः पिप्पलादेन विवाहो धर्मशापनम् ।
महालक्ष्म्याः कथा दिव्या नहुषस्य च सर्पता ॥१७४॥ अहल्यया काशिरक्षेन्द्रस्य भगाङ्गता तथा।
सीतारामवनावासो रावणादिविनाशनम् ॥१७५॥ पातिव्रत्ये राधिकाया उपदेशप्रशंसनम् ।
गृहगोधाकथा चापि काष्ठिलायाः कथानकम् ॥१७६॥ स्त्रीधर्माणां वर्णनं च हरिण्या वनरक्षणम् ।
रेणुकायाः कथा दिव्या भार्गव्याश्च कथा तथा ॥१७७॥ भार्गव्याः श्रीकृष्णनारायणेन च विवाहनम् ।
च्यवनर्षिकथा तेन सुकन्याया विवाहनम् ॥१७८॥ माण्डव्यस्य कौशिकस्य कथा सूर्योदयादिकम् ।
मदालसाविवाहश्च पुत्राणामुपदेशनम् ॥१७९॥ अलर्कस्याऽऽत्मविज्ञानं दत्तात्रेयस्य शिष्यता ।
पद्मिन्या जन्म च तथा नारायणविवाहनम् ॥1.589.१८०॥ वेङ्कटाद्रौ तोण्डमानकृतवाराहमन्दिरम् ।
ऋक्षविश्वासस्य हन्तुः धर्मगुप्तादिकस्य च ॥१८१॥ मुक्तिश्च सुमतिभद्ररामानुजप्रमोक्षणम् ।
जाबालितुम्बुरुतीर्थं व्यासस्य पूजनादिकम् ॥१८२॥ ब्रह्महत्यानिवारश्च सुवर्णमुखर्यागमः ।
वाराहोद्भव आञ्जन्यास्तपः पक्षजडीभवः ॥१८३॥ महेन्द्रादिजडीभावः ख्यातेरुज्जीवनं तथा ।
जयन्ती देवयानी च शुक्रकथा तथोदिता ॥१८४॥ नारदस्य पुनरुज्जीवनं मालावतीकृतम् ।
वीरायाश्च प्रभावत्याश्चमत्कारौ तथोदितौ ॥१८५॥ शक्तिपत्न्या शिलारूपा जाताः शप्ता यमादयः ।
अम्बरीषसमुत्पत्तिः श्रीमत्याश्चापि मोक्षणम् ॥१८६॥ दरिद्रताबुभुक्षाकलहादीनां निवासनम् ।
दासीकिङ्करीपण्यस्त्रीदानधर्मनिरूपणम् ॥१८७॥ पातिव्रत्यं हरौ कृष्णे बाले नागिनीसन्धृतम् ।
लक्ष्म्यादिसत्युद्भवश्चाऽसङ्ख्यपत्नीसमुद्भवः ॥१८८॥ अनादिश्रीकृष्णनारायणस्य दर्शनं पुरा ।
श्रीमच्छ्रीकम्भरालक्ष्मीगोपालकृष्णयोस्तपः ॥१८९॥ चतुर्युगानां धर्माश्च ततो वै सन्निरूपिताः ।
त्रिवेण्या नूतनं स्वर्गं भरद्वाजगृहे कृतम् ॥1.589.१ ९०॥ शबरीपम्पयोः रामयोगेन मोक्षणं तथा ।
चित्रलेखाचमत्कारा महीसागरसङ्गमे ॥१९१ ॥ कलहाया राक्षसीत्वं ततश्च मोक्षणं परम् ।
चोलराजविष्णुदासकथा कैकयीजन्म च ॥१ ९२॥ गोकुलकन्यकामोक्षो गोपीनां कृष्णमेलनम् ।
वीरबाहोः कान्तिमत्याः मुक्तिर्जन्मत्रयोत्तरम् ॥१ ९३॥ कालिन्द्या उद्धवस्यापि चान्यासां पतिवर्तनम् ।
दानकनृपतेर्यात्रा नारकाणां च मोक्षणम् ॥१ ९४॥ संहितायाः कथाश्रावात् पिशाचत्वविमोक्षणम् ।
हेमन्तस्य पातिव्रत्याद् राज्यप्राप्तिः प्रमोक्षणम् ॥१ ९५॥ पतिद्वेष्ट्र्याः शुनीत्वं चोर्वशीत्वं च ततः परम् ।
विधूमस्याऽलम्बुषाया मोक्षणं परिकीर्तितम् ॥१ ९६॥ विद्याधरसुदर्शस्य वेतालत्वनिवारणम् ।
जरत्कार्वीचमत्कारः सुमित्रायाः प्रभावनम् ॥१ ९७॥ पुण्यनिधेः सुता लक्ष्मीः नारायणकृपादिकम् ।
तपतो धर्मदेवस्य वर्धिनी सेविकाऽभवत् ॥१ ९८॥ गान्धर्वीणां कुलदेवीत्वादिकं विप्रगोत्रकम् ।
स्त्रीणां मोक्षः तुलस्यादिवृक्षाणां देवतात्मता ॥१ ९९॥ सुयज्ञराजसूये च कृतघ्नानां विवेचनम् ।
सुयज्ञस्य तत्पत्न्याश्च गोलोकगमनं तथा ॥1.589.२० ० ॥ ताराया हरणं चन्द्ररक्षणं धर्मबोधनम् ।
दाशार्हनृपतेः कृष्णमन्त्रग्रहणे योग्यता ॥२०१ ॥ सीमन्तीन्या जले मग्नः स्वपतिश्चोपजीवितः ।
कन्यावेषस्य पुत्रस्य पुत्रीत्वं समजायत ॥२०२॥ पुण्यकेन व्रतेनापि गणेशपुत्रलाभनम् ।
शबरदम्पतीभस्म पुनस्तयोश्च जीवनम् ॥२०३॥ शारदायाः कृष्णभक्त्या कृष्णपतिप्रमेलनम् ।
शिवाऽच्युतौ चक्रतुर्वारवनिताप्रमोक्षणम् ॥२०४॥ बन्दुलायाः समुद्धारो विन्ध्याद्रेर्वर्धनं तथा ।
लोपामुद्रापातिव्रत्यं काशीयात्रादिकं ततः ॥२०५॥ जमदग्नेर्विनाशश्च रेणुकायाः सतीव्रतम् ।
मनोरमासतीत्वं च सहस्रार्जुननाशनम् ॥२०६॥ गणेशस्यैकदन्तत्वं गृहपत्यस्य रक्षणम् ।
सुशिलाया राज्यलाभो मोक्षणं पतिभक्तितः ॥२०७॥ स्त्रीणां पवित्रता श्रेष्ठचिह्नान्यपि बहून्यपि ।
द्रौपद्या कृतदुर्वासोभोजनाभ्यागमादिकम् ॥२०८॥ कद्रूविनतासम्वादः सूर्याश्वविषयस्तथा ।
विनतायाश्च दासीत्वं गरुडेन विनाशितम् ॥२०९॥ लीलावत्यास्तथा मोक्षो धूतपापा पतिव्रता ।
धर्मदेवं पतिं प्राप्ता कलावत्याश्चमत्कृतिः ॥1.589.२१ ०॥ गान्धर्वी कृष्णयोगेन गोलोकधामगाऽभवत् ।
सप्तर्षिप्रमदाः कृष्णयोगेन दिव्यतां गताः ॥२१ १ ॥ सुरसा नामिनी कृष्णभक्त्या सौभाग्यमागता ।
मण्डुकी शिवभक्त्या च गन्धर्वी समजायत ॥२१२॥ पारावतद्वयं भक्त्या मुक्तिमवाप शाश्वतीम् ।
यमस्य धर्मराजत्वं पौलोम्या इन्द्रभार्यता ॥२१ ३ ॥ अभिजिन्नृपतेः पुत्रप्राप्तिर्गोलोकमोक्षणम् ।
दुर्वाससः कदल्याश्च विवाहः कदलीद्रुमः ॥२१४॥ अम्बरीषाद्भयं तस्य वारणं भक्तसेवनम् ।
त्वाष्ट्रस्य तु चतुःषष्टिकलापत्नीप्रलाभनम् ॥२१५॥ काश्यां व्यासचमत्कारः पार्वतीमहिमा तथा ।
अग्निशर्मा वाल्मिकी चाऽभवन्मुक्तिं ततो गतः ॥२१६॥ अवन्त्यां लक्ष्मणस्याऽपि मनोमालिन्यमित्यपि ।
वह्निस्पृष्टाः ऋषिपत्न्यः शुद्धा वै पञ्चमीव्रतात् ॥२१७॥ व्यासजन्म नर्मदायाः पातिव्रत्यादिकं शुभम् ।
अनसूयातपःसिद्ध्या त्रिदेवाः पुत्रतां गताः ॥२१८॥ पुरुहूतामोक्षणं च ऋष्यशृङ्गविघातनम् ।
लोमशेन कृतं चेन्द्रगर्वस्यापि विनाशनम् ॥२१ ९॥ धन्वन्तरेर्गर्वभङ्गश्चाष्टावक्रस्य मोक्षणम् ।
कलशस्य तु व्याघ्रत्वं धेनुयोगाच्च मोक्षणम् ॥1.589.२२०॥ शर्मवत्या मोक्षणं च कुष्ठिविप्रस्य मोक्षणम् ।
माधव्याः कृष्णपत्नीत्वं शाण्डिल्याश्च चमत्कृतिः ॥२२१ ॥ अम्बावृद्धाकन्ययोः पादुकापूजनमित्यपि ।
ज्येष्ठे राज्याभिषिक्ते च वृष्ट्यभावेन चानले ॥२२२॥ विश्वामित्रकृतश्चामिषहोमोऽग्निस्तिरोऽभवत् ।
गजमत्स्यादिशापाश्च अजापालचमत्कृतिः ॥२३॥ दशरथस्य च शनेः रोहिणीवेधरोधनम् ।
अष्टषष्टिप्रतीर्थानि दमयन्त्या समर्पितम् ॥२२४॥ दानं जगृहुर्विप्राश्च व्योम्नो निपेतुरेव ते ।
भद्रिकायाश्चमत्कारः कर्णोत्पलाकथानकम् ॥२२५॥ याज्ञवल्क्यचमत्कारो वास्तुपुंसः कथानकम् ।
पूर्णकलाचमत्कारो दीर्घिकायाश्चमत्कृतिः ॥२२६॥ फलवत्या योगिनीत्वं व्यासपुत्रस्य योगिता ।
तिलोत्तमानिमित्तेन शम्भोः पञ्चाऽऽस्यतोदिता ॥२२७॥ विश्वामित्रस्य तपसा ब्रह्मर्षित्वमथाऽभवत् ।
साभ्रमत्याः समुत्पत्तिः पिप्पलादोद्भवस्तथा ॥२२८॥ पञ्चपिण्डिकात्मगौरीव्रतं सौभाग्यदं शुभम् ।
हाटकेश्वरजे यज्ञे गायत्र्या विप्रता तथा ॥२२९॥ श्रीकृष्णस्याऽऽगमस्तत्र विश्वावसुश्च राक्षसः ।
अष्टषष्टिमातृगणागमश्च कुलदेवताः ॥1.589.२३०॥ राजपुत्रीविप्रपुत्र्योर्मोक्षणं कृष्णयोगतः ।
देवलीला नागनदी विप्रपुत्र्याश्च मोक्षणम् ॥२३१॥ ब्रह्मा शप्तश्च मोहिन्या शुद्धो नागनदीजले
षण्ढोत्पत्तिर्हिङ्गुलाजादीक्षया मोक्षणं तथा ॥२३२
शम्भोर्गर्वविनाशश्चाऽन्धकनाशो हरेण च ।
इन्द्रद्युम्नस्य च कथा लोमशाश्रम इत्यपि ॥२३३.
कुङ्कुमवापिकाक्षेत्रं नारदे वेदवेदिता ।
ब्राह्मीविद्या जन्मदिव्यं लोमशस्य पुराभवः ॥२३४।
कपिलस्य च विज्ञानं नैकाऽवताररूपता ।
वसोश्च धर्मव्याधत्वं वैशालरैभ्यमोक्षणम् ॥२३५।.
आवट्यस्य चमत्कारः स्वप्नादिफलवर्णनम् ।
सूर्यचन्द्राऽदर्शनं सहेतुकं व्याधतोद्भवः ॥२३६।.
जयन्त्यां महिमा प्रोक्तः सनत्कुमारकेण च ।
युद्धं मणिकृते दुर्जयस्य गौरमुखस्य च ॥२३७।
महातपाभिहितं च वेदान्तज्ञानमित्यपि ।
कुङ्कुमवापिकाश्रैष्ठ्यं पार्वत्यै शम्भुनोदितम् ॥२३८।.
ऊर्जकृष्णजयन्त्यां कैलासवासिसमागतिः ।
रैवते सोमनाथे च तलश्यामे प्रभासके ॥२३९।.
उष्णग्रामे च तीर्थानि सिंहमुक्तिस्तथोदिता ।
न्यङ्कुमत्यां देविकायां सूर्यतीर्थानि राष्ट्रके ॥1.589.२४० ॥ च्यवनाऽगस्तिवैशालभद्राश्वतीर्थकानि च ।
गुप्तप्रयागोन्नतादिभीमनाथादयस्तथा ॥२४१ ॥ द्वारिका च चमत्कारपुरं चार्बुदमित्यपि ।
अगस्त्यदिव्यता मङ्कणकतीर्थादि चार्बुदे ॥२४२॥ नर्मदा ऋक्षकः शैलः कन्याभेदादितीर्थकम् ।
मत्स्यातापीसङ्गमश्च तथाऽन्ये सङ्गमा अपि ॥२४३ ॥ बिल्वाम्रकादितीर्थानि सत्यतपसो मोक्षणम् ।
अमरकण्टकजालेश्वरौङ्कारादयस्तथा ॥२४४॥ धेनुदानं चन्द्रसेनमुक्तिर्गालवमोक्षणम् ।
एरण्डीसङ्गमो धुन्धुमारमुक्त्यादिवर्णनम् ॥२४५॥ सुखदुःखादिभावाश्च कार्तिकादिप्रशंसनम् ।
मुचुकुन्दादिदृष्टान्तैर्नर्मदायाः प्रशंसनम् ॥२४६ ॥ सोमशर्माख्यविप्रस्य मायानिषादिनीजनुः ।
रैभ्यस्यापि चमत्कारो नकुलस्य सुवर्णता ॥२४७॥ यज्ञतीर्थशुक्लतीर्थभृगुक्षेत्रादिकानि च ।
दीक्षा भागवती गुडाकेशासुरस्य ताम्रता ॥२४८॥ पूजापराधाः शमनं शृगालगृध्रयोः कथा ।
खञ्जरीटस्य मुक्तिश्च सेवयितुः फलानि च ॥२४९॥ नलमेघविनाशश्च समुद्रसङ्गमादयः ।
श्रीपुरुषोत्तमक्षेत्रे नीलपर्वतसत्कथा ॥1.589.२५०॥ वटस्य दिव्यता विप्रक्षत्रिययोः प्रमोक्षणम् ।
इन्द्रद्युम्नस्य च साक्षाद्दर्शन गमनं पुरीम् ॥२५ १ ॥ बिल्वेशादिकथा यज्ञावभृथादिनिर्वर्तनम् ।
पूर्णता प्रतिमानां च प्रासादस्य च निर्मितिः ॥२५ २ ॥ ब्रह्मणश्चागमस्तत्र प्रतिष्ठा रथनिर्मितिः ।
अवतारादिकभावस्तथा यात्रोत्सवादयः ॥२५ ३ ॥ ग्रन्थवक्तुः प्रपूजादि कृतसन्तानगाः कथाः ।
सङ्क्षेपात्कथिताश्चान्या गौण्यश्चाऽवान्तराश्च याः ॥२५४॥ आख्यानानि चोपव्याख्यानानि सन्ति ह्यनेकशः ।
धर्मार्थकामनास्वापमोक्षदानि निसर्गतः ॥२५५॥ पूर्वकल्पोपकल्पादिसंवृतानि च सन्ति वै ।
तपतामृषिमान्यानां मुनीनां भूभृतां तथा ॥२५६ ॥ कन्यकानां च बालानां नारीणां भक्तयोषिताम् ।
साधूनां वृक्षवल्लीनां तीर्थानां सरितां तथा ॥२५७॥ देवादीनां पशूनां च पक्षिणां रक्षसां तथा ।
आख्यानानि प्रकीर्णानि प्रसङ्गे कथितानि वै ॥२५८॥ असुराणां विनाशार्थं देवोद्योगाश्च वर्णिताः ।
पाप्युद्धारकथा दिव्या देवानुग्रहतश्च याः ॥२५९॥ बह्व्यस्ताः कथिताश्चात्र वैदिक्यश्च तथाविधाः ।
अध्यायानां वाचनेन विदिताः स्युः समन्ततः ॥1.589.२६ ०॥ तीर्थाख्यानचमत्कारा अवान्तरोपदेशनाः ।
तत्तत्प्रकरणालोकाद् विदिताः स्युः समन्ततः ॥२६ १ ॥ समुद्रस्य तरङ्गाणां सङ्ख्याः कर्तुं न शक्यते ।
संहिताया विषयाणां गणना शक्तिवर्जिता ॥२६२॥ इत्येवं क्रमणाध्यायः कृतसन्तानकस्य वै ।
कथितः सुगमार्थाय तत्तत्कथासुमार्गणे ॥२६३॥ कथार्थानां वाचनेन स्मरणेन श्रवेण च ।
संहिताफलभाक् स्याच्च क्रमणाध्यायशीलनात् ॥२६४॥ सर्वतीर्थफलं सर्वयज्ञफलं प्रजायते ।
सर्वदानफलं मोक्षफलं तस्य प्रजायते ॥२६५॥ आस्य खण्डस्य यः पारायणं मासेन कारयेत् ।
तस्याऽश्वमेधसहस्रयज्ञजं जायते फलम् ॥२६६ ॥ सर्वतीर्थफलं स्याच्च सर्वदानफलं भवेत् ।
पत्रे पत्रे कृष्णनारायणयोगोऽत्र वर्णितः ॥२६७॥ योगिनां योगजं पुण्यमेतस्य श्रवणाद्भवेत् ।
आत्मा ब्रह्मदशापन्नः श्रोतॄणां जायतेऽनया ॥२६८॥ वक्तुस्तत्र कथा का वै वक्ता नारायणः स्वयम् ।
श्रोत्री यत्र स्वयं लक्ष्मीर्वेदोऽयं सामसम्भवः ॥२६९॥ दिव्यसामानि सन्त्यत्र प्रत्यध्यायं पदानि वै ।
यदुच्चारयितारं वै प्रम धाम नयाम्यहम् ॥1.589.२७० ॥ यथा त्वं मे प्रिया लक्ष्मि! तथेयं संहिता प्रिया ।
लेखयित्वा गृहे रक्ष्या सम्पन्मोक्षप्रदायिनी ॥२७१ ॥ दिव्योऽहं दिव्यरूपा त्वं दिव्येयं संहिता मम ।
नाऽन्यशास्त्रेण तुल्यत्वं स्थिता सर्वोच्छ्रया यतः ॥२७२॥ त्वं द्वितीयस्वरूपेण संहितात्मतयाऽसि मे ।
श्रोतव्या सावधानेन मण्डपे तोरणान्विते ॥२७३॥ स्वर्णसिंहासने स्थाप्या स्वर्णवस्त्रादिशोभिता ।
नित्यं चन्दनपुष्पाद्यैः फलधान्यधनादिभिः ॥२७४॥ आरार्त्रिवाद्यघोषाद्यैर्धूपदीपाऽक्षतादिभिः ।
कुङ्कुमाऽगुरुगन्धाद्यैः पूजनीया जयारवैः ॥२७५॥ ततः सम्पूजयेद् व्यासं स्वामिश्रीकृष्णवल्लभम् ।
लक्ष्मीनारायणरूपं धनाऽन्नाम्बरभूषणैः ॥२७६ ॥ दुग्धघृतशर्कराद्यैस्तोषयेद् बहुसेवनैः ।
मत्तो न्यूनो नाऽस्य वक्ता प्रवेशस्तत्र मे तदा ॥२७७॥ तदाशीर्वादवचनं सफलं व्यासपीठजम् ।
तत्पादजलपानेन ध्वंसन्ते पापराशयः ॥२७८॥ तत्पुष्पहारलाभेन महेन्द्रस्मृद्धिमाप्नुयात् ।
तस्य दर्शनमात्रेण कृष्णदर्शनजं फलम् ॥२७९॥ तस्य स्पर्शनमात्रेण कृष्णस्पर्शनजं फलम् ।
तस्य सेवनलाभेन कृष्णसेवाफलं लभेत् ॥1.589.२८०॥ दिव्ययोगाद् भवेद् दिव्यो नरो वा प्रमदाऽपि वा ।
एनां कृत्वा प्रमूलं च वदिष्यन्ति कथा जनाः ॥२८ १ ॥ व्यासा ग्रन्थान् करिष्यन्ति ह्येतदाधारविस्तृतान् ।
पुरातनानि भावानां हृदयान्यत्र सन्ति हि ॥२८२॥ तत्प्रकाशप्रकर्त्रे वै व्यासपीठाधिवासिने ।
आचार्यश्रीकृष्णस्वामिस्वरूपाय महात्मने ॥२८३ ॥ राज्ञा देयानि गोवाजिगजग्रामधनानि च ।
अन्यैश्चापि यथास्मृद्धिं देयं सन्तोषकारि यत् ॥२८४॥ ब्रह्माण्डदानजं पुण्यं भवेद् वाचकपूजनात् ।
यानोद्यानभवनानि दासदासीकुलानि च ।
राज्योपचारयोग्यानि देयानि वाचकाय वै ॥२८५॥ यद्यदिष्टतमं स्वस्य देयं व्यासाय शार्ङ्गिणे ।
कृतसन्तानकश्चाऽयं सत्यकालीनचेष्टिकः ॥२८६॥ सत्यधर्मैः पूरितश्च सर्वधर्मैर्विशिष्यते ।
शृङ्गारयित्वा बहुधा गजे याने च मस्तके ॥२८७॥ धृत्वा चामरछत्राद्यैर्वर्धयित्वा महोत्सवैः ।
गीतकीर्तननृत्यैश्च वाद्यवैदिकसंस्तवैः ॥२८८॥ सहस्रशो जनैर्ग्रामे पत्तने नगरे गृहे ।
राजधान्यां राजगृहे श्रेष्ठिभिश्च निजालये ॥२८९॥ निधनैर्भावयुक्तैश्च पूजनीयो विशेषतः ।
कुमारिकाभिः कलशैर्जलपत्रफलान्वितैः ॥1.589.२९० ॥ स्वागतेन वर्धयित्वा कुङ्कुमाद्यैश्च भावनैः ।
वन्दनीयो मङ्गलात्मा सौभाग्यवरलब्धये ॥२९१ ॥ सपतिकाभिरन्याभिः स्वेष्टसौख्यादिलब्धये ।
जनैर्दारसुताद्यर्थं स्त्रीभिः सौभाग्यवृद्धये ॥२९२॥ विद्याधनसमृद्ध्यर्थं चारोग्यर्द्ध्यादिलब्धये ।
कृतसन्तानकः खण्डः पूजनीयोऽतिदानकैः ॥२९३॥ पूगीफलं धनं स्वर्णं स्पर्शयित्वा स्वकं तदा ।
स्वकोशे रक्षणीयं यद् धनवृद्धिकरं भवेत् ॥२९४॥ साधनानि च सर्वाणि नाऽनेन तुलनानि वै ।
अतुल्यं पूजयित्वैनं भ्रामयित्वा सुपत्तनम् ॥२९५॥ अशेषं नियतस्थाने स्थापनीयोऽतिभावुकैः ।
परन्धामाऽक्षरन्धामाऽमृतं गोलोकमुत्तमम् ॥२९६॥ वैकुण्ठं श्वेतद्वीपं च श्रीधामेच्छेत्तदाप्नुयात् ।
स्वर्गं माहेन्द्रराज्यं वा पारमेष्ठ्यं पद्ं च वा ॥२९७॥ वैराजं वा नागराज्यं यदिच्छेत्तल्लभेत च ।
अहं दिव्यस्वरूपोऽस्मि कृतसन्तानमूर्तिकः ॥२९८॥ अध्यायैर्नवतियुक्तपञ्चशतमितैरयम् ।
श्लोकैस्तु पञ्चपञ्चाशत्साहस्रैः केशरूपिभिः ॥२९९॥ मस्तकं मे हि बोद्धव्यः कण्ठोर्ध्वं चायमेव हि ।
ब्रह्मरन्ध्रं मम लक्ष्मि विद्यते, त्वयि चात्र ते ॥1.589.३ ०० ॥ सौभाग्यपुण्यमूर्धाऽस्ति सर्वथा सर्वमङ्गलः ।
त्वां मां कृतं भजेत यः सर्वार्थानाप्नुयाद्ध्रुवम् ॥३ ०१ ॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने महावेदी (स्थनिर्माण) महोत्सवः, द्वादशयात्राः, कृतसन्तानोक्तकथानिर्देशाः, ग्रन्थवक्तृपूजादिमहिमेतिनिरूपणनामैकोननवत्यधिकपञ्चशततमोऽध्यायः ॥५८९॥