श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो विद्यापतिः प्राह सभास्थले ।
दिव्यतां तस्य क्षेत्रस्य यथावत् कथयामि ते ॥१ ॥
विप्रः प्राह च मध्याह्ने दिव्यगन्धो ववौ मरुत् ।
सुरा नैवेद्यदानार्थं व्योममार्गात्समाययुः ॥२ ॥
वादनानि गायनानि सुरस्त्रीणां तदाऽभवन् ।
सहस्रमुपचाराणां देवैस्तस्मै समर्पितम् ॥३ ॥
सम्पूज्य जयपूर्वास्ते ययुः स्वर्गं सुरास्ततः ।
विश्वावसुः शबरो मे माधवस्य प्रसादनम् ॥४ ॥
भोज्यं माल्यं ददौ पूतं यदत्राऽपहृतं मया ।
प्रसादः शर्करात्मा च दीयतां सदसे नृप ॥५ ॥
समन्ताद् गहनाकीर्णं क्षेत्रं नीलाद्रिनामिकम् ।
तीर्थराजस्य वेलायां स्वर्णवालुकया वृतम् ॥६ ॥
विचित्रदृश्यं देवानां मानवानां तु का कथा ।
अद्रेः शृङ्गे कल्पजीवी महानुच्चो वटोऽस्ति च ॥७ ॥
दीर्घायतः पुष्पफलवर्जितः पल्लवोज्ज्वलः ।
तत्पश्चाद् रौहिणं कुण्डं तत्पूर्वे वेदिकास्थितः ॥८ ॥
न्यग्रोधच्छायया शीतश्चेन्द्रनीलमयो हरिः ।
चक्रगदाधरश्चास्ते स्वर्णपद्मोपरि प्रभुः ॥९ ॥
एकाशीत्यङ्गुलमितो मन्दहास्यस्फुरन्मुखः ।
राजीवसौम्यनेत्रश्चाऽमृतपूर्णाननः प्रभुः ॥1.585.१ ०॥
वपुषोऽश्ममयत्वेऽपि चन्द्रोज्ज्वलः स्मिताधरः ।
हाससम्फुल्लगण्डाभ्यां रुचिरं चिबुकं हनुः ॥१ १॥
कर्णयोः कुण्डलाभ्यां च राजद् वक्षश्च मालया ।
ग्रैवेयकैश्च सौवर्णैः रत्नाञ्चितैः समुज्ज्वलैः ॥१२॥
पीनायतस्कन्धयुगजानुदीर्घचतुर्भुजः ।
आकर्णान्तायतकोणवक्रनेत्रकटाक्षकम् ॥१ ३॥
सकौस्तुभं कङ्कणोर्मिकाऽङ्गुलीयकभूषितम् ।
निम्ननाभिधरं चाधस्तनुरोमालिमञ्जुलम् ॥१४॥
सुरत्नमेखलाराजत्कटिकौशेयधौत्रकम् ।
सकिङ्किणीमञ्जिराढ्यरक्ततलाश्रिपत्कजम् ॥१५॥
जघनं सुन्दरं दिव्यं कामाश्रयं च सुन्दरम् ।
लिङ्गं तेजोमयं रम्यं सर्वाकर्षणभाजनम् ॥१६॥
सर्वाशाद्योतको देवो नीलाद्रेरुपरि स्थितः ।
वामपार्श्वगता लक्ष्मीराश्लिष्टा पद्मपालिना ॥१७॥
वल्लकीवादनपरा भगवन्मुखलोचना ।
सर्वलावण्यशोभाढ्या सर्वाभरणभूषिता ॥१८॥
सर्वालङ्कृतितेजस्का प्रोद्भिन्ननवयौवना ।
छत्रीभूतफणावृन्दः शेषः पश्चाद् विलोकितः ॥१ ९॥
अग्रे व्यवस्थितं दृष्टं वपुर्बिभ्रत्सुदर्शनम् ।
कृताञ्जलिपुटं तस्य पश्चाद् गरुडमास्थितम् ॥1.585.२० ॥
सजीवा इव ते भक्तानुग्राहका विलोकिताः ।
तत्र चेतो मम राजन्नत्यन्तमभिधावति ॥२ १ ॥
अनेकजन्मसाहस्रपुण्यपाको हि पश्यति ।
सर्वसाधनलभ्यं तद्दर्शनात्प्राप्यतेऽक्षरम् ॥२२॥
तेन सर्वं कृतं मोक्षसाधनं येन वीक्षितः ।
त्वं च राजँस्त्वरयैव विलोकय जगत्प्रभुम् ॥२३॥
न जाने श्वः सूर्यद्रष्टा भविष्यसि न वेति च ।
श्वः कार्यमद्य कर्तव्यं मोक्षार्थं पारमेश्वरम् ॥२४॥
इत्युक्तश्चेन्द्रद्युम्नस्तु हर्षमवाप पुष्कलम् ।
कृतकृत्योऽस्मीति चाह प्रसादमालिकाग्रहात् ॥२५॥
तया दर्शनपात्रत्वं प्राप्तं चाद्य मया हरेः ।
सर्वात्मना च राज्येन सह गन्तव्यमेव च ॥२६ ॥
तत्रावासं सदा कृत्वा करिष्ये हयमेधकान् ।
सर्वोपचारैः श्रीनाथं पूजयिष्ये दिने दिने ॥२७॥
दास्येन सेवया कृष्णं प्रीणयिष्ये रमापतिम् ।
एवं राजा समुवाच तावदायाद्धि नारदः ॥२८॥
पूजितो वन्दितो राज्ञा राजानं समुवाच सः ।
अवतीर्णौ नरं द्रष्टुं बदर्यां च नरायणम् ॥२९॥
तव कीर्तिं देवताभ्यः श्रुत्वा सत्ये समागतः ।
श्रीजगन्नाथगमने व्यवसायं विशेषतः ॥1.585.३०॥
तव ज्ञात्वा प्रसन्नोऽस्मि जातस्तं याहि सेवय ।
सहस्रजन्माभ्यासैश्च भक्तिर्भवति माधवे ॥३ १॥
ब्रह्मा चाराध्य तं नाथं लेभे पैतामहं पदम् ।
तत्पुत्रोऽहं तद्वंशस्त्वं भक्त्या शोभा सदा हि नः ॥३२॥
अनाद्यविद्यानाशाय समर्था भक्तिरुत्तमा ।
तरिर्भक्तिभवाब्धौ सा जन्मरोगस्य भेषजम् ॥३३॥
मान्तेव रक्षति भक्तान् सन्तः पुष्यन्ति वै तया ।
ब्राह्म्यं पदं तया मुक्तिर्लभ्यते तदनुग्रहात् ॥३४॥
बह्व्यानां शलभानां दावतुल्या हरिप्रिया ।
सर्वतीर्थफलदात्री तारयित्री निमज्जताम् ॥३५ ॥
तपांसि यज्ञा दानानि व्रतानि धर्मसत्क्रियाः ।
एषां साहस्रकोट्यश्च न भक्तेरयुतांशकः ॥३६ ॥
सा त्रिधा गुणभेदेन तुरीया निर्गुणा मता ।
स्वार्थाऽभिचारयुक्ता सा तामसी भक्तिरीरिता ॥३७॥
स्वार्थपरार्थसम्मिश्रा राजसी भोगवाञ्च्छया ।
परार्थमात्रसन्धेया सात्त्विकी सुखभाजना ॥३८॥
फलेहारहिता सा निर्गुणा श्रीपुरुषोत्तमे ।
निर्गुणा मुक्तये प्रोक्ता प्रेमसेवात्मिका हरेः ॥३९॥
सात्त्विक्या ब्रह्मणः स्थानं राजस्या शक्रलोकताम् ।
तामस्या पितृलोकादीन् यान्ति पुनश्च भूजनुम् ॥1.585.४०॥
उत्तमामुत्तमां कुर्यात् तेन मुक्तिर्भवेत् क्वचित्॥
कुलाचारादिहीनोऽपि भक्तिमान् सम्प्रशस्यते ॥४१ ॥
सर्वविद्याधिवासोऽपि भक्तिहीनो विनिन्द्यते ।
यया वेत्ति परब्रह्म परा विद्या तु सा मता ॥४२ ॥
येन प्रीणाति भगवान् सत्क्रिया सा प्रकीर्तिता ।
ताभ्यां युक्तो भवेद् भक्तो भागवतोत्तमो हि सः ॥४३॥
तत्पादपांसुना विश्वं पूयते सचराचरम् ।
वासुदेवे तथा भक्ते साम्यं सञ्जायते सदा ॥४४॥
तयोरैश्वर्यरूपादिभेदो नैव च नैव च ।
शान्तचित्तस्तथा सौम्यो जितेन्द्रियो ह्यहिंसकः ॥४५॥
अद्रोग्धा कृपयायुक्तश्चास्ते यश्चाऽविनिन्दकः ।
गुणग्राही सदाचारः परसौख्यसुखान्वितः ॥४६॥
सर्वत्र श्रीकृष्णनारायणद्रष्टा विमत्सरः ।
दीनानुकम्पो हितकृद्धरौ कोट्यधिप्रेमवान् ॥४७॥
सतां सेवापरो देवपूजकः पितृतर्पकः ।
सर्वं विष्णुमयं जानन् समष्टिव्यष्टिमित्यपि ॥४८॥
अभेदेनैव पश्यँश्च दास्यं करोति वै हरेः ।
स्वामिसेवकभावेन सेवको वर्तते च यः ॥४९॥
हरिं भावयति कीर्तयति नमःकरोति च ।
भजत्येव प्रभुं नित्यं नान्येऽवधानमाचरेत् ॥1.585.५०॥
शिलास्वर्णद्रव्यलोष्टस्त्रीकूटकण्टकादिषु ।
मित्रशत्रुबन्धुभिन्नादिषु साम्यसमाधिमान् ॥५१ ॥
नामध्यानपरो विष्णोर्जयवाणीरतः सदा ।
देवचिह्नप्रियः ख्यातो भक्तो भागवतोत्तमः ॥५२॥
शङ्खचक्रगदापद्मचन्द्रतिलकशोभितः ।
कण्ठीमालायुतो वृन्दादलमाल्यविभूषितः ॥५३॥
रागद्वेषमदमानविहीनस्तृष्णिकाक्षयः ।
भक्तो भवति कामादिवर्जितो वासनाक्षयः ॥५४॥
इत्युक्तश्चेन्द्रद्युम्नश्च प्रीतिमान् नारदं प्रति ।
उवाच साधुसङ्गो मे भाग्यादद्य उपस्थितः ॥५५॥
तदावां यानमास्थाय पश्यावो नीलमाधवम् ।
एवं निश्चित्य पञ्चम्यां बुधे ज्येष्ठस्य चार्जुने ॥५६॥
पक्षे पुष्ये चेन्द्रद्युम्नः कारयामास घोषणाम् ।
यथाविभवतः सैन्यैः प्रजाभिर्बान्धवादिभिः ॥५७॥
नीलाद्रिगमनं कार्यं यावज्जीवं समर्प्य च ।
या वृत्तिदीर्यते चात्र तया तत्रापि जीवतु ॥५८॥
राजानः सावरोधाश्च सामात्याः सपरिच्छदाः ।
रथैर्गजैस्तुरगैश्च कोषैः सह पदातिभिः ॥५९॥
सज्जा व्रजन्तु वै तत्र ब्राह्मणाः साग्निहोत्रिणः ।
वणिजः सहभाण्डैश्च सपण्याः पण्यजीविनः ॥1.585.६० ॥
नृत्यगायनवादित्रज्योतिर्विद्यासुबुद्धयः ।
वैद्याश्च कथका भट्टाः सन्तश्च वारयोषितः ॥६१ ॥
गावः शकुन्तपाश्चापि शाकुनिकाश्च सेवकाः ।
दासा दास्यस्तथा यान्तु क्षेत्रं श्रीपुरुषोत्तमम् ॥६२॥
षष्ठ्यां स्वयं च माङ्गल्यं कारयामास यात्रिकम् ।
स्नात्वा तीर्थजलैः राजा नान्दीमुखानकारयत् ॥६३ ॥
हवनं च ततः कृत्वा चक्रे वह्निं प्रदक्षिणम् ।
ततो माङ्गल्यनेपथ्यविधानमुपचक्रमे ॥६४॥
हेमपीठे हरिं प्रार्च्य तत्प्रसादस्य मालिकाम् ।
दधार प्रथमं राजा ध्यायन् श्रीपुरुषोत्तमम् ॥६५॥
यात्रार्थं च विनिर्दिश्य दक्षिणं पादमुद्दधौ ।
दक्षिणाः प्रददौ विप्रेभ्यो वामे गणिकेडितः ॥६६॥
श्वेताश्वकुञ्जरपारावतहंससुमालिकाः ।
सचूतपल्लवं पूर्णकुम्भं पश्यन् ययौ नृपः ॥६७॥
नृसिंहमन्दिरं गत्वा पूजयित्वा हरिं सतीम् ।
द्वारमागत्य च यानं वैहायसं महत्तमम् ॥६८॥
समारुरोह समुनिः सान्तःपुरस्तथाऽपरे ।
अन्यैः सहस्रैर्यानैश्च प्रतस्थिरे पुरीं प्रति ॥६९॥
जयशब्दास्तूर्यशब्दा बभूवुः पुष्पवृष्टयः ।
नानायानसमारूढाः कोटिशश्च जनास्ततः ॥1.585.७०॥
ससम्भाराः सकुटुम्बा ययुः श्रीपुरुषोत्तमम् ।
दिवसार्धेन ते सर्वे प्रापुरुत्कलभूमिकाम् ॥७१ ॥
सीम्नि स्थितो चर्चिकाख्यां देवीं पुपूजुरीश्वरीम् ।
चित्रोत्पलां नदीं गत्वा जलपानादि चाचरन् ॥७२॥
स्वादुभोज्यानि च बुभुजिरे सर्वे यथार्हतः ।
विशश्रमुर्नदीतीरे सैन्याऽऽवासादि तत्र च ॥७३॥
चक्रुः सायंविधिं चापि रात्रौ विनोदमादधुः ।
प्रातः स्नात्वा नित्यपूजां जलाहारादिकं तथा ॥७४॥
कृत्वा तस्थुस्तदा तावदोढ्रराजस्य सेवकः ।
इन्द्रद्युम्नं समायातः समुवाच नमोऽन्वितः ॥७५॥
उत्कलेशनृपश्चात्र भवन्तं द्रष्टुमिच्छति ।
विज्ञाय सार्वभौमं च देवं भवन्तमागतम् ॥७६ ॥
सोपायनो नदीतीरे प्रतीक्षते निदेशनम् ।
श्रुत्वा तद्वचनं राजाऽऽह्वयामासोढभूपतिम् ॥७७॥
वैष्णवैः सचिवैर्युक्तं पप्रच्छ कुशलं शुभम् ।
ओढ्रपतिर्ननामैनमुपदाः पुरतो न्यधात् ॥७८॥
परस्परं सुकुशलं स्वागतं चक्रतुस्ततः ।
प्रशंशतुर्वैष्णवौ यज्जन्मसाफल्यमित्यपि ॥७९॥
अथोढ्रराजस्तं प्राह दक्षिणाऽब्धितटे हरिः ।
नीलाद्रौ कानने चास्ते लोकसञ्चारवर्जिते ॥1.585.८० ॥
द्वितीयेऽह्नि वात्यया वालुकाछन्नः स पर्वतः ।
छन्नश्च रौहिणकुण्डश्छन्नश्च नीलमाधवः ॥८ १ ॥
छिन्नभिन्नानि जातानि शबराणां गृहाण्यपि ।
कोपोऽयं चिन्तनादूर्ध्वं जातोऽपराधतः क्वचित् ॥८२॥
मम राज्यं भवतोऽस्ति यथाज्ञां प्रकरोम्यहम् ।
स्वागतं भोजनाद्यं च प्रेषयामि जनादिभिः ॥८३॥
इत्युक्त्वा चाशिषो लब्ध्वोढ्रपतिर्मौनमास्थितः ।
इन्द्रद्युम्नो नारदं च प्राहाऽऽगमस्तु निष्फलः ॥८४॥
नीव्याधवदेवस्य दर्शनं नैव चेद् यदि ।
करिष्येऽनशनं त्वत्र मरिष्ये मोक्षणं प्रति ॥८५॥
नारदस्तं तदा प्राह वैष्णवेच्छां न निष्फलाम् ।
करोति भगवांस्तं त्वं प्रेक्षसे पार्थिवं प्रभुम् ॥८६॥
धैर्यमावह भगवान् स्वतन्त्रोऽस्तीति विद्धि भोः ।
केवलो भक्तिवशगो भक्त्या ते वशमेष्यति ॥८७॥
वैष्णवस्त्वं पद्मयोनेः पञ्चमः पुरुषोऽसि वै ।
पितामहोऽप्यत्र कार्ये भवतो मां नियुक्तवान् ॥८८॥
सर्वं ते कथयिष्यामि नीलपर्वतसन्निधौ ।
श्रुत्वा राजा प्रहृष्टश्च मेने भाग्यं प्रवर्धितम् ॥८९॥
यन्मां पितामहश्चापि सहायं प्रददाति वै ।
अथ सर्वान् नीलशैलं गन्तुं त्वाज्ञां चकार ह ॥1.585.९०॥
ओढ्रदेशाधिपो याने निषसाद च भूभृता ।
सह सर्वे व्योममार्गैर्महानदीं विहाय च ॥९१ ॥
एकाम्रवनकं क्षेत्रं प्रापुः क्षणान्तरे ततः ।
गन्धवहां नदीं त्यक्त्वा कोटिलिङ्गेश्वरं हरम् ॥९२॥
पूजावादित्रनिर्घोषान्वितं दृष्ट्वा स नारदम् ।
पप्रच्छाऽऽरण्यकं वीक्ष्य मन्यमानो हि माधवम् ॥९३ ॥
नीलाद्रिशिखरावासः प्राप्तः किं परमेश्वरः ।
मुनिः प्राह स नीलाद्रिर्वर्तते योजनत्रये ॥९४॥
अयन्तु शङ्करावासः कोटिलिङ्गेश्वरात्मकः ।
शम्भुर्भीतः शरणं श्रीहरेः पुराऽत्र चागतः ॥९५ ॥
पार्वतीं संविवाह्येशो हैमवासं चकार सः ।
मेनकां पार्वतीं प्राह बहुकाले गते शुभम् ॥९६ ॥
पतिस्ते निर्गुणः पुत्रि! गृहद्वारविहीनकः ।
कियन्मम गृहे वासं करिष्यति विना गृहम् ॥९७॥
विना भूषा समृद्धिं च शोभसे नैव पुत्रिके ।
वद सौधं तु निर्मातुं पृथक् स्थातुं स्वकालये ॥९८ ॥
इत्युक्ता शङ्करं प्राह पार्वती नम्रमानसा ।
भगवँश्चिरवासो वै श्वशुरस्य गृहेऽगुणः ॥९९ ॥
पराधीननिवासस्तु विवाससदृशस्ततः ।
क्षौद्रीयसामपि तद्वन्महतामपि दुखदः ॥1.585.१०० ॥
इत्युक्तः शङ्करस्तूर्णं काशीं वासाय निर्ममे ।
पूर्वसागरगामिन्या गङ्गाया उत्तरे तटे ॥१०१ ॥
वाराणस्यां पञ्चक्रोशमितायां रत्नमण्डपे ।
तया रेमे पशुपतिर्बहुकालं पुरे स्वके ॥१०२ ॥
अथ राजा दिवोदासः सर्वान् देवान् हि काशितः ।
विसर्जयामास राज्यं चकार वैष्णवेषु च ॥१०३ ॥
कोटिलिङ्गानि संस्थाप्य शम्भुः कैलासकं ययौ ।
राजानो बहवः पश्चाज्जाता वाराणसीभुवि ॥१ ०४॥
काशीराजेतिनामाऽपि शङ्करोपासकोऽभवत् ।
तपसा शङ्कराल्लेभे वरं चाऽसम्भवं पुरा ॥१०५ ॥
जेताऽसि कंसहर्तारं सङ्ग्रामे त्वमरिन्दम ।
तवाऽर्थेऽहं तदा योत्स्ये विष्णुना सह सर्वथा ॥१०६ ॥
श्रीहरिस्तद्वरं ज्ञात्वा चक्रं सुदर्शनं रणे ।
काशीराजसूदनाय प्राहिणोत् तच्च चक्रकम् ॥१ ०७॥
काशीराजशिरश्छित्वा पुरीं ददाह सर्वथा ।
तच्छ्रुत्वा कुपितः शम्भुः पाशुपतास्त्रकं हरौ ॥१०८ ॥
मुमोच निष्फलं तच्च चकार भगवान् हरिः ।
तदा भयं समापन्नस्तुष्टाव शङ्करो हरिम् ॥१०९ ॥
अपराधं क्षमस्वाऽद्य ते भक्तस्य हरे प्रभो ।
सृष्टोऽहं तामसो नाथ त्राहि मां शरणागतम् ॥1.585.११०
तदा चक्रं निवृत्तं शङ्करात् कृष्णो बभूव तत् ।
प्रसन्नवदनः प्राह लक्ष्मीयुतो हसन् हरिः ॥१११ ।
कालेनैतावता शम्भो दुर्बुद्धिः कथमागता ।
हेतोर्नृपतिकीटस्य मया योद्धुमुपस्थितः ॥११ २।
त्वां ब्रह्माणं च मे चक्रं नाशयेत् क्रोधमन्त्रितम् ।
दयां करोमि मे भक्त याहि श्रीपुरुषोत्तमम् ॥११३ ।
यदि वाञ्च्छसि रन्तुं वै चिरं सत्या समं तदा ।
दशयोजनविस्तीर्णे तत्र विरजमण्डले ॥१ १४॥
चित्रोत्पलां नदीमारभ्य यावद्दक्षिणोदधिः ।
श्रेष्ठो नीलाचलस्तत्र चतुर्धाऽहं व्यवस्थितः ॥१ १५॥
नीलमणिप्रतिमोहं तदुत्तरे वनं महत्॥
एकाम्रकाह्वयं तत्र निवासं निर्भयं कुरु ॥१ १६॥
मे पुरुषोत्तमक्षेत्रं त्वमेव परिपालय ।
इत्यादिष्टो ययौ शम्भुस्तत्र वै वासमाचरत् ॥१ १७॥
ब्रह्मणा स्थापितः कोटिलिङ्गेश्वरोऽयमस्ति सः ।
श्रुत्वा राजा विमानाच्चाऽवाततार हरं प्रति ॥१ १८॥
पूजयामास विधिना ददौ दानानि भूरिशः ।
बिन्दुतीर्थे तत्र स्नात्वा श्रीशं सम्पूज्य तत्र च ॥११ ९॥
तस्थौ दध्यौ च तं शम्भुं शम्भुः साक्षादुवाच तम् ।
इन्द्रद्युम्न! महाभागवतो न त्वादृशो भुवि ॥1.585.१२० ॥
दुर्घटाऽपि च ते वाञ्च्छा शीघ्रं पूर्णा भविष्यति ।
नारदे पुनरादेहं यदादिष्टं स्वयम्भुवा ॥१२१ ॥
तत् कल्पय प्रतिष्ठानं वाजिमेधपुरःसरम् ।
अन्तर्हितः खल्विदानीं नीलरत्नतनुर्हरिः ॥१२२ ॥
तत्र श्रीनरसिंहस्य क्षेत्रं कुरु च सन्निधौ ।
वाजिमेधसहस्रेण यजतां भूपतिर्ध्रुवम् ॥१२३ ॥
तदन्ते कल्पन्यग्रोधं प्रदर्शयाऽस्य भूपतेः ।
ब्रह्मरूपतरोस्तस्माच्चतस्रः प्रतिमाः शुभाः ॥१ २४॥
घटिष्यते विश्वकर्माऽजः प्रतिष्ठापयिष्यति ।
ब्रह्मणो वरदानाच्च प्रयातेऽब्दसहस्रके ॥१ २५ ॥
इन्द्रद्युम्नो हरिं साक्षान्मूर्तौ विलोकयिष्यति ।
दारवीं तनुमास्थाय स्थितं दिव्यं नरायणम् ॥१२६ ॥
भज नारद! राजाऽसौ भजतां स्वामिनं हरिम् ।
इत्युक्त्वाऽन्तर्दधे शम्भू राजा विनामगोऽभवत् ॥१ २७॥
ययौ पुरः कपोतेशस्थलीमासेदिवान्नृपः ।
सेनानिवेशयोग्यां च दृष्ट्वा सेनां न्यवेशयत् ॥१२८॥
बिल्वेश्वरकपोतेशौ पूजयित्वा च नारदम् ॥१ २९॥
पप्रच्छ तौ कथं जातौ बिल्वेश्वरकपोतकौ ।
वद नः श्रीपतिप्राप्तिकरीं कथां सुशान्तिदाम् ॥1.585.१३० ॥
इति श्रीलक्ष्मीनारायणायसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नस्य विद्यापतिवर्णितश्रवणोत्तरं जगन्नाथं प्रति गमने निर्णयः, नारदागमः, प्रयाणम्, चित्रोत्पलातटे उत्कलेशाभिगमः, एकाम्रकवने कोटिलिङ्गेशपूजनम्, इत्यादिनिरूपणनामा पञ्चाशीत्यधिक पञ्चशततमोऽध्यायः ॥५८५ ॥