५८४

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां मम पुरातनीं यथोद्भवाम् ।
पूर्वे कृते बभूवाऽसाविन्द्रद्युम्नो महानृपः ॥१ ॥ मार्कण्डेयो न जानाति तं कालं यत्र चास सः ।
न बकर्षिर्न गृध्रर्षिर्न चेन्द्राद्या विदुर्हि तम् ॥२ ॥ किन्तु कूर्मो मानसस्थो जानाति तं पुरातनम् ।
लोमशोऽपि विजानाति चेन्द्रद्युम्नं पुराभवम् ॥३ ॥ स्रष्टुः स पञ्चमो वंशो वैष्णवाश्चाऽऽस भूतले ।
अध्यात्मविद्भागवतः सर्वेषु ब्रह्मदर्शनः ॥४ ॥ सर्वविद्यः सुशीलश्च यष्टा ब्रह्मण्य इत्यपि ।
राजसूयं वाजिमेधसहस्रकमियाज सः ॥५ ॥ महाकालवनेऽवन्तीराजधानीस्थितोऽभवत् ।
मनोवाक्कर्मभिः कृष्णस्वामिभक्तिं चकार सः ॥६ ॥ कुङ्कुमवापिकातीर्थस्थितः श्रीभगवान् स्वयम् ।
श्रीस्वामिश्रीकृष्णनारायणः साक्षान्नृपस्य तु ॥७ ॥ पूजावसरमासाद्य गत्वा गृह्णाति पूजनम् ।
नैवेद्यं सम्प्रभुक्त्वा च नृपं बोधयति स्वयम् ॥८ ॥ याहि राजन्मम क्षेत्रं पुरुषोत्तमसञ्ज्ञकम् ।
तत्र कारय मे सौधं प्रासादं रैवतोपमम् ॥९ ॥ इत्युक्तः स च भूपोऽपि ओमित्याह नरायणम् ।
हरिस्तस्याऽर्पितां पूजां प्राप्याऽदृश्यो भवत्यपि ॥१.५८४.१ ०॥ अथ राज्ञा सभायां स्वपुरोहितो निवेदितः ।
यत्र साक्षाज्जगन्नाथः क्षेत्रं दिदृक्षुरस्मि तत् ॥११ ॥ विमानेन च यास्यामो विद्वद्भिः कविभिः सह ।
दैवज्ञैः श्रोत्रियैः सार्धं दासदास्यादिभिस्तथा ॥१ २॥ इत्यभिदेशमादाय पुरोहितस्य पार्श्वगः ।
तैर्थिको ब्राह्मणस्तत्र राजानं प्रत्यभाषत ॥१३ ॥ योऽभूत् पत्नीव्रताख्यो वै नाम्ना ब्रह्माण्डगोचरः ।
स प्राह राजन् जानामि पश्यामि करगं यथा ॥१४॥ क्षेत्र तद्वै जगन्नाथाश्रयमोढ्रप्रदेशके ।
उत्कले नीलशैलस्याभितो दक्षिणसागरे ॥१५ ॥ जले स्थले च तत्क्षेत्रं नाम्ना श्रीपुरुषोत्तमम् ।
यत्रास्ते कल्पकवटो यत्र रौहिणकुण्डकम् ॥१६ ॥ तत्रास्ते प्राग्दिशि हरेर्नीलेन्द्रमणिनिर्मिता ।
तनुः कृष्णस्य दिव्या सा सारूप्यमुक्तिदायिनी ॥१७॥ पश्चिमे शबराणां वै ग्रामः शबरदीपकः ।
वर्तते तस्य मार्गोऽपि येन विष्ण्वालयं व्रजेत् ॥१८॥ तत्र नीलमणिमूर्तिः कृष्णनारायणोऽस्ति वै ।
तत्रोषितं मया राजन् वर्षं श्रीपुरुषोत्तमे ॥१९॥ तुष्ट्यर्थं देवदेवस्य व्रतिना दिव्यचक्षुषा ।
दृष्ट्वा देवाश्च मुनयः प्रतिरात्रं समागताः ॥१.५८४.२०॥ अनादिश्रीकृष्णनारायणस्य दर्शनाय ये ।
महिमैष न कुत्रापि पुरा दृष्टो मया नृप ॥२१ ॥ संहितानां कथास्तत्र श्रुता कल्पान्तरार्थगाः ।
तत्स्थानं दर्शनार्हं वै विद्यते नृपसत्तम ॥२२॥ यथा वै रैवतीभूमिस्तथा नीलगिरिस्थलम् ।
क्षेत्रद्वयं पुरा पश्चान्न भूतं न भविष्यति ॥२३॥ त्वं यस्माद् विष्णुभक्तोऽसि तद्गत्वा श्रीधरं भज ।
एवमुक्त्वा स वै विप्रश्चान्तर्धानं जगाम ह ॥२४॥ अवाप्य विस्मयं राजा पुरोहितमुवाच यत् ।
अमानुषमिदं वाक्यं श्रुत्वेदानीं पुरोहितः ॥२५॥ बुद्धिस्त्वरयते तत्र गन्तुं यत्र जगत्प्रभुः ।
मम धर्मार्थकामाश्च त्वदायत्ताः पुरोहित ॥२६ ॥ इदानीं त्वं पुरो याहि ममेष्टं साधितं भवेत् ।
श्रुत्वा बाढं विप्र आह राजन् द्रक्ष्यसि केशवम् ॥२७॥ यया त्वं तत्तथा चाहं करिष्यामि तवार्थकम् ।
तत्र वयं ततः सर्वे वत्स्यामः पुरुषोत्तमे ॥२८॥ साफल्यं किमतो लोके परं यद्धरिदर्शनम् ।
तत्र क्षेत्रे भगवतः सन्निधिं रोचते मम ॥२९॥ प्रथमं मेऽनुजो यातु तद्देशं चारसंयुतः ।
विद्यापतिर्जगन्नाथं नीलाद्रिं च वटं तथा ॥१.५८४.३०॥ भूप्रदेशं प्रसमीक्ष्य प्रमीय च वसुन्धराम् ।
समायातु विजानन् तत्क्षेत्रं नारायणाश्रयम् ॥३ १ ॥ श्रुत्वैवं चेन्द्रको राजा तथास्त्विति दिदेश तम् ।
पुरोहितोऽप्यनुजं स्वं कथयामास तत्तथा ॥३२॥ प्रस्थापयामास तं च कृतस्वस्त्ययनं द्विजैः ।
विमाने पुष्पके स्थित्वा प्रोवाच सहयायिनः ॥३३ ॥ अहो नः सफलं जन्म सुकल्या शर्वरी च नः ।
द्रक्ष्यामो यद्भगवतो मुखपद्मं प्रमोक्षदम् ॥३४॥ यं पश्यन्ति हृदि नित्यं योगिनः पारमेश्वराः ।
तं नीलाचलवासं श्रीपतिं द्रक्ष्याम एव च ॥३५॥ अदृश्यं संविलोक्यैव तरिष्यामो भवाम्बुधिम् ।
यत्स्मृतिः पादरजकी द्रक्ष्यामस्तं जनायनम् ॥३६॥ सरूपमुक्तिदं नाथं करिष्यामो दृशाञ्चरम् ।
अद्याऽहो प्राक्पुण्यपुञ्ज उत्थितो भगवत्प्रदः ॥३७॥ वयं सर्वे चर्मदृभिर्लोकयिष्यामहे हरिम् ।
इत्थं वदन् ययौ व्योम्ना दिनार्धे पुरुषोत्तमम् ॥३८॥ ओढ्रदेशं समुद्रं च वटं च नीलपर्वतम् ।
शङ्खचक्रगदापद्मधारिणो ददृशे जनान् ॥३९॥ अत्यद्भुतां सुवसतिं साक्षात्तनुभृतो हरेः ।
अथ नीलाद्रिनिकटे स्थले दिव्येऽतिशोभिते ॥१.५८४.४० ॥ विमानं स्वं क्षितौ तत्राऽवतारयत् समस्थले ।
उपत्यकायामारूढो मुकुन्दालोकनोत्सुकः ॥४१ ॥ तत्र शुश्राव भगवद्भक्त्यालापान् गिरौ मुहुः ।
अभियातश्च वै तत्र ददर्श शबरालयान् ॥४६ ॥ शबरदीपकं चापि विष्णुभक्तांश्च चिह्नितान् ।
दृष्ट्वा प्रणम्य शिरसा तस्थौ यावत् सविद्यकः ॥४३॥ तावद् विश्वावसुर्नाम शबरः परमेश्वरम् ।
पूजयित्वा समायातस्तं पप्रच्छ सविद्यकः ॥४४॥ अत्रास्ते भगवान् विष्णुर्जगन्नाथो महाप्रभुः ।
तदर्थं चागतो दूराद् दर्शनं कारयात्र मे ॥४५॥ इन्द्रद्युम्नस्य नृपतेरवन्तीपुरवासिनः ।
पुरोहिताऽनुजश्चाऽहं विद्यापत्यभिधानकः ॥४६॥ प्रेषितस्तेन राज्ञाऽत्र जिज्ञासुना यियासुना ।
हरिं दिदृक्षुणा मार्गं द्रष्टुं प्राङनीलमाधवात् ॥४७॥ दृष्ट्वा सर्वां नरपतेर्वार्तां नेष्यामि सोऽप्यहम् ।
निराहारो ध्रुवं साधो तन्मां कृष्णं प्रदर्शय ॥४८॥ श्रुत्वैवं शबरः सोऽपि प्राक् श्रुतां संहिताकथाम् ।
सस्मार तत्र यद्राजा चेन्द्रद्युम्नो हि वैष्णवः ॥४९॥ समागत्याऽत्र देवेशं चतुर्धा स्थापयिष्यति ।
वाजिमेधसहस्रं च भूमावत्र करिष्यति ॥१.५८४.५०॥ पृथिव्यन्तर्गते लीने माधवे नीलमाधवे ।
पुना राजा तमागत्य दारवं स्थापयिष्यति ॥५१ ॥ सोऽयं कालः समायातो गाथा सत्या भवेद् यदि ।
नीलमणिमयो नाथश्चादृश्यतां गमिष्यति ॥५२॥ अन्तर्धानं भगवतः सन्निधाने उपस्थितम् ।
तदेनं दर्शयाम्येव नीलेन्द्रमणिमच्युतम् ॥५३॥ इति विचार्य शबरो ब्राह्मणं प्राह हृद्गतम् ।
अस्माभिः श्रीलक्ष्मीनारायणसंहिता संश्रुता ॥५४॥ तत्रोदन्तः समायातश्चेन्द्रद्यम्नो महीपतिः ।
जगन्नाथे महाक्षेत्रे वासं नैजं करिष्यति ॥५५॥ नीलपाषाणमूर्तेस्ते दर्शनं विप्र जायते ।
भाग्यवाँस्त्वं ततश्चेन्द्रद्युम्नस्याऽपेक्षयाऽत्र वै ॥५६॥ राज्ञस्त्वस्य नीलमणिप्रभोर्न दर्शनं भवेत् ।
चक्षुर्भ्यां पश्य तं नीलमाधवं नीलशैलगम् ॥५७॥ नीलमणिवपुषं तमेहि यामो ह्यधित्यकाम् ।
इत्युक्त्वा तं करे धृत्वा गहनेन च वर्त्मना ॥५८॥ उपर्युपर्युपारुह्य शिलाकण्टकशालिनि ।
एकैकनरगम्ये च दुर्गमे निर्जने स्थले ॥५९॥ वृक्षच्छायातमःप्राये समानीय स शाबरः ।
दर्शयामास रौहिणं कुण्डं तीर्थं सुपावनम् ॥१.५८४.६ ०॥ तस्याऽत्र पूर्वभागेऽसौ कल्पछायावटो महान् ।
एतयोरन्तरे ब्रह्मन्निकुञ्जाभ्यन्तरे स्थितम् ॥६ १ ॥ पश्य कृष्णं जगन्नाथं साक्षाच्छ्रीपुरुषोत्तमम् ।
इत्येवं दर्शयामास नीलपाषाणकं हरिम् ॥६ २॥ स तु विप्रस्तत्र कुण्डे स्नात्वा सर्वात्मना हरिम् ।
प्रणम्य दूरतश्चैकमनास्तुष्टाव चान्तरे ॥६३॥ अक्षरातीतभगवत्तकृष्णनारायणप्रभो ।
मुक्तेशजीवहृदयपरात्पर नमोऽस्तु ते ॥६४॥ सर्वकर्मसमाराध्ययोगसाध्य नमोऽस्तु ते ।
प्रेमपाशविषयात्मँस्तीर्थात्मँस्ते नमोनमः ॥६५॥ नमस्तेजःस्वरूपाय पावनाय नमोनमः ।
हुताशनाय देवाय हृच्छ्रयाय च ते नमः ॥६६॥ मन्त्रस्थाय जीवनाय निर्वाणाय च ते नमः ।
सर्वानन्दप्रदात्रे ते ब्रह्मेशाय नमोनमः ॥६७॥ मायिने तत्त्विने मूर्तिमते विश्वाससाक्षिणे ।
जिष्णवे बहुशिरसे कमलेशाय ते नमः ॥६८॥ मामुद्धर कृपासिन्धो त्राहि वासनयाऽन्वितम् ।
इन्द्रद्युम्ननृपस्यापि कुरु सङ्कल्पपूरणम् ॥६९॥ इति विद्यापतिः स्तुत्वा ओमित्येवं जजाप ह ।
ततः स शबरः प्राह कृतार्थस्त्वं तु साम्प्रतम् ॥१.५८४.७०॥ गृहं यावः क्षुधितोऽसि वासोऽरण्येन चोचितः ।
हिंस्राणां पादचारोऽयं प्रदेशोऽस्ति भयप्रदः ॥७१ ॥ इत्युक्त्वा शबरो नैजं गृहं निनाय भूसुरम् ।
मार्गेऽपि विषमे नाऽस्य श्रमो यत् कृष्णदर्शनम् ॥७२॥ शबरो भोज्यपानाद्यैरतियिं समपूजयत् ।
उवाच कच्चित् तृप्तोऽसि शाबरैर्वस्तुभिर्द्विज ॥७३॥ तव प्रतोषणादिन्द्रद्युम्नस्तुष्टो भविष्यति ।
विप्रः प्राहाऽऽश्चर्यमेतत् त्वद्गृहे दिव्यवैभवाः ॥७४॥ राज्यातिवर्तिनश्चैते कुत एते वदात्र माम् ।
शबरः प्राह देवाद्या नित्यमायान्ति वै हरेः ॥७५॥ दिव्योपचारानादाय पूजनाय जगत्पतेः ।
स्तुत्वा समर्च्याऽर्पयित्वा नर्तयित्वा प्रयान्ति च ॥७६॥ तानीमानि हि दिव्यानि सर्वोपकरणानि वै ।
तैर्वयं क्षीणरोगाश्च निवसामोऽर्बुदायुषः ॥७७॥ विष्णुप्रसादभोगेन पापक्षयं च दिव्यताम् ।
श्रुत्वाऽऽश्चर्यपरो विप्रः कृतार्थं स्वममन्यत ॥७८॥ अहो त्वत्रैव वस्तव्यं भगवच्छरणे सदा ।
यादृशो विप्णुभक्तोऽयं मया भाव्यं तथैव च ॥७९॥ किं गत्वा स्वगृहे मेऽस्ति विचार्येत्थं जगाद तम् ।
कृष्णदास्ये मया वृत्त्यं मयि ते चेदनुग्रहः ॥१.५८४.८० ॥ किमन्यसेवया लोके विधास्ये स्वामिसेवनम् ।
यदि पुण्यं भवेत्पौर्वं लभते स्वामिसेवनम् ॥८ १ ॥ साधु मित्र त्वया सार्धं पुण्यान्मे सङ्गमोऽस्ति यत् ।
साधुसङ्गेन संसारं तरिष्ये दुस्तरं विषम् ॥८२॥ सारात्सारतरं पुण्यं वैष्णवेन सहासनम् ।
शबरस्तु तदा प्राह तथास्त्विति परं शृणु ॥८३॥ इन्द्रद्युम्नं समादाय वासं चात्र कुरु द्विज ।
नीलशैलकृता मूर्तिस्तावता लयमेष्यति ॥८४॥ इमां प्राचीनमूर्तिं च नैव द्रक्ष्यति भूपतिः ।
हरिरचिराद्बालुकास्वन्तर्धानं गमिष्यति ॥८५॥ स चागत्य नृपोऽदृष्ट्वा श्रीपतिं पुरुषोत्तमम् ।
प्रायोपवेशनस्थश्च स्वप्ने द्रक्ष्यति माधवम् ॥८६ ॥ हर्यादेशाद् दारुमयं हरेर्मूर्तिचतुष्टयम् ।
वेधोद्वारा प्रतिष्ठाप्य पूजयिष्यति भक्तितः ॥८७॥ कारयिष्यति देवस्य प्रासादं गगनोच्छ्रयम् ।
आवयोः स्थास्यति वंशो यावन्मूर्तिस्तु दारवी ॥८८॥ नीलेन्द्राश्ममयं स्मृत्वा स्नात्वा सिन्धौ ततः परम् ।
इन्द्रद्युम्नं प्रयाहि त्वं समानयाऽत्र तं नृपम् ॥८९॥ इत्युक्तो ब्राह्मणः स्नात्वा नत्वा विमानमास्थितः ।
सायं जगाम चावन्तीं नृपं दृष्टमवर्णयत् ॥१.५८४.९० ॥ जगन्नाथे तदा क्षेत्रे वायुश्चण्डगतिर्ववौ ।
सायाह्नेऽर्चनवेलायामभितः स्वर्णवालुकाः ॥९ १ ॥ उड्डीयन्ते स्म पवनात् ताभिश्छन्नः स माधवः ।
रौहिणकुण्डश्छन्नोऽपि वालुकापर्वतोऽभवत् ॥९ २॥ देवाद्या वालुकाराशिं ददृशुस्ते न माधवम् ।
रौहिणं च तथा कुण्डं न ददृशुः क्षणान्तरे ॥९ ३ ॥ सर्वे ते प्रार्थयामासुः स्वापराधक्षमां प्रति ।
कथं नः सेवकाँस्त्यक्त्वा युगपन्नहि दृश्यसे ॥९४॥ येषामर्थेऽत्र धृतवान् मूर्तिरूपं कलेवरम् ।
ताननाथान् परित्यज्य कथं पृथ्व्यां तिरोहितः ॥९५॥ न प्रासादो न च स्थानं न मार्गो न भवानपि ।
न कुण्डं दृश्यते चात्र कथं कोपस्तवेदृशः ॥९६॥ अस्माँश्चाप्यत्र प्रलये विकर्षय त्वया सह ।
सुराणां शोचतामेवं व्योमवाणी बभूव ह ॥९७॥ भो सुरा मा प्रशोचन्तु मदिच्छा विलये ध्रुवा ।
ततो मे दर्शनं लीनं परिवर्तनमिष्यते ॥९८॥ ब्रह्मा वदिष्यति सर्वमवतारान्तरं मम ।
श्रुत्वा देवा ययुः स्वर्गं शबराः शोकमाप्नुवन् ॥९९॥ नीलाद्रिर्वालुकाव्याप्तो बभूव दृश्यतेऽभितः ।
नीलमाधववाञ्च्छेयं यतस्तिरोऽभवत् स्वयम् ॥१.५८४.१० ०॥ अमन्यन्त च शबरा अथ विद्यापतिर्द्विजः ।
विमानेनाऽवन्तिकायामिन्द्रद्युम्नालयं ययौ ॥१० १॥ निर्माल्यमालां नीलाख्यमाधवस्य ददौ नृपे ।
राजा तुतोष निर्माल्यमालां शिरसि धारयन् ॥१ ०२॥ मालात्मकं प्रपश्यामि नीलमाधवमत्र वै ।
नमामि मालिकां दिव्यां भक्तमानसपूरणीम् ॥१०३ ॥ इत्युक्त्वा विप्रहस्तेन मालां कण्ठे ह्यधारयत् ।
मालात्मिकां श्रियं राजा तुष्टाव पारमेश्वरीम् ॥१ ०४॥ नय मां त्वं महालक्ष्मि यत्रास्ते भगवान् पतिः ।
इत्युक्त्वा न्यषीदद्राजा समाजेऽवन्तिवासिनाम् ॥१ ०५॥ विप्रः पृष्टोऽथ वृत्तान्तं पुरुषोत्तमक्षेत्रजम् ।
सप्रकाशं हि सदसि वर्णयामास विस्तरात् ॥१०६ ॥ भिल्लद्वीपाऽवलोकं च समुद्रस्नानमित्यपि ।
नीलाद्रिरोहणं नीलमाधवस्याऽभिदर्शनम् ॥१ ०७॥ सुस्नानं रौहिणे कुण्डे दिव्यवटस्य दर्शनम् ।
शबराणामावसथान् वर्णयामास सर्वशः ॥१ ०८॥ नीलेन्द्रमणिमूर्तेश्च वर्णनं च यथातथम् ।
नीलेन्द्रमणिपाषाणमयी मूर्तिः पुरातनी ॥१ ०९॥ आरसेयी चाकचक्यमयी प्रपूजिता सुरैः ।
माला तस्यै चार्पितेयं सुरैर्म्लायति या न हि ॥१.५८४.११ ०॥ रिच्यते न च गन्धेन सेयं त्वत्कण्ठगा नृप ।
तत्रत्यं ते वर्णयिष्ये पूजनादि प्रदिव्यकम् ॥१११ ॥ भुक्तिर्मुक्तिश्च वै राजन् द्वे तत्र युगपत्स्थिते ।
न जरारोगशोकादिदुःखं तत्र हि विद्यते ॥१ १२॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने इन्द्रद्युम्नस्य साक्षाच्छ्रीपुरुषोत्तमदर्शनं, पुरोहितभ्रातुर्विद्यापतेर्जगन्नाथक्षेत्रे प्रेषणम्, आगत्य यथाविलोकनतद्वर्णनम्, झन्झावातेन वालुकासु नीलमाधवलयश्चेत्यादिनिरूपणनामा चतुरशीत्यधिकपञ्चशततमोऽध्यायः ॥५८४ ॥