५७२

श्रीनारायण उवाच-
शृणु लक्ष्मि! महातीर्थं कुब्जाम्रकं प्रमोक्षदम् ।
नर्मदायां समागत्य कुब्जारेवासमागमे ॥१ ॥ व्यवस्थितं ध्रुवं साप्तकल्पं वै शङ्करोऽवदत् ।
पार्वत्यै तीर्थयात्रायामृक्षपर्वतसंस्थितः ॥२ ॥ अथान्यान्यपि तीर्थानि कथयामि निशामय ।
माहिष्मत्याः पश्चिमे वै तीर्थं शोकविनाशनम् ॥३ ॥ अशोकवनिकाख्यातं मातङ्गाश्रमशोभितम् ।
तत्र या पूजयेद् गौरीं तृतीयायां पतिव्रता ॥४ ॥ कन्या लभेत् पतिं स्वेष्टं द्रव्यरूपबलान्वितम् ।
मातङ्गो नाम देवर्षिस्तपस्तेपेऽत्र दुष्करम् ॥५ ॥ प्राग्जन्मनि निषादः स जातिस्मरो ह्यभूत् सदा ।
पापनाशकरे स्थाने महर्षीणां समागमात् ॥६ ॥ धर्मज्ञाताऽभवच्छ्रेष्ठो रागहीनश्च बोधवान् ।
नर्मदासेवनाच्चापि पुण्यवानभवद्धि सः ॥७ ॥ निर्विण्णश्च जटावल्कलाऽम्बरः श्वपचोऽपि ह ।
अशोकवनिकासंस्थः कन्दमूलफलाशनः ॥८ ॥ वर्षाणां स सहस्रं वै तपस्तेपेऽतिदारुणम् ।
एवं वै तपतस्तस्य जटाग्रेभ्यो विनिःसृताः ॥९ ॥ यक्षिण्यः श्यामवर्णाश्च तेजस्विन्यो विभूषिताः ।
एकाशीतिसहस्राणि सस्नुस्ता नर्मदाजले ॥1.572.१ ०॥ स्नानमात्रेण ताः प्रापुर्यक्षलोकान् सुवाहनैः ।
मन्त्रयन्त्रविहीनोऽपि नमः शिवाय सङ्गृणन् ॥११ ॥ सिद्धिमानभवत्तस्य पुरः शङ्कर आययौ ।
भक्तं प्राह वरं स्वेष्टं वृणीष्व शङ्करोऽस्म्यहम् ॥१२॥ मातङ्गः प्राह मन्नाम्ना तीर्थं ख्यातमिदं भवेत् ।
चाण्डालाः श्वपचाश्चर्मकारा ये पापयोनयः ॥१३ ॥ अत्राऽऽगत्य पवित्राश्च मुक्तिमाप्नुयुरेव च ।
मातङ्गेश्वरलिङ्गं च नत्वेयुर्मोक्षणं तथा ॥१४॥ एनं वरं प्रदेह्यत्र यद्यहं तेऽस्मि भक्तिमान् ।
श्रुत्वा तच्छङ्करः प्राह तथाऽस्त्विति पुनस्ततः ॥१५॥ ओं नमः श्रीकृष्णनारायणाय स्वामिने नमः ।
इत्येनं जप मातङ्ग! मुक्तिस्ते वैष्णवी परा ॥१६॥ भविष्यति न सन्देहस्तथा त्वज्जातिवर्तिनाम् ।
अस्य मन्त्रस्य योगेन वैकुण्ठे मोक्षणं भवेत् ॥१७॥ देहि मन्त्रं मयोक्तं च कुरु सर्वांश्च वैष्णवान् ।
इत्युक्त्वा शङ्करश्चान्तर्धानं ययौ ततः परम् ॥१८॥ मतङ्गो निजवर्णेभ्यो देहिभ्यः प्रददौ मनुम् ।
प्रेषयामास स बहून् चाण्डालान् वैष्णवान् पुरा ॥१९॥ गोलोकं श्रीहरेर्धाम स्वयं यानं च कामिकम् ।
समारुह्य ययौ चैत्रे मोक्षं वै परमं शुभम् ॥1.572.२०॥ अशोकवनिकं चैतन्मातङ्गतीर्थमुच्यते ।
तिलपिष्टादिदानेन सक्तूदानेन तर्पणे ॥२१॥ पितरो जलपानेन मुक्तिं यान्ति न संशयः ।
तत्रैव दक्षिणे भागे तीर्थं मृगवनाभिधम् ॥२२॥ तत्र स्नात्वाऽर्चयेद् विष्णुं शङ्खचक्रगदाधरम् ।
एकादश्यां निराहारः पूजयेत् परमेश्वरम् ॥२३॥ पतिव्रता पतिं कृष्णनारायणं प्रपूजयेत् ।
स्नानदानप्रभावेण लोकं प्राप्नोति वैष्णवम् ॥२४॥ व्याधः कश्चिद् दुराचारो निर्दयश्च पुराऽभवत् ।
सधनुष्को मृगाँस्तत्र जघान च तृषाकुलः ॥२५॥ विना जल द्रुमच्छायामाश्रित्य क्षणमास्थितः ।
निद्रां ययौ च तत्पश्चाद् वनसङ्घर्षजोऽनलः ॥२६॥ उत्थितश्च ददाहाऽसौ वनं व्याधमृगान्वितम् ।
अथ मासान्तरे वर्षा जाता भस्मास्थिखण्डकाः ॥२७॥ नर्मदायां गताः सर्वे वृष्टिपूरेण वाहिताः ।
मृगास्ते नर्मदायोगाद् गान्धर्वा देवकोटयः ॥२८ ॥ अभवँश्च स वै व्याधो राजाऽभवद्धि भूतले ।
तदन्ये प्राणिनश्चापि नर्मदाजलयोगतः ॥२९॥ यक्षाद्या अभवन् देवा दशवर्षसहस्रकम् ।
स्वर्गं भुक्त्वा ततस्तेऽपि तथा राजाऽस्य गायकाः ॥1.572.३ ०॥ वैष्णवेनैव यानेन सम्प्राप्ता वैष्णवं पदम् ।
अवशः स्ववशो वापि प्राणाँस्त्यजति नार्मदे ॥३ १ ॥ दिव्यवर्षसहस्रं स विष्णुलोके प्रमोदते ।
अङ्गारावर्तसम्भेदो गोसहस्रफलप्रदः ॥३२॥ अङ्गारेश्वरदेवश्च तत्र तिष्ठति सङ्गमे ।
स्नानमात्रो नरस्तत्र गाणपत्यमवाप्नुयात् ॥३३॥ चतुर्थ्यां मङ्गले वारे हिरण्यपुरुषं शुभम् ।
कृत्वा रक्तेन वस्त्रेण वेष्टयेत् सघृतं तथा ॥३४॥ गूढं दद्याद् ब्राह्मणाय मङ्गलं पुरुषं ददेत् ।
दानतीर्थप्रभावेण शक्रार्धासनभाग्भवेत् ॥३५॥ युवनाश्वः पुरा राजा कोसलाया ह्यभून्महान् ।,
चक्रवर्ती कृतयुगे सर्वधर्मपरायणः ॥३६॥ अभिवाद्य वशिष्ठं स समुवाच पुरोहितम् ।
कस्मिन् स्थाने यजेद् यज्ञं तीर्थे देशे सुरालये ॥३७॥ वशिष्ठस्तं समुवाच नैमिषं तीर्थमुत्तमम् ।
सफलो हयमेधश्च कोटिकोटिगुणोत्तरः ॥३८॥ मत्स्येन विष्णुना चोक्तं सूर्येणापि तथोदितम् ।
मनुपुत्राय यज्ञार्हं युवनाश्व! तवोदितम् ॥३९॥ श्रुत्वा राजा गुरोर्वाक्यं समादिदेश मन्त्रिणः ।
यज्ञोपस्करमादाय समागच्छत सत्वरम् ॥1.572.४०॥ घोषणा च कृता लोके आहूताश्च सुराः क्रतौ ।
ब्रह्मा विष्णुः सुरेशश्च स्कन्दो वैश्रवणस्तथा ॥४१ ॥ शम्भुश्च वसवश्चापि रुद्रा आदित्यकास्तथा ।
अश्विनौ च दिशां पाला लोकपालाश्च सर्वशः ॥४२॥ धेनूनां दशलक्षाणि हेमरत्नान्वितानि हि ।
लक्षमेकं वाजिनां सद्दन्तिनामयुतत्रयम् ॥४३॥ मणिमाणिक्यमुक्ताश्च हिरण्यं चाप्यनन्तकम् ।
नानाविधानि द्रव्याणि भक्ष्यभोज्यानि सर्वशः ॥४४॥ यज्ञद्रव्यं च यच्चान्यत् तत्सर्वसहितो नृपः ।
नानासहस्रयानैश्च नानावाद्यसहस्रकैः ॥४५॥ वेदघोषेण महता गीतिकैर्नादयन् दिवम् ।
विवेश नैमिषं तीर्थं यत्र श्रीहरिदर्शनम् ॥४६ ॥ अनादिश्रीकृष्णनारायणं दृष्ट्वा ततो नृपः ।
दीनानामयुतायाऽसौ ददौ सुवर्णलक्षकम् ॥४७॥ भूषणानि ददौ स्नात्वा रूप्यकाण्यमितानि तु ।
ओं नमो विष्णवे प्रोक्त्वा जलदर्भौ निधाय वै ॥४८॥ सङ्कल्प्य स्वर्णपात्रे स यज्ञवाटमकारयत् ।
दशकोशमितां भूमिं यज्ञयूपमयीं नृपः ॥४९॥ हेमयूपसुशोभाद्यामकारयच्च मण्डपान् ।
वेदिका यज्ञकुण्डानि मुख्यकुण्डान्वितानि च ॥1.572.५०॥ ततो निर्वर्तितो यज्ञो वशिष्ठप्रमुखैर्द्विजैः ।
मुदिता देवताः सर्वा जयशब्दान् वदन्ति वै ॥५१ ॥ यज्ञं समाप्य च राजा सान्तःपुरपरिच्छदः ।
यावद् यानं समारुह्य निःसृतो नैमिषाद् वनात् ॥५२॥ तावत् कश्चिद् वानरस्त्वागत्योवाच नृपं मुहुः ।
तिष्ठ तिष्ठ शृणु राजन् मिथ्याहङ्कारवान् भवान् ॥५३॥ किं ते यज्ञविधानेन फलं मन्ये न चाधिकम् ।
पुराऽमरेश्वरे यज्ञे सत्यधर्मस्य भूपतेः ॥५४॥ वर्जयित्वा मुखं मेऽभूत् कण्ठाऽधो हेमवर्णकम् ।
अस्माकं शिशवः सर्वे तत्राऽभवन् हिरण्मयाः ॥५५॥ कपिलानर्मदायोगे यज्ञतोयप्रभावतः ।
स्नानाऽवगाहनात्पानाल्लुण्ठनात्कर्दमे क्रतोः ॥५६ ॥ गन्धर्वलोकं सम्प्राप्तो भूतग्रामश्चतुर्विधः ।
अथाऽहं लुलितो यज्ञे तव नैमिषसम्भवे ॥५७॥ पङ्केन लिप्तं गात्रं मे क्षालितं यज्ञवारिणा ।
न किञ्चित् फलमासीन्मे न गात्रं स्वर्णतां गतम् ॥५८॥ अहङ्कारगतो यज्ञस्तव सर्वो निरर्थकः ।
गवां त्वयाऽयुतं दत्तं धनं धान्यमनन्तकम् ॥५९॥ स्वर्णं रूप्यं तथा दत्तं किन्तु सर्वं निरर्थकम् ।
एतत्ते कथितं राजन् क्रतुस्ते नहि तादृशः ॥1.572.६० ॥ सत्यधर्मस्य नृपतेर्यथाऽभून्नर्मदातटे ।
स्वस्ति वोऽस्तु गमिष्यामि नर्मदां स्वर्णरूपदाम् ॥६ १ ॥ श्रुत्वा त्वदीयं यज्ञं वै नैमिषारण्यमागतः ।
निराशोऽहं प्रगच्छामि नाऽभून्मे काञ्चनं मुखम् ॥६ २॥ वानरस्य वचः श्रुत्वा युवनाश्वोऽब्रवीत् तदा ।
कोऽसि वानररूपस्त्वं वद मे श्रेयसां निधे ॥६३॥ कपिः प्राह कदम्बाख्यो जाबालिपुत्र आत्मवित् ।
जातिस्मरः फलचौर्याद् वानरत्वमुपागतः ॥६४॥ कृतानि सर्वतीर्थानि वेषेणानेन भूपते ।
न श्रेयो मेऽभवत् किञ्चित्तीर्थेषु त्वल्पमित्यपि ॥६५॥ केवलं नार्मदे क्षेत्रे सत्यधर्ममखोत्तमे ।
वपुर्हिरण्मयं सर्वं मुखवर्जं ममाऽभवत् ॥६६॥ वानरस्य वचः श्रुत्वा राजा तु नैमिषं पुनः ।
ययौ श्रीपरमेशं तं ह्यादिदेवं विभुं हरिम् ॥६७॥ तुष्टाव परया प्रीत्या भगवन्तं नरायणम् ।
भगवन्नैमिषे क्षेत्रे मया यज्ञः प्रसाधितः ॥६८॥ अत्रान्ते श्रावयामास ह्येको वानररूपधृक् ।
न यज्ञे ते मम लाभो वृथा यज्ञस्ततस्तव ॥६९॥ स त्विच्छति मुखं स्वस्य हिरण्मयं क्रतूत्तरम् ।
हिरण्मयं मुखं तस्य यथा स्यात् तत् तथा कुरु ॥1.572.७०॥ श्रुत्वा श्रीभगवानाह मूर्तिस्थो युवनं नृपम् ।
नर्मदायां पुनर्यज्ञं सत्यधर्मः करिष्यति ॥७१ ॥ तत्र तस्य मुखं स्वर्णं भविष्यन्ति न संशयः ।
वदैनं वानरं याहि राजँस्त्वं कोसलां पुरीम् ॥७२॥ राजा श्रुत्वा तु नैमिषं हरिं नत्वा पुरीं ययौ ।
वानरश्च ययौ रेवाकपिलासङ्गमं पुनः ॥७३॥ तत्र गत्वा सत्यधर्मं नैमिषाख्यानमाह सः ।
सत्यधर्मश्च तच्छ्रुत्वा हरेर्वचः प्रमाणयन् ॥७४॥ प्रचकार पुनर्यज्ञं वानरोऽवभृथोत्तरम् ।
कर्दमे स्वमुखं लुण्ठन् प्रावेशयन्मुहुर्मुहुः ॥७५॥ हेमीभूतवपुर्जातो मुखं सर्वं च कानकम् ।
अभवच्च तदा त्यक्त्वा शरीरं वानरस्य सः ॥७६॥ देवदुन्दुभिनादेन सत्कृतश्चाप्सरां गणैः ।
हंसयुक्तेन यानेन ययौ वैकुण्ठमेव सः ॥७७॥ तत्र यज्ञे श्वापदाद्याः कणं भुक्त्वा दिवं गताः ।
एवं वै नार्मदं तीर्थं सर्वोपरि प्रवर्तते ॥७८॥ श्रवणात्कीर्तनाच्चास्य गोसहस्रफलं भवेत् ।
शङ्करः पार्वतीं प्राह मया लक्ष्मि! तवोदितम् ॥७९॥ स्वद्रव्येण तु यो यज्ञं करोति नार्मदे तटे ।
भुक्त्वा स पुष्कलान् भोगान् विष्णुलोके महीयते ॥1.572.८० ॥ धात्रीं हिरण्मयीं कृत्वा ब्राह्मणाय प्रकल्पयेत् ।
नर्मदातीरमाश्रित्य विष्णुलोके महीयते ॥८ १॥ प्रत्यक्षधेनुं यो दद्याद्धेमरत्नविभूषिताम् ।
घृतधेनुं गुडधेनुं शर्कराधेनुमित्यपि ॥८२॥ रेवाकपिलयोर्योगे विष्णुलोके महीयते ।
शृणु चान्यां कथां चापि पापतापप्रणाशिनीम् ॥८३॥ वीरणस्य तु राजर्षेर्मैत्रेयोऽभूत्पुरोहितः ।
तेन चायतनं विष्णोः कृष्णनारायणस्य ह ॥८४॥ कारितं नर्मदातीरे स्वर्गकलशशोभितम् ।
तदायतनपुण्येन नर्मदायाः प्रभावतः ॥८५॥ मोदते वैष्णवे लोके मैत्रेयो वै चतुर्भुजः ।
अथाऽयं वीरणो राजा शुश्राव देवदूततः ॥८६ ॥ राजँस्तव गुरुः स्वर्गं निम्नीकृत्य गतो हरेः ।
वैकुण्ठं त्वं कथं नैव यास्यसि दर्शनाय वै ॥८७॥ देवदूतस्य तच्छ्रुत्वा पप्रच्छ च कथं गतिः ।
देवदूतस्तदा प्राह यज्ञमाचर नार्मदे ॥८८॥ तटे रम्ये हरिं कृष्णं तोषयित्वा प्रयास्यसि ।
वीरणोऽपि क्रतुं श्रेष्ठं वैष्णवं प्रचकार ह ॥८९॥ देवास्तत्र समायाता मैत्रेयोऽपि नरायणः ।
लक्ष्म्याद्या मातरश्चापि राजा सर्वा ह्यतोषयत् ॥1.572.९०॥ अथाऽवमृथकं स्नानं कृत्वा दत्त्वा च दक्षिणाः ।
वीरणो दिव्ययानेन भूत्वा दिव्यो हि वैष्णवः ॥९१ ॥ चतुर्भुजाभिः कन्याभिर्वीज्यमानोऽतिसुन्दरः ।
चतुर्बाहुधरः कृष्णनारायणं रटन् मुहुः ॥९२॥ देवैश्च पार्षदैर्मार्गे वर्धितः स्वागतीकृतः ।
ययौ विष्णोः परं धाम वैकुण्ठं नित्यशान्तिदम् ॥९३॥ रन्तिदेवोऽपि राजर्षिः कृत्वा यज्ञाँश्च नार्मदे ।
क्षेत्रे बिल्वाँस्तथाऽऽम्राँश्च समर्प्य परमेश्वरम् ॥९४॥ तोषयित्वा हरिं देवान् तीर्थं बिल्वाम्रकं तदा ।
कृत्वा चाज्ञां समादाय नारायणस्य शार्ङ्गिणः ॥९५॥ प्रजाश्च वैष्णवीर्भक्ताः काश्चिन्नीत्वा सहापि च ।
तटे चान्ते हरेर्धाम ययौ सकुलबान्धवः ॥९६॥ दधीचिर्नाम राजर्षिरवन्तीनृपतिः पुरा ।
नर्मदायास्तटे गत्वा दत्वा चेन्द्राय पृष्ठगम् ॥९७॥ वंशास्थि च ततो भक्त्या ययौ नारायणं पदम् ।
यदस्थिजातशस्त्रैर्वै देवा जिग्युर्महासुरान् ॥९८॥ अमासोमसमायोगे स्नात्वा बिल्वाम्रके प्रिये ।
भुक्तिं मुक्तिं जना यान्ति नार्मदक्षेत्रयोगतः ॥९९॥ विश्वे देवाः परां सिद्धिं बिल्वाम्रके समाप्नुयुः ।
पाठकाः श्रावकाश्चापि यास्यन्ति परमां गतिम् ॥1.572.१० ०॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्तानेऽशोकवनिकायां मातङ्गाश्रमः, अङ्गारेश्वरम्, सत्यधर्मस्य यज्ञे नकुलस्य स्वर्णरूपता, वीरणस्य मोक्षः, इत्यादिनिरूपणनामा द्वासप्तत्यधिकपञ्च-
शततमोऽध्यायः ॥५७२ ॥