५६५

श्रीलक्ष्मीरुवाच-
केन केन विधानेन जनः कर्माणि कारयेत् ।
भुक्तिं मुक्तिं गृहस्थोऽपि येन साफल्यमाप्नुयात् ॥१ ॥ श्रीनारायण उवाच-
शृणु सर्वं कथयामि गृहस्थोऽपि क्रियापरः ।
कामलोभादियुक्तोऽपि जन्मसार्थक्यमाप्नुयात् ॥२ ॥ मयि चित्तं समास्थाय ममताऽहंविवर्जितः ।
मां प्रधार्य सदा भोग्ये भोक्तर्यपि क्षमापरः ॥३ ॥ फलमूलानि शाकानि पयोव्रतादि सञ्चरन् ।
षष्ठ्यष्टमी ह्यमावास्या तूभयत्र चतुर्दशी ॥४ ॥ व्रताहानि पर्वकालो द्वादशी श्राद्धपूजनम् ।
मैथुनं नाभिसेवेत तेषु निमित्तकेष्वपि ॥५ ॥ सर्वं कुर्याच्च मां स्मृत्वा मदर्थं चेत्करोति वै ।
मयि योगविधानेन कर्म कुर्याद् दृढव्रतः ॥६ ॥ पूतात्मा धर्मसंयुक्तो मयि स्नेहपरायणः ।
न म्लानिर्न जरा तस्य न मोहो रागमत्सरौ ॥७ ॥ व्यवधानकरा यस्य ममलोकं स गच्छति ।
आजीवनं मम पूजां कृत्वा धाम्नि महीयते ॥८ ॥ एतच्छ्रुत्वा पुनर्लक्ष्मीः पप्रच्छ पुरुषोत्तमम् ।
कस्मिन् काले तव पूजा कथं कार्या वदाऽत्र मे ॥९ ॥ काले काले च देवेश कीदृशं कर्म ते कृते ।
कथं संस्थापनं तेऽत्रावाहनं च विसर्जनम् ॥1.565.१ ०॥ धूपं दीपं कीदृशं च गृह्णासि वद मे हरे! ।
कथं पाद्यं स्थापनं च गृह्णास्यपि विलेपनम् ॥११ ॥ आसनं शयनं यानं कन्दमूलफलानि च ।
कथं गृह्णासि भगवन् कीदृशं चार्पितं शुभम् ॥१२॥ शरदि कीदृशं कर्म शिशिरे कर्म कीदृशम् ।
वसन्ते कीदृशं कर्म ग्रीष्मे किं कर्म ते मतम् ॥१ ३॥ प्रावृट्काले च किं कर्म वर्षान्ते कीदृशं चरेत् ।
यानि तत्रोपभोग्यानि पुष्पाणि च फलानि च ॥१४॥ अर्चायाः किं प्रमाणं ते स्थापनं कीदृशं मतम् ।
परिमाणं कियत् तस्या उपवासश्च कीदृशः ॥१५॥ पीतं रक्तं पाटलं वाऽम्बरं गृह्णासि कीदृशम् ।
तेषां हितकरं वस्त्रं किंरूपं तव सम्मतम् ॥१६॥ केषु द्रव्येषु सम्मिश्रं मधुपर्कं च ते मतम् ।
मधुपर्कस्य दानस्य पुण्यं गुणाश्च कीदृशाः ॥१७॥ केषु लोकेषु गच्छन्ति मधुपर्कस्य भक्षकाः ।
किम्प्रमाणं प्रदातव्यं मधुपर्कादिकं पुरा ॥१८॥ कानि शाकानि चान्नानि पेयान्यपि प्रियाणि ते ।
केन मन्त्रविधानेन प्राशनं ते प्रदीयते ॥१९॥ व्रते त्वां पूजयित्वा च यथा स्यान्नापराधकः ।
कथं तथा वर्तितव्यं पूजायां स्पर्शने तथा ॥1.565.२०॥ कानि कर्माणि कुर्वीत तव भक्तस्य भोजने ।
प्रापणं ते कथं कार्यं पात्रं कीदृशमुच्यते ॥२१ ॥ प्रसादं ते च के लोके भुञ्जन्ति पावनं परम् ।
ये च एकाशिनो भक्ता अर्चयन्ति च केशवम् ॥२२॥ स्मरन्ति सततं त्वां च तव भक्तेषु वासिनः ।
तेषां तु का गतिर्देव तव भक्तिं प्रकुर्वताम् ॥२३॥ कृच्छ्रसान्तपने रक्ता वाय्वाहाराश्च वा व्रते ।
कृष्णस्पर्शं प्रकुर्वन्ति प्रपद्यन्ते च कां गतिम् ॥२४॥ अक्षारलवणा ये च तव कार्यपरायणाः ।
पयोव्रताश्च ये भक्तास्ते प्रयान्ति च कां गतिम् ॥२५॥ गोदुग्धादिसमाहारा गवां सेवापरायणाः ।
उञ्च्छवृत्तिपरा भक्ताः प्रयान्ति कीदृशीं गतिम् ॥२६॥ भिक्षोपजीविनो ये च गृहस्थधर्ममाश्रिताः ।
माधवे सर्वदा सक्ताः कां प्रयान्ति गतिं तु ते ॥२७॥ तव क्षेत्रेषु तीर्थेषु प्राणान् मुञ्चन्ति ये जनाः ।
पञ्चाग्नीनां प्रतप्तारः कां गतिं नाथ यान्ति ते ॥२८॥ पञ्चातपे मृता ये च भृगुपाते मृतास्तथा ।
कटशय्याप्रसुप्तारो व्योमशयनमास्थिताः ॥२९॥ गोव्रजे शायिनश्चापि तव भक्तिपथे स्थिताः ।
तव दर्शनकर्तारः कां गतिं यान्ति केशव ॥1.565.३ ० ॥ शाकाहारं कणाहारं गव्याहारं यवादनम् ।
सक्त्वाहारं च कुर्वन्ति भजन्ते त्वां निरन्तरम् ॥३ १॥ पयःपानपरा वापि कां गतिं यान्ति तेऽनुगाः ।
शिरसा दीपकं धृत्वा येऽभियन्ति तवाऽऽलयम् ॥३२॥ पत्रं पुष्पं फलं तोयं काष्ठं धृत्वा च मस्तके ।
तव सेवां प्रकुर्वन्ति कां गतिं यान्ति तेऽनुगाः ॥३३॥ अश्माशनं व्रतं कृत्वा प्रपद्यन्ते तु नित्यशः ।
पत्राहाराः प्रदक्षिणपरायणाश्च ते जनाः ॥३४॥ स्वधर्मचारिणः साध्वीसाधुसेवापरायणाः ।
जानुभ्यां च प्रसर्पन्तस्तव क्षेत्रं प्रयान्ति ये ॥३५॥ दण्डवन्नमनैश्चापि ये प्रयान्ति तवाऽऽलयम् ।
तेषां तु का गतिर्देव! तव लोके भविष्यति ॥३६॥ उत्तानशयनं कृत्वा दीपं ते धारयन्ति ये ।
अवाङ्मुखास्तु भूत्वा वा प्रयान्ति तव मन्दिरम् ॥३७॥ पुत्रदारगृहान् मुक्त्वा ये त्वां शरणमागताः ।
तेषां तु का गतिः सिद्धा कथयस्व नरायण ॥३८॥ त्वां भजँश्च गते जीवे मधुपर्कसमन्विते ।
वह्निदाहे जलवाहे क्षित्याश्रये च वर्ष्मणि ॥३९॥ साङ्ख्ययोगसुविज्ञानः प्रपद्यते च कां गतिम् ।
त्वत्क्षेत्राऽर्पितदेहाश्च त्यागमार्गमुपाश्रिताः ॥1.565.४० ॥ तव नामपरा नित्यं नमो नारायणाय च ।
ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा ॥४१ ॥ इति जापपरा ये च नरा नार्योऽपि सर्वथा ।
तव धर्मपरास्तेषां कीदृशी तु गतिर्मता ॥४२॥ रणे शस्त्रहता कृष्णनारायण गृणन्ति च ।
नामप्रकीर्तनात्तेषां कीदृशी तु गतिर्भवेत् ॥४३॥ अकस्मान्मरणं प्राप्ता आवेशेन मृता अपि ।
तव स्मृतिपरा ये च कां गतिं यान्ति माधव! ॥४४॥ अहं शिष्या च दासी च तव भक्त्या व्यवस्थिता ।
भाषितोऽसि मया ह्येवं सर्वलोकसुखावहम् ॥४५॥ रहस्यं धर्मसंयुक्तं तव भक्तिसमन्वितम् ।
सञ्चिन्त्य लोकलाभार्थं तद्भवान् वक्तुमर्हति ॥४३ ॥ नारीं विना नरा ये च याश्च नार्यो नरान् विना ।
कामतृप्तिं गता नैव तव भक्तिपरायणाः ॥४७॥ अतृप्ताश्च मृता लोके भोग्येच्छासहिता जनाः ।
कां गतिं ते प्रपद्यन्ते त्यागिनो विधवादिकाः ॥४८॥ अप्राप्तकामभोगाश्च कुमारमरणान्विताः ।
तव दास्यपरा नार्यो नरा यान्ति च कां गतिम् ॥४९॥ तव दीक्षापराश्चापि तव भिक्षादनाः सदा ।
तव भक्तेषु भक्तासु रताः कामावसायिनः ॥1.565.५०॥ तवैव प्रेमपात्रेषु प्रेममात्रपरायणाः ।
नान्यत्र गमना ये च नरा नार्यश्च वैष्णवाः ॥५१ ॥ तव प्राप्तीच्छया नान्यं वाञ्च्छन्ति हृद्ये क्वचित् ।
एवंविधा महाभक्ताः सर्वस्वार्पणकारकाः ॥५२॥ गतिं कां ते प्रपद्यन्ते तन्ममाचक्ष्व माधव ।
गुरवो लोकराजानो गृहस्था भोगसंवृताः ॥५३॥ विषयेषु निमग्नाश्च कां गतिं यान्ति तेऽनुगाः ।
यद्यपि परमं गुह्यं मम प्रीत्या वदस्व तत् ॥५४॥ इत्युक्तो भगवान् विष्णुः कृष्णनारायणः पतिः ।
लक्ष्मीमुवाच तान् धर्मान् निजधर्मपरायणः ॥५५॥ यत् त्वया पृच्छ्यते लक्ष्मि! तच्छृणुष्व सुखावहम् ।
यथाकथञ्चिद् वृत्तिर्मे भक्तो दुःखं न यान्ति वै ॥५६॥ नाहं दानसहस्रेण नाऽहं यज्ञशतैरपि ।
नापि वित्तेन तुष्यामि तुष्यामि प्रेममात्रतः ॥५७॥ मयि चित्तं समाधाय यो मां भजति माधवि! ।
नित्यं तुष्यामि तस्याऽहं भक्तं मे बहुदोषकम् ॥५८॥ ये नमस्यन्ति मां भक्त्या नार्यो नराश्च मद्रताः ।
अर्धरात्रेऽन्धकारे वा मध्याह्ने वाऽपराह्णके ॥५९॥ यच्चित्तं नान्यमाधत्ते मम मूर्तौ व्यवस्थितम् ।
मत्प्राणा मद्रतौ सक्ता मल्लोमामत्क्षुधापराः ॥1.565.६ ०॥ मत्तृषा मत्सहवासा मदनङ्गपरायणाः ।
मम ताम्बूलभोगाश्च मम चूम्बनकारिणः ॥६ १ ॥ मम पार्श्वे प्रसूप्ताश्च ममारोहणतत्पराः ।
मदङ्गसङ्गकृद्ध्याना मम निर्वृत्तिधारणाः॥६२॥ ते मामेव प्रपश्यन्ति मयि कर्मपरायणाः ।
लब्धलाभा गुणज्ञाश्च मम भक्तौ व्यवस्थिताः ॥६३ ॥ मम लोके वसन्त्येते मम पार्श्वे ममाश्रिताः ।
मच्छय्यायां रमन्ते ते नरा नार्यो ममानुगाः ॥६४॥ स्वल्पकेन न गम्यन्ते ममाऽऽनन्दा मम प्रिये! ।
क्षणभक्तकृते लक्ष्मि! दुष्प्राप्योऽहं नरायणः ॥६५॥ मम कर्माणि कुर्वन्ति मां प्रपश्यन्ति माधवि! ।
व्यवस्थिताश्च मे भक्तौ स्वार्थेऽपि तादृशाश्च ये ॥६६ ॥ तेभ्यो ददामि भोगार्थं लोकान् स्वर्गादिकान् प्रिये ।
द्वादश्यामुपवासं च कृत्वा भक्तिपरायणः ॥६७॥ तीर्थजलाञ्जलिं प्रातश्चादित्याय समर्पयेत् ।
नमो नारायणायेति सूर्यं व्योम्नि विलोकयेत् ॥६८॥ यावन्तो बिन्दवः सूक्ष्माः पतन्त्येवाञ्जलेर्जलात् ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥६ ९॥ श्वेतपुष्पैः पूजयन्ति द्वादश्यां मां तु ये जनाः ।
मृष्टैर्धूपैर्धूपयन्ति हृदि कृत्वा स्मरन्ति माम् ॥1.565.७०॥ नमोऽस्तु विष्णवे गृह्ण प्रीयतां भगवन्मम ।
नमोऽस्तु भोजनं गृह्ण प्रीयतां च जलं पिब ॥७१ ॥ एवं मां पूजयेत्प्रेम्णा शास्त्राणि शृणुयान्मम ।
मम लोकं स गच्छेद्वै जायेतापि चतुर्भुजः ॥७२॥ श्यामाकं गोधूमकं च मुद्गं शालिं यवं तथा ।
नीवारं कङ्गुकं चैतन्मुन्न्यन्नं सात्त्विकं सदा ॥७३ ॥ मम नैवेद्यकं कृत्वा भुञ्जीत मत्परायणः ।
यानि कर्माणि कुर्वीत मम भक्तिपरायणः ॥७४॥ षट्कुर्मनिरतश्चापि ममाऽहङ्कारवर्जितः ।
लाभाऽलाभौ परित्यज्य भिक्षाहारो जितेन्द्रियः ॥७५॥ मम कर्मसमायुक्तः पैशुन्येन विवर्जितः ।
शास्त्रानुसारिमध्यस्थो न वृद्धशिशुचेतनः ॥७६ ॥ ब्राह्मणोऽपि तथाभूतो याति मां परमेऽक्षरे ।
मम सारूप्यमाप्यैव भोगान् भुङ्क्ते मया सह ॥७७॥ क्षत्रियो दानशूरश्च यथाधर्मे व्यवस्थितः ।
यज्ञेषु कुशलः शुद्धो मम कर्मसु योगवान् ॥७८॥ ममाऽहङ्कारशून्यश्च गुणज्ञौ मध्यसंस्थितः ।
अल्पभाषी गुरुविद्योऽनसूयो निन्द्यवर्जितः ७९॥ अभ्युत्थानादिकुशलो नित्यं भागवतप्रियः ।.
पैशुन्यशाठ्यरहितो यो मां स्मरति नित्यशः ॥1.565.८०॥ भजते मां च यो नित्यं मम धाम प्रगच्छति ।
वैश्योऽपि मम भक्तिस्थो नित्यकर्मपरायणः ॥८१ ॥ लाभालाभसमः शान्तो ममाऽहम्मोहवर्जितः ।
ऋतुकालाभिगामी च सदा भक्तेषु वत्सलः ॥८२॥ गुरुसम्पूजको नित्यं मम पूजापरायणः ।
तस्याऽहं न प्रणश्यामि स च मे न प्रणश्यति ॥८३ ॥ शूद्रो दासो मम भूत्वा करोति कर्म किङ्करः ।
दम्पती मम भक्तौ स्तो मम कर्मपरायणौ ॥८४॥ उभौ भागवतौ भक्तौ मद्भक्तौ कर्मनिष्ठितौ ।
देशकालौ च जानीतो रजसा तमसोज्झितौ ॥८५॥ अहम्ममताशून्यौ च श्रद्धाविनयशोभितौ ।
पूतात्मानौ लोभमोहहीनावतिथिपूजकौ ॥८६॥ नमस्कारपरौ नित्यं मम सेवापरायणौ।
भजमानौ च मामेव देवदर्शनकारिणौ ॥८७॥ मम ध्यानपरौ नित्यं दास्यभावाऽन्वितौ मयि ।
एवं शूद्रश्च वा शूद्री मम कर्म समाचरेत्॥८८॥ त्यक्त्वा ऋषिसहस्राणि शूद्रं भक्तं भजाम्यहम् ।
त्यक्त्वा लाभमलाभं च मोहं कामं विसृज्य च ॥८९॥ शीतोष्णाभ्यां विप्रयुक्तो नित्यं मां यो विचिन्तयेत् ।
न तिक्ते च कटौ मिष्टे चाम्ब्ले क्षारे कषायके ॥1.565.९०॥ स्पृहा रस्ये लेह्यचोष्यभक्ष्यपेयादिषु क्वचित् ।
भार्यां पुत्रं कुटुम्बं च पोषयन् मत्परायणः ॥९१ ॥ धृतिश्रद्धापरो नित्यमन्यकार्यजुगुप्सकः ।
बाल्ययौवनवार्धक्यवासनावर्जितः सदा ॥९२॥ स्वल्पभोगी देहयात्रानिर्वाहमात्रसद्ग्रहः ।
कारुण्यः सर्वसत्त्वानां प्रत्युत्थानपरस्तथा ॥९३॥ मौनं विशेषतो धृत्वाऽर्चयत्येव च मां सदा ।
अन्यभोजनदानाद्युत्तरं भोजनवान् व्रती ॥९४॥ अनुष्ठानपरश्चापि मम पार्श्वे मनश्चरः ।
काले मूत्रपुरीषाणि विसृज्य स्नानतत्परः ॥९५॥ पुष्पे धूपे च गन्धे च मम कार्ये सदा रतः ।
कन्दमूलफलाहारो यवसक्तुपराशनः ॥९६॥ षष्ठकाले नवकाले दशमे पक्षकेऽदनी ।
एवं मदर्थं कर्माणि सप्तजन्मानि विन्दति ॥९७॥ मदर्थं त्यक्तसम्बन्धास्त्यागमात्रपरायणाः ।
सन्तः साध्व्यस्त्यागरक्ता मम सेवार्थजीवनाः ॥९८॥ ये भवन्ति महादीक्षावन्तो नराश्च योषितः ।
तान्प्रपश्यन्ति प्रातश्च नित्यं योगिजना अपि ॥९९॥ एवमुक्तविधानेन यस्तु कर्माणि वर्तयेत् ।
तमहं मम पार्श्वे वै रक्षामि त्वां यथा प्रियाम् ॥1.565.१ ००॥ इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सर्वेषां महाभागवतीक्रियाभिः लक्ष्मीकृतप्रश्नानुसारेण तदुत्तरकर्मनैष्कर्म्यात्मिकाभिः श्रीहरिधामवासादिकथननामा पञ्चषष्ट्यधिकपञ्चशततमोऽध्यायः ॥५६५ ॥